11062: प्रत्ययलोपे प्रत्ययलक्षणम्¶
Padacheda: प्रत्ययलोपे | S | 7 | 1 |
प्रत्ययलक्षणम् | S | 1 | 1 |
Sutrartha¶
प्रत्ययस्य लोपे कृते अपि प्रत्ययाश्रितं कार्यम् भवति ।
अष्टाध्याय्याम् ‘लुक्’, ‘श्लुः’, ‘लुप्’, तथा ‘लोपः’ इत्येताभिः चतसृभिः संज्ञाभिः प्रत्ययस्य लोपः विधीयते । एताभ्यः कयाचित् अपि संज्ञया प्रत्ययस्य लोपः क्रियते चेदपि (लुप्त)प्रत्ययनिमित्तकम् कार्यम् प्रक्रियायाम् अवश्यं भवति — इति प्रकृतसूत्रस्य आशयः । कानिचन उदाहरणानि एतानि — 1. “नदी”-शब्दस्य प्रथमैकवचनस्य रूपसिद्धौ सुँ-प्रत्ययस्य लोपे कृते अपि प्रकृतसूत्रेण पदसंज्ञा अवश्यं प्रवर्तते ।
नदी + सुँ [प्रथमैकवचनस्य प्रत्ययः]
→ नदी [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँ-प्रत्ययस्य लोपः । सुँ-प्रत्ययस्य लोपे अपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन प्रत्ययनिमित्तकम् कार्यम् भवति, अतः **सुप्तिङन्तं पदम्** (1.4.14) इत्यनेन 'नदी' इत्यस्य पदसंज्ञा भवति ।
“षष्” इति षट्-संज्ञकशब्दस्य प्रथमाबहुवचनस्य रूपसिद्धौ जस्-प्रत्ययस्य लुकि कृते अपि प्रकृतसूत्रेण पदसंज्ञा अवश्यं प्रवर्तते —
षष् + जस् [प्रथमाबहुवचनस्य प्रत्ययः । अत्र षष्-शब्दस्य **ष्णान्ता षट्** (1.1.24) इति षट्-संज्ञा भवति ।
→ षष् [**षड्भ्यो लुक्** (7.1.22) इति षट्-संज्ञकात् षष्-शब्दात् विहितस्य जस्-प्रत्ययस्य लुक् भवति । प्रत्ययस्य लुकि कृते अपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन प्रत्ययनिमित्तकम् कार्यम् भवति, अतः **सुप्तिङन्तं पदम्** (1.4.14) इत्यनेन 'षष्' शब्दस्य पदसंज्ञा भवति ।]
→ षड् [पदसंज्ञायां सत्याम् **झलां जशोऽन्ते** (8.2.39) इति पदान्तषकारस्य जश्त्वे डकारः]
→ षड्, षट् [अवसाने परे **वाऽवसाने** (8.4.56) इति पाक्षिकं चर्त्वम् ]
अदस्-शब्दस्य प्रथमैकवचनस्य रूपसिद्धौ सुँ-प्रत्ययस्य लोपे कृते प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इत्यनेन प्रत्ययविशिष्टम् कार्यम् अवश्यं प्रवर्तते, अतः तदोः सः सावनन्त्ययोः (7.2.106) इति दकारस्य सकारे कृते इष्टरूपं सिद्ध्यति —
अदस् + सुँ
→ अदऔ [**अदस औ सुलोपश्च** (7.2.107) इति सकारस्य औकारः, सुलोपश्च]
→ अदौ [**वृद्धिरेचि** (6.1.88) इति वृद्धि-एकादेशः]
→ असौ [यद्यपि सुँ-प्रत्ययस्य लोपः कृतः अस्ति, तथापि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन सुँ-प्रत्ययविशिष्टम् कार्यम् भवत्येव । अतः **तदोः सः सावनन्त्ययोः** (7.2.106) इति दकारस्य सकारः भवति, तथा च **सुप्तिङन्तं पदम्** (1.4.14) इत्यनेन 'असौ' इत्यस्य पदसंज्ञा अपि भवति ।]
“अग्नि” इति उपपदस्य उपस्थितौ स्वादिगणस्य “चि” धातो: अग्नौ चेः (3.2.91) इत्यनेन क्विप्-प्रत्यये कृते, तस्य लोपात् अनन्तरम् प्रत्ययलक्षणेन तुगागमः भवति —
अग्नि + चि + क्विप्
→ अग्नि + चि + व् [ककारपकारयोः इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, सोऽपि लुप्यते ।]
→ अग्नि + चि [अपृक्तवकारस्य **वेरपृक्तस्य** (6.1.67) इति लोपः ]
→ अग्नि + चित् [यद्यपि प्रत्ययस्य लोपः कृतः अस्ति, तथापि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन प्रत्ययविशिष्टम् कार्यम् भवत्येव । अतः **ह्रस्वस्य पिति कृति तुक्** (6.1.71) इत्यनेन पित्-कृत्-प्रत्यये परे धातोः तुगागमः भवति ।]
→ अग्निचित्
“दुह्”-धातोः लङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धौ तिप्-प्रत्ययस्य लोपे कृते अपि प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इत्यनेन प्रत्ययविशिष्टम् कार्यम् भवति, अतः सुप्तिङन्तं पदम् (1.4.14) इत्यनेन पदसंज्ञा विधीयते, येन अग्रे लघूपधगुणः, तथा च भष्भावादीनि त्रिपादीकार्याणि अपि प्रवर्तन्ते —
दुहँ (प्रपूरणे, अदादिः, (2.4))
→ दुह् + लङ् [**अनद्यतने लङ्** (3.2.111)
→ अट् + दुह् + लङ् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः]
→ अ + दुह् + तिप् [**तिप्तस्झि..** (3.4.78) इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ अ + दुह् + त् [**इतश्च** (3.4.100) इति इकारलोपः]
→ अ + दुह् + शप् + त् [**कर्तरि शप्** (3.1.68) इति शप्]
→ अ + दुह् + त् [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शपः लुक्]
→ अ + दुह् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति अपृक्त-ति-प्रत्ययस्य लोपः ।]
