12002: विज इट्

Padacheda: विजः | S | 5 | 1 |

इट् | S | 1 | 1 |

Sutrartha


Sutrartha (English)

A प्रत्यय that gets an इडागम is considered ङित् when attached to the dhatu ‘विज्’.

Vasu English Summary

An affix which begins with the augment इट् – आर्धधातुकस्येड् वलादेः (7.2.35), is ङित् after the root विज् ‘to fear, to move’.

Vasu English Translation

An affix which begins with the augment इट् – आर्धधातुकस्येड् वलादेः (7.2.35), is ङित् after the root विज् ‘to fear, to move’. The root विज् does not strengthen its vowel before the affixes that take the intermediate इ, because those terminations are treated like ङित् affixes. The root विज् belongs to the Tudadi class. Thus उद्विजिता ‘he will be agitated,’ उद्विजितुम् ‘for the purpose of being agitated,’ उद्विजितव्यम् ‘ought to be agitated.’

But those affixes, which are not preceded by the augment इट्, are not like ङित्, and they consequently produce their own proper action, such as gunation &c. As उत् + विज् + ल्युट् = उद्वेजनम्, उद्वेजनीयम् ‘that which ought to be agitated.’

Kashika

ओविजी भयचलनयोः अस्मात् पर इडादिः प्रत्ययो ङिद्वद् भवति। उद्विजिता। उद्विजितुम्। उद्विजितव्यम्। इडिति किम्? उद्वेजनम्। उद्वेजनीयम्॥

