12009: इको झल्¶
Padacheda: इकः | S | 5 | 1 |
झल् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix सन् beginning with a letter of the प्रत्यहार झल् is like कित् after the verbs ending in इक् vowels.
Vasu English Translation¶
The affix सन् beginning with a letter of the प्रत्यहार झल् is like कित् after the verbs ending in इक् vowels. In this sutra there is the anuvritti of सन् only and not of क्त्वा. The sutra literally translated means:-“After ik the jhal.” The Pratyahara इक् contains the four letters इ, उ, ऋ, लृ. The Pratyahara झल् contains all the consonants, except the nasals and the liquids. After the verbs ending in इक् the desiderative suffix सन् is kit, when it is झलादि, that is to say when the affix सन् does not take the intermediate इ. The affix सन् is an affix which begins with स् a letter of the झल् class. But if the intermediate इ is added before it, it is no longer a झलादि affix, and in that case it is not कित्. Thus from जि ‘to conquer,’ which is a verb ending in इक्, we have जिगीषति ‘he wishes to conquer’, यु ‘to mix’ युयूषति; so also कृ ‘to do,’ चिकीर्षति, तृ ‘to cross’ तितीर्षति, भू ‘to be’ बुभूषति ।
If however, verbs ending in इ or उ or ऋ or लृ, take an intermediate इ, they likewise take guna. As:- स्मि ‘to smile’ takes guna, and makes its desiderative सिस्मयिषति.
The झलादि सन् is not kit after verbs ending in any other letter than the इक्. As पिपासति (from पा) ‘he wishes to drink.’ So from स्था we have तिष्ठासति.
The object of making the affix सन् kit affix after verbs ending in ik vowels, is to prevent the guna of the vowel of the root, as in चिचीषति ‘wishes to collect’, तुष्टूषति ‘wishes to praise.’ To this it might be objected “this cannot be : for rule (6.4.16) (when सन् beginning with a jhal, i.e., not preceded by the augment इट् follows, a long vowel is the substitute of verbs ending in a vowel, and of the verbs हन् and गम्) would prevent guna by substituting long vowel.” To this it may be replied: “if rule (6.4.16), enjoining long vowel, debars rule (7.3.84) requiring guna, it should a fortiori debar rule (6.4.51) which requires the elision of the affix णि before Ardhadhatuka affixes not taking the augment इट्. But evidently that is not so; for the elision of णि is not debarred by (6.4.16). Therefore, the present sutra is made, so that even by giving scope to the rule of lengthening, the affix सन् be treated as कित्.” Thus in चिचीषति scope is given to rule (6.4.16), and the vowel is lengthened. But this rule in its turn will be debarred in those cases where rule (6.4.51) will apply : in such cases the maxim contained in (1.4.2) is our guide, and a subsequent rule will debar a prior rule of Panini when both find their scope in a single case. Thus in forming the desiderative of the verb ज्ञप् ‘to inform,’ both the rules (6.4.16) and (6.4.51) present themselves, but the latter prevails. The verb ज्ञप् belongs to the churadi class of verbs, and takes the affix णिच्. Thus ज्ञप् + णिच् + सन् + तिप्; here the present sutra comes into force, and सन् being treated as कित्, the guna of the इ of ज्ञपि is prevented. Thus sutra (7.3.84) requiring guna being set aside, sutra (6.4.51) comes into play, and causes the elision of णिच् and we have ज्ञप् + स + ति = ज्ञीप्सति (7.4.55) (आ changed to ई) ‘he wishes to inform.’
