11063: न लुमताङ्गस्य

Padacheda: न | S | 0 | 0 |

लुमता | S | 3 | 1 |

अङ्गस्य | S | 6 | 1 |

Sutrartha

लुक्/श्लुः/लुप् - एतैः शब्दैः यस्य प्रत्ययस्य लोपः भवति तस्य निमित्तकम् अङ्गकार्यम् न भवति ।

अष्टाध्याय्याम् ‘लुक्’, ‘श्लुः’, ‘लुप्’, तथा ‘लोपः’ इत्येताभिः चतसृभिः संज्ञाभिः प्रत्ययस्य लोपः विधीयते । एताभ्यः कयाचित् अपि संज्ञया प्रत्ययस्य लोपः क्रियते चेदपि (लुप्त)प्रत्ययनिमित्तकम् कार्यम् प्रक्रियायाम् अवश्यं भवति‌ इति सिद्धान्तः प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इति पूर्वसूत्रेण निर्दिष्टः अस्ति ।अस्य सिद्धान्तस्य अपवादरूपेण न लुमताङ्गस्य (1.1.63) इति प्रकृतसूत्रं प्रवर्तते । यदि प्रत्ययस्य लोपः ‘लुक्’, ‘श्लुः’, ‘लुप्’ एताभ्यः काञ्चित् संज्ञाम् उपयुज्य कृतः अस्ति, तर्हि लुप्तप्रत्ययनिमित्तकम् जायमानम् अङ्गविशिष्टं कार्यम् नैव करणीयम् — इति अस्य सूत्रस्य आशयः । क्रमेण उदाहरणानि एतानि — (1) प्रत्ययस्य लुकि कृते अङ्गकार्यस्य निषेधः — ‘इदम्’ शब्दस्य नपुंसकलिङ्गस्य प्रथमैकवचनस्य प्रक्रियायाम् स्वमोर्नपुँसकात् (7.1.23) इति सूत्रेण सुँ-प्रत्ययस्य लुकि कृते, तन्निमित्तकम् यः सौ (7.2.110) इति अङ्गकार्यम् नैव प्रवर्तते, अतः इदम्-शब्दस्य दकारस्य यकारादेशः अपि न भवति । सम्पूर्णा प्रक्रिया इयम् —

इदम् + सुँ [नपुंसकलिङ्गे प्रथमैकवचनस्य प्रत्ययः ]
→ इदम् [**स्वमोर्नपुंसकात्** (7.1.23) इत्यनेन सुँ-प्रत्ययस्य लुक् भवति । प्रत्ययस्य लोपे जाते **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन लुप्तप्रत्ययनिमित्तके कार्ये प्राप्ते, अत्र 'लुक्'-शब्देन प्रत्ययस्य लोपः कृतः अस्ति इति कारणात् **न लुमताङ्गस्य** (1.1.63) इत्यनेन सुँ-प्रत्ययनिमित्तकम् अङ्गकार्यम् अपि निषिध्यते । अतएव **यः सौ** (7.2.110) इत्यनेन सुँ-प्रत्यये परे अङ्गस्य अन्तिमवर्णस्य यकारादेशः न भवति ।]

(2) प्रत्ययस्य श्लौ कृते अङ्गकार्यनिषेधः — जुहोत्यादिगणस्य ‘हु’ धातोः विहितस्य शप्-प्रत्ययस्य जुहोत्यादिभ्यः श्लुः (2.4.75) इति सूत्रेण श्लुसंज्ञया लोपः क्रियते । एतादृशे लोपे कृते प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इत्यनेन इत्यनेन शप्-प्रत्ययनिमित्तकम् सार्वधातुकार्धधातुकयोः (7.3.84) इति गुणकार्यम् न लुमताङ्गस्य (1.1.63) इत्यनेन निषिध्यते । सम्पूर्णा प्रक्रिया इयम् —

हु (दानादनयोः, जुहोत्यादिः)
→ हु + लट् [**वर्तमाने लट्** (3.2.123)]
→ हु + तस् [प्रथमाद्विवचनस्य विवक्षायाम् **तिप्तस्झि..** (3.4.78) इत्यनेन तस्-प्रत्ययः]
→ हु + शप् + तस् [**सार्वधातुके शप्** (3.1.67)
→ हु + तस् [**जुहोत्यादिभ्यः श्लुः** (2.4.75) इति शप्-प्रत्ययस्य श्लुः । अत्र लोपात् अनन्तरम् **सार्वधातुकार्धधातुकयोः** (7.3.84) इत्यनेन प्राप्तम् शप्-प्रत्ययनिमित्तकम् गुणकार्यम् नैव सम्भवति यतः अत्र 'श्लु' इति शब्देन लोपे कृते **न लुमताङ्गस्य** (1.1.63) इति सूत्रम् अङ्गकार्यनिषेधार्थम् प्रवर्तते ।]
→ हु + हु + तस् [**श्लौ** (6.1.10) इति द्वित्वम्]
→ झु + हु + तस् [**कुहोश्चुः** (7.4.62) इति हकारस्य चुत्वे, हकारसदृशः संवार-नाद-घोष-महाप्राणः झकारः आदेशरूपेण विधीयते ।]
→ झुहुतः [**ससजुषो रुः** (8.2.66), **खरवसानयोर्विसर्जनीयः** (8.3.15)
→ जुहुतः [**अभ्यासे चर्च** (8.4.54) इति जश्त्वम्]

(3) प्रत्ययस्य लुपि कृते अङ्गकार्यनिषेधः — ‘पञ्चालानाम् निवासः’ इत्यस्मिन् अर्थे पञ्चाल-शब्दात् अण्-प्रत्यये कृते जनपदे लुप् (4.2.81) इत्यनेन तस्य लुप्-भवति । प्रत्ययस्य लुपि कृते, णित्-प्रत्ययनिमित्तकम् आदिवृद्धिकार्यम् अपि न लुमताङ्गस्य (1.1.63) इत्यनेन निषिध्यते । प्रक्रिया इयम् —

पञ्चालानाम् निवासः [तद्धितवृत्तिः]
→ पञ्चाल + अण् ['पञ्चालानाम्' इति षष्ठ्यन्तात् शब्दात् **तस्य निवासः** (4.2.69) इत्यस्मिन् अर्थे जनपदस्य निर्देशार्थम् अण्-प्रत्ययः । **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति षष्ठीप्रत्ययस्य लोपः ।]
→ पञ्चाल [ **जनपदे लुप्** (4.2.81)  इत्यनेन अण्-प्रत्ययस्य लुप् । अत्र प्रत्ययस्य लोपे जातेऽपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन णित्-प्रत्ययविशिष्टा आदिवृद्धिः **तद्धितेष्वचामादेः** (7.2.117) इत्यनेन प्राप्तायाम्, 'लुप्'संज्ञया कृतेन लोपविधानेने इदम वृद्धिसंज्ञकम् अङ्गकार्यम् **न लुमताङ्गस्य** (1.1.63) इति सूत्रेण निषिध्यते । अतः अत्र आदिवृद्धिः न भवति ।]
→ पञ्चाल
(अस्य पञ्चालशब्दस्य वाक्ये प्रयोगसमये **लुपि युक्तवद्व्यक्तिवचने** (1.2.51) इति सूत्रम् अनुसृत्य नित्यम् बहुवचनान्तः एव प्रयोगः करणीयः । यथा, पञ्चालाः जनपदः)

सूत्रे ‘लुमता’ इति ग्रहणस्य प्रयोजनम्

अस्मिन् सूत्रे ‘लुमता’ इति शब्दः प्रयुक्तः अस्ति । ‘लुमत्’ इति प्रातिपदिकस्य इदं तृतीयैकवचनम् । ‘लुमत्’ इति शब्दः स्वयम् ‘लु अस्मिन् अस्ति’ इति अर्थे ‘लु’शब्दात् तदस्यास्त्यस्मिन्निति मतुप् (5.2.94) इति सूत्रेण मतुप्-प्रत्ययं कृत्वा सिद्ध्यति । अत्र ‘लु’ इति शब्दः लुक्/श्लु/लुप्-एतेषाम् त्रयाणाम् अपि विधीनाम् सामान्यरूपेण ग्रहणं करोति । एतेभ्यः त्रिभ्यः विधिभ्यः केनचित् एकेन विधिना यत्र लोपः सिद्ध्यति, तत्र प्रत्ययलक्षणम् अङ्गकार्यम् न करणीयम्, इति अत्र आशयः । परन्तु, यदि प्रत्ययस्य लोपः एतैः त्रिभिः प्रकारैः नैव भवति, अपितु केवलं ‘लोप’शब्देनैव प्रत्ययस्य लोपः क्रियते, तर्हि तत्र प्रकृतसूत्रस्य प्रसक्तिः नास्ति , इत्युक्ते तत्र प्रत्ययलक्षणम् अङ्गकार्यम् अवश्यमेव करणीयम् । यथा, शशिन्-शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् सुँ-प्रत्ययस्य हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इति सूत्रेण लोपः भवति । अयम् लोपः केवलम् ‘लोप’संज्ञया क्रियते, न हि लुक्/श्लु/लुप्-इति विशिष्टसंज्ञया । अतः अत्र प्रत्ययलोपे कृते अपि सौ च (6.4.13) इति अङ्गकार्यम् अवश्यम् प्रवर्तते । सम्पूर्णा प्रक्रिया इयम् —

शशिन् + सुँ
→ शशिन् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँ-प्रत्ययस्य लोपः ]
→ शशीन् [**सौ च** (6.4.13) इति सर्वनामस्थानसंज्ञके सुँ-प्रत्यये परे अङ्गस्य उपधादीर्घः ।**प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन प्राप्तम् इदम् अङ्गस्य कार्यम् **न लुमताङ्गस्य** (1.1.63) इत्यनेन नैव निषिध्यते, यतः अत्र प्रत्ययस्य लोपः लुक्/श्लु/लुप्-इति शब्देन न क्रियते । ]
→ शशी [**नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति नकारलोपः]
<br>
विशेषः - अत्र अस्यां प्रक्रियायाम् **सर्वविधिभ्यो लोपविधिर्बलवान्** (व्याडिपरिभाषा-57, नागेशपरिभाषा-100) इति परिभाषाम् अनुसृत्य आदौ लोपकार्यं कृत्वा ततः अङ्गकार्यम् कृतम् अस्ति ।

अस्मिन्नेव सन्दर्भे काशिकायाम् ‘कार्यते’ इति अन्यद् उदाहरणम् दीयते । कृ-धातोः णिच्-प्रत्यये कृते ततः कर्मणि-लट्-प्रथमपुरुषैकवचनस्य रूपसिद्ध्यर्थम् यक्-प्रत्ययः स्थाप्यते चेत्, यक्-प्रत्ययस्य उपस्थितौ णिच्-प्रत्ययस्य णेरनिटि (6.4.51) इति लोपः सम्भवति । अस्मिन् लोपे कृते अपि, अचो ञ्णिति (7.2.115) इत्यनेन णिच्-प्रत्ययविशिष्टा वृद्धिः भवत्येव । सम्पूर्णा प्रक्रिया इयम् —

डुकृञ् (करणे, तनादिः)
→ कृ + णिच् [**हेतुमति च** (3.1.26) इति प्रेरणार्थे णिच्-प्रत्ययः । **सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
→ कृ + इ [णकारचकारयोः इत्संज्ञा, लोपः  । अत्र यद्यपि **अचो ञ्णिति** (7.2.115) इत्यनेन णिच्-प्रत्ययनिमित्तकम् अन्तरङ्गं वृद्धिकार्यम् अत्र प्राप्यते, तथापि अग्रे यः बहिरङ्गः यक्-प्रत्ययः विधास्यते, तेन **णेरनिटि** (6.4.51) इति णिच्-प्रत्ययस्य लोपः वक्ष्यते । एतादृशं विनाशोन्मुखं निमित्तं दृष्ट्वा अत्र **अकृतव्यूहाः पाणिनीयाः** इति परिभाषया आदौ एव वृद्धिकार्यम् न क्रियते । ]
→ कृ + इ + लट् [**वर्तमाने लट्** (3.2.123) इति लट्]
→ कृ + इ + त [**भावकर्मणोः** (1.3.13) इति आत्मनेपदम् । प्रथमपुरुषैकवचनस्य विवक्षायाम् **तिप्तस्झि...** (3.4.78) इति त-प्रत्ययः ।]
→ कृ + इ + यक् + त [**सार्वधातुके यक्** (3.1.67) इति यक्-विकरणप्रत्ययः]
→ कृ + य + त [अनिट्-आर्धधातुके प्रत्यये परे **णेरनिटि** (6.4.51) इति णि-प्रत्ययस्य लोपः]
→ कार् + य + त [प्रत्ययस्य लोपे कृते अपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन प्रत्ययलक्षणा वृद्धिः भवत्येव । अत्र णि-प्रत्ययस्य लोपः लुक्/श्लु/लुप्-इत्येतेषु केनचित् शब्देन नैव उच्यते, अपितु केवलम् लोपशब्देन दीयते, अतः अत्र **न लुमताङ्गस्य** (1.1.63) इत्यस्य प्रसक्तिरेव नास्ति ।]
→ कार् + य + ते [**टित आत्मनेपदानां टेरे** (3.4.79) इति एकारः]
→ कार्यते

अङ्गविशिष्टकार्यस्यैव निषेधः, न अन्यकार्यस्य

न लुमताङ्गस्य (1.1.63) इति सूत्रे ‘अङ्गस्य’ इति शब्दग्रहणेन एतत् स्पष्टी भवति यत् अनेन सूत्रेण उक्तः निषेधः केवलम् अङ्गकार्यस्य विषये एव प्रवर्तते, अन्यकार्याणाम् विषये न । इत्युक्ते, लुक्/श्लु/लुप्-शब्देन प्रत्ययस्य लोपे कृते अङ्गकार्यं विहाय अन्यानि प्रत्ययनिमित्तककार्याणि प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इत्यनेन अवश्यं सम्भवन्ति । यथा, पञ्चन्-शब्दस्य प्रथमाबहुवचनस्य प्रक्रियायाम्, सुँ-प्रत्ययस्य लोपे कृतेऽपि सुप्तिङन्तं पदम् (1.4.14) इति सूत्रेण तल्लक्षणा पदसंज्ञा अवश्यं सम्भवति, अतएव नलोपः प्रातिपदिकान्तस्य (8.2.7) इत्यनेन प्रक्रियायां नकारस्य लोपः अपि सम्भवति । सम्पूर्णा प्रक्रिया इयम् —

पञ्चन् + जस् [प्रथमाबहुवचनम्]
→ पञ्चन् [**षड्भ्यो लुक्** (7.1.22) इति सूत्रेण षट्-संज्ञकात् विहितात् पञ्चन्-शब्दात् परस्य सुँ-प्रत्ययस्य लुक्-भवति । प्रत्ययस्य लुकि कृते तन्निमित्तकम् अङ्गकार्यम् (यथा नपुंसकलिङ्गे **सर्वनामस्थाने चासम्बुद्धौ** (6.4.8) इति उपधादीर्घः इति) **न लुमताङ्गस्य** (1.1.63)  इत्यनेन अवश्यं निषिध्यते । परन्तु अन्येषाम् कार्याणाम् अनेन सूत्रेण निषेधः नैव सम्भवति । अतएव जस्-प्रत्ययस्य लुकि कृतेऽपि जस्-प्रत्ययान्तशब्दस्य **सुप्तिङन्तं पदम्** (1.4.14) इत्यनेन पदसंज्ञा अवश्यं भवति, अतश्च **नलोपः प्रातिपदिकान्तस्य** (8.2.7) इत्यनेन नकारलोपः अपि सम्भवति ।]
→ पञ्च