→ अ + दोह् [ प्रत्ययस्य लोपे कृते अपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन प्रत्ययविशिष्टम् कार्यम् अवश्यं भवति, अतः अत्र **पुगन्तलघूपधस्य च** (7.3.86) इति लघूपधगुणः प्रवर्तते ]
→ अ + दोघ् [प्रत्ययस्य लोपे कृते अपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन प्रत्ययविशिष्टम् कार्यम् अवश्यं भवति, अतः **सुप्तिङन्तं पदम्** (1.4.14) इत्यनेन "अदुह्" इत्यस्य पदसंज्ञा विधीयते । पदसंज्ञायां जातायाम् **दादेर्धातोर्घः** (8.2.32) इति पदान्तहकारस्य घत्वम् भवति ।]
→ अ + धुघ् [**एकाचो बशो भष् झषन्तस्य स्ध्वोः** (8.2.37) इति पदान्ते भष्भावे दकारस्य धकारः]
→ अ + धुग् [**झलां जशोऽन्ते** (8.2.39) इति पदान्ते जश्त्वम्]
→ अधुक् , अधुग् [**वाऽवसाने** (8.4.56) इति अवसाने परे वैकल्पिकं चर्त्वम् ]
सूत्रे ‘प्रत्यय’शब्दस्य द्विवारं निर्देशस्य प्रयोजनम्
अस्मिन् सूत्रे ‘प्रत्ययलोपे’ इति शब्दे प्रत्ययशब्दस्य निर्देशे सत्यपि ‘प्रत्ययलक्षणम्’ इत्यस्मिन् शब्दे पुनः प्रत्ययशब्दस्य ग्रहणम् कृतम् अस्ति । एतादृशम् द्विवारम् ‘प्रत्यय’शब्दस्य ग्रहणम् ‘कृत्स्नप्रत्ययलोपार्थम् अस्ति’ इति काशिकायाम् स्पष्टी क्रियते । इत्युक्ते, यदि प्रत्ययस्य सम्पूर्णरूपेण लोपः न भवति, अपितु प्रत्ययस्य कस्यचन अंशस्यैव लोपः जायते, तर्हि अस्य लुप्त-अंशस्य लक्षणेन जायमानस्य कार्यस्य विषये इदं सूत्रं नैव प्रयोक्तव्यम् । यथा, आङ्-उपसर्गपूर्वकस्य हन् धातोः विधिलिङ्लकारस्य आत्मनेपदस्य उत्तमपुरुषैकवचनस्य प्रक्रियायाम् ‘सीयि’ इति आगमसहितस्य प्रत्ययस्य सम्पूर्णरूपेण लोपः न भवति, अपितु अस्य प्रत्ययस्य केवलम् आदिस्थस्य सकारस्यैव लोपः भवति । अस्यां स्थितौ लुप्त-सकारस्य झल्-प्रत्याहारस्थत्वम् आश्रित्य, ‘सीयि’ प्रत्ययं झलादि-ङित्-प्रत्ययं स्वीकृत्य, प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इत्यनेन अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति (6.4.37) इत्यनेन जायमानम् झलादि-ङित्-प्रत्ययनिमित्तकम् अनुनासिकादिलोपकार्यं नैव सम्भवति । सम्पूर्णा प्रक्रिया एतादृशी —
हनँ (हिंसागत्योः, परस्मैपदी, अदादिः)
→ आङ् + हन् + लिङ् [**विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्** (3.3.161) इति लिङ् । अत्र **आङो यमहनः** (1.3.28) इत्यनेन आत्मनेपदित्वं विधीयते ।]
→ आ + हन् + इट् [**तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इत्यनेन आत्मनेपदस्य उत्तमपुरुषैकवचनस्य विवक्षायां इट्-प्रत्ययः । **सार्वधातुकमपित्** (1.2.4) इति सूत्रेण अयं प्रत्ययः ङिद्वत् भवति ।]
→ आ + हन् + शप् + इ [**कर्तरि शप्** (3.1.68) इति शप्-विकरणप्रत्ययः]
→ आ + हन् + इ [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शपः लुक्]
→ आ + हन् + सीयुट् + इ [**लिङस्सीयुट्** (3.4.102) इति इ-प्रत्ययस्य सीयुट्-आगमः । टित्त्वात् **आद्यन्तौ टकितौ** (1.1.46) इति आद्यवयवः ।]
→ आ + हन् + सीय् + इ [टकारस्य इत्संज्ञालोपः । यकारोत्तरः उकारः उच्चारणार्थः, सोऽपि लुप्यते । अत्र इट्-प्रत्ययस्य विहितः सीय्-आगमः **यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते** इति परिभाषया प्रत्ययग्रहणेन अवश्यं गृह्यते । अतः अत्र 'सीयि' इति झलादि-ङित्-प्रत्ययः अस्ति इति मन्यते ।]
→ आ + हन् + ईय् + इ [लिङ्लकारस्य प्रत्ययस्य अवयवः यः सकारः, तस्य **लिङः सलोपोऽनन्त्यस्य** (7.2.79) इति सूत्रेण लोपः भवति । अत्र सम्पूर्णस्य प्रत्ययस्य लोपः न क्रियते, अपितु तस्य केवलम् एकस्य अंशस्यैव लोपः कृतः अस्ति । अस्य लुप्त-अंशस्य लक्षणम् उपयुज्य अत्र प्रत्ययलक्षणनिमित्तकम् कार्यम् न भवति । अतः अत्र **अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति** (6.4.37) इत्यनेन जायमानम् झलादि-ङित्-प्रत्ययनिमित्तकम् अनुनासिकादिलोपकार्यं नैव सम्भवति ।]
→ आ + ह् न् + ईय् + इ [**गमहनजनखनघसां लोपः क्ङित्यनङि ** (6.4.98) इत्यनेन अङ्गस्य उपधावर्णस्य अजादि-ङित्-प्रत्यये परे लोपः]
→ आ + घ् न् + ईय् + इ [**हो हन्तेर्ञ्णिन्नेषु** (7.3.54) इति हकारस्य कुत्वे घकारः]
→ आ + घ् न् + ईय् + अ [**इटोऽत्** (3.4.106) इति प्रत्ययस्य अकारादेशः]
→ आघ्नीय
परिभाषा - वर्णाश्रये नास्ति प्रत्ययलक्षणम्