Bhashya¶
इको झल् किमर्थमिकः परस्य सनः कित्त्वमुच्यते? - इकः कित्त्वं गुणो मा भूत्। इकः कित्त्वं क्रियते गुणो मा भूदिति। चिचीषति। तुष्टूषति। नैतदस्ति प्रयोजनम्। दीर्घारम्भात्। दीर्घत्वमत्र बाधकं भविष्यति। कृते भवेत्। कृते खलु दीर्घत्वे गुणः प्राप्नोति। अनर्थकं तु। अनर्थकमेवं सति दीर्घत्वं स्यात्। नानर्थकम्। ह्रस्वार्थम्। ह्रस्वानां दीर्घवचनसार्मथ्याद् गुणो न भविष्यति। भवेद् ह्रस्वानां दीर्घवचनसार्मथ्याद् गुणो न स्यात्। दीर्घाणां तु प्रसज्यते। दीर्घाणां तु खलु गुणः प्राप्नोति। दीर्घाणामपि दीर्घवचनसार्मथ्याद् गुणो न भविष्यति। न दीर्घाणां दीर्घाः प्राप्नुवन्ति। किं कारणम्? नहि भुक्तवान् पुनर्भुङ्क्ते, कृतश्मश्रुश्च पुनः श्मश्रूणि कारयति। ननु च पुनः प्रवृत्तिरपि दृष्टा - भुक्तवानपि पुनर्भुङ्क्ते, कृतश्मश्रुश्च पुनः श्मश्रूणि कारयति। सार्मथ्याद्धि पुनर्भाव्यम्। सार्मथ्याद्धि पुनः प्रवृत्तिर्भवति। भोजनविशेषाच्छिल्पिविशेषाद्वा। दीर्घाणां पुनर्दीर्घत्ववचने न किञ्चित्प्रयोजनमस्ति। अकृतकारि खल्वपि शास्त्रमग्निवत्। तद्यथा - अग्निर्यददग्धं तद्दहति। दीर्घाणामपि दीर्घवचन एतत्प्रयोजनं गुणो मा भूदिति। कृतकारि खल्वपि शास्त्रं पर्जन्यवत्। तद्यथा - पर्जन्यो यावदूनं पूर्णं च सर्वमभिवर्षति। यथैव तर्हि दीर्घत्ववचसार्मथ्याद् गुणो न भवति। एवमॄदित्त्वमपि न प्राप्नोति - चिकीर्षति। जिहीर्षति। ॠदित्त्वं दीर्घसंश्रयम्। नाकृते दीर्घे ॠदित्त्वं प्राप्नोति। कि कारणम्? ॠत इत्युच्यते। भवेद् ह्रस्वानां नाकृते दीर्घे ॠदित्त्वं स्याद्, दीर्घाणां तु खल्वकृतेऽपि दीर्घत्वे ॠदित्त्वं प्राप्नोति। दीर्घाणां नाकृते दीर्घे। दीर्घाणामपि नाकृते दीर्घत्वे ऋदित्त्वं प्राप्नोति। यदा दीर्घत्वेन गुणो बाधितः तत उत्तरकालमॄदित्त्वं भवति। णिलोपस्तु प्रयोजनम्। इदं तर्हि प्रयोजनम्। णिलोपो यथा स्यात् - ज्ञीप्सति। क्वास्ताः क्व निपतिताः क्व कित्त्वं क्व णिलोपः। को वाऽभिसम्बन्धः - यत्सति कित्त्वे णिलोपः स्याद्, असति कित्त्वे न स्यात्? एषोऽभिसम्बन्धः - यत्सति कित्त्वे सावकाशं दीर्घत्वं परत्वाण्णिलोपो बाधते। असति पुनः कित्त्वेऽनवकाशं दीर्घत्वं यथैव गुणं बाधते, एवं णिलोपमपि बाधेत। तत्र णिलोपस्यावकाशः - कारणा। हारणा। दीर्घत्वस्यावकाशः - चिचीषति। तुष्टूषति। इहोभयं