कुत्रचित् स्वरकार्यस्य अपि निषेधः

न लुमताङ्गस्य (1.1.63) इत्यमिन् सूत्रे विद्यमानस्य ‘अङ्गस्य’ इति शब्दस्य अर्थः ‘अङ्गस्य कार्यम्’ इति ग्रहीतव्यः, न हि ‘अङ्गस्य (6.4.1) इत्यधिकारस्थं कार्यम्’ इति । अस्मिन् सन्दर्भे भाष्यकारः ब्रूते — न लुमता लुप्ते अङ्गाधिकारः प्रतिनिर्दिश्यते । किं तर्हि ? यः असौ लुमता लुप्यते, तस्मिन् यद् अङ्गम्, तस्य यत् कार्यम्, तत् न भवति — इति । अस्य वाक्यस्य आशयः अयम् — यदा लुक्/श्लु/लुप्-संज्ञया प्रत्ययस्य लोपः क्रियते; तदा सः प्रत्ययः यस्मात् अङ्गात् विहितः, तस्य अङ्गस्य यत्किमपि कार्यम् लुप्तप्रत्ययनिमित्तकम् अस्ति, तत् अष्टाध्याय्याम् कुत्रापि पाठितम् अस्ति चेदपि निषिध्यते— इति । ‘अङ्गस्य’ इति शब्दस्य एतादृशस्य अर्थनिर्णस्य प्रयोजनम् अस्ति — अङ्गाधिकारात् बहिः पाठितानाम् केषाञ्चन स्वरकार्याणाम् अपि निषेधविधानम् — इति । इत्युक्ते, लुक्/श्लु/लुप्-शब्देन प्रत्ययस्य लोपे कृते, यथा अङ्गाधिकारस्थम् कार्यम् न लुमताङ्गस्य (1.1.63) इत्यनेन निषिध्यते, तथैव, षष्ठाध्यायस्य प्रथमपादे पाठितानां केषाञ्चन स्वरकार्याणामपि निषेधः भवेत् — इति अत्र आशयः अस्ति । यथा, ‘गर्गस्य गोत्रापत्यानि’ इत्यस्मिन् अर्थे गर्गशब्दात् गर्गादिभ्यो यञ् (4.1.105) इति सूत्रेण यञ्-प्रत्ययः, ततश्च बहुवचनस्य जस्-प्रत्ययः, इति द्वौ प्रत्ययौ भवतः । अत्र जस्-प्रत्यये परे यञ्-प्रत्ययस्य यञिञोश्च (4.1.101) इति लुक् भवति । अयं लुक् यदा क्रियते तदा यञ्-प्रत्ययस्य अङ्गम् ‘गर्ग’ इति अस्ति । अस्यां स्थितौ, अग्रे अस्य अङ्गस्य (तेन निर्मितस्य शब्दस्य) आदिस्वरस्य लुप्त-ञित्-प्रत्यये परे प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इति नियमम् अनुसृत्य ञ्नित्यादिर्नित्यम् (6.1.197) इत्यनेन अनिष्टम् उदात्तत्वं प्राप्यते । अस्य अनिष्ट-उदात्तत्वस्य निषेधं कारयितुम् भाष्यकारेण न लुमताङ्गस्य (1.1.63) इत्येव सूत्रम् उपयुक्तम् अस्ति । अत्र ञ्नित्यादिर्नित्यम् (6.1.197) इत्यनेन प्राप्तं स्वरकार्यम् यद्यपि अङ्गाधिकारात् बहिः विद्यते, तर्ह्यपि अङ्गस्यैव कार्यरूपेण ग्रहीतव्यम्, इति निर्णयं कृत्वा न लुमताङ्गस्य (1.1.63) इत्यनेनैव इदम् उदात्तत्वं भाष्यकारैः प्रतिषिध्यते । अस्मिन् विषये इतोऽपि विस्तरेण ज्ञातुम् अस्यैव सूत्रस्य न्यासव्याख्यानम्, भाष्यम् वा द्रष्टव्यम् ।

अहन्-शब्दात् विहितस्य सुप्-प्रत्ययस्य लुकि कृते रेफादेशे कर्तव्ये प्रत्ययलक्षणं न भवति

नकारान्तनपुंसकलिङ्गस्य “अहन्”-शब्दस्य विषये यत्र सुप्-प्रत्ययस्य लुक् भवति, तत्र “अहन्”-शब्दस्य नकारस्य रोऽसुपि (8.2.69) इति सूत्रेण रेफादेशः इष्यते । परन्तु तत्र प्रक्रियायाम् लुप्तः सुप्-प्रत्ययः प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इत्यनेन यदि उपतिष्ठेत, तर्हि “असुपि” इति तत्र नैव सङ्गच्छेत, येन रोऽसुपि (8.2.69) इति सूत्रेण उक्तः रेफादेशः अपि नैव सम्भवेत् । एतादृशम् मा भूत्, अतः भाष्यकारेण अस्यां प्रक्रियायाम् विशेषरूपेण प्रत्ययलक्षणस्य निषेधः कृतः अस्ति । तत्र भाष्यकारः ब्रूते — अह्नो रविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवति । ** “अहन्”-शब्दात् विहितस्य सुप्-प्रत्ययस्य लुक् भवति चेत् रेफादेशे कर्तव्ये प्रत्ययलक्षणम् न प्रवर्तते; इत्युक्ते लुप्तः सुप्-प्रत्ययः प्रत्ययलक्षणेन (रेफादेशं प्रतिषेद्धुम्) तत्र नैव उपतिष्ठति — इति अस्य अर्थः । अतएव **रोऽसुपि (8.2.69) इति सूत्रस्य “असुपि” इति निषेधः तत्र सङ्गच्छते, येन अहन्-शब्दस्य इष्टः नकारादेशः अपि भवितुम् अर्हति । अस्मिन् सन्दर्भे अधिकं पिपिषवः रोऽसुपि (8.2.69) इति सूत्रस्य व्याख्यां पश्येयुः ।

Sutrartha (English)

A प्रत्यय that has been removed लुक् , श्लु or लुप् does not cause any अङ्गकार्यम्.

Vasu English Summary

Of the base (अङ्ग), whose affix has been elided by the use of the three words containing लु , the operations dependant on it do not take place, regarding such base.

Vasu English Translation

Of the base (अङ्ग), whose affix has been elided by the use of the three words containing लु , the operations dependant on it do not take place, regarding such base. This sutra is a special exception to the previous aphorism which was too extensive. It declares, that when an affix is elided by using the words लुक्, श्लु, or लुप्, then the ‘sign’ or लक्षण or the peculiar virtue of the affix also vanishes. Thus there is an important difference in the elision of an affix by force of the words लुप् &c.; and by the word लोप. In one case the virtue of the affix subsists inspite of the elision, in the other it does not.

The word अङ्ग in this sutra requires some explanation. “A root, followed by a suffix (pratyaya), is raised to the dignity of a base (pratipadika), and finally becomes a real word (pada) when it is finished by receiving a case-termination (vibhakti). Every base, with regard to the suffix which is attached to it, is called Anga, body.”

Thus the word गर्गाः is the plural of the word गार्ग्यः. The word गार्ग्यः is formed by adding the affix यञ् to गर्ग (4.1.105); the force of the indicatory ञ् being to cause the vriddhi of the first vowel of the word (7.2.117). But in forming the plural of गार्ग्य, rule (2.4.64) presents itself, which declares that there is luk of the affix यञ् when the word takes the plural. Here the affix यञ् is elided by the word luk, which means not only the elision of the य of गार्ग्य but also the shortening of आ into अ, that is, the affix being elided, it vanishes altogether, leaving no trace behind, in the shape of the vriddhing of the first vowel, which the affix was competent to cause.

Similarly सृष्टः is the 3rd per. dual present tense of सृज् ‘to clean.’ It belongs to Adadi class in which the vikarana शप् is elided by ‘luk’ (2.4.72); and hence there is no vriddhi substitution, which would have taken place by (7.2.114), (the ik of the base सृज् is vriddhied before verbal affixes).

Similarly जुहुतः ‘they two sacrifice’; here the vikarana शप् has been elided by using the word ‘slu’ ((2.4.75), let slu be substituted in the room of sap after the verbs hu*&c). The effect of this elision is, that there is no *guna substitution of the vowel of the base, which शप् was competent to cause.

