11064: अचोऽन्त्यादि टि ====================== **Padacheda:** अचः | S | 6 | 1 | अन्त्य-आदि | S | 1 | 1 | टि | S | 1 | 1 | Sutrartha --------- **शब्दस्य अन्तिम-अच्-वर्णात् आरभ्य शब्दस्य अन्तिमवर्णं यावत् विद्यमानस्य अंशस्य 'टि' इति संज्ञा भवति ।** व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'टि' इति संज्ञा । **शब्दे विद्यमानेषु स्वरेषु यः अन्तिमः स्वरः, सः (तस्मिन्नेव शब्दे) यस्य आदिः, तस्य शब्दरूपस्य 'टि' इति संज्ञा प्रकृतसूत्रेण दीयते** । शब्दे विद्यमानात् अन्तिमस्वरात् आरभ्य शब्दस्य अन्तपर्यन्तम् विद्यमानः अंशः 'टि' इति संज्ञया गृह्यते - इति आशयः । यथा — 1. 'राम' इत्यस्य शब्दस्य वर्णविभागः - 'र्, आ, म्, अ' इति । अस्मिन् वर्णविभागे यः अन्तिमः स्वरः, तस्मात् आरभ्य अन्तपर्यन्तम् यत् शब्दस्वरूपम्, तस्य टिसंज्ञा भवति । अत्र 'अ' इति अन्तिमः स्वरः, सः स्वयमेव शब्दस्य अन्ते विद्यते, अतः तस्यैव 'टि' इति संज्ञा भवति । 2. 'रामम्' इत्यस्य शब्दस्य वर्णविभागः - 'र्, आ, म्, अ, म्' इति । अत्र 'अ' इति अन्तिमः स्वरः । तस्मात् आरभ्य अन्तपर्यन्तम् विद्यमानम् शब्दस्वरूपम् 'अम्' इति । अतः अत्र 'अम्' इत्यस्य टिसंज्ञा भवति । **टिसंज्ञायाः प्रयोजनम्** टिसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उक्ताः सन्ति । यथा, डित्-प्रत्यये परे अङ्गस्य यः टिसंज्ञकः अंशः, तस्य **टेः** (6.4.143) इत्यनेन लोपः क्रियते । "पङ्कज" शब्दस्य सिद्धौ अस्य प्रयोगः कृतः दृश्यते — .. code-block:: text पङ्के अजायत [कृद्वृत्तिः] → जनीँ (प्रादुर्भावे, (4.44)) → पङ्के + जन् + ड [सुबन्त-उपपदस्य उपस्थितौ जन्-धातोः भूते ड-प्रत्ययः] →‌ पङ्के + जन् + अ [डकारस्य **चुटू** (1.3.7) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः] → पङ्क + जन् + अ [**उपपदमतिङ्** (2.2.19) इति उपपदसमासः । **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति ङि-प्रत्ययस्य लुक् ।] --> पङ्क + ज् + अ [डित्-प्रत्यये परे अङ्गस्य टिसंज्ञकस्य**टेः** (6.4.143) इत्यनेन लोपः भवति । अत्र 'जन्' इत्यस्य अङ्गस्य टिसंज्ञकम् 'अन्' इति अंशः, अतः अयम् सम्पूर्णः अंशः अत्र लुप्यते । --> पङ्कज **सूत्रेषु टिसंज्ञायाः प्रयोगः** अष्टाध्याय्यां टि-संज्ञायाः साक्षात् प्रयोगः अष्टसु सूत्रेषु कृतः अस्ति — 1. **टित आत्मनेपदानां टेरे** (3.4.79) 2. **अव्ययसर्वनाम्नामकच् प्राक् टेः** (5.3.71) 3. **विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये** (6.3.92) 4. **टेः** (6.4.143) 5. **टेः** (6.4.155) 6. **भस्य टेर्लोपः** (7.1.88) 7. **वाक्यस्य टेः प्लुत उदात्तः** (8.2.82) 8. **प्रणवष्टेःप्रणवः टेः** (8.2.89) अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति । Sutrartha (English) ------------------- The fragment of a word starting from its last अच् letter