प्राप्नोति - ज्ञीप्सति। परत्वाण्णिलोपः। असत्यपि कित्त्वे सावकाशं दीर्घत्वम्। कोऽवकाशः? इस्भावः - निमित्सति प्रमित्सति। मीनातिमिनोत्योर्दीर्घत्वे कृते मीग्रहणेन ग्रहणं यथा स्यात्। यथैव तर्ह्यसति कित्त्वे सावकाशं दीर्घत्वं परत्वाण्णिलोपो बाधते, एवं गुणोऽपि बाधेत। तस्मात्कित्त्वं वक्तव्यम्। इकः कित्त्वं गुणो मा भूद् दीर्घारम्भात्कृते भवेत्। अनर्थकं तु ह्रस्वार्थं दीर्घाणां तु प्रसज्यते ॥ 1 ॥ सार्मथ्याद्धि पुनर्भाव्यमॄदित्त्वं दीर्घसंश्रयम्। दीर्घाणां नाकृते दीर्घे णिलोपस्तु प्रयोजनम् ॥ 2 ॥ इको झल् ॥ 9 ॥
Kashika¶
सन्नित्यनुवर्तते। क्त्वेति निवृत्तम्। इगन्ताद् धातोः परो झलादिः सन् किद् भवति। चिचीषति। तुष्टूषति। चिकीर्षति। इक इति किम्? पिपासति। तिष्ठासति। झलिति किम्? शिशयिषते। किमर्थमिदमुच्यते? गुणो मा भूदिति। अज्झनगमां सनि (६.४.१६) इति दीर्घत्वं गुणस्य बाधकं भविष्यति। यथैव तर्हि दीर्घत्वं गुणं बाधते तथा णिलोपमपि बाधेत। तस्माद् दीर्घत्वस्यावकाशदानाय कित्त्वमिदमारभ्यते। चिचीषतीत्यादिषु सावकाशं दीर्घत्वं परत्वाद् णिलोपेन बाध्यते। ज्ञीप्सति॥
इकः कित्त्वं गुणो मा भूद् दीर्घारम्भात्कृते भवेत्।
अनर्थकं तु ह्रस्वार्थं दीर्घाणां तु प्रसज्यते॥ १॥
सामर्थ्याद्धि पुनर्भाव्यमृृदित्त्वं दीर्घसंश्रयम्।
दीर्घाणां नाकृते दीर्घे णिलोपस्तु प्रयोजनम्॥ २॥
Siddhanta Kaumudi¶
इगन्ताज्झलादिः सन् कित्स्यात् । बुभूषति । दीङ् । दातुमिच्छति दिदीषते । एज्विषयत्वाभावात् मीनातिमिनोति - (SK2508) इत्यात्वं न । अत एव सनि मीमा - (SK2623) इति सूत्रे माधातोः पृथङ्मीग्रहणं कृतम् ॥
Laghu Siddhanta Kaumudi¶
इगन्ताज्झलादिः सन् कित् स्यात्। ॠत इद्धातोः। कर्तुमिच्छति चिकीर्षति॥
Balamanorama¶
इको झल् - इको झल् । इगन्तादिति । सना आक्षिप्तधातुविशेषणत्वात्तदन्तविधिरिति भावः । सन् किदिति ।रुदविदमुषग्रही॑त्यतः,असंयोगाल्लिट्कि॑दित्यश्च तदनुवृत्तेरिति भावः । बुभूषतीति । कित्त्वान्न गुणः । इकः परत्वान्नेट् । दिदीषते इति । सनः कित्त्वान्न गुणः । दीङो ङित्त्वात् ‘पूर्ववत्सनः’ इत्यात्मनेपदम् । एज्विषयत्वाभवादिति । कित्त्वे गुणनिषेधादिति भावः । अत एवेति । यद्येज्विषयादन्यत्राप्यात्वं स्यात्तदा मीमेति पृथग्ग्रहणमनर्थकं स्यात्,गामादाग्रहणेष्विशेषः॑ इत्युक्तेरिति भावः ।
