12005: असंयोगाल्लिट् कित्¶
Padacheda: असंयोगात् | S | 5 | 1 |
लिट् | S | 1 | 1 |
कित् | S | 1 | 1 |
Sutrartha¶
संयोगभिन्नवर्णात् परस्य लिट्-लकारस्य अपित् प्रत्ययः कित्वत् भवति ।
यदि धातोः अन्ते संयोगः नास्ति, तर्हि तस्मात् अग्रे विद्यमानाः लिट्-लकारस्य अपित्-प्रत्ययाः कित्वत् भवन्ति । कित्वस्य प्रामुख्येन प्रयोजनत्रयम् - 1. क्ङिति च (1.1.5) इत्यनेन गुणवृद्धिनिषेधः भवति । यथा, कृ-धातोः लिट्-लकारस्य आत्मनेपदस्य प्रथमपुरुष-एकवचनस्य रूपम् ‘चक्रे’ एतादृशम् सिद्ध्यति - कृ + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → कृ + कृ + ल् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → कर् + कृ + ल् [उरतः (7.4.66) इति ऋकारस्य अकारादेशः । उरण् रपरः (1.1.51) इति सः रपरः] → क + कृ + ल् [हलादि शेषः (7.4.60) इति रेफस्य लोपः] → च + कृ + ल् [कुहोश्चुः (7.4.62) इति ककारस्य चकारः] → च + कृ + त [तिप्तस्.. (3.4.78) इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य ‘त’ प्रत्ययः] → च + कृ + एश् [लिटस्तझयोरेशिरेच् (3.4.81) इति त-प्रत्ययस्य एश्-आदेशः] अत्र ‘त’ इति लिट्लकारस्य प्रत्ययः आर्धधातुकः अस्ति । अतः वस्तुतः सार्वधातुकार्धधातुकयोः (7.3.84) इत्यनेन अङ्गस्य ऋकारस्य अत्र गुणादेशः विधीयते । परन्तु, अत्र ‘त’ प्रत्ययः अपित्-अस्ति, अतः वर्तमानसूत्रेण सः कित्वत् भवति, अतः क्ङिति च (1.1.5) इत्यनेन गुणनिषेधः भवति । अतः अत्र केवलं यणादेशं कृत्वा रूपं सिद्ध्यति । → चक्रे [इको यणचि (6.1.77) इति यणादेशः] एवमेव वृत्-धातोः लिट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् ववृते, वृध्-धातोः लिट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् ववृधे - एतादृशानि रूपाणि अपि सिद्ध्यन्ति । 2. वचिस्वपियजादीनां किति (6.1.15) इत्यनेन सम्प्रसारणम् विधीयते । यथा, वच्-धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य रूपम् एतादृशम् सिद्ध्यति - वच् + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → वच् वच् + लिट् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → व वच् + लिट् [हलादि शेषः (7.4.60) इति चकारस्य लोपः] → व वच् + तस् [तिप्तस्झि… (3.4.78) इति तस् -प्रत्ययः] → व वच् + अतुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति तस्-इत्यस्य अतुस्-आदेशः ] अत्र ‘तस्’ इति लिट्लकारस्य प्रत्ययः आर्धधातुकः अस्ति । अयम् प्रत्ययः अपित्-अस्ति, अतः वर्तमानसूत्रेण सः कित्वत् भवति, अतः वचिस्वपियजादीनां किति (6.1.15) इत्यनेन सम्प्रसारणम् विधीयते । (1.1.5) इत्यनेन गुणनिषेधः भवति । अतः अत्र केवलं यणादेशं कृत्वा रूपं सिद्ध्यति → उ उच् + अतुस् [ वचिस्वपियजादीनां किति (6.1.15) इत्यनेन सम्प्रसारणम्] → ऊचतुः [विसर्गनिर्माणम्] एवमेव यज्-धातोः लिट्-लकारस्य प्रथमपुरुषस्य द्विवचनम् ‘ईजतुः’ तथा व्यध्-धातोः लिट्-लकारस्य प्रथमपुरुषस्य द्विवचनम् ‘विविधतुः’ एतादृशानि रूपाणि सिद्ध्यन्ति । 