प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इत्यस्मिन् सूत्रे विद्यमानस्य ‘प्रत्ययलक्षणम्’ इति शब्दस्य अर्थं दातुम् परिभाषेन्दुशेखरे ** वर्णाश्रये नास्ति प्रत्ययलक्षणम्** इति परिभाषा सङ्कलिता अस्ति । अत्र प्रयुक्तेन ** प्रत्ययलक्षणम् इति शब्देन केवलं सम्पूर्णप्रत्ययनिमित्तकम् कार्यम् एव गृह्यते, न हि प्रत्ययस्य विशिष्टवर्णनिमित्तकम् कार्यम्** — इति अनया परिभाषया स्पष्टी क्रियते । इत्युक्ते, यदा प्रत्ययस्य लोपः भवति, तदा तत्र विद्यमानानाम् वर्णानाम् आधारेण किमपि ‘वर्णकार्यम्’ न करणीयम्, अपितु सम्पूर्णस्य प्रत्ययस्य विषये निर्दिष्टम् कार्यमेव करणीयम् — इति अस्याः परिभाषायाः आशयः । यथा, ‘गवे हितम्’ इत्यत्र चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (2.1.36) इति सूत्रेण चतुर्थीतत्पुरुषसमासः सम्भवति । अत्र समासप्रक्रियायाम् ‘गो’ शब्दात् विहितस्य चतुर्थ्येकवचनस्य ए-प्रत्ययस्य सुपो धातुप्रातिपदिकयोः (2.4.71) इति लुक् भवति । एतादृशे प्रत्ययलोपे कृते, ए-इति लुप्तप्रत्ययम् आश्रित्य गो-शब्दस्य ओकारस्य एचोऽयवायावः (6.1.78) इत्यनेन अवादेशः नैव करणीयः, यतः अयम् अवादेशः प्रत्ययनिमित्तकम् कार्यम् नास्ति, अपितु वर्णनिमित्तकम् कार्यम् अस्ति (एतत् कार्यम् प्रत्ययभिन्न-एकारे परे अपि भवितुम् अर्हति इत्याशयः) । सम्पूर्णा प्रक्रिया इयम् —
गवे हितम् [**चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः** (2.1.36) इति सूत्रेण चतुर्थीतत्पुरुषसमासः । ]
= गो ङे हित सुँ [समासस्य अलौकिकविग्रहः]
→ गो हित [समस्तपदस्य **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । प्रातिपदिकसंज्ञायां सत्याम् **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति ङे-प्रत्ययस्य सुँ-प्रत्ययस्य च लुक् भवति । अत्र ङे (ए) इति प्रत्ययस्य लोपे कृते अपि, **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन लुप्त-एकार-निमित्तकः **एचोऽयवायावः** (6.1.78) इत्यनेन प्राप्तः अवादेशः नैव करणीयः, यतः अयम् अयादेशः प्रत्ययनिमित्तकम् कार्यम् नास्ति, अपितु विशिष्टवर्णनिमित्तककार्यरूपेणैव अत्र प्रवर्तते । अयमेव ** वर्णाश्रये नास्ति प्रत्ययलक्षणम्** इति परिभाषायाः आशयः ।]
→ गोहित
सर्वविधिभ्यो लोपविधिर्बलवान्
प्राचीनवैयाकरणैः प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इति सूत्रम् ज्ञापकरूपेण स्वीकृत्य सर्वविधिभ्यः लोपविधिः बलवान् इति परिभाषा स्वीक्रियते । तेषाम् आशयः अयम् — यदि सर्वत्र अन्यान् विधीन् कृत्वा तदन्तरमेव लोपकार्यम् क्रियते, तर्हि प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इत्येतं सूत्रमेव व्यर्थं स्यात् । अतः एतत् सूत्रमेव अस्य ज्ञापकम्, यत् लोपकार्यम् अन्यविधीनाम् अपेक्षया प्राधान्येन करणीयम् - इति । अस्मिन् विषये व्याडिपरिभाषाग्रन्थे उच्यते — <source> इह शास्त्रे सर्वविधिभ्यो लोपविधिर्बलवान् भवति । कथं ज्ञायते ? यदयं प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इत्याह । कथं कृत्वा ज्ञापकम् ? एतत्सूत्रं नारब्धव्यम् । कथम् ? प्रत्ययाश्रयाणि कार्याणि भविष्यन्ति । सर्वाणि कृत्वा पश्चात् प्रत्ययलोपं करिष्यामि । पश्यति आचार्यः । लोप एव तावद्भति । तस्मिन् लोपे कृते तदाश्रयाणि न प्राप्नुवन्ति । तस्मात् प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इति । <light>- व्याडिकृतात् परिभाषासूचनग्रन्थात् परिभाषा-57 इत्यतः उद्धृतम् ।</light> </source> नागेशः तु परिभाषेन्दुशेखरे इमां परिभाषां परिभाषा-100 इत्यत्र सर्वविधिभ्यो लोपविधिरिड्विधिश्च बलवान् इति पाठयित्वा तत्र एतद् अपि निर्दिशति यत् इयं परिभाषा भाष्ये अनुक्ता अस्ति ।
अहन्-शब्दात् विहितस्य सुप्-प्रत्ययस्य लुकि कृते रेफादेशे कर्तव्ये प्रत्ययलक्षणं न भवति
