12001: गाङ्कुटादिभ्योऽञ्णिन्ङित्¶
Padacheda: गाङ्-कुट्-आदिभ्यः | S | 5 | 3 |
अ-ञ्णित् | S | 1 | 1 |
ङित् | S | 1 | 1 |
Sutrartha¶
Sutrartha (English)¶
The non-ञित् and non-णित् प्रत्ययाः attached to the - (1) the ‘गाङ्’ आदेश (that happens to the धातु ‘इङ् अध्ययने’), and (2) the verbs of the कुटादिगण (an अन्तर्गण of तुदादिगण) - behave as if they are ङित्.
Vasu English Summary¶
All affixes after the verb गाङ् ‘to study’ and the verb कुट् ‘to be crooked’ and the rest, are as if they had an indicatory ङ् (ङित्), except those affixes which have an indicatory ञ् (ञित्) or ण् (णित्).
Vasu English Translation¶
All affixes after the verb गाङ् ‘to study’ and the verb कुट् ‘to be crooked’ and the rest, are as if they had an indicatory ङ् (ङित्), except those affixes which have an indicatory ञ् (ञित्) or ण् (णित्). All affixes after the verb गाङ् ‘to study’ and the verb कुट् ‘to be crooked’ and the rest, are as if they had an indicatory ङ् (ङित्), except those affixes which have an indicatory ञ् (ञित्) or ण् (णित्). This is an atidesa sutra, and makes certain affixes, though not having an indicatory ङ्, to produce the same effect as if they were really ङित्.
The root गाङ् is substituted for the verb इङ् in certain tenses, in which the verb इङ् is defective (2.4.49). The कुटादि verbs are roots belonging to the Tudadi class of verbs, and they are forty roots beginning with कुट् ‘to be crooked’ and ending with कुङ् ‘to groan.’
After these roots all affixes are treated as if they were marked with a ङ् with the exception of those affixes which are ञित् or णित्.
Thus from गाङ् we have in the aorist the form अध्यगीष्ट; which is thus evolved. अधि + अद् + इङ् + सिच् + त = अध्य + गा + स् + त (2.4.50) = अध्य + गी + स्त (6.4.66) = अध्यगीष्ट ‘he studied,’ अध्यगीषातां ‘they two studied’; अध्यगीषत ‘they studied.’ Here by (6.4.66), the आ is changed into ई before the affix सिच्, which is regarded as ङित्.
Similarly, after the verbs कुट् &c., all affixes are treated as ङित्, with the exceptions already mentioned.
Thus कुट् + तृच् (3.1.133) = कुट् + इट् + तृच् (7.2.35) = कुटितृ, nominative singular कुटिता ‘who acts crookedly.’ Here the affix तृच् being, regarded as ङित् does not cause the guna substitution of the उ of कुट्, by (1.1.15).
Similarly with the affixes तुमुन् and तव्यम्, we have कुटितुम् and कुटितव्यम्. So on with all the forty roots of kutadi class : e.g. उत्पुटिता, उत्पुटितुम्, उत्पुटितव्यम्.
But the affixes marked with ञ् or ण् will not be so treated. Thus णिच् by which causatives are formed, is such an affix; e.g. उत्कुट् + णिच् + शप् + तिप् = उत्कोट् + इ + अ + ति = उत्कोटयति. Here there is guna of the उ of कुट्. So also before the affix णल् of the perfect tense, we have उच्चुकोट, and before the affix ण्वुल् we have उत्कोटकः ।
Vartika:- The root व्यच् ‘to deceive,’ is also treated like kutadi verbs, except before the affix अस्. As विचिता ‘he shall deceive,’ विचितुम् ‘for the purpose of deceiving’ विचितव्यम् &c. Here there is samprasarana before the nit terminations ता, तुम् and तव्यम् and the य of व्यच् is changed into इ by rule (6.1.16).
But the affix अस् is not nit and consequently there is no samprasarana before it. Thus उरुव्यचाः ‘an imp.’
