11064: अचोऽन्त्यादि टि

Padacheda: अचः | S | 6 | 1 |

अन्त्य-आदि | S | 1 | 1 |

टि | S | 1 | 1 |

Sutrartha

शब्दस्य अन्तिम-अच्-वर्णात् आरभ्य शब्दस्य अन्तिमवर्णं यावत् विद्यमानस्य अंशस्य ‘टि’ इति संज्ञा भवति ।

व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति ‘टि’ इति संज्ञा । शब्दे विद्यमानेषु स्वरेषु यः अन्तिमः स्वरः, सः (तस्मिन्नेव शब्दे) यस्य आदिः, तस्य शब्दरूपस्य ‘टि’ इति संज्ञा प्रकृतसूत्रेण दीयते । शब्दे विद्यमानात् अन्तिमस्वरात् आरभ्य शब्दस्य अन्तपर्यन्तम् विद्यमानः अंशः ‘टि’ इति संज्ञया गृह्यते - इति आशयः । यथा —

  1. ‘राम’ इत्यस्य शब्दस्य वर्णविभागः - ‘र्, आ, म्, अ’ इति । अस्मिन् वर्णविभागे यः अन्तिमः स्वरः, तस्मात् आरभ्य अन्तपर्यन्तम् यत् शब्दस्वरूपम्, तस्य टिसंज्ञा भवति । अत्र ‘अ’ इति अन्तिमः स्वरः, सः स्वयमेव शब्दस्य अन्ते विद्यते, अतः तस्यैव ‘टि’ इति संज्ञा भवति ।

  2. ‘रामम्’ इत्यस्य शब्दस्य वर्णविभागः - ‘र्, आ, म्, अ, म्’ इति । अत्र ‘अ’ इति अन्तिमः स्वरः । तस्मात् आरभ्य अन्तपर्यन्तम् विद्यमानम् शब्दस्वरूपम् ‘अम्’ इति । अतः अत्र ‘अम्’ इत्यस्य टिसंज्ञा भवति ।

टिसंज्ञायाः प्रयोजनम्

टिसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उक्ताः सन्ति । यथा, डित्-प्रत्यये परे अङ्गस्य यः टिसंज्ञकः अंशः, तस्य टेः (6.4.143) इत्यनेन लोपः क्रियते । “पङ्कज” शब्दस्य सिद्धौ अस्य प्रयोगः कृतः दृश्यते —

पङ्के अजायत [कृद्वृत्तिः]
→ जनीँ (प्रादुर्भावे, (4.44))
→ पङ्के + जन् + ड [सुबन्त-उपपदस्य उपस्थितौ जन्-धातोः भूते ड-प्रत्ययः]
→‌ पङ्के + जन् + अ [डकारस्य **चुटू** (1.3.7) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः]
→ पङ्क + जन् + अ [**उपपदमतिङ्** (2.2.19) इति उपपदसमासः । **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति ङि-प्रत्ययस्य लुक् ।]
--> पङ्क + ज् + अ [डित्-प्रत्यये परे अङ्गस्य टिसंज्ञकस्य**टेः** (6.4.143) इत्यनेन लोपः भवति । अत्र 'जन्' इत्यस्य अङ्गस्य टिसंज्ञकम् 'अन्' इति अंशः, अतः अयम् सम्पूर्णः अंशः अत्र लुप्यते ।
--> पङ्कज

सूत्रेषु टिसंज्ञायाः प्रयोगः

अष्टाध्याय्यां टि-संज्ञायाः साक्षात् प्रयोगः अष्टसु सूत्रेषु कृतः अस्ति —

  1. टित आत्मनेपदानां टेरे (3.4.79)

  2. अव्ययसर्वनाम्नामकच् प्राक् टेः (5.3.71)

  3. विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये (6.3.92)

  4. टेः (6.4.143)

  5. टेः (6.4.155)

  6. भस्य टेर्लोपः (7.1.88)

  7. वाक्यस्य टेः प्लुत उदात्तः (8.2.82)

  8. प्रणवष्टेःप्रणवः टेः (8.2.89)

अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।

Sutrartha (English)

The fragment of a word starting from its last अच् letter till the end is called टि.

Vasu English Summary

The final portion of a word, beginning with the last among the vowels in the word, is called टि।

Vasu English Translation

The final portion of a word, beginning with the last among the vowels in the word, is called टि। This *sutra * defines टि. It is that portion of a word which is included between the last letter and the nearest vowel. Thus in the word अग्निचित् the portion इत् is टि; so also in सामसुत् the portion उत्. The word टि occurs in *sutra * (3.4.79).