Tattvabodhini¶
इको झल् - इको झल् ।रुदविदे॑त्यतः सननुवर्तते, सनाक्षिप्तो धातुरिका विशेष्यते,वशेष्यणेन च तदन्तविधिरित्याह - इगन्तादिति । इगन्तात्किम् । पिपासति । तिष्ठासति । झलीति किम् । शिशयिषते । कित्स्यादिति ।असंयागाल्लिट्कि॑दित्तः किदनुवर्तत इति भावः । एज्विषयत्वाऽभावादिति । कित्त्वेन गुणाऽप्राप्तेरित्यर्थः । अत एवेति । यद्येज्विषयादन्यत्राप्यात्वं भवेत्तदा मीग्रहणं तत्र न कुर्यात, गामादाग्रहणेष्वविशेषादिति भावः ।
Padamanjari¶
सनाक्षिप्तस्य धातोरिका विशेषणातदन्तविधिर्भवतीत्याह - इगन्ताद्धातोरिति । ऽइक् स्मरणेऽ इत्यास्य तु धातोर्ग्रहणं न भवति, न ह्यतः परो झलादिसन् सम्भवति, कथम् ? ऽइणो गा लुङ्ऽ ऽणिउ गमिरवबोधनेऽ ऽसनि चऽ ऽइण्वदिक इति वक्तव्यम्ऽ ऽगमेरिट् परस्मैपदेषुऽ - अधिजेगमिषति । ननु च भावकर्मणओरात्मनेपदे ऽअनुदातोपदेशऽ इत्यनुनासिकलोपार्थमेतत्स्यात्, तत्र तु रूपे विप्रतिपतिः, गमेरिङदेशस्य ग्रहणमिति वचनात् ऽअज्झनगमां सनिऽ इति दीर्घो न भवति-अधिजिगंस्यत इति केचित् । अन्ये त्वाहुः-ठ्ठ्ठज्झनगमान्ऽ इत्यत्राज्ग्रहणं न कर्तव्यम्, कथम् ? ऽसनि दीर्घःऽ इत्येको योगः, अचश्च , एवं सिद्धेऽजग्रहणं प्रवृत्तिभेदेन गमेरपि विशेषणाअर्थम् - अजादेशस्य गमेरिति; तेनास्यापि दीर्घेण भाव्यम्, अजादेशत्वाद्-अधिजिगांस्यत इति रूपमिति । तदेवं धातोरपि ग्रहणं युक्तमेव । एवं तर्हि झला साहचर्याद् गर्गादिषु जिगीषुशब्दस्य पाठाच्च प्रत्याहारस्य ग्रहणमुतरसूत्रे च इक्समीपाद्धलः पर इत्यनुपपन्नं धातुग्रहणे । झलादिरिति । कथं पुनस्सत्सप्तमीनिर्देशे तदादिविधिः शक्यो विज्ञातुम् ? झल्मात्रस्य सनोऽसम्भवात् । ननु च चिकीर्षितेत्यादवतो लोपे सति सम्भवति, अपूर्वविधत्वाच्च न लोपस्य स्थानिवत्वाम्; एवं तर्हि वृद्धिसंज्ञासूत्राद्यस्यादिरिति वर्तते सन् किद्भवति, कीदृशः ? यस्य ढलादिरिति । एतेन तदन्तविधिरपि निरस्तो वेदितव्यः । चिचीषतीति । ऽएकाचःऽ इतीट्प्रतिषेधः । तुष्टूअषतीति । ऽशर्पूर्वाः खयःऽ । शिशयिषत इति । ऽपूर्ववत्सनःऽ । किमर्थमिति । योगविभागविषयः प्रश्नः । सूत्रं तूतरार्थं कर्तव्यम् । दीर्घत्वगुणस्य बाधकं भविष्यतीति । ननु ऽकुङ्शब्देऽ कटादिः, चुकूषत इत्यस्मि दीर्घस्यावकाशः ? दीर्घान्तोऽयमित्यवोचाम् । इह तर्हि ऽगु पुरीषोत्सर्गेऽ ऽध्रु गतिस्थैर्ययोःऽ कुटादी, जुगूषति, दुधूषति । एवमपि प्रत्याहारग्रहणमनर्थकम् ऽउतो दीर्घऽ इति वक्त्वयम् ? अस्ति प्रत्याहारग्रहणे प्रयोजनम्, किम् ? प्रतिभेदेन गमिमपि विशेषयिष्यामीति । यद्येतावत्प्रयोजनं स्यात् ऽउतो दीर्घऽ इत्युक्त्वा इङ्हन्योरिति वक्तव्यम्-येषां समेरिङदेशस्य ग्रहणमिति पक्षः । येषामनिङदेशस्यापि ग्रहणं तेषामिहन्योरिति वक्तव्यम्, हना साहचर्यादिरिति धातुर्गृह्यते, नेकारः, तस्मादज्गरहणसामर्थ्याद्दीर्घत्वं गुणस्य बाधकं भविष्यतीति सुष्ठूअक्तम् । यथैव तर्हि झलादौ गुणो बाध्यते, एवमिङदावपि बाध्येत - जिजविषयति, नात्र दीर्धः प्रवर्तते, किं असति हि कित्वे नाप्राप्ते विध्यन्तरे आरभ्यमाणं दीर्घत्वं यथा गुणं बाधते एवं णिलोपमपि बाधेन । ननु यत्र नाप्राप्ते तस्य बाधकः, क्व च नाप्राप्ते ? दीर्घ आरभ्यते, गुणे णिलोपे तु ज्ञीप्सतीत्यत्र प्राप्ते, चिचीषतीत्यत्राप्राप्ते पाक्षिक एव परिहारः । यत्र बाध्यं भेदेनापेक्ष्यते - ऽइदमस्मिन्विषये प्राप्तमिदमस्तिन्विषयेऽ इति, तत्रैकबाधेनोपपतौ सत्यामनेकबाधो न न्याय्य इति किमेकं बाध्यतामित्यपेक्षायाम् ऽयेन नअप्राप्ते स बाधनीटःऽ इत्युच्यते, एवं ह्यपेक्षितविधिर्भवति । यदि तु ऽनाप्राप्ते विध्यन्तरे इदमारभ्यतेऽ इति कार्यसामान्यमपेक्ष्यते, तदा सर्वमेव बाधनीयम् । एतेन पुरस्तादपवादन्यायेन णिलोपमेव दीर्घत्वं बाधेत, न गुणमित्यपि चोद्यं निरस्तम्; यस्यादयमपि न्यायः कार्यसमान्यचिन्तायां नास्त्येव । अतः सुष्ठूअक्तम् - णिलोपमपि बाधेतेति । दीर्घत्वस्यावकाशदानायेति । एतदेव स्फुटयति-चिचीषतीत्यादि ष्विति । सति हि कत्वे चिचीषतीत्यादौ कित्वेनैव गुणो बाध्यते, न दीर्घेणेत्यबाधित्वैव विध्यन्तरं सावकाशो दीर्घः परत्वाण्णिलोपेन बाध्यत इत्यर्थः । ज्ञीप्सतीति । ऽमारणतोषणनिशामनेषु ज्ञाऽ, ऽज्ञप मिच्चऽ इति चुरादिषु पाठाद् णिचि पुकि ऽमितां ह्रस्वःऽ, सन्, ऽसनीबन्तर्द्धऽ इतीडभावक्षे ऽआप्ज्ञपृधामीत्ऽ इतीत्वम्, ऽअत्र लोपोऽभ्यासस्य ऽ । किमर्थो योगविभाग इत्यशङ्क्य प्रयोजनमाह - इकः कितवमित्यादि । गुणो मा भूदित्येवमर्थमिक उतरस्य सनः कित्वं विधीयतैत्यर्थः । दूषयति-दीर्घारम्भादिति । गुणो न भविष्यतीति शेषः । कृते भवेदिति । शास्त्रमावर्तमानं जपादिवद्भर्मे साधनमिति भावः । अनर्थकं त्विति । शास्त्रपूर्वकात्प्रयोगाद्धर्मो न तु