Bhashya¶
गाङ्कुटादिभ्योऽञ्ञ्णिन्ङित् ॥ अतिदेशत्वनिर्णयाधिकरणम् ॥ - ङित्किद्वचने तयोरभावादप्रसिद्धिः - ङित्किद्वचने तयोरभावात्- ङकारककारयोरभावात्- ङित्त्वकित्त्वयोरप्रसिद्धिः। सता ह्यभिसम्बन्धः शक्यते कर्तुम्। न चाऽत्र ङकारककारावितौ पश्यामः। तद्यथा- चित्रगुर्देवदत्तः इति; यस्य ता गावो भवन्ति स एव ताभिः शक्यतेऽभिसम्बन्धुम्। भाव्येते तर्ह्यनेन- गाङ्कुटादिभ्योऽञ्ञ्णिन्ङिद्भवतीति। असंयोगाल्लिट् किद्भवतीति। - भवतीति चेदादेशप्रतिषेधः - भवतीति चेदादेशस्य प्रतिषेधो वक्तव्यः। ङकारककारावितावादेशौ प्राप्नुतः। कथं पुनरित्सञ्ञ्ज्ञो नामादेशः स्यात्? किं हि वचनान्न भवति? एवं तर्हि षष्ठीनिर्दिष्टस्यादेशा उच्यन्ते, न चात्र षष्ठीं पश्यामः। गाङ्कुटादिभ्यः इत्येषा पञ्चमी अञ्ञ्णत् इति प्रथमायाः षष्ठीं प्रकल्पयिष्यति- तस्मादित्युत्तरस्य (1.1.67) इति। सञ्ज्ञाकरणं तर्हीदम्- गाङ्कुटादिभ्योऽञ्ञ्णित् ङित्सञ्ञ्ज्ञो भवतीति। असंयोगाल्लिटि्कत्सञ्ञ्ज्ञो भवतीति। - सञ्ज्ञाकरणे क्ङिद्ग्रहणेऽसम्प्रत्ययः शब्दभेदात् - सञ्ज्ञाकरणे क्ङिद्ग्रहणेऽसम्प्रत्ययः स्यात्। किं कारणम्? शब्दभेदात्। अन्यो हि शब्दः क्ङितीति अन्यः कितीति ङितीति च। तथा किद्ग्रहणेषु ङिद्ग्रहणेषु चानयोरेव सम्प्रत्ययः स्यात्। तद्वदतिदेशस्तर्ह्ययम्-गाङ्कुटादिभ्यः अञ्ञ्णित् ङिद्वद्भवतीति। असंयोगाल्लिटि्कद्वद्भवतीति। स तर्हि वतिनिर्देशः कर्तव्यः। न कर्तव्यः। नह्यन्तरेण वतिमतिदेशो गम्यते? अन्तरेणापि वतिमतिदेशो गम्यते। तद्यथा- एष ब्रह्मदत्तः। अब्रह्मदत्तं ब्रह्मदत्त इत्याह। ते मन्यामहे- ब्रह्मदत्तवदयं भवतीति। एवमिहाप्यङितं ङिदित्याह, ङिद्वदिति गम्यते। अकितं किदित्याह, किद्वदिति गम्यते। - तद्वदतिदेशेऽकिद्विधिप्रसङ्गः - तद्वदतिदेशेऽकिद्विधिरपि प्राप्नोति। सृजिदृशोर्झल्यमकिति (6.1.58) सिसृक्षति दिदृक्षते, अकिल्लक्षणोऽमागमः प्राप्नोति। - सिद्धं तु प्रसज्यप्रतिषेधात् - सिद्धमेतत्। कथम्? प्रसज्यप्रतिषेधात्, प्रसज्यायं प्रतिषेधः क्रियते- किति न इति। - सर्वत्र सन्नन्तादात्मनेपदप्रतिषेधः - सर्वेषु पक्षेषु सन्नन्तादात्मनेपदं प्राप्नोति उच्चुकुटिषति, निचुकुटिषति- ङितः इत्यात्मनेपदं प्राप्नोति। तस्य प्रतिषेधो वक्तव्यः। - सिद्धन्तु पूर्वस्य कार्यातिदेशात् - सिद्धमेतत्। कथम्? पूर्वस्य यत्कार्यं तदतिदिश्यते। किं वक्तव्यमेतत्? नहि। कथमनुच्यमानं गंस्यते? सप्तम्यर्थेऽपि वतिर्भवति। तद्यथा- मथुरायामिव मथुरावत् पाटलिपुत्र इव पाटलिपुत्रवत्। एवं ङितीव ङिद्वत्, कितीव किद्वत्। ॥ पृथगनुबन्धप्रयोजनाधिकरणम् ॥ अथ किमर्थं पृथङ्ङित्कितौ क्रियेते, न सर्वं किदेव स्यात्, ङिदेव वा। - पृथगनुबन्धत्वे प्रयोजनं वचिस्वपियजादीनामसम्प्रसारणं सार्वधातुकचङादिषु - पृथगनुबन्धत्वे प्रयोजनं वचिस्वपियजादीनामसम्प्रसारणं सार्वधातुके चङादिषु च। सार्वधातुके प्रयोजनम्- यथेह भवति सुप्तः सुप्तवानिति, एवं स्वपितः स्वपिथः इत्यत्रापि प्राप्नोति। चङादिषु च प्रयोजनम्। के पुनश्चङादयः? चङ्ङङ्नजिङ्ङ्वनिबथङ्नङः। चङ्- यथेह भवति शूनः शूनवान् इति, एवमशिश्वियत् अत्रापि प्राप्नोति। अङ्- यथेह भवति शून उक्त इति, एवमश्वद् अवोचद् अत्रापि प्राप्नोति। नजिङ्- यथेह भवति सुप्तः सुप्तवान् इति, एवं स्वप्नग् इत्यत्रापि प्राप्नोति। ङ्वनिप्- यथेह भवति इष्टमिष्टवानिति, एवं यज्वा अत्रापि प्राप्नोति। अथङ्- यथेह भवत्युषित इति, एवमावसथः अत्रापि प्राप्नोति। नङ्- यथेह भवति इष्टमिति, एवं यज्ञः अत्रापि प्राप्नोति। - जाग्रोगुणविधिः - जागर्तेरगुणविधिः प्रयोजनम्। यथेह भवति- जागृतः जागृथ इत्यङितीति पर्युदासः। एवं जागरितः जागरितवानित्यत्रापि प्राप्नोति। अपर आह- जाग्रो गुणविधिः। जगार्तेर्गुणविधिः प्रयोजनम्। यथेह भवति- जागरितः जागरितवानिति। एवं जागृतः जागृथ इत्यत्रापि प्राप्नोति। - कुटादीनामिट्प्रतिषेधः - कुटादीनामिट्प्रतिषेधः प्रयोजनम्। यथेह भवति- लूत्वा, धूत्वा इति श्र्युकः किति (7.2.11) इतीट्प्रतिषेधः, एवं नुविता धुविता अत्रापि प्राप्नोति। - क्त्वायां कित्प्रतिषेधश्च - क्त्वायां कित्प्रतिषेधश्च प्रयोजनम्। किं च? इट्प्रतिषेधः?। नेत्याह। अदेशेऽयं चः पठितः- क्त्वायां च कित्प्रतिषेधः इति। यथेह भवति- देवित्वा सेवित्वेति न क्त्वा सेट् (1.2.8) इति कित्त्वप्रतिषेधः। एवं कुटित्वा पुटित्वा अत्रापि प्राप्नोति। अथवा देश एवायं चः पठितः- क्त्वायां कित्प्रतिषेधश्चेट्प्रतिषेधश्च। कित्प्रतिषेध उदाहृतम्। इट्प्रतिषेधो यथेह भवति लुत्वा धूत्वा श्र्युकः किति इतीट्प्रतिषेधः, एवं नुवित्वा धुवित्वा अत्रापि प्राप्नोति। स्यादेतत्प्रयोजनं यद्यस्य नियोगत आतिदेशिकेन ङित्त्वेनौपदेशिकं कित्त्वं बाध्येत। सत्यपि तु ङित्त्वे किदेवैषः। तस्मान्नूत्वा धूत्वेत्येव भवितव्यम् ॥ गाङ्कुटादिभ्योऽञ्ञ्णिन्ङित् ॥ 1 ॥
Kashika¶
अतिदेशोऽयम्। गाङिति इङादेशो गृह्यते, न गाङ् गतौ इति,ङकारस्यानन्यार्थत्वात्। कुटादयोऽपि कुट कौटिल्ये इत्येतदारभ्य यावत् कुङ् शब्दे इति। एभ्यो गाङ्कुटादिभ्यः परेऽञ्णितः प्रत्यया ङितो भवन्ति, ङिद्वद् भवन्तीत्यर्थः। गाङ ः — अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत। कुटादिभ्यः — उत्कुटिता। उत्कुटितुम्। उत्कुटितव्यम्। उत्पुटिता। उत्पुटितुम्। उत्पुटितव्यम्। अञ्णिदिति किम्? उत्कोटयति। उच्चुकोट। उत्कोटकः। उत्कोटो वर्तते॥ व्यचेः कुटादित्वमनसीति वक्तव्यम्॥ विचिता। विचितुम्। विचितव्यम्। अनसीति किम्? उरुव्यचाः॥
Siddhanta Kaumudi¶
गाङादेशात्कुटादिभ्यश्च परेऽञ्णितः प्रत्यया ङितः स्युः ॥