नकारान्तनपुंसकलिङ्गस्य “अहन्”-शब्दस्य विषये यत्र सुप्-प्रत्ययस्य लुक् भवति, तत्र “अहन्”-शब्दस्य नकारस्य रोऽसुपि (8.2.69) इति सूत्रेण रेफादेशः इष्यते । परन्तु तत्र प्रक्रियायाम् लुप्तः सुप्-प्रत्ययः प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इत्यनेन यदि उपतिष्ठेत, तर्हि “असुपि” इति तत्र नैव सङ्गच्छेत, येन रोऽसुपि (8.2.69) इति सूत्रेण उक्तः रेफादेशः अपि नैव सम्भवेत् । एतादृशम् मा भूत्, अतः भाष्यकारेण अस्यां प्रक्रियायाम् विशेषरूपेण प्रत्ययलक्षणस्य निषेधः कृतः अस्ति । तत्र भाष्यकारः ब्रूते — अह्नो रविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवति । ** “अहन्”-शब्दात् विहितस्य सुप्-प्रत्ययस्य लुक् भवति चेत् रेफादेशे कर्तव्ये प्रत्ययलक्षणम् न प्रवर्तते; इत्युक्ते लुप्तः सुप्-प्रत्ययः प्रत्ययलक्षणेन (रेफादेशं प्रतिषेद्धुम्) तत्र नैव उपतिष्ठति — इति अस्य अर्थः । अतएव **रोऽसुपि (8.2.69) इति सूत्रस्य “असुपि” इति निषेधः तत्र सङ्गच्छते, येन अहन्-शब्दस्य इष्टः नकारादेशः अपि भवितुम् अर्हति । अस्मिन् सन्दर्भे अधिकं पिपिषवः रोऽसुपि (8.2.69) इति सूत्रस्य व्याख्यां पश्येयुः ।
Sutrartha (English)¶
The कार्य associated with a प्रत्यय happens even when the प्रत्यय undergoes a लोप.
Vasu English Summary¶
When elision of an affix has taken place (लोप), the affix still exerts its influence and the operations dependant upon it, take place as if it were present.
Vasu English Translation¶
When elision of an affix has taken place (लोप), the affix still exerts its influence and the operations dependant upon it, take place as if it were present. This sutra declares that when an affix disappears by lopa-elision its potency does not disappear. Thus the term ‘pada’ is defined to be that which ends in a case-affix or a conjugational-affix. But after certain bases, these affixes vanish; still those bases become ‘pada’ in spite of the vanishing of the whole affix. How can an operation directed by an affix take place, when the affix itself vanishes, is a doubt which may naturally arise. This sutra answers the question. Though an affix may be elided by lopa, yet an operation of which such an affix was the cause, must take place. Thus अग्निचित् is a pada though the case-termination has been elided. Similarly the word अधोक् ‘he milked;’ which is the Imperfect (लङ्) of दुह्, and is thus formed. अदोह् + तिप् = अदोह् + त् (3.4.100) = अदोह् + ० (6.1.68) = अदोघ् + ० (8.2.32) (here ह् is changed into घ् by taking the word ‘aduh’ as a ‘pada’) अधोघ् + ० (8.2.37) = अधोग् (8.2.39) = अधोक्.
Why have we used the word प्रत्यय in this aphorism again, when its anuvritti was understood in this sutra * from the last ? This repetition indicates that the present rule applies where the whole of the affix is elided, and not when a portion of an affix is elided. The present *sutra, therefore, does not apply to forms like आघ्नीय and सङ्ग्मीय. These forms are the 1st person sing. लिङ् Atmanepada of हन् and गम्. Thus आहन् + इट् = आहन् + अ (3.4.106) = आहन् + सीयुट् + अ (3.4.102) = आहन् + ईय् + अ. Here, स् a portion of the affix सीयुट् is elided by (7.2.79); now there will be no प्रत्ययलक्षण of this partial elision of an affix. Had it been so, the final nasal न् of आहन् would have been elided by (6.4.37): but that is not so: and we have आघ्नीय (7.3.54) and (6.4.98).
The word लक्षण means that by which a thing is recognised. The word प्रत्ययलक्षण, therefore, means the effect by which an affix could be recognised. The orthographical changes, like the following, are not however pratyaya-lakshana. In forming the genitive singular of रै ‘wealth,’ we have रै + अस् = रायः, here, the change of ऐ into आय् by the rules of sandhi, though caused by the affix अस्; is not such an effect, which the affix causes, by virtue of being an affix, but it is an effect caused by the accidental fact, that the affix begins with a vowel, and thus gives scope to the euphonic rule (6.1.78). Therefore, when in forming the genitive compound of रायः + कुलं, we elide the case-affix अस्, we get the form रैकुलम्. Here the elided affix will not cause the peculiar orthographic change mentioned above, which is dependent upon its letters, and not upon the affix as such.