3. कित्-प्रत्यये परे अनिदितां हलः उपधायाः क्ङिति (6.4.24) इत्यनेन अनिदित्सु धातुषु नकारलोपः अपि भवति । परन्तु अनिदित्-धातूनां विषये अन्ते संयोगः विद्यते (यथा - मन्थ्, स्रन्स्, ध्वन्स् - आदयः), अतः एतेषां विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति (स्मर्तव्यम् - वर्तमानसूत्रे ‘असंयोगात्’ इति उक्तमस्ति) । अत्र एतेषां धातूनाम् विषये लिट्-लकारस्य प्रत्ययाः कित्वत् न भवन्ति । अतः अत्र अनिदितां हलः उपधायाः क्ङिति (6.4.24) इत्यनेन नकारलोपः अपि न विधीयते । यथा, स्रन्स्-धातोः लिट्-लकारस्य आत्मनेपदस्य प्रथमपुरुषैकवचनस्य रूपम् ‘सस्रंसे’ इति जायते । अत्र नकारलोपः न भवति । ज्ञातव्यम् - 1. तिप्तस्.. (3.4.78) इत्यनेन ये अष्टादश तिङ्-प्रत्ययाः विधीयन्ते तेषु केवलं तिप्/सिप्/मिप्-एते त्रयः प्रत्ययाः पित्-प्रत्ययाः सन्ति । अतः अस्य सूत्रस्य प्रसक्ति एतेषां त्रयाणाम् विषये नास्ति । यथा, कृ-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् ‘चकार’ इत्यत्र अचो ञ्णिति (7.2.115) इत्यनेन अङ्गस्य वृद्धिं कृत्वा रूपं सिद्ध्यति । 2. यद्यपि अनिदित्-धातूनां विषये अस्य सूत्रस्य प्रसक्तिः नास्ति, तथापि ईन्धिभवतिभ्यां च (1.2.6) इत्यनेन ईन्ध्-धातोः विषये लिट्लकारस्य प्रत्ययाः कित्वत् भवन्ति । तथा च, <!अत्रैष्टिः श्रन्थिग्रन्थिदम्भिस्वञ्जीनामिति वक्तव्यम्!> अनेन वार्तिकेन श्रन्थ्, ग्रन्थ्, दम्भ्, स्वञ्ज् - एतेषां विषये अपि लिट्लकारस्य प्रत्ययाः कित्वत् भवन्ति ।
Sutrartha (English)¶
For a verb root that does not end in a संयोग, the अपित् प्रत्यय of लिट्-लकार behaves like a कित् प्रत्यय.
Vasu English Summary¶
The affixes of लिट् (Perfect Tense) not coming after a conjunct consonant, are as if they had an indicatory क् (कित्).
Vasu English Translation¶
The affixes of लिट् (Perfect Tense) not coming after a conjunct consonant, are as if they had an indicatory क् (कित्). With this sutra begins the description of affixes which are regarded as कित् though not actually having a क् to mark them as such. The terminations of लिट् (Perfect) not being पित् terminations, are कित्, after verbs that have no compound consonants. The phrase अपित् (not being marked with प्) qualifies this sutra also, being drawn from the previous sutra by the rule of Anuvritti.
Thus from भिद् ‘to tear’ the Reduplicated non pit second person perfect is बिभिदतुः ‘thou hast torn.’ बिभिदुः ‘They have torn.’ Similarly चिच्छिदतुः ‘thou hast divided’; चिच्छिदुः ‘you divided’; ईजतुः and ईजुः.
This rule will not apply if the root ends in a conjunct consonant. Thus स्रंस् ‘to fall down’ forms its second person Perfect :- सस्रंस् + अतुस् = सस्रंसतुः. Here the affix is not treated as kit; for had it been so treated, it would have caused the elision of the penultimate nasal (anusvara) of स्रंस by Rule (6.4.24). Similarly from ध्वंस् we have दध्वंसे.
The pit terminations of the Perfect are not kit; and therefore we have बिभेद ‘he has divided,’ where the root is gunated before the 3rd person singular termination णल् which is a पित् termination, because it being the substitute of तिप् is regarded like तिप् by (1.1.56).