When an affix is elided in any other way than by the enunciation of the three terms containing लु, it is competent to cause its proper effect. Thus कृ + णिच् + यक् + ते = कारि + यक् + ते = कार् + यक् + ते = कार्यते. Here the elision of the affix nich is by ‘lopa,’ (6.4.51) and hence though the affix vanishes, its effect remains. Why do we say ‘in respect of an Anga or inflective base?’ Observe पञ्च ‘five,’ सप्त ‘seven,’ पयः ‘milk,’ साम ‘sama veda.’ Here in the word pancha, the plural case-affix is elided by (7.1.22) (after the words called shat, the जस् and शस् are elided by ‘luk’). Here the affix is elided by enouncing the word ‘luk,’ the result is, that the affix cannot produce any change which it would otherwise have caused, in the anga or inflective base; such as lengthening, as in rajan, ‘a king,’ I.p. rajanah ‘kings.’ But though it is inoperative as regards the anga, the elided affix is not altogether inactive. It retains the virtue of raising the base to the dignity of a pada. Thus:- पंचन् + जस् = पंचन् + ०, (luk (7.1.22)). The word panchan is now a pada, and as such, it drops its final न्.

Bhashya

न लुमताङ्गस्य लुमिति प्रतिषेधे एकपदस्वरस्योपसंख्यानम्। लुमति प्रतिषेधे एकपदस्वरस्योरसङ्ख्यानं कर्तव्यम्। एकपदस्वरे च लुमता लुप्ते प्रत्ययलक्षणं न भवतीति वक्तव्यम्। किमविशेषण ? नेत्याह। सर्वामन्त्रितसिज्लुक्स्वरवर्जम्। सर्वस्वरमामन्त्रितस्वरं सिज्लुक्स्वरं च वर्जयित्वा। सर्वस्वर। सर्वस्तोमः सर्वपृष्ठः। सर्वस्य सुपीत्याद्युदात्तत्वं यथा स्यात्। आमन्त्रितस्वर- सर्पिरागच्छ। सप्तागच्छत। आमन्त्रितस्य चेत्याद्युदात्तत्वं यथा स्यात्। सिज्लुक्स्वर- मा हि दाताम्। मा हि धाताम्। आदिः सिचोऽन्यतरस्यामित्येष स्वरो यथा स्यात्। किं प्रयोजनम् ? प्रयोजनं ञ्ञिनिकिल्लुकि स्वराः। ञ्ञिनिकित्स्वरा लुकि प्रयोजयन्ति। गर्गा वत्साः। बिदा उर्वाः। उष्ट्रग्रीवा वामरज्जुः। ञ्ञ्नितीत्याद्युदात्तत्वं मा भूदिति। इह चात्रयः कित इत्यन्तोदात्तत्वं मा भूदिति। पथिमथोः सर्वनामस्थाने लुकि। पथिमथोः सर्वनामस्थाने लुकि प्रयोजनम्। पतिमथोः सर्वनामस्थाने लुमता लुप्ते प्रत्ययलक्षणं न भवतीति वक्तव्यम्। पथिप्रियोमथिप्रियः। पथिमथोः सर्वनामस्थाने इत्येष स्वरो मा भूदिति। अह्रो रविधौ। अह्रो रविधाने लुमता लुप्ते प्रत्ययलक्षणं न भवतीति वक्तव्यम्। अहर्ददाति। अहर्भुङक्ते। रोऽसुपीति प्रत्ययलक्षणेन प्रतिषेधो मा भूदिति। उत्तरपदत्वे चापदादिविधौ। उत्तरपदत्वे चापदादिविधौ लुमता लुपते प्रत्ययलक्षणं न भवतीति वक्तव्यम्। परमवाचा परमवाचे। परमगोदुहा परमगोदुहे। परमश्वलिहा परमश्वलिहे। पदस्येति प्रत्ययलक्षणेन कुत्वादीनि मा भूवन्निति। अपदादिविधाविति किमर्थम् ? दधिसेचौ दधिसेचः। सात्पदाधोरिति प्रतिषेधो यथा स्यात्। यद्यपदादिविधावित्युच्चते उत्तरपदाधिकारो न प्रकल्पते। तत्र को दोषः ? कर्णो वर्णलक्षणादि त्येवमादिविधिर्न सिध्यति। यदि पुनर्नलोपादिविधौ प्लुत्यन्ते लुमता लुप्ते प्रत्ययलक्षणं न भवतीत्युच्चेत। नैवं शक्यम्। इह राजकुमार्थै राजकुमारः इति शाकलं प्रसज्येत। नैष दोषः। यदेतत् सिति शाकलं नेति। एतत् प्रत्यये शाकलं नेति वक्ष्यामि। यदि प्रत्यये शाकलं नेत्युच्यते, दधि अधुना। मधु अधुना। अत्रापि प्राप्नोति। प्रत्यये शाकलं न भवति, कतरस्मिन्, .स्माद्यः प्रत्ययो विहित इति। इह तर्हि परमजिवा परमदिवे। दिव उदित्युत्वं प्राप्नोति। अस्तु तर्ह्यविशेषेण। ननु चोक्तमुत्तरपदाधिकारो न प्रकल्पेतेति। वचनादुत्तरपदाधिकारो भविष्यति। तत्तर्हि वक्तव्यम्। न वक्तव्यम्। अनुवृत्तिः करिष्यते। इदमस्ति, यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्। सुप्तिङन्तं पदम् यस्मात् सुप्तिङ्विधिस्तदादि सुबन्तं तिङन्तं च। नः क्ये। नान्तं क्ये पदसञ्ञ्ज्ञं भवतीति। यस्मात् क्यविधिस्तदादि सुबन्तं च। स्वादिष्वसर्वनामस्थाने पूर्वं पदसञ्ञ्ज्ञं भवति। यस्मात् स्वादिविधिस्तदाति सुबन्तं च। यचि भम्। यजादिप्रत्यये पूर्वं भं भवति। यस्माद् यजादिविधिस्तदादि सुबन्तं च। इदं तर्हि परमवाक्। असर्वनामस्थाने इति प्रतिषेधः प्राप्नोति। अस्तु तस्याः प्रतिषेधः या स्वादौ पदमिति पदसञ्ज्ञा। या तु सुबन्तं पदमिति पदसञ्ज्ञा सा भविष्यति। सत्येतत् प्रत्यये आसीत्। अनया भविष्यत्यनया न भविष्यतीति। लुप्त इदानीं प्रत्यये यावत एवावधेः सुबन्तं पदमिति पदसञ्ज्ञा, तावत एवाऽवधेः सुबन्तं पदमिति। अस्ति च प्रत्ययलक्षणेन सर्वनामस्थानपरतेति कृत्वा प्रतिषेधाश्च वलीयांसो भवन्तीति प्रतिषेधः प्राप्नोति। नाप्रतिषेधात्। नायं प्रसज्यप्रतिषेधः सर्वनामस्थाने नेति। किं तर्हि? पर्युदासोऽयं यदन्यत् सर्वनामस्थानादिति। सर्वनामस्थाने अव्यापारः। यदि केनचित् प्राप्नोति तेन भविष्यति। पूर्वेण च प्राप्नोति। अप्राप्तेर्वा। अथवा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते। कुत एतत्? अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति। पूर्वा प्राप्तिरप्रतिषिद्धा तथा भविष्यति। ननु चेयं प्राप्तिः पूर्वां प्राप्तिं बाधेत। नोत्सहते प्रतिषिद्धा सती बाधितुम्। यद्येवं परमवाचौ परमवाचेति सुप्तिङन्तं पदमिति पदसञ्ज्ञा प्राप्नोति। एवं तर्हि योगविभागः करिष्यते। स्वादिषु पूर्वं पदसञ्ञ्ज्ञं भवति। ततः सर्वनामस्थाने अयचि। पूर्वं पदसञ्ञ्ज्ञं भवति। ततो भम्। भसञ्ञ्ज्ञं भवति यजादावसर्वनामस्थाने इति। यदि तर्हि सावपि पदं भवति। एचः प्लुतविकारे पदान्तग्रहणं चोदयिष्यति। इह मा भूत् भद्रं करोषि गौः इति। तस्मिन् क्रियमाणेपि प्राप्नोति। वाक्यपदयोरन्त्यस्येत्येवं तत्। इह तर्हि - दधिसेचौ , दधिसेचः-इति सात्पदाद्योरिति पदादिलक्षणः षत्वप्रतिषेधो न प्राप्नोति। मा भूदेवं पदस्यादिः पदादि पदादेर्नेति। कथं तर्हि? पदादादिः पदादिः पदादेर्नेत्येवं भविष्यति। नैवं शक्यम्। इहापि प्रसज्येत। ऋक्षु - वाक्षु-त्वक्षु, कुमारीषु किशोरीष्विति। सात्प्रतिषेधो भवतीति। इह तर्हि - बहुसेचौ,बहुसेचः ,बहुजयं प्रत्ययः। तत्र पदादादिः पदादिः पदादार्नेत्युच्यमानेऽपि न सिध्यति। एवं तर्हि। उत्तरपदत्वे च पदादिविधौ। लुमता लुप्ते प्रत्ययलक्षणं भवतीति वक्ष्यामि। तन्नियमार्थे भविष्यति पदादिविधावेव। न पदानतविधाविति। कथं बहुसेचौ बहुसेचः इति? बहुच्पूर्वस्य च। बहुच्पूर्वस्य च पदादिविधावेव। न पदान्तविधाविति। द्वन्द्वेऽन्त्यस्य। द्वन्द्वेऽन्त्यस्य लुप्ता लप्ते प्रत्ययलक्षणं न भवतीति वक्तव्यम्। वाकस्रक्त्वचम्। इहाभूवन्निति प्रत्ययलक्षणने जुस्भावः प्राप्नोति। सिचि जुसोऽप्रसङ्ग आकारप्रकरणात्। सिचि सिज्निमित्तस्य जुसोऽप्रसङ्गः। किं कारणम्? आकारप्रकरणात्। आतः इति वर्तते तन्नियमार्थे भविष्यति। आत एव सिज्लुगन्तान्नान्यस्मादिति। इह चेति युष्मत्पुत्रो ददाति। इत्यस्मत्पुत्रो ददाति इत्यत्र प्रत्ययलक्षणेन युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावादयः प्राप्नुवन्ति। युष्मदस्मदोः स्थग्रहणात्। स्थग्रहणं तत्र क्रियते। तच्छ्रूयामाणविभक्तिविशेषणं विज्ञास्यते। अस्त्यन्यत् स्थग्रहणस्य प्रयोजनम्। किम्? सविभक्तिकस्य वांनावादयो यथा स्युरिति। नैतदस्ति प्रयोजनम्। पदस्येति वर्तते। विभक्तयन्तं च पदम्। तत्र अन्तरेणापि स्तग्रहणं सविभक्तिकस्यैव भविष्यन्ति। भवेत् सिद्धं यत्र विभक्त्यन्तं पद्म। यत्र खलु विभक्तौ पदं तत्र न सिध्यति। ग्रामो नौ दीयते। सर्वग्रहणमपि प्रकृतमनुवर्तते। तेन सविभक्तिकस्यैव भविष्यति। इह चक्षुष्कामं याजयांचकारेति तिङ्ङतिङः इति तस्य च निघातः तस्माच्चानिघातः प्राप्नोति। आमि लिलोपात् तस्य चानिघातस्माच्च निघातः। आमि लिलोपात्तस्य चानिघातः तस्माच्च निघातः सिद्धो भविष्यति। अङ्गधिकार इटो विधिप्रतिषेधौ। अङगाधिकारे इटो विधिप्रतिषेधौ न सिध्यतः। जिगमिष। संविवृत्स। अङ्गस्येतीटो विधिप्रतिषेधौ न प्राप्नुतः। कमेर्दीर्घत्वं च। किं च? इटश्च विधिप्रतिषेधौ। नेत्याह। अदेशेऽयं चः पठितः। क्रमेश्च दीर्घत्वम्। उत्क्राम- संक्रामेति। इह किंचिदङ्गाधिकारे लुमता लुप्ते प्रत्ययलक्षणेन भवति। किंचिच्चान्यत्र न भवति। यदि पुनर्न लुमता तस्मिन्नित्युच्यते। अथ न लुमता तस्मिन्नित्युच्यमान किं सिद्धमेतद् भवति - इटो विधिप्रतिषेधौ क्रमे दीर्घत्वं च वाढं सिद्धम्। न इटो विधिप्रतिषेधौ परस्मैपदेष्वित्युच्चते। कथं तर्हि? सकारादाविति। तद्विशेषणं परस्मैपदग्रहणम्। न खल्वपि कमेदीर्घत्वं परस्मैपदेष्वित्युच्चते। कथं तर्हि? शितीति। तद्विशेषणं परस्मैपदग्रहणम्। न लुप्ता तस्मिन्निति चनिणिङादेशास्तलोपे। न लुप्ता तस्मिन् इति चेद्वनिणिङादेशास्तलोपे न लुप्ता तस्मिन् इति चेद्वनिणिङादेशास्तलोपे न सिध्यन्ति। अवधि भवता दस्युः। अगायि भवता ग्रामः। अध्यगायि भवतानुवाकः। तलोपे कृते लुङीति हनिणिङादेशा न प्राप्नुवन्ति। नैष दोषः। न लुङीति हनिणिङादेशा उच्चन्ते। किं तर्हि? अर्धधातुक इति। तद्विशेषणं लुङ्ग्रहणम्।इह च - सर्वस्तोमः, सर्वपृष्ठः सर्वस्य सुपीत्याद्युदात्तत्वं न प्राप्नोति। तच्चापि वक्तव्यम्। न वक्तव्यम्। न लुमताङ्गस्येत्येव सिद्धम्। कथम्? न लुमता लुप्तेऽङ्गाधिकारः प्रतिनिर्दिश्यते। किं तर्हि? योऽसौ लुमता लुप्यते तस्मिन् यदङ्गं तस्य यत् कार्ये तन्न भवति। एवमपि सर्वस्वरो न सिध्यति। कर्तव्योत्र यत्नः ॥63 ॥

Kashika

पूर्वेणातिप्रसक्तं प्रत्ययलक्षणमिति विशेषे प्रतिषेध उच्यते। लुमता शब्देन लुप्ते प्रत्यये यदङ्गम्, तस्य प्रत्ययलक्षणं कार्यं न भवति। गर्गाः। मृष्टः। जुहुतः। यञ्शपोर्लुमता लुप्तयोरङ्गस्य गुणवृद्धी न भवतः। लुमतेति किम्? कार्यते। हार्यते। अङ्गस्येति किम्? पञ्च। सप्त। पयः। साम॥

Siddhanta Kaumudi

लुक् श्लु लुप् एते लुमन्तः । लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात् । कति । कति । कतिभिः । कतिभ्यः । कतीभ्यः । कतीनाम् । कतिषु । अस्मद्युष्मत्षट्संज्ञकास्त्रिषु सरूपाः । त्रिशब्दो नित्यं बहुवचनान्तः । त्रयः । त्रीन् । त्रिभिः । त्रिभ्यः ॥

Laghu Siddhanta Kaumudi

लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात्। कति कति । कतिभिः। कतिभ्यः कतिभ्यः । कतीनाम्। कतिषु। युष्मदस्मत् षट् संज्ञकास्त्रिषु सरूपाः॥ त्रिशब्दो नित्यं बहुवचनान्तः। त्रयः। त्रीन्। त्रिभिः। त्रिभ्यः त्रिभ्यः ॥