प्रवृत्तिमात्रादिति भावः । ननु च ऽसनि मीमाघुऽ इत्यत्र मिनोतेरपि मीग्रहणएन ग्रहणार्थं दीर्घविधिः स्याद्, मा भून्मीग्रहणेन ग्रहणम्, ऽमीनातिमिनोतिदीङं ल्यपि चऽ इत्यात्वे कृते ऽगामादाग्रहणेष्वविशेषःऽ इति माग्रहणेन ग्रहणं भविष्यति; तत्रायमप्यर्थो मीग्रहणमपि न कर्तव्यं भवति । ह्रस्वार्थमिति । ह्रस्वानामेव दीर्घविधानासामर्थ्याद् गुणो न स्याद्, दीर्घाणां तु पुनः प्राप्नोति - लुलूषति; न हि दोर्घान्तेषु दीर्घशास्त्रं प्रवर्तते, पूर्वमेव तद्रूपसद्भावादिति भावः । सामार्थ्याद्धि पुनर्भाव्यमिति । सामर्थ्यमु प्रयोजनसद्भावः, यथा ऽमो राजि समः क्वौऽ इति मकारस्यैव मकारो विधीयते, विकारान्तरं मा भूदिति । तथा दीर्घस्यापि गुणो मा भूदिति पुनर्दीर्धो भविष्यति । यदि तर्हि प्राप्नुवन्विधिः दीर्घेण बाध्यते, आञ्दित्वामपि न प्राप्नोति-चिकीर्षति, तत्राह - आञ्दित्वं दीर्घसंश्रयमिति । दीर्घः संश्रयो निमितं यस्य ततथोक्तम् । यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, यस्य तु विधेर्निमितमेव नासौ बाध्यते । न चात्राकृते दीर्घे आञ्दित्वं प्राप्नोति । इह तर्हि-तितीर्षति, अकृतेऽपि दीर्घत्वे आञ्दित्वं प्राप्नोतीति ? आञ्दित्वानिवृत्यर्थमेव दीर्घत्वं स्याद्, अत आह-दीर्घाणां नाकृते दीर्घ इति । दीर्घाणामप्यकृते दीर्घत्वे ऋदित्वं न प्राप्नोति, किं कारणम् ? इत्वोत्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन, अतो यावद्दीर्धेण गुणो न बाधितः, तावदित्वं न पाप्नोति; तस्मान्नार्थ एतेनेति स्थिते प्रयोजनमाह - णिलोपस्त्विति ॥
Nyaas¶
क्त्वेति निवृत्तम् इति। झलादेः क्त्वाप्रत्ययस्यौपदेशिकं कित्त्वमस्त्येवेति तदनुवृत्तेरपार्थकत्वात्। सन्ग्रहणन्तु प्रथमान्तमिहानुवर्तते, तस्य झलित्यनेन सामानाधिकरण्यमुपपन्नम्। अतः सामर्थ्यात् तदादिविधिर्विज्ञायत इत्यत आह - झलादिः सन् किद्भवति इति।अथ तदन्तविधिः कस्मान्न भवति - झलन्तः सन्निति? एवं मन्यते - वृद्धसंज्ञा (1.1.72) सूत्रादिहादिग्रहणमनुवर्तते, तेन झल् विशिष्यते; तस्मात् तदादिविधिरेव विज्ञायिते, न तदन्तविधिरिति। यदि पुनस्तदन्तविधिः स्यात् तदा किं स्यात्? यत्रातो लोपे कृते झलन्तत्वं सनस्तत्रैव स्यात् - चिकीर्षितेत्यादौ; चिकीर्षतीत्यादौ तदु न स्यात्, अदन्तत्वात्। अदन्तत्वन्तु सञ्शबकारयोद्र्वयोरेकादेशस्य पूर्वं प्रत्यन्तवद्भावात्।