Siddhanta Kaumudi

विजेः पर इडादिः प्रत्ययो ङिद्वत् । उद्विजिता । उद्विजिष्यते ।{$ {!1290 ओलजी!} {!1291 ओलस्जी!} व्रीडायाम्$} । लजते । लेजे । लज्जते । ललज्जे ॥ अथ परस्मैपदिनः ।{$ {!1292 ओव्रश्चू!} छेदने$} । ग्रहिज्या - (SK2412) । वृश्चति । वव्रश्च । वव्रश्चतुः । वव्रश्चिथ । वव्रष्ठ । लिट्यभ्यासस्य - (SK2408) इति संप्रसारणम् । रेफस्य ऋकारः । उरत् (SK2244) तस्य अचः परस्मिन् - (SK50) इति स्थानिवद्भावात् । न संप्रसारणे - (SK363) इति वस्योत्वं न । व्रश्चिता । व्रष्टा । व्रश्चिष्यति । व्रक्ष्यति । वृश्च्यात् । अव्रश्चीत् । अव्राक्षीत् ।{$ {!1293 व्यच!} व्याजीकरणे$} । विचति । विव्याच । विविचतुः । व्यचिता । व्यचिष्यति । विच्यात् । अव्याचीत् । अव्यचीत् ॥<!व्यचेः कुटादित्वमनसीति तु नेह प्रवर्तते !> (वार्तिकम्) ॥ अनसीति पर्युदासेन कृन्मात्रविषयत्वात् ।{$ {!1294 उछि!} उञ्छे$} । उञ्छति ।{$ {!1295 उच्छी!} विवासे$} । उच्छति ।{$ {!1296 ऋच्छ!} गतीन्द्रियप्रलयमूर्तिभावेषु$} । ऋच्छत्यॄताम् (SK2383) इति गुणः । द्विहल्ग्रहणस्यानेकहलुपलक्षणत्वान्नुट् । आनर्छ । आनर्छतुः । ऋच्छिता ।{$ {!1297 मिच्छ!} उत्क्लेशे$} । उत्क्लेशः । पीडा । मिमिच्छा । अमिच्छीत् ।{$ {!1298 जर्ज!} {!1299 चर्च!} {!1300 झर्झ!} परिभाषणभर्त्सनयोः$} ।{$ {!1301 त्वच!} संवरणे$} । तत्वाच ।{$ {!1302 ऋच!} स्तुतौ$} । आनर्च ।{$ {!1303 उब्ज!} आर्जवे$} ।{$ {!1304 उज्झ!} उत्सर्गे$} ।{$ {!1305 लुभ!} विमोहने$} । विमोहनमाकुलीकरणम् । लुभति । लोभिता । लोब्धा । लोभिष्यति ।{$ {!1306 रिफ!} कत्थनयुद्धमनिन्दायहिंसादानेषु$} । रिफति । रिरेफ । रिहेत्येके । शिशुं न विप्रा मतिभी रिहन्ति ।{$ {!1307 तृप!} {!1308 तृम्फ!} तृप्तौ$} । आद्यः प्रथमान्तः । द्वितीयो द्वितायान्तः । द्वावपि द्वितीयान्तावित्यन्ये । तृपति । ततर्प । तर्पिता ॥ स्पृशमृशेति सिज्विकल्पः पौषादिकस्यैव अङपवादत्वात् । तेनात्र नित्यं सिच् । अतर्पीत् । तृम्फति । शस्य ङित्त्वात् अनिदिताम् - (SK415) इति नलोपे ।<!शे तृम्फादीनां नुम्वाच्यः !> (वार्तिकम्) ॥ आदिशब्दः प्रकारे । तेन येऽत्र नकारानुषक्तास्ते तृम्फादयः । तृम्फति । ततृम्फ । तृफ्यात् ।{$ {!1309 तुप!} {!1310 तुम्प!} {!1311 तुफ!} {!1312 तुम्फ!} हिंसायाम्$} । तुपति । तुम्पति । तुफति । तुम्फति ।{$ {!1313 दृप!} {!1314 दृम्फ!} उत्क्लेशे$} । प्रथमः प्रथमान्तः । द्वितायो द्वितायान्तः । प्रथमो द्वितीयान्त इत्येके । दृपति । दृम्फति ।{$ {!1315 ऋफ!} {!1316 ऋम्फ!} हिंसायाम्$} । ऋफति । आनर्फ । ऋम्फति । ऋम्फांचकार ।{$ {!1317 गुफ!} {!1318 गुम्फ!} ग्रन्थे $}। गुफति । जुगोफ । गुम्फति । जुगुम्फ ।{$ {!1319 उभ!} {!1320 उम्भ!} पूरणे$} । उभति । उवोभ । उम्भति । उम्भांचकार ।{$ {!1321 शुभ!} {!1322 शुम्भ!} शोभार्थे$} । शुभति । शुम्भति ।{$ {!1323 दृभी!} ग्रन्थे$} । दृभति ।{$ {!1324 चृती!} हिंसाग्रन्थनयोः$} । चर्तिता । सेसिचि - (SK2506) इति वेट् । चर्तिष्यति । चर्त्स्यात् । अचर्तीत् ।{$ {!1325 विध!} विधाने$} । विधति । वेधिता ।{$ {!1326 जुड!