Bhashya¶
प्रत्ययलोपे प्रत्ययलक्षणम् प्रत्ययग्रहणं किमर्थम् ? लोपे प्रत्ययलक्षणम् इतीयत्युच्यमाने सौरथी वैहतीति गुरूपोत्तमलक्षणः ष्यङ् प्रसज्येत। नैष दोषः। नैवं विज्ञायते - लोपे प्रत्ययलक्षणं भवति - प्रत्ययस्य प्रादुर्भाव इति। कथं तर्हि? प्रत्ययो लक्षणं यस्य कार्यस्य तत् लुप्तेपि भवति। इदं तर्हि प्रयोजनम्। सति प्रत्यये यत् प्राप्नोति तत् प्रत्ययलक्षणं यथा स्यात्। लोपोत्तरकालं यत् प्राप्नोति तत् प्रत्ययलक्षणं मा भूदिति। किं प्रयोजनम् ? ग्रामणिकुलं सेनानिकुलम् इत्यत्रौत्तरपदिके ह्रस्वत्वे कृते ह्रस्वस्य पिति कृति तुगिति तुक् प्राप्नोति स मा भूदिति। यदि तर्हि यत् सति प्रत्यये प्राप्नोति तत् प्रत्ययलक्षणेन भवति, लोपोत्तरकालं यत् प्राप्नोति तन्न भवन्ति, जगत् जनगदित्यत्र तुक् न प्राप्नोति। लोपोत्तरकालं ह्यत्र तुगागमः। तस्मान्नार्थ एवमर्थेन प्रत्ययग्रहणेन। कस्मान्न भवति ग्रामणिकुलं, सेनानिकुलम्। बहिरङ्गं ह्रस्वत्वम्। अन्तरङ्गस्तुक्। असिद्धं बहिरङ्गमन्तरङ्गे। इदं तर्हि प्रयोजनम् - कृत्स्नप्रत्ययलोपे प्रत्ययलक्षणं यथा स्याद एकदेशलोपे मा भूदिति। आघ्नीति। सं रायस्पोषेण ग्मीय-इति। पूर्वस्मिन्नपि योगे प्रत्ययग्रहणस्यैतत् प्रयोजनमुक्तम्। अन्यतरच्छक्यमकर्तुम्। अथ द्वितीयं प्रत्ययग्रहणं किमर्थम्? प्रत्ययलक्षणं यथा स्यात्। वर्णलक्षणं मा भूदिति। गवे हितं गोहितम्। रायः कुलं रैकुलमिति। किमर्थं पुनरिदमुच्यते? प्रत्ययलोपे प्रत्ययलक्षणवचनं सदन्वाख्यानाच्छास्त्रस्य। प्रत्ययलोपे प्रत्ययलक्षणमित्युच्यते। सदन्वाख्यानाच्छास्त्रस्य। सच्छास्त्रेणान्वाख्यायते। सतो वा शास्त्रमन्वाख्यायकं भवति। सदन्वाख्यानाच्छास्त्रस्य। उगिदचां सर्वनामस्थानेऽधातोरिति इहैव स्याद् - गोमन्तौ, यवमन्तौ। गोमान्, यवमान् इत्यत्र न स्यात्। इष्यते च स्यादिति। तच्चान्तरेण न सिध्यतीत्यतः प्रत्ययलोपे प्रत्ययलक्षणवचनमित्येवमर्थमिदमुच्यते। अस्ति प्रयोजनमेतत्। किं तर्हीति? लुक्युपसङ्ख्यानम्। लुक्युपसङ्ख्यानं कर्तव्यम्। पञ्च सप्त। किं पुनः कारणं न सिध्यति? लोपे हि विधानम्। लोपे हि प्रत्ययलक्षणं विधीयते तेन लुकि न प्राप्नोति। न वा दर्शनस्य लोपसञ्ज्ञित्वात्। न वा कर्तव्यम्। किं कारणम्? अदर्शनस्य लोपसञ्ज्ञित्वात्। अदर्शनं लोपसञ्ञ्ज्ञं भवतीत्युच्यते। लुमत्संज्ञाश्चाप्यदर्शनस्य क्रियन्ते। तेन लुक्यपि भविष्यति। यद्येवम्। प्रत्ययादर्शनं तु लुमत्संज्ञम्। प्रत्ययादर्शनं तु लुमत्संज्ञमपि प्राप्नोति। तत्र को दोषः ? तत्र लुक श्लुविधिः प्रतिषेध्यः। तत्र लुकि श्लुविधिः प्राप्नोति स प्रतिषेध्यः। अत्ति हन्ति। श्लाविति द्विर्वचनं प्राप्नोति। न वा पृथक् सञ्ज्ञाकरणात्। न वा एष दोषः। किं कारणम्? पृथक् सञ्ज्ञाकरणात्। पृथक् सञ्ज्ञाकरणसार्मथ्याल्लुकि श्लुविधिर्न भविष्यति। तस्माददर्शनसामान्याल्लोपसञ्ज्ञा लुमत्संज्ञा अवगाहते। यथैव तर्हि अदर्शनसामान्यल्लोपसञ्ज्ञा लुमत्सज्ञा अवगाहते एवं लुमत्संज्ञा अपि लोपसञ्ज्ञामवगाहेरन्। तत्र को दोषः। अगोमती गोमती सम्पन्ना गोमती भूतेति लुक् तद्धितलुकीति ङीपो लुक् प्रसज्येत। ननु चात्रापि न वा पृथक् सञ्ज्ञाकरणादित्येव सिद्धम्। यथैव तर्हि पृथक् सञ्ज्ञाकरणसार्मथ्यादत्र लुमत्संज्ञा लोपसञ्ञ्ज्ञां नावगाहन्ते एवं लोपसञ्ज्ञापि लुमत्संज्ञा नावगाहेत। तत्र स एव दोषो