till the end is called टि. Vasu English Summary -------------------- The final portion of a word, beginning with the last among the vowels in the word, is called टि। Vasu English Translation ------------------------ The final portion of a word, beginning with the last among the vowels in the word, is called टि। This *sutra * defines टि. It is that portion of a word which is included between the last letter and the nearest vowel. Thus in the word अग्निचित् the portion इत् is टि; so also in सामसुत् the portion उत्. The word टि occurs in *sutra * (3.4.79). The word अचः in the *sutra* is in the genitive case, which has the force of *nirdharana* or specification; and though it is in the singular number, it represents class name, meaning 'among the vowels.' Kashika ------- अच इति निर्धारणे षष्ठी। जातावेकवचनम्। अचां संनिविष्टानां योऽन्त्योऽच्, तदादि शब्दरूपं टिसंज्ञं भवति। अग्निचित् — इच्छब्दः। सोमसुत् — उच्छब्दः। आताम्, आथाम् — आम्शब्दः। पचेते। पचेथे। टिप्रदेशाः — **टित आत्मनेपदानां टेरे** (३.४.७९) इत्येवमादयः॥ Siddhanta Kaumudi ----------------- अचां मध्ये योऽन्त्यः स आदिर्यस्य तट्टिसंज्ञं स्यात् । (वार्तिकम्) ॥ तच्च टेः ॥ शकन्धुः । कर्कन्धुः । कुलटा । (वार्तिकम्) ॥ सीमान्तोऽन्यः । मनीषा । हलीषा । लाङ्गलीषा । पतञ्जलिः । सारङ्गः पशुपक्षिणोः । साराङ्गोऽन्यः । आकृतिगणोऽयम् ॥ मार्तण्डः । (वार्तिकम्) ॥ स्थूलोतुः । स्थूलौतुः । बिम्बोष्ठः । बिम्बौष्ठः । समासे किम् । तवौष्ठः ॥ Laghu Siddhanta Kaumudi ----------------------- अचां मध्ये योऽन्त्यः स आदिर्यस्य तट्टिसंज्ञं स्यात्। **शकन्ध्वादिषु पररूपं वाच्यम्** (वार्त्तिकम्) । तच्च टेः। शकन्धुः। कर्कन्धुः मनीषा। आकृतिगणोऽयम्। मार्त्तण्डः॥ Laghu Shabdendushekhar ---------------------- **अचोऽन्त्या** । अच इति निर्धारणे षष्ठी । अन्ते भवो अन्त्यः । "अन्त्यादि" इति गमकत्वाद् बहुव्रीहिः । **मार्त्तण्ड इति** । मृतण्डादागतो मार्त्तण्डः । अण्विषये एव पररूपम् । ननु मार्त्तशब्दादन्त्याच् तकाराकारः स आदिर्यस्येत्यन्यपदार्थो दुर्लभ इति चेन्न । एकस्मिन्नेव समुदायरूपत्वारोपेण तदवयवत्वारोपेण च तदुपपत्तेः । एतन्मूलकमेव ** व्यपदेशिवदेकस्मिन् ** (PB३०) इति पठ्यते इत्यलम् । वस्तुत आरोपस्य नात्रोपयोगः । **शब्दज्ञानानुपाती वस्तुशून्यो विकल्प:** (यो०सू० १/३/१०) इति पतञ्जल्युक्तेः, अर्थाभावेऽपि विकल्पात्मकं ज्ञानमत्र, तदपि लक्ष्यानुरोधाच्छास्त्रप्रवृत्त्युपयोगीति बोद्ध्यम् । पतञ्जलिरिति तु अञ्जलेः पतित इति विग्रहे मयूरव्यंसकादित्वात्समासे तत्रैव निपातनादितशब्दस्य लोपे पृषोदरादित्वाद्वा तल्लोपे साधु । गोनर्ददेशे कस्यचिदृषेरञ्जलेः सन्ध्याकरणसमये पतित इत्यैतिह्यात् । **ओत्वोष्ठयोः** । अत्र समर्थपरिभाषा (**समर्थः पदविधिः** (२.