The word अचः in the sutra is in the genitive case, which has the force of nirdharana or specification; and though it is in the singular number, it represents class name, meaning ‘among the vowels.’

Kashika

अच इति निर्धारणे षष्ठी। जातावेकवचनम्। अचां संनिविष्टानां योऽन्त्योऽच्, तदादि शब्दरूपं टिसंज्ञं भवति। अग्निचित् — इच्छब्दः। सोमसुत् — उच्छब्दः। आताम्, आथाम् — आम्शब्दः। पचेते। पचेथे। टिप्रदेशाः — टित आत्मनेपदानां टेरे (३.४.७९) इत्येवमादयः॥

Siddhanta Kaumudi

अचां मध्ये योऽन्त्यः स आदिर्यस्य तट्टिसंज्ञं स्यात् ।<!शकन्ध्वादिषु पररूपं वाच्यम् !> (वार्तिकम्) ॥ तच्च टेः ॥ शकन्धुः । कर्कन्धुः । कुलटा ।<!सीमन्तः केशवेशे !> (वार्तिकम्) ॥ सीमान्तोऽन्यः । मनीषा । हलीषा । लाङ्गलीषा । पतञ्जलिः । सारङ्गः पशुपक्षिणोः । साराङ्गोऽन्यः । आकृतिगणोऽयम् ॥ मार्तण्डः ।<!ओत्वोष्ठयोः समासे वा !> (वार्तिकम्) ॥ स्थूलोतुः । स्थूलौतुः । बिम्बोष्ठः । बिम्बौष्ठः । समासे किम् । तवौष्ठः ॥

Laghu Siddhanta Kaumudi

अचां मध्ये योऽन्त्यः स आदिर्यस्य तट्टिसंज्ञं स्यात्। शकन्ध्वादिषु पररूपं वाच्यम् (वार्त्तिकम्) । तच्च टेः। शकन्धुः। कर्कन्धुः मनीषा। आकृतिगणोऽयम्। मार्त्तण्डः॥

Laghu Shabdendushekhar

अचोऽन्त्या । अच इति निर्धारणे षष्ठी । अन्ते भवो अन्त्यः । “अन्त्यादि” इति गमकत्वाद् बहुव्रीहिः । मार्त्तण्ड इति । मृतण्डादागतो मार्त्तण्डः । अण्विषये एव पररूपम् । ननु मार्त्तशब्दादन्त्याच् तकाराकारः स आदिर्यस्येत्यन्यपदार्थो दुर्लभ इति चेन्न । एकस्मिन्नेव समुदायरूपत्वारोपेण तदवयवत्वारोपेण च तदुपपत्तेः । एतन्मूलकमेव ** व्यपदेशिवदेकस्मिन् ** (PB३०) इति पठ्यते इत्यलम् । वस्तुत आरोपस्य नात्रोपयोगः । शब्दज्ञानानुपाती वस्तुशून्यो विकल्प: (यो०सू० १/३/१०) इति पतञ्जल्युक्तेः, अर्थाभावेऽपि विकल्पात्मकं ज्ञानमत्र, तदपि लक्ष्यानुरोधाच्छास्त्रप्रवृत्त्युपयोगीति बोद्ध्यम् । पतञ्जलिरिति तु अञ्जलेः पतित इति विग्रहे मयूरव्यंसकादित्वात्समासे तत्रैव निपातनादितशब्दस्य लोपे पृषोदरादित्वाद्वा तल्लोपे साधु । गोनर्ददेशे कस्यचिदृषेरञ्जलेः सन्ध्याकरणसमये पतित इत्यैतिह्यात् । ओत्वोष्ठयोः । अत्र समर्थपरिभाषा (समर्थः पदविधिः (२.१.१)) नोपतिष्ठते समासेऽङ्गुलेः सङ्गः (८.३.८०) इत्यादौ समासग्रहणेन “पदविधिरि”ति (समर्थः पदविधिः (२.१.१)) सूत्रस्वरसेन भाष्यादिस्वारस्येन च पदत्वेन सुबन्तत्वेन वा यत्र साक्षादुद्देश्यता तत्रै वैतत्परिभाषाप्रवृत्तिस्वीकारात् । ओत्वोष्ठादिमात्रस्य पदत्वाभावात् । अवर्णादोत्वोष्ठयोरचि तद्घटितसमास इत्यर्थात् “दन्त्योष्ठ्यो वः स्मृत” इति प्रयोगसिद्धिः । अन्यथा प्रत्त्यासत्त्यौत्वाद्युत्तरपदकसमास एव प्रवृत्त्यापत्तौ तदसङ्गतिः स्पष्टैव । ओतुर्बिडालः ॥