लुक्युपसङ्ख्यानमिति। अस्त्यन्यल्लोपसञ्ज्ञायाः पृथक् करणे प्रयोजनम्। किम्? लुमत्संज्ञासु यदुच्यते तल्लोपमात्रे मा भूदिति। लुमति प्रतिषेधाद्वा। अथवा यदयं न लुमताङ्गस्येति प्रत्ययलक्षणप्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यो भवति लुकि प्रत्ययलक्षणमिति। सतो निमित्ताभावात् पदसञ्ज्ञाभावः। सन् प्रत्ययो येषां कार्याणामनिमित्तं राज्ञः पुरुष इति, स लुप्तोऽप्यनिमित्तं स्याद् राजपुरुष इति। अस्तु तस्या अनिमित्तं या स्वादौ पदमिति पदसञ्ज्ञा। या तु सुबन्तं पदमिति पदसञ्ज्ञा सा भविष्यति। सत्येतत् प्रत्यय आसीत्। अनया भविष्यत्यनया न भविष्यतीति। लुप्त इदानीं प्रत्यये यावत एवावधेः स्वादौ पदमिति पदसञ्ज्ञा तावत एव सुबन्तं पदमिति। अस्ति च प्रत्ययलक्षणेन यजादिपरतेति कृत्वा भसञ्ज्ञा प्राप्नोति। तुग्दीर्घत्वयोश्च विप्रतिषेधानुपपत्तिरेकयोगलक्षणत्वात् परिवीर् इति। तुग्दीर्घत्वयोश्च विप्रतिषेधो नोपपद्यते। क्व? परिवीरिति। किं कारणम्? एकयोगलक्षणत्वात्। एकयोगलक्षणे हि तुग्दीर्घत्वे। इह लुप्ते प्रत्यये सर्वाणि प्रत्ययाश्रयाणि कार्याणि पर्यवपन्नानि भवन्ति। तान्येतेन प्रत्युत्थाप्यन्ते। अनेनैव तुक्। अनेनैव च दीर्घत्वमिति। तदेकयोगलक्षणं भवति। एकयोगलक्षणानि च कार्याणि न प्रकल्पन्ते। सिद्धं तु स्थानिसञ्ज्ञानुदेशादान्यभाव्यस्य। सिद्धमेतत्। कथम्? स्थानिसञ्ज्ञाऽन्यभूतस्य भवतीति वक्तव्यम्। किं कृतं भवति? सत्तामात्रमनेन क्रियते। यथाप्राप्ते तुग्दीर्घत्वे भविष्यतः। तद् वक्तव्यं भवति। यद्यप्येतदुच्यते।अथवैतर्हि स्थानिवद्भावो नारभ्यते। स्थानिसञ्ज्ञान्यभूतस्यानल्विधाविति वक्ष्यामि। यद्येवमाङो यमहन इत्यात्मनेपदं भवतीति हन्तेरेव स्यात्, वधेर्न स्यात्। नहि काचिद् हन्तेः सञ्ज्ञास्ति या वधेरतिदिश्येत। हन्तेरपि सञ्ज्ञास्ति। का? हन्तिरेव। कथम्? स्वं रूपं शब्दस्याशब्दसंज्ञेति वचनात् स्वं रूपं शब्दस्य सञ्ज्ञा भवतीति हन्तेरपि हन्तिः सञ्ज्ञा भविष्यति। भसञ्ज्ञा- ङीप्- गोरात्वेषु च सिद्धम्। भसञ्ज्ञा ङीप्ष्फ गोरात्वेषु च सिद्धं भवति। भसञ्ज्ञा- राज्ञः पुरुषः राजपुरुषः प्रत्ययलक्षणेन यचीति भसञ्ज्ञा प्राप्नोति। स्थानिसञ्ज्ञान्यभूतस्यानल्विधाविति वचनान्न भवति। ङीप्- चित्रायां जाता चित्रा। प्रत्ययलक्षणेनाणान्तदितीकारः प्राप्नोति . स्थानिसञ्ज्ञान्यभूतस्यानल्विधविति वचनान्न भवति। ष्फ- वतण्डी। प्रत्ययलक्षणेन यञ्ञन्तादिति ष्फः प्राप्नोति। स्थानिसञ्ज्ञान्यानल्विधाविति वचनान्न भवति। गोरात्वम्- गामिच्छति गव्यति। प्रत्ययलक्षणेनामि औतोम्शसोरित्यात्वं प्राप्नोति। स्थानिसञ्ज्ञान्यभूतस्यानल्विधाविति वचनान्न भवति। तस्य दोषो ङौ नकारलोपेत्वेम् विधियः। तस्यैतस्य लक्षणस्य दोषः। ङौ नकारलोपः। आर्द्रे चर्मन् लोहिते चर्मन्। प्रत्ययलक्षणेन यचीति सिद्धा भवति। स्थानिसञ्ज्ञान्यभूतस्यानल्विधाविति वचनान्न प्राप्नोति। इत्त्वम्- आशीः। प्रत्ययलक्षणेन हलीति इत्वं भवति। स्थानिसञ्ज्ञान्यभूतस्यानल्विधाविति वचनान्न प्राप्नोति। इम्- अतृणेट्। प्रत्ययलक्षणेन हलीति इम् सिद्धो भवति। स्थानिसञ्ज्ञान्यभूतस्यानल्विधाविति वचनान्न प्राप्नोति। सूत्रं च भिद्यते। यथान्यासमेवास्तु। ननु चोक्तं सतो निमित्ताभावात् पदसञ्ज्ञाभावः। तुग्दीर्घत्वयोश्च विप्रतिषेधानुपपत्तिरेकयोगलक्षणत्वात् परिवीरिति। नैष दोषः। वक्ष्यत्यत्र परिहारम्। इहापि परिवीरिति। शास्त्र परविप्रतिषेधेन परत्वात् दीर्घत्वं भविष्यति।