12006: इन्धिभवतिभ्यां च¶
Padacheda: इन्धि-भवतिभ्यां | S | 5 | 2 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The लिट् (Perfect Tense) affixes after the roots इन्धि ‘to kindle’ and भू ‘to become’ are also कित्।
Vasu English Translation¶
The लिट् (Perfect Tense) affixes after the roots इन्धि ‘to kindle’ and भू ‘to become’ are also कित्। After these two roots the terminations of the Perfect are कित्. These roots have been especially mentioned, because the root इन्धि ending in a compound consonant will not be governed by sutra (1.2.5); and the root भू is mentioned because all the terminations of the Perfect are कित् after भू, not excepting the पित् terminations. Thus the verbs समीधे and ईधे are illustrations of Perfect Tense from the root इन्ध् as in the following examples :- समीधे दस्युहन्तमम्, (Rig Veda VI.16.15), and पुत्र ईधे अथर्वणः, (Rig Veda VI.16.14). Here the nasal of the root is dropped by regarding the affix as कित् ॥ Similarly from the root भू, we have बभूव, वभूविथ ॥
Vart.:- This rule should be applied also to the verbs श्रंथ् ‘to loosen,’ श्रंथ् ‘to fasten,’ दंभ् ‘to injure’ and स्वंज् ‘to embrace.’ As श्रेथतुः ‘thou hast loosened,’ श्रंथ + अतुस् = श्रथ् + अतुस्. (The न् is elided by the rule already mentioned in the last sutra, viz. (6.4.24).
= श्रथ् + श्रथ् + अतुस् = श्रेथतुः (6.4.120), Similarly श्रेथतुः; देभतुः, परिषस्वजे, परिषस्वजाते.
Bhashya¶
इन्धिभवतिभ्यां च किमर्थंमिदमुच्यते? इन्धेः संयोगार्थं वचनन्। भवतेः पिदर्थम्। अयं योगः शक्योऽवक्तुम्। कथम्? - इन्धेश्छन्दोविषयत्वाद् भुवो वुको नित्यत्वात्ताभ्यां किद्वचनानर्थक्यम् - इन्धेश्छन्दोविषयो लिट्। नह्यन्तरेण छन्द इन्धेरनन्तरो लिट् लभ्यः। आमा भाषायां भवितव्यम्। भुवो वुको नित्यत्वात्। भवेतरपि नित्यो वुक् कृते गुणे प्राप्नोति, अकृतेऽपि प्राप्नोति। ताभ्यां किद्वचनानर्थक्यम्। ताभ्यामिन्धिभवतिभ्यां किद्वचनमनर्थम् ॥ इन्धिभवतिभ्यां च ॥ 6 ॥
Kashika¶
इन्धिभवतीत्येताभ्यां परो लिट् प्रत्ययः किद् भवति। समी॑धे दस्यु॒हन्त॑मम् (ऋ० ६.१६.१५)। पु॒त्र ई॑धे॒ अथ॑र्वणः (ऋ० ६.१६.१४)। भवतेः खल्वपि — बभूव। बभूविथ। इन्धेः संयोगार्थं ग्रहणम्। भवतेः पिदर्थम्। अत्रेष्टिः॥ श्रन्थिग्रन्थिदम्भिस्वञ्जीनामिति वक्तव्यम्॥ श्रेथतुः, श्रेथुः। ग्रेथतुः। ग्रेथुः। देभतुः, देभुः। परिषस्वजे, परिषस्वजाते॥