Bhashya¶
असंयोगाल्लिट् कित् - ऋदुपधेभ्यो लिटः कित्त्वं गुणाद्विप्रतिषेधेन - ऋदुपधेभ्यो लिटः कित्त्वं गुणाद्भवति विप्रतिषेधेन। ववृते ववृधे। - उक्तं वा - किमुक्तम्? न वा क्सस्यानवकाशत्वादपवादो गुणस्य इति। विषम उपन्यासः। युक्तं तत्र यदनवकाशं कित्करणं गुणं बाधते। इह पुनरुभयं सावकाशम्। कित्करणस्यावकाशः- इर्जतुः, इर्जुः। गुणस्यावकाशः- वर्तित्वा वर्द्धित्वा। इहोभयं प्राप्नोति- ववृते ववृधे। परत्वाद् गुणः प्राप्नोति। इदं तर्ह्युक्तम्- इष्टवाची परशब्दः इति, विप्रतिषेधे परं यदिष्टं तद्भवतीति ॥ असंयोगाल्लिट् कित् ॥ 5 ॥
Kashika¶
अपिदिति वर्तते। असंयोगान्ताद् धातोः परो लिट् प्रत्ययोऽपित् किद् भवति। बिभिदतुः, बिभिदुः। चिच्छिदतुः, चिच्छिदुः। ईजतुः, ईजुः। असंयोगादिति किम्? सस्रंसे। दध्वंसे। अपिदित्येव — बिभेदिथ॥
Siddhanta Kaumudi¶
असंयोगात्परोऽपिल्लिट्कित्स्यात् । क्ङिति च (SK2217) इति निषेधात् सार्वधातुकार्धातुकयोः (SK2168) इति गुणो न । द्वित्वात्परत्वाद्यणि प्राप्ते ॥
Laghu Siddhanta Kaumudi¶
असंयोगात्परोऽपिल्लिट् कित् स्यात्। सिषिधतुः। सिषिधुः। सिषेधिथ। सिषिधथुः। सिषिध। सिषेध। सिषिधिव। सिषिधिम। सेधिता। सेधिष्यति। सेधतु। असेधत्। सेधेत्। सिध्यात्। असेधीत्। असेधिष्यत्। एवम् - {$ {! 4 चिती !} संज्ञाने $} (धातुपाठे (01.0039))॥ {$ {! 5 शुच !} शोके $} (धातुपाठे (01.0210)) {$ {! 6 गद !} व्यक्तायां वाचि $} (धातुपाठे (01.0054)) ॥ गदति॥
Balamanorama¶
असंयोगाल्लिट् कित् - असंयोगाल्लिट् । अपिदिति । ‘सार्वधातुकमपित्’ इत्यतस्तदनुवृत्तेरिति भावः । ‘सार्वधातुकमपित्’ इति ङित्त्वं तु नात्र प्रवर्तते, लिडादेशानामार्धधातुकत्वादिति बोध्यम् । कित्त्वस्य फलमाह — क्ङिति चेति । द्वित्वादिति । कृ ए स्थिते लिटि धातोरिति द्वित्वात्परत्वादिको बोध्यम् । कित्त्वस्य फलमाह — क्ङिति चेति । द्वित्वादिति । कृ ए इति स्थिते लिटि धातोरिति द्वित्वं न स्यादिति भावः ।
Tattvabodhini¶
असंयोगाल्लिट् कित् - असंयोगादिति किम् । ममन्थे । अत्र नलोपो न ।
Padamanjari¶
लिटाऽऽक्षिप्तो धातुरसंयोगग्रहणेन विशेष्यत इत्याह असंयोगान्ताद्धातोरिति । ननु चात्र पर्युदासत्वमुक्तं प्रतीयते, ततश्च संयोगान्तसदृशाद् हलन्तदेव स्याद्-बिभिदतुः,बिभिदुरित्यादौ; निन्यतुरित्यादौ तु न स्यात् ? ज्ञापकात् सिद्धम्, यदयम् ऽऋतश्च संयोगादेर्गुणःऽ इति सस्मरतुरित्यादौ गुणं विधते, तज्ज्ञापयति-नात्र नञिवयुक्तन्यायो धातुमात्रस्यैव ग्रहणमिति । ङ्त्वे प्रिकृते कित्वातिदेशस्य प्रयोजनम् - ईजनम्, ईजत्ः, ईजुः, यजादीनां कितीति सम्प्रसारणं यथा स्यात्; जजागरतुः, जजागरुः-ऽजाग्रोविचिण्णल्ङ्त्सुऽ ईति गुणो यथा स्यात् । यदि पुनर्गाङ्कुटादिभ्योऽपि कित्वमेवातिदिश्येत ? नैवं शक्यम्; इह हि दोषः स्याद् - ऽणु स्तुतौऽऽधू विधूननेऽ तृच्, नुविदा धुविदा - ऽर्श्युकः कितिऽ इतीट्प्रतिषेधः प्राप्नोति, यथा-लूत्वा, लूनः ? नैष दोषः; पूर्वस्य कार्यतिदेशोऽयमित्युक्तम् । इह तर्हि कुटित्वा, पुटित्वा - ऽन क्त्वा सेट्ऽ इत्यातिदेशिकस्यापि कित्वस्य प्रतिषेधो नातिदेशिकस्य भवतीति, सत्यम्; असति क्त्वाग्रहणे, सति