अथेक इति इक् स्मरणे (धातुपाठः-1047) इत्यस्य धातोग्र्रहणं कस्मान्न भवति? झलिति प्रत्याहारस्यैव युक्तत्वात्; किञ्च - गर्गादिषु जिगीषुशब्दपाठाच्च। धातुग्रहणे हि सति जयतेः परस्य सनः कित्त्वं न स्यात्, तथा च जिगीषुशब्दो न सिद्ध्येत्। किञ्च - धातुग्रहणे हि सतीको धातोः समीपगतो हल् न सम्भवतीति हलन्ताच्च (1.2.10) इत्येदप्यघटमानं स्यात्। तस्मात् प्रत्याहारस्यैव ग्रहणं न्याय्यम्, न धातोः। चिचीषति इति। अज्झनगमां सनि (6.4.16) इति दीर्घः। एकाचः (7.2.10) इत्यादिना पूर्वोक्तेनेट्प्रतिषेधः। उत्तरत्रापि यत्रेटः श्रवणं नास्ति, तत्राप्यनेनैव प्रतिषेधो वेदितव्यः। यत्र तु विशेषोऽस्ति, तत्रासौ वक्तव्य एव। तुष्टूषति`इति। **शर्पूर्वाः खयः** (7.4.61) इति खयः शेषः। `शिशयिषते इति। पूर्ववत् सनः (1.3.62) इत्यात्मनेपदम्। एवमुत्तरत्रापीच्छासन्नन्तादात्मनेपदमनेनैव बोद्धव्यम्।किमर्थ पुनः इत्यादि। अत्र वक्ष्यमाणोऽभिप्रायः। गुणो मा भूत् इति। यदर्थमिदमुच्यते तदाह। येनाभिप्रायेण पृष्टवांस्तमाविष्कर्तुमाह - अज्झनगमां सनि इत्यादि। यदि दीर्घत्वे कृतेऽपि गुणः स्यात् तदा दीर्घत्वस्य वैयथ्र्यं स्यात्। तस्मान्मा भूतस्य वैयथ्र्यमिति दीर्घत्वं तद्गुणस्य बाधकं भविष्यतीति। अत्र दोषमापादयितुमाह - यथैव तर्हि इत्यादि। असति कित्त्वेऽनवकाशं दीर्घत्वं यता गुणस्य बाधकं भवति, तथा - तस्मात् इत्यादि। यत एवमनारभ्यमाण एतस्मिन्नेष दोषोऽनुषज्येत, तस्माद्दीर्घत्वस्यावकाशदानाय कित्त्वमिदमारभ्यते। अथारभ्यमाणेऽप्येतस्मिन् कस्मादेष दोषो न भवतीत्यत आह - चिचीषति इत्यादि। कित्त्वे सति तेनैव गुणस्य बाधितत्वात्। चिचीषति, तुष्टूषतीत्यादिषु सावकाशं दीर्घत्वं भवति; तेन च परत्वाण्णिलोपो न बाध्यते। न हि कित्त्वे सति शक्यमेवं वक्तम् - यथा दीर्घत्वं गुणं बाधते, तथा णिलोपमपीति; यस्मान्न गुणो दीर्घत्वेन बाध्यते,किं तर्हि? कित्त्वेन। अत्र दीर्घत्वस्यावकाशो दर्शितः णिलोपस्य त्वेषोवकाशः- पाचयतेः पाक्तिः, याजयतेर्याष्टिरित्यादि; ज्ञीप्सतीत्यत्रोभयप्राप्तौ दीर्घत्वं बाधित्वा परत्वात् णिल#ओप एव भवति। ज्ञा अवबोधने (धातुपाठः-1507), मारणतोषणमनिशामनेषु (धातुपाठः-811), मिच्च (धातुपाठः-1624)इति चुरादिपाठाण्णिच्। अर्त्तिह्यी (7.3.36) इत्यादिना पुक्। मितां ह्रस्वः (6.4.92) इति ह्रस्वत्वम्। अन्ये तु - ज्ञप मारणतोषणनिशामनेषु (धातुपाठः-1624) इति पठन्ति, ततो णिच्, तत इच्छासन्, सनीवन्तद्र्ध (7.2.49) इत्यादिना पक्षे इडभावः, क`आप्ज्ञपृधामीत्` (7.4.55) इतीत्वम्, अत्र लोपोऽभ्यासस्य (7.4.58) इत्यभ्यासलोपः। त**णेरनिटि** (6.4.51) इति णिलोपः।