Siddhanta Kaumudi¶
आभ्यां परोऽपिल्लिट् कित् स्यात् । समीधे दस्युहन्तमम् (समी॑धे दस्यु॒हन्त॑मम्) । पुत्र ईधे अथर्वणः (पु॒त्र ई॑धे॒ अथ॑र्वणः) । बभूव । इदं प्रत्याख्यातम् । ।<!इन्धेश्छन्दोविषयत्वाद्भुवो वुको नित्यत्वात्ताभ्यां लिटः किद्वचनानर्थक्यमिति !> (वार्तिकम्) ॥
Padamanjari¶
इन्धेरगन्तुक इकारो न तु ऽइक्श्तिपौ धातुनिर्देशेऽ इतीक् प्रत्ययः, तेन ऽअनिदिताम्ऽ इति नलोपो न भवति । समीध इति । ऽञिङ्न्धी दीप्तौऽ अनुदातेत्, एशः कित्वाद् ऽअनिदिताम्ऽ इत्युपधालोपद्विर्वचने सवर्णदीर्घत्वम् । बभूविव, बभूविथेति । कित्वाद्यथाक्रमं वृद्धिगुणौ न भवतः । इन्धेः संयोगार्थमित्यादिना पूर्वणासिद्धं दर्शयन् सूत्रारम्भं समर्थयते । अयं योगः शक्योऽवक्तुम्, कथम् ? इन्धेरनन्तरश्च्छन्दस्येव लिड् भवति, भाषायां त्विजादेश्चेत्यामा भवितव्यम्, च्छन्दसि च ऽच्छन्दस्युभयथाऽ इति लिटः सार्वधातुकसंज्ञा, ऽसार्वधातुकमपित्ऽ इति ङित्वादुपिधालोपः । श्नमि तु कर्तव्य आर्धधतुकसंज्ञा, छान्दसत्वाद्वा श्नमभावः । भवतेरपि ऽभुवो वुग्लुङ्लिटोःऽ इति वुग्विधीयते, तत्र भूअ, भूइथ इति स्थिते वुक् प्राप्नोति, वृद्धिगुणौ च; कृताकृतपसङ्गित्वेन नित्यो वुक्, नच शब्दान्तरप्राप्तः, एकदेशविकृतस्यानन्यत्वाद्; वुकि च कृतेऽनजन्तत्वादलघूपधत्वाच्च वृद्धिगुणौ न भविष्यतः । अवश्यं चैतदेवं विज्ञेयम्-ऽवुका वृद्धिगुणौ बाध्येतेऽ इति । यो हि मन्यते-ऽकित्वादिमे गुणवृद्धेः किति नेति प्रतिषेधः, अनिग्लक्षणत्वात् । एवं तर्हि ज्ञापकार्थमिन्धिग्रहणम्, एतज्, ज्ञापयति-ऽइन्धेर्भाषायामप्यनित्य आम्ऽ इति, समीधे समीधाञ्चक्र इति भाषायामपि भवति । भवतेरपि वुगनित्यः, किं कारणम् ? उरिति वर्तते, न च गुणवृद्ध्योः कृतयोरुवर्णान्तो भवतिर्भवति; उरिति निवर्तिष्यते ? यदि विवर्तते; बोभाव, अहं किल बोभव-यङ्लुक्यपि नित्यत्वाद् वुक् प्राप्नोति । अनुवर्तमाने पुनरुरित्यस्मिन् उभयोरनित्ययोः परत्वाद् गुणवृद्ध्योः कृतयोरनुवर्णान्तत्वाद् वुङ्न भवति । अथेदानीं यङ्लुक्यप्यनेनैव लिटः कित्वं कस्मान्न भवति ? श्तिपा निर्देअषशात् । यदि पुनर्वुग्विधावेव श्तिपा निर्देशः क्रियते ? नैवं शक्यम्; इह हि दोषः स्याद्-बोभूवत्;, बोभूवुः । यदा पुनः कित्वविधौ श्तिपा निर्देशः क्रियते, न वुग्विधौ; तदा यङ्लुकि पित्सु वचनेषु लिटः कित्वाभावाद् गुणवृद्ध्योः कृतयोरुरित्यधिकाराद् वुङ्न भवति । अपित्सु वचनेषु ऽअसंयोगाल्लिट् कित्ऽ इति कित्वे सति गुणाभावादुवर्णान्तत्वाद्वुग् भवति । ननु चोक्रम् - ऽआरभ्यमाणेऽपि कित्वे वृद्धेः प्रतिषेधो न