१.१)) नोपतिष्ठते **समासेऽङ्गुलेः सङ्गः** (८.३.८०) इत्यादौ समासग्रहणेन "पदविधिरि"ति (**समर्थः पदविधिः** (२.१.१)) सूत्रस्वरसेन भाष्यादिस्वारस्येन च पदत्वेन सुबन्तत्वेन वा यत्र साक्षादुद्देश्यता तत्रै वैतत्परिभाषाप्रवृत्तिस्वीकारात् । ओत्वोष्ठादिमात्रस्य पदत्वाभावात् । अवर्णादोत्वोष्ठयोरचि तद्घटितसमास इत्यर्थात् "दन्त्योष्ठ्यो वः स्मृत" इति प्रयोगसिद्धिः । अन्यथा प्रत्त्यासत्त्यौत्वाद्युत्तरपदकसमास एव प्रवृत्त्यापत्तौ तदसङ्गतिः स्पष्टैव । ओतुर्बिडालः ॥ Padamanjari ----------- अन्ते भवोऽन्त्यः दिगादित्वाद्यत्, अन्त्यादिति बहुव्रीहिः । यद्यप्यचामित्येतदपेक्षोऽन्त्यशब्दस्तथापि सम्बन्धिशब्दत्वेन नित्यसापेक्षत्वादिविरुद्धः समासः निर्धारणे षष्ठीति । यद्येवं निर्द्धारणस्यानेकाश्रयत्वाद् अच इत्येकवचनमुनपपन्नम्, तत्राह-जाताविति । योऽन्त्योऽजिति ।निर्द्धारणस्य सजातीयविषयत्वादजिति लभ्यम् । इच्छब्द इत्यादि रूपोदहरणम् । कार्यं त्वग्निचि तमाचष्टे णिचि 'णाविष्ठवत्' इति टिलोपः । पचेते इत्यादि कार्योदाहरणम् ॥ Nyaas ----- `अन्त्यादि`इति बहुव्रीहिः अचां मध्ये योऽन्त्योऽच्,स आदिर्यस्य शब्दरूप-स्य तत् तथोक्तम्। ननु चान्त्यशब्दोऽत्राचामित्येतदपेक्षत इत्यसामर्थ्यादादिशब्देन सह समासो न प्राप्नोति, नैष दोषः; अन्त्यशब्दो हि सम्बन्धिशब्दः, सम्ब्नधिशब्दानां नित्यसापेक्षत्वेन गमकत्वात् सापेक्षत्वेऽपि समासो भवति, यथा देवदत्तस्य गुरुकुल-मिति। `निर्धारणे षष्ठी` इति। `यतश्च निर्धारणम्` (2.3.41) इत्यनेन यदि निर्धारणे षष्ठीयम्, एवं हि सति निर्धारणमनेकसन्निपाते भवतीत्यच इत्येकवचनं न स्यात्।बहुत्वद्बहुवचनेन भवितव्यमित्यत आह - `जातावेकवचनम्` इति। जातेरेकत्वादिति भावः। `अचां सन्निविष्टानां योऽन्त्योच्` इति। कथं पुनरजित्येष विशेषो लभ्यते, यावता नेह द्वितीयमज्ग्रहणम्, नापि प्रकृतम्? एवं मन्यते - समानजातीयस्यैव लोके निर्धारणं प्रसिद्धम्। तथा हि, कृष्णा गवां सम्पन्नक्षीरतमेति द्वितीयं गोशब्दमन्तरेणापि गौरेव प्रतीयते। तस्मादिहापि यद्यपि द्वितीयमज्ग्रहणं नास्ति, तथापि समानजातीयोऽजेव निर्धार्यमाणोऽवसीयत इति। अन्ते भवोऽन्त्यः, दिगादित्वात् यत्। `तदादि` इति। स आदिर्यस्येति विग्रहः। `इच्छब्दः` इत्यादिनि रूपोदाहरणानि। कार्यं पुनरिच्छब्दस्य टिसंज्ञायामग्निचितमाचष्ट इति णिचि कृते `णाविष्टवत् प्रातिपदिकस्य` (वा।813) इति टिलोप अग्न चयतीति। `आताम्, आथाम्` इति। अनयोस्तु टिसंज्ञाकार्यम् - **टित आत्मनेपदानां टेरे** (3.4.79) टेरेत्वम्। `पचेते, पचेथे` इति कार्योदाहरणे। अथ वहिमहिङोरिकारस्य कथंटिसंज्ञा, यावता न सोऽस्ति यस्य सोऽन्त्यः, अजादिरिति व्यपदिश्यते? नैष दोषः; **आद्यन्तवदेकस्मिन्** (1.1.21) इतिव्यपदेशिद्भावेनादिः, अन्त्य इति व्यपदेशो भविष्यति। Praudhamanorama --------------- **शकन्ध्वादिष्विति।