इकः कित्त्वम् इत्यादि। अथ किमर्थमिक उत्तरस्य सनः कित्त्वं विधीयते, किमर्थमिको झलिति योगविभागः क्रियते, नन्वेकमेवेदं सूत्रं पठितव्यम्, इको झल् हलन्ताच्च इति? प्रयोजनमाह - गुणो मा भूत् इति। चिचीषतीत्यादौ सार्वधातुकार्धधातुकयोः (7.3.84) इति गुणः प्राप्नोति, स मा भूदित्येवमर्थं कित्त्वं विधीयते। नैतदस्ति प्रयोजनम्; यस्मात् अज्झनगमां सनि (6.4.16) इति नाप्राप्ते गुणे दीर्घत्वमारभ्यते, अतो दीर्घारम्भाद् गुणो न भविष्यतीति; अन्यथा हि दीर्घग्रहणमनर्थकं स्यात्। ननु च चुकूषते इत्यत्र दीर्घवचनस्य सार्थकत्वम्, अत्र हि गाङकुटादिसूत्रेण (1.2.1) ङित्त्वे सति गुणो न प्रवर्तते, नैतदस्ति; न ह्रेकमुदाहरणं प्रति योगारम्भं प्रयोजयति। यदि ह्रेतत् प्रयोजनमभिमतं स्यात्, णिग्रहणमेव कुर्यात्। समुदायामात्रादपेक्षया वा पुरस्तादपदादाः इत्यादिका परिभाषा नास्त्येवेति।
Prakriyasarvasvam¶
इगन्तात्परो झलादिः सन् कित् स्यात् । भू स ।
Sudha¶
इको झलिति । इगन्तादिति । सना आक्षिप्तधातुविशेषणत्वात्तदन्तविधिरिति भावः । सन् किदिति । रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च (1.2.8) इत्यतः सन् इति, असंयोगाल्लिट् कित् (1.2.5) इत्यतश्च किद् इत्यनुवर्तत इति भावः । इत्वं स्मारयति - ॠत इद्धातोरिति । चिकीर्षतीति । कृधातोः धातोः कर्मणः (3.1.7) इत्यादिना सनि अनुबन्धलोपो आर्धधातुकत्वे आर्धधातुकस्येड् वलादेः (7.2.35) इति इडागमे प्राप्ते एकाच उपदेशेऽनुदात्तात् (7.2.10) इतीण्निषेधे अज्झनगमां सनि (6.4.16) इति दीर्घे इको झल् (1.2.9) इति कित्वाद् गुणाभावे ॠत इद्धातोः (7.1.100) इति इत्वे रपरे “किर् स” इति भूते द्वित्वेऽभ्यासकार्ये हलि च (8.2.77) इति दीर्घे षत्वे च कृते “चिकीर्ष” इति जाते सनाद्यन्ता धातवः (3.1.32) इति धातुसंज्ञायां लटि तिपि शपि अनुबन्धलोपो अतो गुणे (6.1.97) इति पररूपे च कृते “चिकीर्षति” इति सिद्धम् ।
Sutra Prayogas¶
संवुवूर्षुः (भट्टिकाव्यम्): इको झल् इति कित्त्वे ।