सिद्ध्यति, अग्निलक्षणत्वाद्ऽ इति, नैष दोषः; ङ्द्ग्रिहणमप्यनुवर्तते, तत्सामर्थ्यादनग्लिक्षणाया अपि वृद्धेः प्रतिषेधो भविष्यति, सत्यम्; अस्त्यं शुष्कस्तर्कः । वार्तिककारस्तु न क्षमते, यदाह-ऽइन्धेश्च्छन्दो विषयत्वाद् भुवो वुको नित्यत्वाताभ्यां लिटः किद्वचनानर्थक्यम्ऽ इति । श्रन्थिग्रन्थीत्यादि । ऽश्रन्थ ग्रन्थ संदर्भेऽ, ऽदम्बु दम्भेऽऽष्वञ्ज पिरष्वङ्गेऽ । श्रेथतु;, श्रेथुरिति कित्वादुपधालोपः, एत्वाभ्यासलोपावप्यत्र वक्तवायौ । देभतुरिति । नलोपे कृते ऽअत एकहल्मध्येऽनादेशादेःऽ इत्येत्वाभ्यासलोपौ । न च लोपस्या सिद्धत्वम्, आभाच्छास्त्रीयस्यासिद्धत्वस्यानित्यत्वात् । परिषस्वज इति । ऽष्वञ्जपरिष्वङ्गेऽ, अनुदातेत्,ऽउपसर्गात्सुनोतिऽ इति षत्वम् ऽसदिस्वञ्ज्योः परस्य लिटिऽ इति परस्य प्रतिषेधः । अत्र केचिद्वेति पठन्ति, शश्रन्थतुरित्याद्यपि भवति । अथ पित्सु वचनेषु कथम् ? यदि संयोगार्थमेव वचनम्, पित्सु न भाव्यम् । अथ संयोगान्तार्थं पिदर्थं च ? पित्स्वपि भाव्यम् । किं पुनरत्रार्थतत्वं देवो ज्ञातुमर्हति ॥
Nyaas¶
समीघे इति। ञीन्धी दीप्तौ, (धातुपाठः- 1448) पूर्ववदात्मनेपदम्, एशादेशः, कित्त्वात् अनिदिताम् (6.4.24) इत्यादिनानुनासिकलोपः, द्विर्वचनम्, अकः सवर्णे दीर्घत्वं च (6.1.97) । अथ इजादेश्च गुरुमतोऽनृच्छः (3.1.36) इत्याम् कस्मान्न भवति? मन्त्रविषयत्वादस्य; तत्र च अमन्त्रे इत्यधिकारात। एवं तर्हि मन्त्रश्छन्द एवेति च्छन्दस्युभयथा (3.4.117) इति सार्वधातुकत्वम्, ततश्च सार्वधाकुमपित्` (1.2.4) इति ङित्त्वम्, अत एव ङित्त्वादनुनासिकलोपो भविष्यतीति तत् किमर्थमिन्धेःपरस्य लिटऋ कित्त्वं विधीयते? ज्ञापनार्थम्। एतदनेन ज्ञाप्यते- अनित्योऽयमामिति। नित्ये ह्रामि तेन व्यवधानादेवेन्धेः परो लिण्न सम्भवतीति कित्त्वविधानं नोपपद्यते; तस्मादनित्योऽयमामिति। तेन भाषायामपि समीधे इति प्रयोग उपपन्नो भवति।बभूव, बभूविथ इति। कित्त्वाद् यथाक्रमं वृद्धिगुणौ न भवतः।भुवो वुग् लुङलिटोः (6.4.88) इति वुक्। भवतेरः (7.4.73) इत्यभ्यासस्यात्त्वम्। ननु च कृतयोरपि गुणवृद्ध्योर्वुका भवितव्यम्, अकृतयोरपीति नित्यो वुक्; कृताकृतप्रसङ्गित्वात्, तत्र नित्यत्वाद् वुकि कृते गुणवद्धयोः प्राप्तिरेव नास्ति, भवतेरलघूपधत्वात्, अनजन्तत्वाच्चेति भवतिग्रहणमनर्थकम्? नैतदस्ति; शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति (व्या।प।100) इति वुगप्यनित्यः। ततश्च परत्वात् गुणवृद्ध्योः कृतयोर्वङ न स्यात्। तस्माद् भवतिग्रहणं कर्तव्यम्। अथ कृतयोरपि गुणवृद्ध्योरेकदेशविकृतमनन्यवद्भवतीति नास्ति शब्दान्तरत्वम्? एवं सति शक्यं भवतिग्रहणमकर्तुम्। तत् क्रियते विस्पष्टार्थम्।