12007: मृडमृदगुधकुषक्लिशवदवसः क्त्वा¶
Padacheda: मृड-मृद-गुध-कुष-क्लिश-वद-वसः | S | 5 | 1 |
क्त्वा | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix क्त्वा is कित् after मृड् ‘to be gracious’, मृद् ‘to squeeze’, गुध् ‘to wrap up’, कुष् ‘to tear’, क्लिश् ‘to suffer’, वद् ‘to speak’ and वस् ‘to dwell’.
Vasu English Translation¶
The affix क्त्वा is कित् after मृड् ‘to be gracious’, मृद् ‘to squeeze’, गुध् ‘to wrap up’, कुष् ‘to tear’, क्लिश् ‘to suffer’, वद् ‘to speak’ and वस् ‘to dwell’. After these seven verbs, the gerundial ktva is kit. It might be said, what was the necessity of this sutra? The affix ktva is clearly a kit affix, as it is marked with the diacritical letter क्, and it was useless to call it a kit affix after these verbs. The reason of this apparent repitition is this. Though ktva is a kit affix generally; yet there is a later sutra in this chapter (1.2.18) which declares that the prefix क्त्वा is not कित्, if it is preceded by the intermediate इ. Or in other words, if क्त्वा is added to those verbs, which are called सेट् verbs, viz., that take an intermediate इ, it is not then kit. Thus the verb शी ‘to sleep’ is सेट्. Therefore शी + इ + त्वा = शे + इ + त्वा = शायित्वा.
Now it happens that all the seven verbs mentioned in the sutra are सेट् verbs, and take an intermediate इ. The क्त्वा before these verbs would have lost its kitness by virtue of sutra 18; therefore arose the necessity of this sutra, to provide in anticipation an exception to that sutra, in favour of these verbs, where the affix ktva is necessarily kit. Thus we have मृडित्वा ‘being gracious,’ मृदित्वा ‘having squeezed,’ गुधित्वा ‘having wrapped’ कुषित्वा ‘having torn,’ क्लिशित्वा ‘having suffered,’ उदित्वा ‘having spoken,’ उषित्वा ‘having dwelt.’ The व v of वद् and वस् are changed into उ by the rule of Samprasarana (6.1.15).
Moreover in the case of the verbs गुद्, कुष् and क्लिश्, sutra 26 would have made क्त्वा optionally kit; the present sutra makes it necessarily so.
Bhashya¶
मृडमृदगुधकुषक्लिशवदवसः क्त्वा किमर्थं मृडादिभ्यः परस्य क्त्वः कित्त्वमुच्यते, न किदेव हि क्त्वा? न क्त्वा सेट् (1.2.18) इति प्रतिषेधः प्राप्नोति तद्बाधनार्थम्। यदि तर्हि मृडादिभ्यः परस्य क्त्वः कित्त्वमुच्यते नार्थो न क्त्वा सेट् इत्यनेन कित्त्वप्रतिषेधेन। इदं नियमार्थं भविष्यति- मृडादिभ्य एव परस्य क्त्वः कित्त्वं भवति नान्येभ्य इति। यदि नियमः क्रियते, इहापि तर्हि नियमान्न प्राप्नोति- लूत्वा पूत्वा। अत्राप्यकित्त्वं प्राप्नोति। तुल्यजातीयस्य नियमः। कश्च तुल्यजातीयः? यथाजातीयको मृडादिभ्यः परः क्त्वा। कथं जातीयकश्च मृडादिभ्यः परः क्त्वा? सेट्। एवमप्यस्त्यत्र कश्चिद्विभाषितेट् सोऽनिटां नियामकः स्यात्। अस्तु तावद्ये सेटस्तेषां ग्रहणं नियमार्थम्। य इदानीं विभाषितेट् तस्य ग्रहणं विध्यर्थं भविष्यति। रुदविदमुषग्रहिस्वपिप्रच्छ्योः सन्नर्थं ग्रहणम्। किदेव हि क्त्वा ॥ मृडमृदगुधकुषक्लिशवदवसः क्त्वा ॥ 7 ॥