** शकन्ध्वादिविषये तत्सिद्ध्यनुगुणं पररूपं वाच्यमित्यर्थः। अत एवाह- **तच्च टेरिति।** यदि तु 'आत्' इत्यधिकारादकारस्यैवेष्येत तर्हि मनीषा इति न सिद्ध्येत। केचित्तु मनःपतच्छब्दयोः पृषोदरादित्वादन्त्यलोपेऽकारस्यैव पररूपमाहुः। शकानां= देशविशेषाणामन्धुः = कूपः=शकन्धुः। कर्काणां राज्ञामन्धुः। बदरीवाची तु कर्कन्धूशब्दो दीर्घान्तः, 'अन्धूदृम्भू-' इत्यादिना उणादिषु वक्ष्यते। अटतीत्यटा पचाद्यच्। कुलस्य अटा कुलटा। ईष उञ्छे, ईष गत्यादिषु, आभ्यां **गुरोश्च हलः** (3.3.103) इत्यप्रत्यये ईषा। मनस ईषा **मनीषा** । हलस्य ईषा **हलीषा** = लाङ्गलदण्डः, मूर्द्धन्योपधः। यस्तु- 'प्रभुशङ्करयोरीशः स्त्रियां लाङ्गलदण्डके॥' इति रभसकेशात् तालव्योपधस्तस्मिन् परे **आद् गुणः** (6.1.87) इत्येव भवति, हलेशा। पतन्नञ्जलिर्यस्मन् नमस्कार्यत्वादिति **पतञ्जलिः। मार्तण्डः।** केचिदत्र सवर्णदीर्घमाहुः। परा मार्ताण्डमास्थत्, पुनर्मार्ताण्डमारभत्, विश्वो मार्ताण्डोऽव्रजदित्यादि-वैदिकप्रयोगास्तेषामनुकूलाः। **ओत्वोष्ठयोरिति।** अकारस्य ओत्वोष्ठयोश्चैकत्र समासे स्थितौ सत्यामिदं प्रवर्तते, तेनेह न, वृषलसुतौष्ठव्रणस्ते इति। अव्यक्तशब्दं व्याचष्टे- Sarala ------ **अचः** = षष्ठ्यन्तम्, अन्त्य आदिर्यस्य तत् - **अन्त्यादि** - प्रथमान्तं, (सापेक्षत्वेऽपि गमकत्वात्समासः) । **टि** - प्रथमान्तम् । () शकन्द्ध्वादिषु विषये शकन्द्ध्वादीनामनुरूपं - तत्सिद्ध्यर्थं - पूर्वपरयोः स्थाने पररूपं वक्तव्यमित्यर्थः । **तच्च** = पररूपञ्च । **शकन्धुः** = शकदेशकूपः । **पुंस्येवान्धुः प्रहिः कूपः** इत्यमरः । **कर्कन्धुः** = राजविशेषकूपः, श्वेताश्वकूपो वा । "मनस्+ईषा" इत्यत्र मकाराकारनकारयोर्मध्येऽन्त्योऽच् नकारोत्तराऽकारः, स आदियस्य - "अस्" इत्यस्य, तस्य टिसञ्ज्ञा । एवञ्च शकन्द्ध्वादित्वाट्टेः पररूपे "अस्" इत्यस्य स्थाने ईकारे जाते "मनीषा" इति सिद्धम् । **मनीषाः** = बुद्धिः । **अयं** = शकन्द्ध्वादिः । आकृत्या स्वरूपेणैव गण्यते इति आकृतिगणः । एवञ्च येषु शब्देषु पररूपं करणीयं ते शब्दा अत्र गणे बोध्या इत्यर्थः ॥ Sudha ----- **शकन्धुरिति ।** "शक-अन्धु" इति स्थिते अत्र **अकः सवर्णे दीर्घः** (6.1.101) इत्यनेन दीर्घे प्राप्ते तं बाधित्वा इत्यनेन पररूपे प्राप्ते तच्च पररूपं टेः (टिसंज्ञकस्य) भवति । टिसंज्ञा च **अचोऽन्त्यादि टि** (1.1.64) इत्यनेन ककारोत्तवर्ति-अकारस्य भवति । एवञ्च "शक-अन्धुः" इत्यत्र पूर्वपरयोः स्थाने पररूपे सति "शकन्धुः" इति भवतीति भावः । एवमेव "कर्क-अन्धुः" इत्यत्र **अचोऽन्त्यादि टि** (1.1.64] इत्यनेन टिसंज्ञायाम् इत्यनेन पररूपे "कर्कन्धुः" इति भवति । "मनस्-ईषा" इति स्थितेऽत्र **अचोऽन्त्यादि टि** [[1.1.64) इत्यनेन सूत्रेण अस्-इत्यस्य टिसंज्ञायाम् पररूपे चे "मनीषा" इति सिद्ध्यति । "मार्त-अण्डः" इति स्थिते प्रकृतवार्त्तिकेन पररूपे "मार्तण्डः" इति जायते ॥