तु तस्मिन् सनः ऽन क्त्वा सेट्ऽ इति निषेधो न लभ्यते इत्यज्ञापकं वक्ष्यते-ऽन क्त्वा सेट्ऽ इति निषेधो नातिदएशिकस्य भवतीति, सत्यम्; असति कत्वाग्रहणे, सति तु तस्मिन् सनः ऽन क्त्वा सेट्ऽ इति निषेधो न लभ्यते इत्यज्ञापकं तत्र ढल्ग्रहणम् । तथा ऽसार्वधातुकमपिद्ऽ इति कित्वातिदेशे जागृतः, जाग्रतीति गुणः स्याद्, ङ्त्वाइतिदेशे त्वविचिण्णल्ङ्त्स्विति पिर्युदासो भवति । ऽऋदुपधेभ्यो लिटः कित्वं गुणात् पूर्वविप्रतिषेधेनऽ । कित्वस्यावकाशः-ऋजतुः, ऋजुः न ह्यत्र विध्यन्तरस्य कस्यचित्प्रसङ्गः; गुणस्यावकाशः - वर्तित्वा,वर्धित्वा; ववृते, ववृधुरित्यत्रोभयप्रसङ्गे कित्वं भवति पूर्वविप्रतिषेधेन । इह तु बिबिदतुः बिभिदुः, नित्यत्वादेव कित्वं सिद्धम्; तद्धि कृतेऽपि गुणे प्राप्नोत्यकृतेऽपि, गुणस्तु कित्वे सति न प्राप्नोति । ववृते इत्यत्र तु गुणे कृते संयोगान्तत्वात् कित्वं न प्राप्नोतीत्युभयमनित्यमिति पूर्वविप्रतिषेध उच्यते । स चायं कार्यातिदेशपक्षे स्फुटमेव वक्तव्यः । तथा हि-अनेनैव कित्कार्यातिदेश ईजतुरित्यादौ यत्र विध्यन्तरस्याप्रसङ्गस्तत्र सम्प्रसारणमितदिश्य चरितार्थमतिदेशं परत्वाद् गुणो बाधेत । शास्त्रातिदेशे वा ऽक्ङिति चऽ इत्येतच्छास्त्रमतिदिश्यते, तच्च यद्यपि गुणस्यापवादभूतम्, तथाप्यन्यत्र चरितार्थत्वाद् दुर्बलेनातिदेशेनातिदिष्टः ऽक्ङिति चऽ इति प्रतिषेधो दुर्बल इति तं बाधित्वा गुणः स्यादेव ॥
Nyaas¶
धातोरेव लिड् विधीयते, नान्यस्मादिति लिटा सामर्थ्याद्धातुः सन्निधापितः; स चासंयोगग्रहणेन विशिष्यते, विशेषणेन च तदन्तविधिर्भवतीत्याह - असंयोगान्ताद्धातोः इति। यदि तह्र्रसंयोगान्ताद्धातोः परस्य लिटः कित्त्वं विधीयते; तदा ववृते, ववृधे इति न सिध्यति, परत्वाद् गुणेन भवितव्यम्। कित्त्वस्यावकाशः - ईजतुरीजुः इति, गुणस्यावकाशः - वर्त्तित्वा, वर्धित्वा इति; `ववृते,ववृधे इत्यादावुभयप्राप्तौ परत्वाद् गुण एव स्यात्, नैतदस्ति; इष्टवाचित्वात्परशब्दस्य, कित्त्वमेवेष्टम्, कित्वमेव परम्, अतस्तदेव भविष्यतीत्यदोषः।अत्र च यदि असंयोगात् इति पर्युदास आश्रीयते, तदा संयोगादन्यस्मिन् गृह्रमाणे नञिवयुक्तन्यायेन (व्या।प।65) सदृशस्यैव ग्रहणं स्यात् - संयोगस्य सदृशो योऽन्योऽसहायो हल् इति हलन्तादेव कित्त्वं भविष्यति, नाजन्तात्,ततः चक्रश्चक्रुः इति न सिध्यति। तस्मात् प्रसज्यप्रतिषेधोऽयम्, न पर्युदासः - न चेत् संयोगात् यजादीनां किति` (6.1.15) इति किति विधीयते, न ङिति। बिभिदतुः, बिभिदुः इति। कित्त्वात् पुगन्तलघूपधस्य च (7.3.86) इति गुणाभावः। सस्त्रंसे, दध्वंसे इति। कित्त्वाभावात् अनिदिताम् (6.4.24) इत्यरनुनासिकल्लोपो न भवति। स्त्रन्सु ध्वन्सु अधः पतने (धातुपाठः- 754-755), अनुदात्तेत्वादात्मनेपदम्, लिटस्तझयोरेशिरेच् (3.4.81) इत्येशादेशः। बिभेदिथ इति। सिप्,थल्, क्रादिनियमादिट्।
Prakriyasarvasvam¶
असंयोगान्तधातोः परोऽपिल्लिट् कित् स्यात् । तेन गुणाभावाद् इयङ् । जिय् अतुस् । इयङः स्थानिवत्त्वाद् द्वित्वम् । कुत्वम् । जि गि अतुस् । ‘एरनेकाच-:’ इति यण् । जिग्यतुः । जिग्युः । थलि-
Vartika¶
ऋदुपधेभ्यो लिटः कित्त्वं गुणात्पूर्वप्रतिषेधेन ।