} गतौ$} । तवर्गपञ्चमान्त इत्येके । जुडति । मरुतो जुनन्ति ।{$ {!1327 मृड!} सुखने$} । मडति । मर्डिता ।{$ {!1328 पृड!} च$} । पृडति ।{$ {!1329 पृण!} प्रीणने$} । पृणति । पपर्ण ।{$ {!1330 वृण!} च $}। वृणति ।{$ {!1331 मृण!} हिंसायाम्$} ।{$ {!1332 तुण!} कौटिल्ये$} । तुतोण ।{$ {!1333 पुण!} कर्मणि शुभे$} । पुणति ।{$ {!1334 मुण!} प्रतिज्ञाने$} ।{$ {!1335 कुण!} श्ब्दोपकरणयोः$} ।{$ {!1336 शुन!} गतौ$} ।{$ {!1337 द्रुण!} हिंसागतिकौटिल्येषु$} ।{$ {!1338 घुण!} {!1339 घूर्ण!} भ्रमणे$} ।{$ {!1340 षुर!} ऐश्वर्यदीप्त्योः$} । सुरति । सुषोर । आशिषि सूर्यात् ।{$ {!1341 कुर!} शब्दे$} । कुरति । कूर्यात् । अत्र न भकुर्छुरम् (SK1629) इति निषेधो न । करोतेरेव तत्र ग्रहणादित्याहुः ।{$ {!1342 खुर!} छेदने$} ।{$ {!1343 मुर!} संवेष्टने$} ।{$ {!1344 क्षुर!} विलेखने$} ।{$ {!1345 घुर!} भीमार्थशब्दयोः$} ।{$ {!1346 पुर!} अग्रगमने$} ।{$ {!1347 वृहू!} उद्यमने$} । दन्त्योष्ठ्यादिः । पवर्गीयादिरित्यन्ये ।{$ {!1348 तृहू!} {!1349 स्तृहू!} {!1350 तृंहू!} हिंसार्थाः$} । तृहति । ततर्ह । स्तृहति । तस्तर्ह । स्तहिंता । स्तर्ढा । अतृंहीत् । अतार्ङ्गक्षीत् । अतार्ण्ढाम् ।{$ {!1351 इष!} इच्छायाम्$} । इषुगमि - (SK2400) इति छः । इच्छति । एषिता । एष्टा । एषिष्यति । इष्यात् । ऐषीत् ।{$ {!1352 मिष!} स्पर्धायाम्$} । मिषति । मेषिता ।{$ {!1353 किल!} श्वैत्यक्रीडनयोः$} ।{$ {!1354 तिल!} स्नेहने$} ।{$ {!1355 चिल!} वसने$} ।{$ {!1356 चल!} विलसने$} ।{$ {!1357 इल!} स्वप्नक्षेपणयोः$} ।{$ {!1358 विल!} संवरणे$} । दन्त्योष्ठ्यादिः ।{$ {!1359 बिल!} भेदने$} । ओष्ठ्यादिः ।{$ {!1360 णिल!} गहने$} ।{$ {!1361 हिल!} भावकरणे$} ।{$ {!1362 शिल!} {!1363 षिल!} उञ्छे$} ।{$ {!1364 मिल!} श्लेषणे$} ।{$ {!1365 लिख!} अक्षरविन्यासे$} । लिलेख ।{$ {!1366 कुट!} कौटिल्ये$} । गाङ्कुटादिभ्यः - (SK2461) इति ङित्वम् । चुकुटिथ । चुकोट । चुकुट । कुटिता ।{$ {!1367 पुट!} संश्लेषणे$} ।{$ {!1368 कुच!} सङ्कोचने$} ।{$ {!1369 गुज!} शब्दे$} ।{$ {!1370 गुड!} रक्षायाम्$} ।{$ {!1371 डिप!} क्षेपे$} ।{$ {!1372 छुर!} छेदने$} । न भकुर्छुराम् (SK1629) इति न दीर्घः । छुर्यात् ।{$ {!1373 स्फुट!} विकसने$} । स्फुटति । पुस्फोट ।{$ {!1374 मुट!} आक्षेपमर्दनयोः$} ।{$ {!1375 त्रुट!} छेदने$} । वाभ्रास - (SK2321) इति श्यन्वा । त्रुट्यति । त्रुटति । तुत्रोट । त्रुडिता ।{$ {!1376 तुट!} कलहकर्मणि$} । तुटति । तुतोट । तुटिता ।{$ {!1377 चुट!} {!1378 छुट!} छेदने$} ।{$ {!1379 जुड!} बन्धने$} ।{$ {!1380 कड!} मदे$} ।{$ {!1381 लुट!} संश्लेषणे$} ।{$ {!1382 कृड!} घनत्वे$} । घनत्वं सान्द्रता । चकर्ड । कृडिता ।{$ {!1383 कुड!} बाल्ये$} ।{$ {!1384 पुड!} उत्सर्गे$} ।{$ {!1385 घुट!} प्रतिघाते$} ।{$ {!1386 तुड!} तोडने $}। तोडनं भेदः ।{$ {!1387 थुड!} {!1388 स्थुड!} संवरणे$} । थुडति । तुथोड । तुस्थोड । खुड छुड इत्येके ।{$ {!1389 स्फुर!} {!1390 स्फुल!} संचलने$} । स्फुर स्फुरणे । स्फुल संचलन इत्येके ॥