Balamanorama

न लुमताऽङ्गस्य - न लुमताङ्गस्य ।प्रत्ययलोपे प्रत्ययलक्षण॑मित्यनुवर्तते ।लु॑इत्येकदेशोऽस्यास्तीति लुमान्=लुक्शब्दः श्लुशब्दो सुप्शब्दश्च । तेन शब्देन प्रत्ययलोपे विहिते सति प्रत्ययनिमित्तकमङ्गकार्यं न स्यादित्यर्थः । तदाह — लुक्श्लु इत्यादिना । अङ्गस्येत्यनुक्तौ पञ्च सप्तेत्यादौसुप्तिङन्त॑मिति पदसंज्ञा न स्यात्, जश्शसोर्लुका लुप्तत्वात् । ततश्चन लोपः प्रातिपदिकान्तस्ये॑ति नलोपो न स्यात् । अतोऽङ्गस्येत्युक्तम् । एवञ्च जसि लुका लुप्तेप्रत्ययलक्षणाऽभावाज्जसि चे॑ति गुणो न भवतीत्यभिप्रेत्योदाहरति — कतीति । प्रसङ्गादाह — अस्मदिति । त्रिष्विति । पुंस्त्रीनपुंसकेष्वित्यर्थः । सरूपा इति । समानानि रूपाणि येषामिति विग्रहः । लिङ्गविशेषबोधकटाबाद्यभावादिति भावः । नचैवं सतिअलिह्गे युष्मदस्मदी॑इतिसाम आक॑मिति सूत्रस्थभाष्यविरोध इति वाच्यं, पदान्तरसंनिधानं विना लिङ्गविशेषो युष्मदस्मच्छब्दाभ्यां न प्रतीयते इति हि तदर्थः । अत एवन षट्स्वरुआआदिभ्यः॑ इति पञ्चनादिषट्संज्ञकेभ्यष्टाब्ङीब्निषेधः सङ्गच्छते । अन्यथा स्त्रीत्वाऽभावादेव तदभावे सिद्धे किं तेन । अत एव चङे प्रथमयो॑रिति सूत्रे भाष्ये युष्मानित्यत्रतस्माच्छसो नः पुंसी॑त्युपन्यासः सङ्गच्छते । अत एव चनेतराच्छन्दसी॑ति सूत्रे शिशीनुमादिभिर्युष्मदस्मदाद्यादेशानां विप्रतिषेधपरं वार्तिकं तद्भाष्ये च सङ्गच्छते । इति दिक् । त्रिशब्दे विशेषमाह — त्रिशब्द इति । त्रि-आमिति स्थिते नुटि दीर्घे णत्वे त्रीणामिति प्राप्ते ।

Tattvabodhini

न लुमताऽङ्गस्य - न लुमताङ्गस्य । लुमतेति किम् कार्यते हार्यते । अत्रणेपनिटि॑इति णिलोपेऽपि णिजपक्षे वृद्धिर्भवत्येव । अङ्गस्येति किम् ।पञ्च॒॑सप्त॒॑कती॑त्यादौ प्रत्ययान्तकार्यंसुप्तिङन्ताम् -॑इति पदसंज्ञा यथा स्यात् । अस्मदिति । प्राचा त्वव्ययास्मदिति पठितं,तत्र अव्ययेत्युपेक्षितम्,सदृशं त्रिषु लिङ्गेषु॑इति श्रुतोर्लिङ्गत्रयाद्यभावपरत्वेन अव्ययानामलिङ्गत्वात् । अव्ययीभावस्य तु वचनात्क्लीबत्वेऽपि लिङ्गान्तराऽभावाच्च । त्रिशब्द इति ।तरतेङ्ग्रिः॑ । डित्त्वाट्टिलोपः ।

Padamanjari

‘लुमता’ इति लुशब्दो यस्मिन्नस्ति स लुमानुलुगादिः संज्ञाशब्दः । करणे च तृतीया, लोपे च करणत्वम् । ‘प्रत्ययलोपे’ इत्यनुवृतेः लुमता शब्देन प्रत्ययलोपे सति अङ्गस्य प्रत्ययलक्षणं कार्यं न भवति । तत्र च प्रत्यासतेर्लुप्तप्रत्ययापेक्षया येनाङ्गसंज्ञा प्रतिलब्धा तस्य तन्निमितं कार्यं न भवतीस्यर्थः । एतदेव वस्तुतो दर्शयति - लुमता लुप्ते प्रत्यये यदङ्गमिति । तेनोत्क्रामेत्यत्र ‘अतो हेः’ इति लुकि कृते परस्मैपदापेक्षया ययङ्गंशबन्तं न तस्य दीर्घत्वम्, यस्य च दीर्घत्वं न तत्परस्मैपदापेक्षयाङ्गम् । किं तर्हि ? शबपेक्षयेति निषेधाभावात् प्रत्ययलक्षणेन ‘क्रमः परस्मैपदेषु’ इति दीर्घो भवति, तथा ‘गमेरिट् परस्मैपदेषु’ ङ वृद्भ्यश्चतुर्भ्यः’ इटो विधिप्रतिप्रेधौ जिगमिष विवृत्सेति परस्मैपदलुक्यपि भवतः । लुमता लुप्ते परस्मैपदे यदङ्गं सनन्तं न तस्येटो विधिनिषेधौ, किं तर्हि ? सकारादेः प्रत्ययस्येति । इदं चान्यदस्मिन् ग्रन्थे दर्शितम्-नाङ्गस्येत्यनेनाङ्गाधिकारः प्रतिनिर्दिश्यते ङ लुमता लुप्ते प्रत्यये आङ्गं भवति’ इति, किं तर्हि ? लुमता लुप्ते प्रत्यये यद्ङ्गं तस्याङ्गमनाङ्गं च सर्वं प्रतिषिध्यते इति । तेन गर्गाः, बिदाः-यञञोर्लुक्, उष्ट्रग्रीवः-‘इवे प्रतिकृतौ’ इति कनः ‘देवपथादिभ्यश्च’ इति लुप्, पन्थाः प्रियोऽस्य पथिप्रियः - शुपोधातु’ इति सर्वनामस्थानस्य लुक् । अत्र ‘ञ्नित्यादिर्नित्यम्’,’पथिमथोः सर्वनामस्थाने’ इति चाद्यौदातस्यानाङ्गस्यापि निषेधो भवति । सप्तमीनिर्द्देशाद्ध्येतद्वस्तुतोऽङ्गस्य कार्यम् । तथाऽहर्ददाति - ‘रोः सुपि’ इति रत्वप्रतिषेधो न भवति । यद्यनाङ्गमपि प्रतिषिध्यते, अवधि भवता दस्युः, आगायि भवता ग्रामः, अध्यगायि भवताऽनुवाकः; लुङ् पिरतोऽङ्गस्य विधीयमाना हनिणिङदेशाः ‘चिणो लुक्’ इति लुङे लुकि न स्युः । न लुङ् हिनिणिङदेशा विधीयन्ते, किं तर्हि ? लुङ् यिदार्धधातुकं तत्र । ततश्च लुङि यदङ्गं चिणन्तं न तस्य हनिणिङदेशाः, यस्य च ते न तल्लुक्यङ्गमिति निषेधाभावः । इह तर्हि ‘मा हि दातां सर्पिरागच्छेत्’ इति सिजामन्त्रितयोर्लुकि सति ‘आदिः सिचोऽन्यतरस्याम्’ ‘आमन्त्रितस्य च’ इति आद्यौदातत्वं न स्यात् ? नैतदङ्गस्य चिणन्तं कार्यम्, किं तर्हि ? तदन्तस्य; षष्ठीनिर्देशात् । तेन पयः सामेत्यादौ पदसंज्ञा च भविष्यति । ननु यद्यपि तदन्तस्याद्यौदातत्वम्, पदसंज्ञाऽपि, तथा लुप्ते इदानीं प्रत्यये वस्तुतोऽङ्गस्य प्राप्नुत इति भवितव्यं निषेधेन ? नात्र लुप्ते प्रत्यये यदङ्गस्य प्राप्तं तन्निषिध्यते, किं तर्हि ? अवस्थितेऽपि प्रत्यये यततः पूर्वस्याङ्गस्य कार्यं तन्निषिध्यते । वृक्षा मा हि लाबिष्टामित्यादौ च श्रूयमाणो प्रत्यये तदन्तस्यैव पदसंज्ञा स्वरश्चेति लुप्तेऽपि भविष्यतः । एवं च राज्ञः पुरुष इति श्रूयमाणे ङसि, ततः पूर्वस्य भसंज्ञा न तदन्तस्येति अङ्गकार्यत्वात् लुप्तेऽपि तस्मिन् प्रत्ययलक्षणेन प्राप्ताऽनेन निषिध्यते ॥ इह तर्हि अत्रेरपत्यानि ‘इतश्चानिञः’ इति ठकः ‘अत्रिभृगु’ इति लुकि कृते अत्रय इति तद्धितस्य ‘कितः’ इत्यन्तोदातत्वं स्यात्, तदन्तकार्यत्वात्, नैषदोषा; तद्धितस्यैवान्तोदातत्वम्, न तदन्तस्य । इह तर्हि सर्वः स्तोमो यस्य सर्वस्तोमः-शर्वस्य सुपि’ इत्याद्यौदातत्वं न स्यात्, सुपीति सप्तमीनिर्द्देशात् ? कर्तव्योऽत्र यत्नः । यत्नश्च-सर्वस्य सुप इति षष्ठीनिर्द्देशः षष्ठीनिर्दशे तु तदन्तकार्यत्वात् सिच्स्वरवत् सिध्यति । ननु द्वयोरिप पक्षयोः-अभूवन्, प्रत्ययलक्षणेन जुस्प्राप्नोति, ‘आतः’ इति नियमान्न भविष्यति । इह तर्हि देवदतं याजयाञ्चकार - ‘आमः’ इति लुकं बाधित्वा परित्वातिबाधिषु कृतेषु तेषां च लुकि प्रत्ययलक्षणेन तिङ्न्तत्वादामन्तस्य च विधातः, ततः परस्यानिघातश्च प्राप्नोति, लेरित्यनुवृतेर्लावस्थायामेव लुग्भविष्यति । इह च देवदतो युष्मत्पुत्र इति षष्ठन्तस्य विधीयमानौ वांनानौ ‘द्वितीयास्थायोः इति स्थग्रहणान्न भवतः । षष्ठीचतुर्थीद्वितीयास्ववस्थानं श्रूयमाणस्यैव सम्भवति । इह तर्हि परमवाचा, परमगौदुहा, परमलिहा, परमदण्डिना, परमदिवापरमकुमार्येति समासार्था या विभक्तिः, तामाश्रित्योतरपदस्य पदसंज्ञायां प्राप्तयाम्, ‘चोः कुः’, ‘दादेर्धातोर्घः’,’हो ढः ‘, नलोपः प्रतिपदिकान्तस्य’ ‘दिव उत्’,’इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च’ इति -एते विधयः प्राप्नुवन्ति नैष दोषः; भसंज्ञाविषये तावत्सैव पदसंज्ञां बाधिष्यते । ननु च समुदायस्य पदसंज्ञा स्वादिष्वति प्राप्ता सा तुल्याविधिकया भसंज्ञया बाध्यताम्, या तुतरपदस्य सुबन्तमिति प्राप्त सा कथं बाध्यते, भिन्नावधित्वात् ? एवं तर्हि शुप्तिङ्न्तम्’ इत्यतः सुबन्तमित्यनुवर्तनीयम्, ततश्चायमर्थो भवति-‘यजादावसर्वनामस्थाने परतः पूर्वस्समुदायो भसंज्ञो भवति । तत्र च समुदाये यत्सुबन्तं वर्तते तदपि भसंज्ञं भवति यजादावनन्तरे’ इति । तत्र च समुदायस्य भसंज्ञा प्रधानशिष्टा, अवयवस्य त्वन्वायशिष्टा । यत्र च सुबन्तं पश्यति तत्र तस्यापीति, तेन राज्ञ इत्यादौ सुबन्ताभावेऽपि भवति । सुबन्तसद्भावे तु तस्य समुदायस्य चेति विवेक्तव्यम् । सर्वनामस्थानेऽपि ‘असर्वनामस्थाने’ इति प्रतिषेधात् पदसंज्ञा न भविष्यति । ननु ‘स्वादिषु’ इति या प्राप्तिः समुदायस्य, तस्या एव स प्रतिषेधः, नेत्याह; तत्रापि सुबन्तमित्यनुवर्तते, प्रसज्यप्रतिषेधश्चाश्रीयते, तत्सामर्थ्यात् ‘अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा’ इति नाश्रीयते; ततश्चायमर्थो भवति - शर्वनामस्थाने परतः पूर्वसय् समुदायसंय स्वादिष्विति प्राप्ता पदसंज्ञा न भवति । तत्र च यत्सुबन्तमवयवत्वेन वर्तते, तस्य सुबन्तस्य पदसंज्ञा न भवति’ इति । यद्येवम्; सुवाक्, सुराजेति सावपि समुदायस्यावयवस्य च स्वादिष्विति वा सुबन्तमिति वा पदसंज्ञाया अभावात् कुत्वादि न स्यात् । एवं तर्हि ‘असर्वनामस्थाने’ इत्यत्र उतरसूत्राद्यचीत्यपकृष्यते, ततो यजादौ सर्वनामस्थाने या च यावती च पदसंज्ञा, सा सर्वा प्रतिषिध्यते; सौ तु स्वादिष्विति च सुबन्तमिति च भवत्येव । यद्येवम्, श्रूयमाणएऽपि सौ पूर्वस्य पदसंज्ञा प्राप्नोति, तत्र को दोषः ? ‘एचोऽप्रगृह्यस्य’ इत्यत्र पदान्तग्रहणं चोदयिष्यति-भद्रं करोषि गौरित्यत्र मा भूदिति । तत्र क्रियमाणेऽपि पदान्तग्रहणे प्लुतविकारः प्राप्नोति, नैष दोषः; वाक्यपदयोरन्त्यस्येत्येवमेतद्विज्ञायते, तदेवं समासेषूतरपदस्य पदत्वं नास्तीति स्थितम् । यद्येवम्, दधिसेचौ, दधिसेचः शात्पदाद्योः’ इति षत्वनिषेधो न प्राप्नोति, नैवं विज्ञायते-पदस्यादिः पदादिः, पदादेर्नेति, कथं तर्हि ? पदादादिः पदादिः, दादेर्नेति । कथमग्निषु, वाक्षु, त्वक्षु ? सात्प्रतिषेधो ज्ञापयतिस्वादौ यत्पदं ततः परस्य नेति । अवश्यं च पदादादिरित्येवं विज्ञेयम्, अन्यथा ‘गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पतेः’ इति यत्र सुबन्तमुतरपदं तत्र प्रतिषेधो न स्यात् । इह तर्हि बहुसेचौ, बहुसेचम्, बहुचोऽपदत्वात्, प्रतिषेधो न प्राप्नोति, वक्तव्यमेवैतत् ‘बहुच्पूर्वस्य न’ इति, तत्रायं सूत्रन्यासः-साते सः षत्वं न भवति, ततो ‘बहुचः’,बहुचः परस्य षत्वं न भवति; आदिग्रहणं न कर्तव्यम्, ‘आदेः परस्य’ इत्येव सिद्धम् । तदिदं बहुज्ग्रहणेन निमातव्यम् । कार्यते, हार्यते इति । ण्यन्तात्कर्मणि लकारः, यक्, णिलोपः । ननु चात्रान्तरङ्गा वृद्धिरुत्पन्नमात्र एव णौ भवति, लोपस्तु यकि भवन् बहिरङ्गः । एवं तर्हि विभज्यान्वाख्यानपक्षे एतत्प्रत्युदाहृतम् ॥

Nyaas

लुमता इति। लुशब्दो यस्मिन्निस्ति स लुमान्। कः पुनरसौ? लुगित्यादिसंज्ञाशब्दः। करणे चेयं तृतीया, हे तौ व, इत्थम्भूतलक्षणे वा। लुमता करणेन लुप्ते प्रत्यये, तेन हेतुना वा, तदुपलक्षितेन वेत्यर्थः। अथ प्रत्य इत्येतत् कुतो लभ्यते? प्रत्ययादर्शनस्यैव लुगादिसंज्ञाविधानात्।लुमताशब्देन लुप्ते प्रत्यये यदङ्गम् इति। तत् पुनस्तमेव प्रत्ययं निमित्तमाश्रित्य येनाङ्गसंज्ञा प्रतिलब्धा तद् वेदितव्यम्।तस्य प्रत्ययलक्षणं कार्यं न भवतीत्यविशेषाभिधानेऽपि प्रत्यासत्तेर्य एवासौ लुमता लुप्तः प्रत्ययोऽङ्गसंज्ञाया निमित्तं तल्लक्षणमिति गम्यते। गर्गाः इति। गर्गादिभ्यो यञ् (4.1.105) यञञोश्च (2.4.64) इति बहुषु लुक्। अत्र तद्धितेष्वलचामादेः (7.2.117) इति वृद्धिर्न भवति। मृष्टः इति। मृजेस्तदस्, अदादित्वाच्छपो लुक्, व्रश्चादिसूत्रेण षत्वम्, ष्टुत्वम्, मृजेर्वृद्धिः (7.2.114) इति वृद्धिर्न भवति। जुहुतः इति। तसि परतो जुहोत्यादिभ्यः श्लौ कृते सार्वधातुकलक्षणो गुणो न भवति। सर्वत्र यमेव प्रत्ययमाश्रित्याङ्गसंज्ञा जाता स एव वृद्ध्यादेः कार्यस्य निमित्तम्। इह च विशेषस्यानाश्रणान्न केवलमङ्गाधिकारविहितं कार्यं प्रतिषिध्यते; अपि त्वनङ्गा4धिकारविहितमपि। तेन गर्गाः, बिदाः, उष्ट्रग्रीवा इत्यत्र ञ्नित्यादिर्नित्यम् (6.1.197) इत्याद्युदात्तत्वमनङ्गाधिकारविहितमपि न भवति। इह च - अत्रय इति तद्धितस्य कितः (6.1.159) इत्यन्तोदात्तत्वम्। गर्गाः, बिदा इति यथाक्रमं गर्गादियञ्। अनृष्यान्नतर्ये विददिभ्योऽञ् (4.1.104) इत्यञ्। यञञोश्च (2.4.64) इति लुक्।उष्ट्रग्रीवा इति। इवे प्रतिकृतौ (5.3.96) इति विहितस्य कनो **देवपथादिभ्यश्च** (5.3.100) इति लुप्। अत्रय इति अत्रेरपत्यार्थे **इतश्चानिञः** (4.1.122) इति विहितस्य ढकः `अत्रिभृगुकुत्सवसिष्ठ (2.4.65) इत्यादिना बहुषु लुक्। पञ्च, सप्त इति। षड्-भ्यो लुक् (7.1.22) इति जश्शसोर्लुक्। पयः साम`इति। अत्रापि **स्वमोर्नपुंसकात्** (7.1.23) इति। अत्र यद्यपि लुमता लुप्तः प्रत्ययः, तन्निमित्ता चाङ्गसंज्ञा, तथापि प्रत्ययलक्षणेन `सुप्तिङ्गन्तं पदम् (1.4.14) इति पदसंज्ञा भवत्येव; यस्मान्नासाव-ङ्गस्य कार्यम्, अपि तु सविभक्तिकस्य समुदायस्य प्रत्ययस्य हि पूर्वभागोऽङ्गम्। न चेह तस् लुमता यो लुप्तः प्रत्यमाश्रित्याह्गसंज्ञा भवति तमेवाश्रित्य पदसंज्ञा प्राप्नोति। पदसंज्ञायञ्चेह सत्यां पय इत्यत्र ससजुषो रुः (8.2.66) इति रुत्वम्। खरवसनियोर्विसर्जनीयश्च पदकार्यं भवति। पञ्च, सप्त,साम इति। अत्रापि नलोपः प्रा-तिपदिकान्तस्य (8.2.7) इति नलोपः पदसंज्ञाकार्यम्। कार्यते इति। ण्यन्तात्कर्मणि लकारः, सार्वधातुके यक् (3.1.67) अत्र न लुमता प्रत्ययो लुप्तः किं तर्हि? णेरनिटि (6.4.51) इति; अत्र अतो लोपः (6.4.48) इत्यस्माल्लोपग्रहणानुवृत्तेः। तेन प्रत्ययलक्षणा वृद्धिर्भवत्येव॥

Praudhamanorama

अस्मदिति। अत्र प्राचा अव्ययेत्यपि पठितं तत्तु अव्ययानां प्रायेण निर्लिङ्गत्वाद् अव्ययीभावस्य क्लीबत्वेऽपि लिङ्गान्तराभावाच्चोपेक्षितम्।

Prakriyasarvasvam

लुक्श्लुलुपा लुमन्तः । तैः प्रत्ययलोपे कृतेऽङ्गस्य लुप्तप्रत्ययाश्रितकार्यं न स्यात् । णिलुका बुद्धेरप्यभावः । पट् अ । द्वित्वमभ्यासस्याप्युक् । पटूपटः । <karika>माधवोऽभ्यासदीर्घोक्त्या पाटुपट इतीच्छति । पाटेणिलुग् दीर्घ ऊक् चेत्यूचिवान् भोजराडपि ॥ ७६ ॥</karika> ‘तमः पटपटूपटम्’, ‘आटोपपाटुपटमि’ति च प्रयोगः । द्वित्वं वेति हरः । पाटः मेघति सिञ्चतीति मेघः । न्यग्रोहतीति न्यग्रोधः ।

Sarala

प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यनुवर्त्तते, तदाह - लुमतेति । लुक्, श्लु, लुप् - एते लुमन्ताः । युष्मच्छब्दः, अस्मच्छब्दः, षट्सञ्ज्ञकाः = षान्ता-नान्ताः सङ्ख्यावाचकाः पञ्चादयः, डत्यन्तः - कतिशब्दश्च, एते त्रिषु = त्रिष्वपि लिङ्गेषु, सरूपाः = तुल्यरूपा भवन्तीत्यर्थः । “त्वं पुमान्”, “त्वं स्त्री”, “त्वं कुलं” । “पञ्च पुरुषाः”, “पञ्च नद्यः”, “पञ्च सूत्राणि”, “षट् पुरुषाः”, “षट् स्त्रियः”, “षड्ढलानि”, “कति घटाः”, “कति स्त्रियः”, “कति वस्त्राणि” - इत्येवं त्रिष्वपि लिङ्गेषु समानमेवैषां रूपं भवतीत्याशयः ॥

Sudha

न लुमताङ्गस्येति । प्रत्ययलोपे प्रत्ययलक्षणमित्यनुवर्तते । लुइत्येकदेशोऽस्यास्तीति लुमान् । लुक्शब्दः, श्लुशब्दः,लुप् शब्दश्च । तेन शब्देन प्रत्ययलोपे विहिते प्रत्ययनिमित्तकमङ्गकार्यं न स्यादित्यर्थः । कति । कतिशब्दस्य बहुत्वविशिष्टवाचकत्वात् प्रथमाबहुवचने जसि कृते बहुगणवतुडति संख्या**(1.1.23) इत्यनेन डत्यन्तत्वात् कतिशब्दस्य संख्यासंज्ञायां सत्याम् **डति च**(1.1.25) इति षट्संज्ञा जाता । “कति जस्” इत्यवस्थायां **षड्भ्यो लुक्**(7.1.22) इति जसो लुकि सति **प्रत्ययलोपे प्रत्ययलक्षणम्**(1.1.62) इत्यनेन प्रत्ययलक्षणं मत्वा **जसि च**(7.3.109) इति कतिशब्दस्येकारस्य गुणे प्राप्ते **न लुमताङ्गस्य**(1.1.63) इत्यनेन अङ्गकार्यस्य गुणस्य निषेधे विहिते सति “कति” इति रूपम् । **कति । कतिशब्दात् द्वितीयाबहुवचने शसि कृते संख्यासंज्ञां विधाय षट्संज्ञा कृताऽनन्तरम् षड्भ्यो लुक्**(7.1.22) इति लुकि सति । “कति” इति रूपम् । **त्रिष्विति । पुस्त्रीनपुंसकेष्वित्यर्थः । सरूपा इति । समानानि रूपाणि येषामित्यर्थः । त्रयः । त्रिशब्दस्य बहुत्ववाचकत्वात् प्रथमाबहुवचने जसि कृते चुटू**(1.3.7) इति जसो जकारस्येत्संज्ञायां लोपे च ‘त्रि - अस्’ इति स्थिते **जसि च**(7.3.109) इति गुणे **एचोऽयवायावः**(6.1.78) इत्ययादेशे रुत्वे विसर्गे च “त्रयः” इति रूपम् । **त्रीन् । त्रिशब्दात् शसि शसःशकारस्येत्संज्ञायां लोपे च **प्रथमयोः पूर्वसवर्णः**(6.1.102) इति पूर्वपरयोः स्थाने पूर्वसवर्णदीर्घादेशे कृते **तस्माच्छसो नः पुंसि**(6.1.103) इति सकारस्य नकारादेशे कृते “त्रीन्” इति रूपम् ।

Vartika

उत्तरपदत्वे चापदादिविधौ ।