Laghu Siddhanta Kaumudi¶
गाङादेशात्कुटादिभ्यश्च परेऽञ्णितः प्रत्यया ङितः स्युः॥
Balamanorama¶
गाङ्कुटादिभ्योऽञ्णिन्ङित् - गाङ्कुटादिभ्यो । ञ् च ण्च ञ्णौ,तौ इतौ यस्य स ञ्णित्,स न भवतीत्यञ्णित् । गाङ् च कुटादयश्चेति द्वन्द्वात्पञ्चमी । गाङिति ङकारानुबन्धात्इणो गा लुङी॑त्यस्य न ग्रहणमित्युक्तम् । नापि ‘गाङ्गतौ’ इत्यस्याऽत्र ग्रहणं, तत्र ङकारस्यात्मनेपदप्रापणेन चरितार्थत्वात् । इङादेशस्य गाङो ङकारो नात्मनेपदप्रापणेन चरितार्थः, स्थानिवत्त्वेनैव तत्सिद्धेः । तदाह — गाङादेशादिति । एवं च सिचो ङित्त्वे आह —
Tattvabodhini¶
गाङ्कुटादिभ्योऽञ्णिन्ङित् - गाङ्कुटादिभ्यो । इह गाङ्गतावित्यस्य न ग्रहणम्, तङर्थतया ङकारानुबन्धस्य तत्र चरितार्थत्वात् । आदेशङकारस्तु अचरितार्थः । स्थानिवद्भावेनैव तङः सिद्धत्वादत आह — — गाङादेशादिति । कुटादिस्तुदाद्यन्तर्गणः । केचित्तु कुट आदिर्येषां ते कुटादयः । कुटस्य आदिः कुटादिः, कुटादिश्च कुटादयश्च कुटादय इति समासद्वयमाश्रित्य कुटपूर्वस्य लिखधातोरपि ग्रहमाल्लिखनमिति प्रयोगः सिद्ध इत्याहुः । तच्चरलो व्युपधा॑दिति सूत्रस्थेनलिखित्वा, लखित्वा लिलिखिषति लिलेखिषती॑ति वृत्तिग्रन्थेन,शकुनिष्वालेखने॑ इति सौत्र प्रयोगेण च विरुध्यते । अञ्णिदिति किम् । घञि — कोटः । पोटः । णलि चुकोट । पुपोट ।
Padamanjari¶
कुट आदिर्येषामिति बहुव्रीहावन्तर्वर्तिन्या विभक्त्या पदत्वेऽपि जश्त्वं न भवति; अनुक्रियमाणरूपविनाशप्रसङ्गात् । अथ वा ऽकुट कौटिल्येऽ इति धातुपाठे योऽकारस्तेन सह सानुबन्धानुकरणं द्रष्टव्यम् । अत्र चत्वारः पक्षाः सम्भवन्ति-इत्संज्ञकेन ङ्कारेण सह सम्बन्धप्रतिपादनम्, ङितो वा इविधिः, संज्ञाकरणम्, तद्वदतिदेशो वेति । तत्राद्ये पक्षे गाङ्कुटादिभ्यः परोऽञ्णितप्रत्ययो इङ्द् उइत्संज्ञकङ्कारयुक्तः, इत्संज्ञको ङ्कारस्तस्यास्तीत्यर्थः । अत्र येषामस्ति ङ्कारो यङदीनां तेषु व्यर्थोऽनुवादः, येषां नास्ति तव्यादीनां तेषु मिथ्योद्यमित्युपक्रिममात्रमयं पक्षः । अथ द्वितीयः ? ऽगाङ्कुटादिभ्यःऽ इति पञ्चम्या ऽअञ्णित्ऽ इति प्रथमायाः षष्ठ।लं प्रकल्पितायां ङिदादेशः प्राप्नोति । अत्र प्रथमाया न च वैयर्थ्यम्, लाघवार्थंत्वात् । तत्र ङिदिति कर्मधारये, असमासे वा ऽआदेः परस्यऽ इति तव्यादीनामादेण्Çóकारः प्राप्नोति, कथं पुनरित्संज्ञको नामादेशः स्यात् स्वयं निवृत्यभिमुखः ? को दोषः ? स्थानिनं निवर्त्य निवर्तिष्यते ! स्यादेतत्-इद्ग्रहणसामर्थ्यादादेशो न भविष्यति, आदेशत्वे हि ऽलशक्वतद्धितेऽ इत्येव सिद्धेत्संज्ञेत्यागमो ङ्कारो विधास्यत इति, तन्न; अनेनेत्संज्ञा यथा स्यात् तेन मा भूदित्येवमर्थमिद्ग्रहणं स्यात् । कः पुनरत्र विशेषस्तेन वा सत्यामनेन वा ? अयमस्ति विशेषः-तेन सत्यां लोपः स्यात्, अनेन पुनर्नं । तस्येति प्रकृतपरामर्शात् तस्यैतस्य प्रकृतस्येत्संज्ञकस्येति । एवं च श्रूयमाण एव ङ्कारे ङ्त्कार्याइणि भवन्ति । तत्र ऽनेड्वशि कृतिऽ इत्यत्र वरमनादौ कृतीति यदि परिगणनम्, तदात्र प्रतिषेधाभावात् कुटिङ कुटिङ्मिति प्राप्नोति । अथ तु सम्भवोदाहरणप्रदर्शनम्, तदात्रापि प्रतिषेधात् कुट्ङ कुट्ङ्मिति प्राप्नोति । बहुव्रीहौ तु येऽमी प्रसिद्धा ङ्तिश्च ङदयस्य एव तृजादीनामादेशाः स्युः । न चान्तर्यतो व्यवस्था, यत्र खल्वन्तरतमस्यानन्तरतमस्य च प्रसङ्गस्तत्रान्तरतमपरिभाषा । न चात्रान्तरतमानां तव्यङदीनां प्राप्तिः; लोके शास्त्रे वा तेषामप्रसिद्धेः । न चान्तरतमपरिभाषैव तान् कल्पयितुमर्हति; नियामकत्वातस्याः । सन्तु वा तव्याङ्दयः, तेऽपि त्वादेशा भवन्तः ऽडिच्चऽ इत्यन्त्यस्यैव स्युः । ननु च नात्र श्रौतः स्थान्यादेशभावः, किं तर्हि ? गाङ्कुटादिभ्यः परोऽञ्णित्प्रत्ययो इङ्द् इत्संज्ञकङ्कारयुक्त इति सिद्धानुवादमात्राक्षरव्यापारः । स तु सिद्धानुवादौ विधानमन्तरेण नोपपद्यते इति ङ्कारस्येत्संज्ञकस्य विधिः कल्प्यते । किमतः ? यद्येवम्, इदं ततो भवति विधिवाक्यस्याश्रुतत्वात् क्व परिभाषाङ्गतामुपेयात् - ऽषष्ठी स्थानेयोगाऽ इति वा, ऽआदेः परस्यऽ इति वा, ऽडिच्चऽ इति वा ? नैतदस्ति, यस्मात् षष्ठीप्रकल्पेनेन श्रौत एव स्थान्यादेशभाव उपपादितः । अस्तु वा कल्पितविधानम्, य एव त्वसौ विधिः कल्प्यते, तत्रैव परिभाषाङ्गभावमुपैति; विध्यङ्गत्वात्परिभाषाणाम् । परिभाषाः खलु विधेरङ्गभूता अनुवादवाक्यश्रुतार्थान्यथानुपपत्या विधिवाक्यमेव कल्पन्ते इति सर्वथा दुष्ट एवायं पक्षः । संज्ञाकरणे ऽक्ङिति चऽ इत्यत्रास्य ग्रहणं न स्यात्; संज्ञारूपस्यानुच्चारितत्वात् । ङ्च्छिब्दः संज्ञा, डिच्छब्दश्चोच्चारितः प्रत्येकसम्बन्धमपीद्ग्रहणं किद् यस्येत्येतावदेव सम्पादयेत् । न बान्वर्थाऽवयवद्वययुक्ता संज्ञेति प्रत्यभिज्ञाभावात् क्ङ्त्प्रिदेशेष्वस्य ग्रहणं न स्यादेव । तथा केवले ङ्च्छिब्द उच्चारिते तस्यैव ग्रहणं स्याद्, नयङदीनाम्; कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययात् । ततश्च ग्रहिज्यादिसम्प्रसारणं गृह्णातीत्यादावेन स्याद्, न जरीगृह्यतेत इत्यादौ । न च यङदीनां ङ्त्कारिणस्य वैयर्थ्यम्; क्ङ्त्प्रिदेशेषु यत्र संज्ञारूपं न प्रत्यभिज्ञायते तत्र ग्रहणार्थत्वात् । ननु चैवं गाह्कुटादिभ्यः परस्य ङ्त्सिंज्ञाविधानमनर्थकमापद्यते, कथम् ? क्ङ्तिप्रदेशेष्वस्य ग्रहणं नास्तीत्युक्तमेव । केवलश्च हिच्छब्दो ग्रहिज्यादिसूत्र एव, न च तत्र गाङ् गृह्यते, नापि सर्वे कुटादयः, किं तु व्यतिरेक एव सत्यम्; न्यायागतेऽर्थे किं कुर्मः ! त्यज्यतामयं पक्षः । तदेवमेतेषां पक्षाणां