Laghu Siddhanta Kaumudi

विजेः पर इडादिप्रत्यये ङिद्वत् । उद्विजिता ॥ इति तुदादयः ॥ ६ ॥

Balamanorama

विज इट् - विज इट् । ‘गाङ्कुटादिभ्यः’ इत्यतो ङिदित्यनुवर्तते । तदाह - विजेः पर इत्यादि । उद्विजिता । उद्विजिषीष्ट ।उदविजिष्ट । व्रश्चधातुरूदित्त्वाद्वेट् । ग्रहिज्येति । लटि व्रश्च् अतीति स्थिते शस्याऽपित्त्वेन ङित्त्वात्ग्रहिज्ये॑ति रेफस्य संप्रसारणमृकारः, पूर्वरूपं चेति भावः ।तदाह - वृश्चतीति । वृश्चतः वृश्चन्तीत्यादि । वव्रश्चेति । णलि रूपमिदम् । थलि च प्रक्रिया अनुपदं वक्ष्यते । अतुसादौ संयोगात्परत्वेन कित्त्वाऽभावात्ग्रहिज्ये॑ति न संप्रसारणम् । तदाह — वव्रश्चतुरिति । ऊदित्त्वात्थलि वेट् । तदाह — वव्रश्चिथ वव्रष्ठेति । धातुपाठे ‘व्रश्चू’ इत्यत्र व्रस् च् इति सथिते सस्य श्चुत्वेन शकारनिर्देशः । तता च वव्रश्च् थ इति स्थिते श्चुत्वनस्याऽसिद्धत्वात् ‘स्कोः’ इति सकारलोपे, चस्यव्रश्चे॑ति षत्वे, ष्टुत्वेन थस्यठत्वे, वव्रष्ठेतिरूपम् । वव्रश्चिव । ननु णलि थलि च अकितिद्वित्वे कृतेलिटब्यासस्ये॑त्यब्यासावयवयोर्वकाररेफयोद्र्वयोरपि संप्रसारणं स्यात् । न चन संप्रसारणे संप्रसारण॑मिति वकारस्य संप्रसारणनिषेधः शङ्क्यः, पूर्वं वकारस्य संप्रसारणसंभवादित्यत आह — लिटभ्यासेति । ‘न संप्रसारणे’ इति निषेधादेव ज्ञापक#आत्प्रथमं रेफस्य ऋकारः संप्रसारणमित्यर्थः । तस्यसंप्रसारणसंपन्नस्य ऋकारस्य अकारविधं स्मारयति - उरदिति । ननु ऋकारस्य अकारे कृते वकारस्य संप्रसारणं स्यात्, संप्रसारणपरकत्ववविरहेण ‘न संप्रसारणे’ इति निषेधाऽप्रवृत्तेरित्यत आह — तस्य चेति । अकारस्येत्यर्थ- । न च उरदत्त्वस्य परिनिमित्तक्तवाऽश्रवणात्कथं स्थानिवत्त्वमिति वाच्यम्,अपादपरिसमाप्तेरङ्गाधिकार॑ इत्यभ्युपगम्य अह्गाक्षिप्रत्ययनिमित्तकत्वाभ्युपगमात् ।लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति॑रितिन्यायस्तु ‘न संप्रसारणे’ इति निषेधादेव न स्थानिबेदे प्रवर्तत इति ज्ञायते । अत एव ‘सुद्ध्युपास्य’ इत्यादौ धकारस्य द्वित्वे कृते पूर्वधकारस्य जश्त्वेन दकारे तस्य द्वित्वमित्यास्तां तावत् । आशीर्लिङ्याग - वृश्च्यादिति । कित्त्वात्संप्रसारणमिति भावः । अव्राक्षीदिति । अव्रश्च् सीत् इति स्थिते हलन्तलक्षणावृद्धिः । श्चुत्वस्याऽसिद्धत्वात् ‘स्कोः’ इति सलोपः ।व्रश्चे॑ति चस्य षः, तस्यषढो॑रिति कऋः, सस्य ष इति भावः ।नकारजावनुस्वरपञ्चमौ झलिधातुषु । सकारजः शकारः श्चे, र्षाट्टवर्गस्तवर्गजः । इत्याहुः । व्यच । सेट् । शेग्रहिज्ये॑ति संप्रसारणं मत्वाह - विचतीति । वव्याचेति ।