प्रयोजनमपृक्तशिलोपे नुममामौ गुणवृद्धी दीर्घत्वेमडाट्श्नम्विधयः। अपृक्तलोपे शिलोपे च कृते नुम्-अमामौ- गुणवृद्धी दीर्घत्वम् इमडाटौ श्नम्विधिरिति प्रयोजनानि। नुम्- अग्ने त्री ते वाजिना त्री षधस्था। ता ता पिण्डानाम्। अमामौ- हे अनड्वन्। अनड्वान्। गुणः- अधोक्। अलेट्। वृद्धिः- न्यमार्ट्। दीर्घत्वम्- अग्ने त्री ते वाजिना त्री षधस्था। ता ता पिण्डानाम्। इम्- अतृणेट्। अडाटौ- अधोक्। अलेट्। ऐयः। औनः। श्नम्विधिः- अभिनोऽत्र। अच्छिन्नोऽत्र। अपृक्तशिलोपयोः कृतयोरेते विधयो म प्राप्नुवन्ति। प्रत्ययलक्षणेन भवन्ति। नैतानि सन्ति प्रयोजनानि। स्थानिवद्भावेनाप्येतानि सिद्धानि। न सिध्यन्ति। आदेशः स्थानिवदित्युच्यते। न च लोप आदेशः। लोपोऽप्यादेशः। कथम्? आदिश्यते यः स आदेशः। लोपोऽप्यादिश्यते। दोषः खल्वपि स्याद् यदि लोपो नादेशः स्यात्। इहाचः परस्मिन् पूर्वविधावित्येतस्य भूयिष्ठानि लोप उदाहरणानि तानिः न स्युः। यत्र तर्हि स्थानिद्भावो नास्ति तदर्थमयं योगो वक्तव्यः। क्व च स्थानिवद्भावो नास्ति? योऽल्विधिः। किं प्रयोजनम्? प्रयोजनं ङौ नकारलोरेत्वेम्विधयः। भसञ्ज्ञाङीप्ष्फगोरात्वेषु च दोषः। भसञ्ज्ञा ङीप्ष्फगोरात्वेषु च दोषो भवति । भसञ्ज्ञायां तावन्न दोषः। आचार्यप्रवृत्तिज्ञापयति न प्रत्ययलक्षणेन भसञ्ज्ञा भवतीति। यदयं न ङिसम्बुद्धयोरिति ङौ प्रतिषेधं शास्ति। ङीप्यपि नैवं विज्ञायते अण्तादकारान्तादिति। कथं तर्हि ? अण् योऽकार इति। ष्फोऽपि नैवं विज्ञायते यञ्ञन्तादकारान्तादिति। कथं तर्हि? यञ्ञ् योऽकार इति। गोरात्वेऽपि नैवं विज्ञायते अमि अचीति। कथं तर्हि अच्यमीति? प्रयोजनान्यपि तर्हि नैतानि सन्ति। यत्तावदुच्यते ङौ नकारलोप इति। कियते एतन्नास एव, न ङि सम्बुद्धयोरिति। इत्त्वमपि, वक्ष्यत्येतत्- शास इत्तवे आशासः क्वाविति। इम्विधिरपि हलीति निवृत्तम्। यदि हलीति निवृत्तम्। तृणहानि अत्रापि प्राप्नोति। एवं तर्हि अचि नेत्यनुवर्तिष्यते। न तर्हीदानीमयं योगो वक्तव्यः। वक्तव्यश्च। किं प्रयोजनम्? प्रत्ययं गृहीत्वा यदुच्यते तत् प्रत्ययलक्षणेन मा भूदिति। किं प्रयोजनम्? शोभना दृषदोऽस्य ब्राह्यणस्य सुदृषद् ब्राह्यणः। सोर्मनसी अलोमोषसी इत्येष स्वरो मा भूत्।
Kashika¶
प्रत्ययनिमित्तं कार्यमसत्यपि प्रत्यये कथं नु नाम स्यादिति सूत्रमिदमारभ्यते। प्रत्ययलोपे कृते प्रत्ययलक्षणं प्रत्ययहेतुकं कार्यं भवति। अग्निचित्, सोमसुत्, अधोगित्यत्र सुप्तिङोर्लुप्तयोः सुप्तिङन्तं पदम् (१.४.१४) इति पदसंज्ञा भवति। अधोगिति दुहेर्लङि तिपि शब्लुकि तिलोपे घत्वभष्भावजश्त्वचर्त्वेषु कृतेषु रूपम्। प्रत्यय इति वर्तमाने पुनः प्रत्ययग्रहणं किम्? कृत्स्नप्रत्ययलोपे यथा स्यात्। इह मा भूत् — आघ्नीय। सङ्ग्मीय। हनिगम्योर्लिङात्मनेपदे लिङः सलोपोऽनन्त्यस्य (७.२.७९) इति सीयुट्सकारलोपः प्रत्ययैकदेशलोपः, तत्र प्रत्ययलक्षणेन झलि (६.४.३७) इत्यनुनासिकलोपो न भवति। प्रत्ययलक्षणमिति किम्? रायः कुलं रैकुलम्। गवे हितं गोहितम्। आयवादेशौ न भवतो वर्णाश्रयत्वात्॥
Siddhanta Kaumudi¶
प्रत्यये लुप्तेऽपि तदाश्रितं कार्यं स्यात् । इति जसि चेति गुणे प्राप्ते ॥
Laghu Siddhanta Kaumudi¶
प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात्। इति जसि चेति गुणे प्राप्ते -