दुष्टत्वात् चतुर्थं पक्षमाश्रित्याह-अतिदेशोऽयमिति । इङदेशो गृह्यते इति । ऽइङ्श्चऽऽगाङ् लिटिऽ ऽविभाषा लुङ्लृङेःऽ इति विहितः । ङ्कारस्यानन्यार्थत्वादिति । इङदेशस्य हि यो ङ्कारस्तस्यैतदेव प्रयोजनम् - इह तस्यैव ग्रहणं यथा स्यादिति । अथ सामान्यग्रहणं कस्मान्न भवति ? असमानत्वादादेशस्य । ङ्कारोऽन्यार्थः; आत्मनेपदस्य स्थानिवद्भावेनैव सिद्धत्वात्, धातोस्तुचरितार्थः । यद्येवम्, आब्ग्रहणे चाप एव ग्रहणं प्राप्नोति, पकारस्यानन्यार्थत्वात्,न; एवं हि चापोऽनुबन्धावनर्थकौ स्याताम्, टापश्च टकारः । अतो यच्च यावच्च समानं सम्भवति चरितार्थपित्वमचरितार्थपित्वमपि तत्सर्वमाश्रीयते, न चाब्रूपमेवयावत् । कुङ्शब्द इति । तदनन्तरं वृत्करणाद् ऽआकूतम्ऽ इति प्रयोगदर्शनात् ऽकूङ् दीर्घान्तो द्भवतीत्यर्थःऽ इत्यन्तरेणापि वतिं वत्यर्थो गम्यते, यथा-सिंहो माणवक इति । यद्ययमतिदेशः, ऽअसंयोगाल्लिट् किद्ऽ इति प्रकरणेऽपि कित्कार्यातिदेशोऽङ्गीकर्तव्यः, ततश्च सिसृक्षतीत्यत्र सत्यपि ऽहलन्ताच्चऽ इति सनः कित्वातिदेशे स्वाश्रयमकित्वमाश्रित्य ऽसृजिदृशोःऽ इत्यमागमः प्राप्नोति । अतिदेशेन पराश्रयं कार्यं प्राप्यते, न तु स्वाश्रयं निवर्त्यते । सिद्धं तु प्रसज्यप्रतिषेधात् किति न भवतीति । ततश्च स्वाश्रयस्य कार्यस्याभावादातिदेशिककित्वाश्रयः प्रतिषेधो भविष्यति । इह तर्हि उच्चुकुटिषति-ऽङ्तिःऽ इत्यात्मनेपदं प्राप्नोति ? इङितो धातोरात्मनेपदमुच्यते, इह चातिदेशेन सन एव ङ्त्विम्, न धातोः । यत्रावयवे लिङ्गमचरितार्थं तत्र समुदायस्य विशेषकं भवति; इह त्ववयव एव गुणप्रतिषेधादिकं ङ्त्विस्य प्रयोजनमस्ति । यङ्न्तादपि तर्हि न प्राप्नोति, तस्मान्नैवं शक्यं विज्ञातुम् - इङितो धातोरिति, ततश्चैकं सनमेव ङ्तिमाश्रित्यात्मनेपदं प्राप्नोति ? नैष दोषः, सप्तमीसमर्थाद्वतिः-ङ्तीवि त् । ननु च नात्र वतिर्निर्दिश्यते, सत्यम्; परत्र परशब्दप्रयोगात् कल्प्यमानो वतिर्व्याख्यानात् सप्तम्यन्तादाश्रीयते । एवमपि प्रतियोगिनि सप्तमी प्राप्नोति-अञ्णितीति ? एवं तर्हि ऽअनुदातङ्तिःऽ इत्यत्र ऽउपदेशेऽ इति वर्तते, उपदेशे यो ङ्त्, तित आत्मनेपदं भवति । अध्यगीषतेति । ऽविभाषा लुङ्लृङेऽ इति गाङदेशः,ऽआत्मनेपदेष्वनतःऽ घुमास्थादिसूत्रेणेत्वम् । व्यचेरित्यादि । ऽव्यच व्याजीकरणेऽ तुदादौ कुटादिभ्यः प्राक् पठ।ल्ते । उद्विचितेति । ग्रहिज्यादिना सम्प्रसारणम् । उरुव्यचा इति बहुव्रीहिः । कथं विव्यचिथ ? ऽअनसिऽ इति पर्युदासोऽयमसुन्प्रत्ययस्य कृत्वा तत्सदृशो कृति कार्यं विज्ञायते । कथं लिखितुम्, स्वयमेव लिखिष्यते, यावता कुटेः पूर्वं लिखिः पठ।