लिटभ्यासस्ये॑त्यभ्यासयकारस्य संप्रसारणम् । ‘न संप्रसारणे’ इति न वकारस्य । विविचतुरिति । कित्त्वात्ग्रहिज्ये॑ति संप्रसारणे कृते द्वितवादीति भावः । विव्यचिथ । विविचिव । विच्यादिति । आशीर्लिङि कित्त्वाद्यकारस्य संप्रसारणम् ।अतो हलादे॑रिति वृद्धिविकल्पं मत्वाह - अव्याचीत् अव्यचीदिति । ननुव्यचेः कुटादित्वमनसी॑ति व्यचेः कुटादित्ववचनात् व्यचिता, व्यचिष्यतीत्यादावपि ‘गाङ्कुटादिभ्यः’ इति ङित्त्वात् संप्रसारणं स्यादित्यत आह- व्यचेरिति । कृन्मात्रेति । अवधारणे मात्रशब्दः । ‘उछि उञ्छे’ ‘उछी विवासे’ इति भ्वादौ पठितौ । इह तयोः पाठस्तु शविकरणार्थः । तेन उञ्छती उञ्छन्ती, उच्छती उच्छन्ती इतिआच्छीनद्यो॑रिति नुम्विकल्पः सिध्यति । भ्वादौ पाठस्तु पित्स्वरार्थ इत्यन्यत्र विस्तरः । ऋच्छ गतीति ।छे चे॑ति तुकि तस्य शचुत्वेन चकानिर्देशः । ऋच्छति । णलि लघूपधत्वाऽभावाद्गुणे अप्राप्ते आह - ऋच्छत्यृतामिति । द्वित्वे उरदत्त्वे हलादिशेषेअत आदे॑रिति दीर्घे आ अच्र्छ इति स्थिते बहुहल्त्वाद्विहल्त्वाऽभावान्नुटि अप्राप्ते आह - द्विहल्ग्रहणस्येति । आनच्र्छेति.॒इजादे॑रित्यत्र ‘अनृच्छः’ इति पर्युदासादाम्न । ऋच्छतेति ।ऋच्छत्यृता॑मित्यत्र लिटीत्यनुवृत्तेर्न गुण इति बावः । लुभधातुः सेट् ।तीषसहे॑ति वेडिति मत्वाह- लोभिता लोब्धेति । शिशुं नेति ।नशब्द इवार्थे । विप्राः शिशुमिव मतिभिः रिहन्ति = हिंसन्तीत्यर्थः । तृपधातुः श्यन्विकरण एवाऽनिट् । अङपवादत्वादिति । अपवादस्य उत्सर्गसमानदेशत्वादिति भावः । चृती हिंसाश्रन्थनयोरिति । श्रन्थनं विरुआंसनम् । चृततीत्यादि सुगमम् ।अथास्य योकं विचृते॑दित्याआलायनः । विरुआंसयेदित्यर्थः , उपसर्गवशात् ।यजमानो मेखलं विचृतते॑ इत्यापस्तम्बसूत्रे तु तङ् आर्षः । षुरधातुः षोपदेशः । कुर शब्दे । करोतेरेवेति । व्याख्यानमेवाऽत्र शरणम् । वृहूधातुः ऋदुपधः । ऊदित्त्वाद्वेट्कः । पवर्गादिरिति । पवर्गतृतीयादिरित्यर्थः । तृहू स्तृहू तृंहू इति । त्रयोऽपि ऋकारवन्तः । तृतीयोऽनुस्वारवान् । उदित्त्वाद्वेट् । तर्ढेति । तृहेस्तासि ढत्वध्तवष्टुत्वढलोपाः । एवं स्तर्ढा । तृण्ढा । अतर्हीत् अतार्क्षीत्, अस्तर्हीत् अस्तार्क्षीदिति सिद्धवत्कृत्याह - अतृंहीत् - अतार्ङ्क्षीदिति । तृंहेरिडभावपक्षे हलन्तलक्षणवृद्धौ रपरत्वम् । हस्य ढः, ढस्य कः, षत्वम् । अनुस्वारस्य परसवर्णो ङकार इति भावः । अतार्ढामिति । तृहेस्तसस्तामि सिच इडभावपक्षे लोपे हलन्तलक्षणवृद्धौ ढत्वधत्वष्टुत्वढञलोपा इति भावः । एव [स्तृहेः-] अस्तार्ढाम् [तृंहः] अतार्ण्ढाम् । स्फुर स्फुरणे ।