Padamanjari

अन्ते भवोऽन्त्यः दिगादित्वाद्यत्, अन्त्यादिति बहुव्रीहिः । यद्यप्यचामित्येतदपेक्षोऽन्त्यशब्दस्तथापि सम्बन्धिशब्दत्वेन नित्यसापेक्षत्वादिविरुद्धः समासः निर्धारणे षष्ठीति । यद्येवं निर्द्धारणस्यानेकाश्रयत्वाद् अच इत्येकवचनमुनपपन्नम्, तत्राह-जाताविति । योऽन्त्योऽजिति ।निर्द्धारणस्य सजातीयविषयत्वादजिति लभ्यम् । इच्छब्द इत्यादि रूपोदहरणम् । कार्यं त्वग्निचि तमाचष्टे णिचि ‘णाविष्ठवत्’ इति टिलोपः । पचेते इत्यादि कार्योदाहरणम् ॥

Nyaas

अन्त्यादि`इति बहुव्रीहिः अचां मध्ये योऽन्त्योऽच्,स आदिर्यस्य शब्दरूप-स्य तत् तथोक्तम्। ननु चान्त्यशब्दोऽत्राचामित्येतदपेक्षत इत्यसामर्थ्यादादिशब्देन सह समासो न प्राप्नोति, नैष दोषः; अन्त्यशब्दो हि सम्बन्धिशब्दः, सम्ब्नधिशब्दानां नित्यसापेक्षत्वेन गमकत्वात् सापेक्षत्वेऽपि समासो भवति, यथा देवदत्तस्य गुरुकुल-मिति। `निर्धारणे षष्ठी इति। यतश्च निर्धारणम् (2.3.41) इत्यनेन यदि निर्धारणे षष्ठीयम्, एवं हि सति निर्धारणमनेकसन्निपाते भवतीत्यच इत्येकवचनं न स्यात्।बहुत्वद्बहुवचनेन भवितव्यमित्यत आह - जातावेकवचनम् इति। जातेरेकत्वादिति भावः। अचां सन्निविष्टानां योऽन्त्योच् इति। कथं पुनरजित्येष विशेषो लभ्यते, यावता नेह द्वितीयमज्ग्रहणम्, नापि प्रकृतम्? एवं मन्यते - समानजातीयस्यैव लोके निर्धारणं प्रसिद्धम्। तथा हि, कृष्णा गवां सम्पन्नक्षीरतमेति द्वितीयं गोशब्दमन्तरेणापि गौरेव प्रतीयते। तस्मादिहापि यद्यपि द्वितीयमज्ग्रहणं नास्ति, तथापि समानजातीयोऽजेव निर्धार्यमाणोऽवसीयत इति। अन्ते भवोऽन्त्यः, दिगादित्वात् यत्। तदादि इति। स आदिर्यस्येति विग्रहः। इच्छब्दः इत्यादिनि रूपोदाहरणानि। कार्यं पुनरिच्छब्दस्य टिसंज्ञायामग्निचितमाचष्ट इति णिचि कृते णाविष्टवत् प्रातिपदिकस्य (वा।813) इति टिलोप अग्न चयतीति। आताम्, आथाम् इति। अनयोस्तु टिसंज्ञाकार्यम् - टित आत्मनेपदानां टेरे (3.4.79) टेरेत्वम्। पचेते, पचेथे इति कार्योदाहरणे। अथ वहिमहिङोरिकारस्य कथंटिसंज्ञा, यावता न सोऽस्ति यस्य सोऽन्त्यः, अजादिरिति व्यपदिश्यते? नैष दोषः; आद्यन्तवदेकस्मिन् (1.1.21) इतिव्यपदेशिद्भावेनादिः, अन्त्य इति व्यपदेशो भविष्यति।