अथ बभूव इत्यत्र अचो ञ्णिति (7.2.115) इति वृद्धेः कथं प्रतिषेधः, यावतेक इत्यनुवर्तते? क्ङिति च` (1.1.5) इत्यनेनेग्लक्षणा वृद्धिः प्रतिषिध्यते, न चेयमिग्लक्षणा वृद्धिः, निर्दिष्टस्थानिकत्वात्। अत्र कित्त्वविधानसामर्थ्यादनिग्लक्षणा अपि वृद्धेर्भविष्यति प्रतिषेधः; अन्यथा कित्त्वविधानमनर्थकं स्यादिति चेत्, न; तस्य थल्युत्तमणलि च गुणुप्रतिषेधार्थत्वात्। एवं तर्हि ङिद्ग्रहणमप्यनुवर्तते, तदनुवर्तमाने न विद्यमानमन्यत् प्रयोजनम्, तेनानिग्लक्षणाया अपि वृद्धेः प्रतिषेधो भविष्यति। इन्धेः संयोगार्थं (ग्रहणम् - काशिका) वचनम् इति। तस्य संयोगान्तत्वात् पूर्वेणासिद्धेः। भवतेः पिदर्थम् इति। नापिदर्थम्; तस्यासंयोगान्तत्वादपिदिति पूर्वेण सिद्धेः। भवतेरिह श्तिपा निर्देशो यङलुग्निवृत्त्यर्थः - यङलुगन्तल्लिटः कित्त्वं मा भूदिति। बोभाव इति। तथा चोक्तम् - श्तिपा शपानुबन्धेन निर्दिष्टं यद् गणेन च।यत्रैकाज्ग्रहणं किञ्चित् पञ्चैतानि न यङलुकि॥ (पु।प।94) इति। अन्थिग्रन्थि इत्यादि। श्रन्थ ग्रन्थ सन्दर्भे (धातुपाठः-1512,1513), दम्भ,द्म्भे (धातुपाठः- 1290) ष्वन्ज परिष्वङ्गे (धातुपाठः-973) एषामपि श्रन्थिग्रन्थिप्रभृतीनां लिटः कित्त्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - चकारोऽनुक्तसमुच्चयार्थः क्रियते, तेन श्रन्थिप्रभृतीनामपि संयोगान्तानां लिटः कित्त्वं भविष्यतीति। श्रेथतुः इत्यादि। कित्त्वात् अनिदिताम् (6.4.24) इत्यनुनासिकलोपः। तृफलभजत्रपश्च (6.4.122) इति चकारस्यानुक्तसमुच्चयार्थत्वादनेकहल्मध्यस्याप्येत्वाभ्यासलोपौ। परिषस्वजे इति। अनुदात्तेत्त्वादात्मनेपदम्। पूर्वस्य सकारस्य स्थादिष्वभ्यासेन चाभ्यासस्य (8.3.64) इति वर्तमाने, उपसर्गात् सुनोति (8.2.65) इत्यादिना षत्वम्। परस्य तु सकारस्य सदिस्वञ्जयोः परस्य लिटि इति षत्वप्रतिषेधः।
Prakriyasarvasvam¶
आभ्यां परो लिडादेशः कित् स्यात् । कित्त्वाद् वृद्धयभावः । भुवो वुगागमः । भूव् अ । ‘लिटि धातोः—’ इति द्विरुक्तिः । भूव् भूव् अ । अभ्यासस्य हलादिशेषः । ह्रस्वः । भुभूव् अ । ‘भवतेरः’ इत्यत्वम् । ‘अभ्यासे चर्च’ इति जश्त्वम् । बभूव । अतुस्—बभूवतुः । उस् बभूवुः । थलो वलादित्वादिट् । बभूविथ । अथुस् । बभूवथुः । धातोः परेषामादेशोक्तेः ‘आदेः परस्य’ इति थकारमात्रस्य अ । द्वयोरकारयोः पररूपम् । बभूव । मिपो णल् । बभूव । वस्मसोर्वमादेशौ । इट् । बभूविव बभूविम । तङि तु,
Vartika¶
श्रन्थिग्रन्थिदम्भिस्वञ्जीनां लिटः कित्वम् [वा]।