Tattvabodhini

विज इट् - विज इट् । इहवृद्धिर्यस्ये॑ति सूत्रान्मण्डूकप्लुत्या यस्यादिरिति अनुवर्तते, तेन इडादिप्रत्ययो लभ्यत इति मनोरमायां स्थितम् । नव्यास्तु इह इडित्यनेनोत्तमैकवचनं न गृह्रते, तथाच सति विजिषीयेत्यत्रैव स्यान्न तूद्विजितेत्यादौ । ततश्चेष्टसिद्ध्यर्थमिडागमो गृह्रते ।तस्य तु ङित्त्वं व्यर्थम्, तन्निमित्तगुणस्याऽप्राप्तेः, अतो लक्षणया इड्वान् गृह्रते । इट् प्रत्ययस्यादिरिति । फलितार्थकथनम् — इडादिप्रत्ययो ङिद्वदिति । एंच इडादिरिति लाभाय यस्यादिरित्यनुवर्तनक्लेशो व्यर्थ एवेत्याहुः । इह ओविजीति तुदादी रुधादिश्च गृह्रते न तुविजिर्पृथग्भावे॑ इति जुहोत्यादिः, व्याख्यानात् । यस्त्वत्र हरदत्तेन जुहोत्यादेरग्रहणे हेतुरुक्तःतस्यानिट्कत्वा॑दिति , तदयुक्तम् । क्रादिनियमनेन लिटि इट्संभवात् । न च तत्र कित्त्वेन गतार्थत्वादिटो ङित्त्वं व्यर्थमिति वाच्यम्, अपिल्लिटः कित्त्वेऽपि विवेजिथेत्यत्र पित्त्वेन ङित्त्वाऽभावात् । वव्रश्चेति । अत्र नव्याः — वव्रश्चे॑त्यादौलिटभ्यासस्ये॑ त्यभ्यासावयवयोद्र्वयोरपि यणोः संप्रसारणप्रसक्तौ पूर्वस्य यणो निषेधायन संप्रसारणे॑इति सूत्रं स्वीक्रियते । ततश्चअत एव ज्ञापकात्परस्य प्रथमं संप्रसारण॑मिति परिकल्प्यआ पादपरिसमाप्तेरङ्गाधिकार॑ इति पक्षमभ्युपगम्य उरदत्वस्याङ्गाक्षिप्तप्रत्ययनिमित्तकत्वस्वीकारात्अचः परस्मि॑न्निति स्थानिवद्भावप्रवृत्या संप्रसारणपरत्वामाश्रित्य वकारस्य संप्रसारणनिषेधः कथंचिदुपपद्यते ।परस्य संप्रसारणं॑,परस्य यणः संप्रसारण॑ मिति वा सूत्रिते तु परस्यैव संप्रसारणं न तु पूर्वस्य यण इत्यर्थलाभादुक्तक्लेशं विनैव वव्रञ्च यून इत्यादि सर्वं सिध्यति । नचैवंलिटि वयो यः॑वेञः॑ इत्यत्र संप्रसारणनिषेधाय नञोऽनुवृत्तिर्न लभ्येतेति वाच्यं,न लिटि वयो यः॑ इति सूत्रकरणे बाधकाऽभावात्,न संप्रसारणे॑इति यथाश्रुतसूत्रप्रणयने त्वन्ततो मात्राद्वयस्याधिक्याच्च । एवं च लघूपायेनेष्टसिद्धौन संप्रसारणे॑ इति सूत्रारम्भो ज्ञापयतिनिमित्तभेदाऽभावेऽपि स्थानिभेदे पुनरपि कार्यं प्रवर्तते॑ इति । तथा चसुद्ध्युपास्य॑ इत्यादौ धकारस्य द्वित्वे कृते पुनरुकारात्परस्य दकारस्यापि द्वित्वमिति प्रक्रियाकारादिव्याख्यानं सूत्रकाराभिप्रेतमेव । यदि स्थानिभेदेऽपि निमित्तैक्ये कार्याऽप्रवृत्तिः क्वचिद्दृश्यते तत्र तुज्ञापकसिद्धं न सर्वत्रे॑ति स दोषः परिह्यियतामित्याहुः । अव्रश्चीदिति । ऊदित्त्वात्पक्षे इट् ।वदव्रजे॑ति वृद्धेःनेटी॑ति निषेधः । अब्राआक्षीदिति ।स्को॑ रिति सलोपः ।व्रश्चे॑ति षः ।षढो॑रिति कः । ततः सस्य षत्वम् । न चाऽत्र सकारस्य कथं लोप इति वाच्यं , धातुपाठे सकारस्य पाठात् । तदाहुः — नकारजावनुस्वारपञ्चौ झलि धातुषु । सकारजः शकारश्चे, र्षाट्टवर्गस्तवर्गजः॑ । इति । व्यच । व्याजीकरणं छद्मकरणम् । पर्युदासेनेति । प्रसज्यप्रतिषेधे हि वाक्यभेदोऽसमर्थसमासश्च प्रसज्येतेति भावः । कृन्मात्रविषयत्वादिति । तेन उद्विचिता उद्विचितुमित्यत्र संप्रसारणं भवति । व्यचिता व्यचिष्यतीत्यादौ तु तिङ्विषये न भवति । विव्याचेत्यत्र कुटादित्वे जातेऽपि न क्षतिः, गाङ्कुटादिभ्यः॑ इति सूत्रेअञ्णितः प्रत्यया ङितः स्यु॑ रित्युक्तत्वात् । उत्तमे णलि तु णित्त्वाऽभावपक्षे ङित्त्वात्संप्रसारणेविव्यचे॑ति न सिध्येदिति — अनसी॑ति पर्युदास आवश्यक इति बोद्ध्यम् ।उझछी उञ्छे उछी विवासे॑ । इमौ भ्वादिगणे व्याख्यातौ ।इह पाठस्तु उञ्छनती, [उञ्छती,उच्छन्ती, उच्छती इ]त्यत्रआच्छीनद्यो॑रिति नुम्विकल्पार्थः । पूर्वं पाठस्तु स्वरार्थः । तथाहि उञ्छति उच्छतीत्यादौ पिद्वचने शप्तिबादीनां पित्त्वादनुदात्तत्व#ए धातुस्वरेणाद्युदात्तं पदम् । शे तु प्रत्ययस्वरेण मध्योदात्तमिति । न चसति शिष्टस्वरेबलीयस्त्वमन्यत्र विकरणेभ्यः॑ इति वक्ष्यमाण्वात्कथमिह मध्योदात्ततेति वाच्यं, कुरुत इत्यादौ तसादेर्विकरणात्परत्वेन तत्स्वरस्योदात्तस्य विकरणस्वरापेक्षया प्रबलत्वेऽपि शस्य धातोः परत्वेन धातुस्वरापेक्षया शस्वरस्योदात्तस्य प्रबलत्वात् । उपलक्षणत्वादिति । अत एवअदुपधस्य चेदश्नोतेरेवे॑ति नियममाश्रित्य द्विहल्ग्रहणं भाष्यकारैः प्रत्याख्यातम् । अन्यथा तन्न सङ्गच्छेतेति भावः । आनच्र्छेति ।अनृच्छ॑ इति पर्युदासान्नाऽऽम् । नव्यास्तुऋच्छत्यृता॑मिति लिटिपरे गुणविधानसामर्थ्यादामभावः सिद्ध इति सर्वैरेव व्याख्यातत्वाद्गणान्तरेऽपि ऋच्छिरस्तीत्यनुमीयते । तद्धातोस्तु लिटआम्निवारणायअनृच्छ॑ इत्येतदावश्यकमित्याहुः । मिच्छ । उत्कटः क्लेश उत्क्लेशः । ऋच स्तुतौ । ऋच्यते स्तूयते देवतादिकमनयेति ऋक् । बाहुलकादिह करणे क्विप् । लोभिता । लोब्धा ।तीषसहे॑ति वेट् । शिशुं न विप्रा इति । न शब्द इवार्थे । विप्राः = ब्राआहृणाः शिशुमिव मतिभी रिहन्ति = हिंसन्ति । न्यूनीकुर्वनतीत्यर्थः । वृती हिंसाग्रन्थनयोः । ईदित्करणंश्वीदितो निष्ठाया॑मितीण्निष#एधार्थम् । यद्यप्यस्य वेट्कत्वान्निष्टायामिण्निषेधः सिध्यति, तथापियस्य विभाषे॑त्यस्याऽनित्यतां ज्ञापयितुमीदित्करणम् । तेनधावितमिभराजधिये॑त्यादि सिद्धमित्याहुः । *शे तृम्फादीनां नुम्वाच्यः । कुर शब्दे । करोतेरेवेति । सुप्रसिद्धत्वात् ।कुर्यादित्युक्तं हि लोकानां कृञ एवोपस्थितिर्भवति न त्वस्येति भावः । मुर संवेष्टने । इगुपधलक्षणः कः । मुरो दैत्यः । मुरारिर्विष्णुः । क्षुर विलेखने । विलेखनं — छेदनम् ।केशान् क्षुरति॑ ।इगुपधे॑ति कः । क्षुरः शस्त्रम् । तिल स्नेहने । तिलति ।इगुपधे॑ति कप्रत्यये तिलः ।तिल गतौ॑ तेलतीति शपि [गतम्] लिख अक्षरविन्यासे ।लिखितुंलिखिष्यती॑ति प्रयोगः प्रामादिकः । यत्तु कैश्चित् -कुटस्यादिः कुटादिः, कुट आदिर्येषां ते कुटादयः, कुटादिश्च कुटादयश्च कुटादय इत्येकशेषं स्वीकृत्यलिखितु॑मित्यादि समर्थितम् । तदसत् ।लेखिता॑लेखिष्यती॑त्यादौ गुणनिषेधापत्तेः । न चेष्टापत्तिः, वृत्तिकारहरदत्तादिग्रन्थविरोधात् ।गाङ्लिखादिभ्यः॑ इत्येव सूत्रितव्येकुटादिभ्य॑इति पठनस्य स्वारस्यभङ्गापत्तेश्च । किं चशकुनिष्वालेखने॑ इतिसौत्रप्रयोगोऽपि विरुध्यत इति प्रागेवोक्तमित्यास्तां तावत् ।लिखापयती॑ति प्रयोगस्तु मनोरमायामित्थं समर्थितः — , आपनमापः = प्राप्तिः, लिखस्यापो लिखापः,तं करोतीति । स्फुट विकसने । स्फुट विकसने । स्फुटत्यर्थोऽस्मादिति स्फोटः । स च पदस्फोटवाक्यस्फोटादिभेदेनानेकविधः । कड मदे । कुटादिकार्याऽभावेऽपि डान्तानुरोधेनाऽयं कुटादौ पठितः । भ्वादौ पठितस्य पुनरत्र पाठः शतरि नुम्विकल्पार्थः । पूर्वंपाठस्तु उच्छतीत्यादाविव कडतीत्यादौ आद्युदात्तार्थः ।