Praudhamanorama

शकन्ध्वादिष्विति। शकन्ध्वादिविषये तत्सिद्ध्यनुगुणं पररूपं वाच्यमित्यर्थः। अत एवाह- तच्च टेरिति। यदि तु ‘आत्’ इत्यधिकारादकारस्यैवेष्येत तर्हि मनीषा इति न सिद्ध्येत। केचित्तु मनःपतच्छब्दयोः पृषोदरादित्वादन्त्यलोपेऽकारस्यैव पररूपमाहुः। शकानां= देशविशेषाणामन्धुः = कूपः=शकन्धुः। कर्काणां राज्ञामन्धुः। बदरीवाची तु कर्कन्धूशब्दो दीर्घान्तः, ‘अन्धूदृम्भू-’ इत्यादिना उणादिषु वक्ष्यते। अटतीत्यटा पचाद्यच्। कुलस्य अटा कुलटा। ईष उञ्छे, ईष गत्यादिषु, आभ्यां गुरोश्च हलः (3.3.103) इत्यप्रत्यये ईषा। मनस ईषा मनीषा । हलस्य ईषा हलीषा = लाङ्गलदण्डः, मूर्द्धन्योपधः। यस्तु- ‘प्रभुशङ्करयोरीशः स्त्रियां लाङ्गलदण्डके॥’ इति रभसकेशात् तालव्योपधस्तस्मिन् परे आद् गुणः (6.1.87) इत्येव भवति, हलेशा। पतन्नञ्जलिर्यस्मन् नमस्कार्यत्वादिति पतञ्जलिः। मार्तण्डः। केचिदत्र सवर्णदीर्घमाहुः। परा मार्ताण्डमास्थत्, पुनर्मार्ताण्डमारभत्, विश्वो मार्ताण्डोऽव्रजदित्यादि-वैदिकप्रयोगास्तेषामनुकूलाः। ओत्वोष्ठयोरिति। अकारस्य ओत्वोष्ठयोश्चैकत्र समासे स्थितौ सत्यामिदं प्रवर्तते, तेनेह न, वृषलसुतौष्ठव्रणस्ते इति। अव्यक्तशब्दं व्याचष्टे-

Sarala

अचः = षष्ठ्यन्तम्, अन्त्य आदिर्यस्य तत् - अन्त्यादि - प्रथमान्तं, (सापेक्षत्वेऽपि गमकत्वात्समासः) । टि - प्रथमान्तम् । (<!शकन्ध्वादिषु पररूपं वाच्यम्!>) शकन्द्ध्वादिषु विषये शकन्द्ध्वादीनामनुरूपं - तत्सिद्ध्यर्थं - पूर्वपरयोः स्थाने पररूपं वक्तव्यमित्यर्थः । तच्च = पररूपञ्च । शकन्धुः = शकदेशकूपः । पुंस्येवान्धुः प्रहिः कूपः इत्यमरः । कर्कन्धुः = राजविशेषकूपः, श्वेताश्वकूपो वा । “मनस्+ईषा” इत्यत्र मकाराकारनकारयोर्मध्येऽन्त्योऽच् नकारोत्तराऽकारः, स आदियस्य - “अस्” इत्यस्य, तस्य टिसञ्ज्ञा । एवञ्च शकन्द्ध्वादित्वाट्टेः पररूपे “अस्” इत्यस्य स्थाने ईकारे जाते “मनीषा” इति सिद्धम् । मनीषाः = बुद्धिः । अयं = शकन्द्ध्वादिः । आकृत्या स्वरूपेणैव गण्यते इति आकृतिगणः । एवञ्च येषु शब्देषु पररूपं करणीयं ते शब्दा अत्र गणे बोध्या इत्यर्थः ॥

Sudha

शकन्धुरिति । “शक-अन्धु” इति स्थिते अत्र अकः सवर्णे दीर्घः (6.1.101) इत्यनेन दीर्घे प्राप्ते तं बाधित्वा <!शकन्ध्वादिषु पररूपं वाच्यम्!> इत्यनेन पररूपे प्राप्ते तच्च पररूपं टेः (टिसंज्ञकस्य) भवति । टिसंज्ञा च अचोऽन्त्यादि टि (1.1.64) इत्यनेन ककारोत्तवर्ति-अकारस्य भवति । एवञ्च “शक-अन्धुः” इत्यत्र पूर्वपरयोः स्थाने पररूपे सति “शकन्धुः” इति भवतीति भावः । एवमेव “कर्क-अन्धुः” इत्यत्र अचोऽन्त्यादि टि (1.1.64] इत्यनेन टिसंज्ञायाम् <!शकन्ध्वादिषु पररूपं वाच्यम्!> इत्यनेन पररूपे “कर्कन्धुः” इति भवति । “मनस्-ईषा” इति स्थितेऽत्र अचोऽन्त्यादि टि [[1.1.64) इत्यनेन सूत्रेण अस्-इत्यस्य टिसंज्ञायाम् पररूपे चे “मनीषा” इति सिद्ध्यति । “मार्त-अण्डः” इति स्थिते प्रकृतवार्त्तिकेन पररूपे “मार्तण्डः” इति जायते ॥