ल्ते ? कश्चिदाह-’ कुटस्यादिः, कुट आदिर्येषां ते कुटादयः, कुटादिश्श्च कुटादयश्चेति बहूव्रीहितत्पुरुषयोः सहविवक्षायाम् ऽस्वरभिन्नानां यस्योतरस्वरविधिः स शिष्यतेऽ इति बहुव्रीहेः शेषः । तत्र तत्पुरुषवृतया संगृहीतो लिखिरपि ङ्त्विस्य निमितम्’ इति । एवं तु लिखित्वा, लेखित्वा; लिलिखिषति, लिलेखिषति; ऽशकुनिष्वालेखनेऽ इत्यनुपपन्नं स्यात् । तस्माद्यद्यवश्यमुपपादनीयम् - ऽसंज्ञापूर्वको विधिरनित्यःऽ इति गुणो न भविष्यति । ऽधू विधूननेऽ, कुटादिः, तस्य ऽअर्तिलूधूसूखनसहचर इत्रःऽ इतीत्रप्रत्यये गुणो न प्राप्नोति । नात्र गुण इष्यते, धुवित्रमित्येव भवति, कल्पसूत्रकाराणां तु प्रयोगाश्छान्दसत्वादुपपादनीयाः । अथ वा -ऽभञ्जभासमिदो घुरच्ऽऽविदिभिदिच्छिदेर्ङ्द्ऽ ईति वक्तव्ये प्रत्ययान्तरकरणं ज्ञापकम् - आतिदेशिकं ङ्त्विमनित्यमिति ॥
Nyaas¶
अत्र पक्षत्रयं सम्भाव्यते - इत्संज्ञको वा ङकारोऽनेन भाव्यते,गाङकुटादिभ्यः परे येऽञ्णितः प्रत्ययास्ते ङितो भवन्ति, इत्संज्ञको ङकार एषां सम्बन्धी भवतीति यावत्; एवं हि ते ङितो भवन्ति यदि हि तेषां ङकारोऽनुबन्धो विधीयते, नान्यथा; न हि विना चित्रगवीभिर्देवदत्तश्चित्रगुर्भवति। ङिदितीयं वा संज्ञाऽनेन क्रियते, गाङकुटादिभ्यः परे येऽञ्णितः प्रत्ययास्ते ङितो भवन्ति, ङित्संज्ञका भवन्तीति यावत्। अतिदेशोऽयं वा स्यात्, गाङकुटादिभ्यः परे येऽञ्णितः प्रत्ययास्ते ङितो भवन्ति, ङिद्वद्भवन्तीत्यर्थः। तत्राद्ये पक्षे गाङकुटादिभ्यः इत्यनया पञ्चम्याऽञ्णिदित्यस्याः प्रथमायाः षष्ठआं परिकल्पितायां सत्याम्। आदेः परस्य (1.1.54) इति वचनादादेरलः स्थान आदेश एव ङकारः प्राप्नोति। द्वितीये तु पक्षे अनिदितां हल उपधायः क्ङिति ` इत्यत्र संज्ञिनः संप्रत्ययो न स्यात्;शब्दभेदात्। अन्योहि ङिच्छब्दः, अन्यो हि क्ङिशब्दः।किञ्च, `ङिद्ग्रहणे ग्रह्रादौ (6.1.16) सूत्र एषामेव संज्ञिनां ग्रहणंप्राप्नोति, न यङादीनाम् कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययः (व्या।प।6) इति वचनात्। अथापि कथञ्चिदेते दोषाः परिहर्तुं शक्येरन्, आद्ययोः पक्षयोर्यस्तुतत्परिहारद्वारेण प्रवृत्तौ साध्यायां प्रतिपत्तिगौरवदोष आपद्यते सोऽपरिहार्य एव। तृतीये तु पक्षे न कश्चिद् दोष इति मत्वा तमेवाश्रित्याह - अतिदेशोऽयम्िति।यद्येवम्, वतिना निर्देशः कर्तव्यः, अन्यथा तदर्थो नावगम्येत; नैतदेवम्, परपदार्थेषुहि प्रयुज्यमानाः शब्दावतिमन्तरेणापि वत्यर्थ गमयन्ति, यथा - सिंहो माणवकः,गौर्वाहीकः। गाङितीङादेशो गृह्रते - `इङश्च (2.4.48) , गाङ लिटि (2.4.49) , विभाषा लुङ लृङो` (2.4.50) इति। गाङादेशो य इङः स्थाने वक्ष्यते तस्येदं ग्रहणम्, न गाङ गतौ (धातुपाठः-950) इत्यस्य। अथ गाङ गतौ (धा।प।950) इत्यस्य धातोग्र्रहणं कस्मान्न भवतीत्याह - ङकारस्य इत्यादि।इङादेशस्य यो ङकारस्तस्येदं प्रयोजनम् - इह सूत्रे तस्यैव ग्रहणं यथा स्यान्नान्यत् किञ्चिदात्नेपदार्थ स्यादिति चेत्? न; आत्मनेपदस्य स्थानमिवद्भावेनैव सिद्धत्वात्। तस्मादिङादेश एव गृह्रते; अन्यथा ङकारस्य वैयथ्र्यं स्यात्। ननु चोभयोरपि सामान्यग्रहणार्थो ङकारः स्यात्, तत् कुतो वैयर्थ्यम्नैतदस्त; यदि हि तौ समानौ स्यातां तदा सामान्यग्रहणार्थता तस्य, न च तौ समानौ; गत्यर्थस्य गाङो ङकारस्यात्मनेपदविधौ चिरार्थत्वात्। इतरस्य तु न क्विच्चरितार्थता। तस्मादसमानार्थत्वादयुक्तं सामान्यग्रहणमिति गाङादेश गृह्रते। किमर्थं पुनरिह उच्चार्यते, न गा इत्येवोच्येत? चैवं शक्यम्; एवं हि सति निरनुबन्धकग्रहणे न सानुबन्धकस्य` (व्या।प।53) इति कै गै शब्दे (धातुपाठः- 916-917) इत्यस्यैव ग्रहणं स्यात्। कुटादयो हि कुट कौटिल्ये (धातुपाठः-1366) इत्यत आरभ्य कुङ शब्दे (धातुपाठः-1401) इति यावदिति। तदनन्तरं वृत्करणात् ततोऽधिकानां कुटादित्वानुपपत्तेः।अध्यगीष्ट इति। सिचो ङित्त्वे घुमास्थागादि (6.4.66) सूत्रेणेत्त्वम्। अत्र हि दीङो युडचि क्ङिति (6.4.63) इत्यतः क्ङितीत्यनुवर्तते, ईद् यति (6.4.5) इत्यत ईदिति च। अध्यगीषत इति। आत्मनेपदेष्वनतः (7.1.5) इत्यदादेशः। अथ लिटि यो गाङादेशस्तस्य कस्मादुदाहरणं न प्रदर्शितम्? एवं मन्यते - लुङ एवायम्, नासाविह लिड्ग्रहणं प्रयोजयति; अंसयोगाल्लिट् कित् (1.2.5) इति वक्ष्यमाणेनैव सिद्धत्वात्। उत्कुटिता इति। कुट कौटिल्ये (धातुपाठः-1366)। उत्पुटिता इति। पुट संश्लेषणे`(धातुपाठः-1367)। अथेहोच्चुकुटितषतीति सनो ङित्त्वादात्मनेपदं कस्मान्न भवति? उपदेशाधिकारात्। तत्र हि `उपदेशेऽजनुनासिकः (1.3.2) इत्यत उपदेशग्रहणमनुवर्तते। न चात्रौपदेशिकं ङित्त्वम्, किं तर्हि? आतिदेशिकम्। व्यचेः इत्यादि। व्यच व्याजीकरणे`(धातुपाठः-1293) इति तुदादौ कुटादिभ्यःप्राक् पठते। `विचिता इति। ङित्त्वादिह ग्रह्रादिसूत्रेण (6.1.6) संप्रासरणम्। उरुव्यचाः इति। सर्वधातुभ्योऽसुन् (द।उ।9।49) इत्यसुन्प्रत्ययः। अत्वसन्तस्य चाधातोः (6.4.14) इति दीर्घः।
Prakriyasarvasvam¶
इङादेशाद् गाङः कुटादिभ्यश्च परो ञ्णिद्वर्जितः प्रत्ययो ङित् स्यात् । इति तृचो ङित्त्वाद् गुणाभावः । कुटिता । पुटिता । ञ्णिणितोस्त्वङित्त्वाद् गुणः । घञ् । उत्कोटः । ण्वुल् । उत्कोटकः । ‘व्यच व्याजीकरणे’ । व्यच् इ तृ । ‘व्यचेः कुटादित्वमनसीति वक्तव्यम् (वा० १-२-१) । तेन ‘ग्रहिज्या-’ (६-१-१६) इति सम्प्रसारणम् । विचिता व्याचकृत् । औणादिकासुनि त्वङित्त्वात् सम्प्रसारणा- भावः । उरुव्यचाः । <karika>लिखेः कुटादिकार्येण लिखितेत्यादि केचन । हराद्या लेखितेत्याहुर्वर्धमानो द्वयं जगौ ॥ ७४ ॥</karika>
Vartika¶
व्यचेः कुटादित्वमनसीति वक्तव्यम् ।
Sutra Prayogas¶
नाध्यगीढ्वं (भट्टिकाव्यम्): गाङ्कुटादिभ्यः इति सिचो ङित्त्वम्।