Balamanorama¶
प्रत्ययलोपे प्रत्ययलक्षणम् - जसि लुप्तेऽपिजसि चे॑ति गुणमाशङ्कितुमाह-प्रत्यय-लोपे प्रत्यय । प्रत्ययो लक्षणं=निमित्तं यस्य तत्-प्रत्ययलक्षणम् । प्रत्ययस्य लोपे सति प्रत्ययनिमित्तकं कार्यं स्यादित्यर्थः । फलितमाह — प्रत्यये लुप्तेऽपीत्यादिना । स्थानिवद्भावादेव सिद्धे अल्विध्यर्थमिदं सूत्रम् । यत्र प्रत्ययस्याऽसाधारणं रूपं प्रयोजकं तदेव कार्यं प्रत्ययलोपे सति भवतीति नियमार्थं चेति भाष्यादिषु स्पष्टम् । इति जसि चेतीति । अनेन सूत्रेण लुप्तं प्रत्ययमाश्रित्यजसि चे॑ति गुणे प्राप्ते इत्यर्थः ।
Tattvabodhini¶
प्रत्ययलोपे प्रत्ययलक्षणम् - प्रत्ययलोपे प्रत्यय। विशेषविहिता अपि लुगादिसंज्ञा लोपसंज्ञां न बाधन्ते, एकसंज्ञाधिकारद् अन्यत्र संज्ञायां बाध्यबाधकभावानङ्गीकाराद् इति भावः। स्थानिवत्सूत्रेण सिद्धे नियमार्थम् इदं सूत्रं, प्रत्ययस्याऽसाधरणं रूपं यत्र प्रयोजकं तद् एव कार्यं प्रत्ययलोपे सति भवति, न तु प्रत्ययाऽप्रत्ययसाधरणम् इति। तेन शोभना दृषदो यस्य सुदृषत् प्रासाद इत्यत्र ‘नञ्सुभ्याम्’ इत्यन्तोदात्ततां बाधित्वा ‘सोर्मनसी अलोमोषसी’ इत्युत्तरपदाद्युदात्तत्वम्, ‘अत्वसन्तस्ये’ति दीर्घश्च न भवति। यद्वा, ‘यत्र प्रत्ययः प्राधान्येनाश्रीयते तत्राऽल्विधावपि विध्यर्थम् इदम्। तेन ‘अतृणेड्’ इत्यत्र हलादौ पिति सार्वधातुके विहित इम् लुप्तेऽपि तस्मिन् भवति। ‘वर्णाश्रये नास्ति प्रत्ययलक्षणम्’ इति तु वर्णप्राधान्यविषयकम्। तेन गवे हितं गोहितम् इत्यत्राऽवादेशो न। यद्यपीदं पक्षद्वयम् आकरारूढं, तथापि नियमपक्ष एव प्रबल इति यड्लुगन्ते मनोरमायां स्थितम्। स्याद् एतत्, सूत्रस्याऽस्याऽवश्यकत्वेऽपि ‘प्रत्ययलोपे तल्लक्षणम्’ इत्येव सूत्र्यतां, किम् अनेन द्वितीयप्रत्ययग्रहणेन? अत्राहुः, ‘प्रत्ययस्याऽसाधारणं रूपं यत्रे’त्यादिलाभाय द्वितीयप्रत्ययग्रहणम् इति।
Padamanjari¶
सूत्रारम्भस्य प्रयोजनमाह - प्रत्ययनिमितमित्यादि । लक्षणशब्दोऽयमस्ति भावसाधनः प्रादुर्भाववचनः, अस्ति च करणसाधनो निमितवचनः । तत्राद्यस्य ग्रहणे प्रत्ययलोपे सति प्रत्ययस्य प्रादुर्भावो भवतीत्यर्थः स्यात् । तत्र लुप्तस्यैव प्रत्ययस्य पुनः प्रादुर्भावविधौ लोपविधिर्व्यर्थः स्यात् । ननु च यः प्रत्ययस्यैव लोपः ‘णेरनिटि’ इत्यादि, तस्य वैयर्थ्यं नामास्तु; यस्तु ‘टेः’ इत्यादिना सामान्येन विहितः, स यदा प्रत्ययस्य भवति - भिक्षुमाचष्टे भिक्षयतीति, तदा तस्य पुनः प्रादुर्भावेऽपि न तस्य वैयर्थ्यम्; उप्रत्यये चरितार्थत्वात् । एवं तर्हि लुप्तस्यैव प्रत्ययस्य पुनः प्रादुर्भाव इष्टे, न प्रत्ययस्य लोप इति वक्तव्यम् - सामान्यविहितो लोपः प्रत्ययस्य न भवतीति । अथ प्रत्ययान्तरस्य लुप्तप्रत्ययनिमितकस्य पादुर्भावो विधीयते, यथा - ग्रामणीरिति क्विपो लोपे तन्निमितस्य सोर्विधिः । एवमपि ‘प्रत्ययलोपे प्रत्यय’ इत्येव वक्तव्यम् - प्रत्ययस्य लोपे न तन्निमितकः प्रत्ययो भवतीति । अतो निमितपर्यायेण लक्षणशब्देन बहुव्रीहिः, कार्यं चान्यपदार्थं इत्याह - प्रत्ययहेतुकं कार्यमिति । प्रत्यासतेश्च यः प्रत्ययो यस्य कार्यस्य निमितं तस्य लोपेऽपि तद्भवतीत्यर्थः । पदसंज्ञा भवतीति । ननु च स्थानिवद्भावेनापि सिद्धा पदसंज्ञा, इह तर्हि ता ता पिणाडानामिति-तच्छब्दात्परस्य जसः शिः, ