12003: विभाषोर्णोः

Padacheda: विभाषा | S | 1 | 1 |

ऊर्णोः | S | 5 | 1 |

Sutrartha


Vasu English Summary

After the verb ऊर्ण ‘to cover’, the affix beginning with the augment इट् is regarded optionally like ङित्।

Vasu English Translation

After the verb ऊर्ण ‘to cover’, the affix beginning with the augment इट् is regarded optionally like ङित्। Thus before the इडादि termination इता of the future, we may have either प्रोर्णुविता or प्रोर्णविता “he will cover.”

The equation of the form is :- प्र + ऊर्णु + इ + ता = प्र + ऊर्णुव् + इता (6.4.77) = प्रोर्णुविता. When the affix is not regarded as ङित्, it produces guna, and we have the second form प्रोर्णविता ॥

Of course there is no option allowed before those affixes which do not take the augment इट्, and before those terminations, consequently, we have only one form : as प्रोर्णु + ल्युट् = प्रोर्णो + अनम् = प्रोर्णवनम्, ‘covering,’ प्रोर्णवनीयम् ‘which ought to be covered.’

Kashika

इडिति वर्तते। ऊर्णुञ् आच्छादने अस्मात् पर इडादिः प्रत्ययो विभाषा ङिद्वद् भवति। प्रोर्णुविता, प्रोर्णविता। इडित्येव — प्रोर्णवनम्। प्रोर्णवनीयम्॥

Siddhanta Kaumudi

इडादिप्रत्ययो वा ङित्स्यात् । ऊर्णुनुविथ । ऊर्णुनविथ । ऊर्णुविता । ऊर्णविता । ऊर्णौतु । ऊर्णोतु । ऊर्णवानि । ऊर्णवै ॥

Laghu Siddhanta Kaumudi

इडादिप्रत्ययो वा ङित्स्यात् । ऊर्णुनुविथ, ऊर्णुनविथ । ऊर्णुविता, ऊर्णविता । ऊर्णुविष्यति, ऊर्णविष्यति । ऊर्णौतु, उर्णोतु । ऊर्णवानि । ऊर्णवै ॥

Balamanorama

विभाषोर्णोः - विभाषोर्णोः । ‘गाङ्कुटादिभ्यः’ इत्यतो ङिदित्यनुवर्तते, ‘विज इ’ डित्यत इडिति, — इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — इडादीति । ऊर्णुनुविथेति । ङित्त्वपक्षे गुणाऽभावादुवङ् । ऊर्णुनविथेति । ङित्त्वाऽभावपक्षे गुणः । ऊर्णुनुवथुः ऊर्णुनुव । ऊर्णुनाव — ऊर्णुनव । लुटि तासि इटि ङित्त्वविकल्पं मत्त्वाऽऽह — ऊर्णविता ऊर्णुवितेति । ऊर्णविष्यति ऊर्णुविष्यति । ऊर्णविष्यते — ऊर्णुविष्यते । लङि और्णुदिति स्थितेऊर्णोतेर्विभाषे॑ति वृद्धिविकल्पे, गुणे च प्राप्ते —

Padamanjari

ऽऊर्णुञ् आच्छादनेऽ ञिद्, नोपधः; ऽरषाभ्याम्ऽ इति णत्वेन पाठः । प्रोर्णुनाव - रेफवियोगेऽभ्यासात्परस्य नकारस्य श्रवणं भवति । प्रोर्णुवितेति । ङ्त्विपक्षे उवङ्, अन्यत्र गुणः ॥

Nyaas

प्रोर्णुविता इति। ङित्वाद् गुणे प्रतिषिद्धे अचि श्नुधातु (6.4.77) इत्यादिनोवङादेशः॥

Prakriyasarvasvam

ऊर्णुधातोरिडादिर्वा ङित् स्यात् । अङित्त्वे गुणः । ऊर्णविता । ङित्त्वे तु,

Sutra Prayogas

  • प्रौर्णाविषुश्चाऽन्ये (भट्टिकाव्यम्): विभाषोर्णोः इत्यङित्त्वपक्षे दृष्टव्यः।