Padamanjari

ओविजी भयचलनयोरिति । यस्तु ऽसृजिविजि विद्ध्यनिट्स्वरान्ऽ इत् विचिः, न स गृह्यते; अनिट्त्वात् । इतरस्तु ईदित्वसामर्थ्यात् सेट्, वृद्धसंज्ञासूत्राद् यस्यादिरिति वर्तते, तेनेड्विशेष्यते-यस्यादिरिडिति । तेनोतमैकवचनस्य ग्रहणं न भवति, न ह्यसौ कस्याचिदादिः । अत एवागममात्रस्यायं ङ्त्विविधिर्न भवति, किं तर्हि ? तदादेः प्रत्ययस्येत्याह - इडादिः प्रत्यय इति । उद्विचितेति । ङ्त्वाल्लिघूपधगुणाभावः ॥

Nyaas

इडादिप्रत्ययः इति। इट आदिर्यस्य तृजादेः स तथोक्तः।अथोत्त्मपुरुषस्यैकवचनस्येटो ग्रहणं कस्मान्न भवति, सार्वधातुकमपित् (1.2.4) इत्यनेनैव तस्य कित्त्वस्य सिद्धत्वात्?नैतदस्ति,यत्र हि तेन न सिद्ध्यति तत्रोत्तमपुरुषस्यैककवचनस्य ङित्त्वविधानार्थमिड्ग्रहणं स्यात्। क्व च तेन न सिद्ध्यति? आर्धुधातुक आशिषि लिङि - उद्विजिषीय इत्यत्र। अतो युक्तं चोत्तमपुरुषस्यैकवचनस्य ग्रहणम् नागमस्य;`अर्थवद्ग्रहणे नानर्थकस्य` (व्या।प।9), प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम् (व्या।प।72) इति परिभाषाद्वयात्। अथापि कथञ्चिदागमस्येटो ग्रहणं स्यात्? एवमपि तन्मात्रस्यैव ङित्त्वं लभ्यते, न तु तदादेः प्रत्ययस्य, तत्किमित्याह - इडादिप्रत्ययो ङिद्भवति ` इति? एवं मन्यते - **वृद्धिर्यस्याचामादिस्तद् वृद्धम्** (1.1.73) इत्यत आदिग्रहणमनुवर्तते, तेन चेड् विशिष्यते। न चोत्तमपुरुषस्यैकवचनस्यादित्वमस्ति, किं तर्हि? आगमस्यैव; तस्मात् स एव गृह्रते। तस्य च केवलस्यादिभूतस्य ङित्वे प्रयोजनं नास्तीति सामर्थ्यादिडादेः प्रत्ययस्य ङित्त्वं विज्ञायत इति। `उद्विजिता इति। ङित्त्वात् पुगन्तलघुपधस्य (7.3.86) इति गुणो न भवति।

Prakriyasarvasvam

विजेरिडादिः प्रत्ययो ङित् स्यात् । उद्विजिता । इडभावे तु उद्वेजनीयम् ।

Sutra Prayogas

  • नाऽयमुद्विजितुं (भट्टिकाव्यम्): विजः- इति ङित्त्वम्।