Kashika¶
मृड मृद गुध कुष क्लिश वद वस् इत्येतेभ्यः परः क्त्वा प्रत्ययः किद् भवति। न क्त्वा सेट् (१.२.१८) इति कित्त्वप्रतिषेधं वक्ष्यति, तस्यायं पुरस्तादपकर्षः। गुधकुषक्लिशीनां तु रलो व्युपधाद्० (१.२.२६) इति विकल्पे प्राप्ते नित्यार्थं वचनम्। मृडित्वा। मृदित्वा। गुधित्वा। कुषित्वा। क्लिशित्वा। उदित्वा। उषित्वा॥
Siddhanta Kaumudi¶
एभ्यः सेट् क्त्वा कित् । मृडित्वा ।क्लिशः क्त्वा (SK3049) इति वेट् । क्लिशित्वा । क्लिष्ट्वा । उदित्वा । उषित्वा । रुदविद-(SK2609) इति कित्वम् । रुदित्वा । विदित्वा । मुषित्वा । गृहीत्वा ॥
Tattvabodhini¶
मृडमृदगुधकुषक्लिशवदवसः क्त्वा - मृडमृद । मृड सुखने, मृद क्षोदे, गुध परिवेष्टने, गुध रोषे च, कुष निष्कर्षे, क्लिश हिंसायां — दिवादिः, क्लिशू विबाधने - क्र्यादिः, वद व्यक्तायां वाचि, वस निवासे । किदिति ।असंयोगाल्लिट् कि॑दित्यतः किदित्यनुवर्तत इति भावः । उदित्वेति । यजादित्वात्संप्रसारणम् । उषित्वेति ।वसतिक्षुधो॑रितीट् । यजादित्वात्संप्रसारणम् ।शासिवसी॑ति षः । गृहीत्वेति ।ग्रहिज्ये॑ति संप्रसारणम्,ग्रहोऽलिटी॑ति इटो दीर्घः ।
Padamanjari¶
ऽक्लिश हिंसायाम्ऽ, अनुदातेद्, दिवादिरकर्मकः; ऽक्लिशू विबाधनेऽ र्क्यादिः सकर्मकः, परस्मैपदी-द्व्योरपि ग्रहणम् । किमर्थं पुनरिदम्, तावता किदेव हि क्त्वा ? तत्राह - न क्त्वा सेडित्यादि । अपकर्षः उ अपवादः नन्विदमेव नियमार्थं भविष्यति-ऽमृडादिभ्य एव क्त्वा किद्भवति नान्येभ्यःऽ इति नार्थः ऽन क्त्वा सेट्ऽ इत्यनेन; कथं लूत्वा पूत्वा-तुल्यजातीयस्य सेटो नियमः ? ननु ऽक्लिशः क्त्वानिष्ठयोःऽ इति विकल्पेनेड्विधानादनिट् क्त्वा सम्भवति ? एवं तर्हि मृडमृदवदवसां कित्वाविधानं नियमार्थम्, इतरेषां तु ऽरलो व्यपधात्ऽ इति विकल्पबाधेन विधिसम्भवान्नियमो न भविष्यति । एवमपि विपरीतोऽपि नियमः स्याद् - मृडादिभ्यः क्त्वैव किदिति । उदित्वा, उषित्वेति । यजादित्वात्सम्प्रसारणम् ऽशासिवसिघसीनां चऽ इति षत्वम्, ऽवसतिक्षुधोरिट्ऽ ॥
Nyaas¶
मुड सुखने, (धातुपाठः-1516) मृद क्षोदे (धातुपाठः-1515) , गुध रोषे ` (धातुपाठः-1517) , `कुष निष्कर्षे (धातुपाठः-1518) क्लिशू विबाधने (धातुपाठः-1522), वद व्यक्तायां वाचि (धातुपाठः- 1009), वस निवासे (धातुपाठः-1942)। न क्त्वा सेट् इति कित्त्वप्रतिषेधं वक्ष्यति इति। नन्वेदतदेव नियमार्थं भविष्यतीति - मृडादिभ्य एव सेट् क्त्वा किद् भवति, नान्येभ्य इति, ततश्च सिद्धं देवित्वा, सेवित्वेत्यादि, तत् किमर्थं न क्त्वा सेट् (1.2.18) इति प्रतिषेधं वक्ष्यतिर? विस्पष्टार्थम्; अन्यथा हि केचिद्विपरीतनियमं सम्भावयेयुः - मृडादिभ्यः क्त्वाप्रत्यय एव किद् भवति, नान्य इति। पुरस्तादपकर्षः इत्यादि। अपकर्ष इत्यपवाद इत्यर्थः। क्लिशित्वा इति। क्लिशः क्त्वानिष्ठयोः (7.2.50) इतीट्। उदित्वा`इति, `उषित्वा इति। वच्यादिसूत्रेण (6.1.15) संप्रसारणम्। वसतेः शासिवसिधसीनाञ्च (8.3.60) इति षत्वम्, वसतिक्षुधोः (7.2.52) इतीट्।
Prakriyasarvasvam¶
एभ्यः क्त्वा कित् स्यात् । मृडित्वा मृदित्वेत्यादि । वद्वसोर्यजादित्वादुत्वम् । उदित्वा । उषित्वा ।।
Sutra Prayogas¶
क्लिशित्वा (भट्टिकाव्यम्): मृड-मृदु- इत्यादिना कित्त्वम्।
मृदित्वेवेन्द्र-गोचरम् (भट्टिकाव्यम्): मृड-मृदु इत्यादिना कित्त्वम्।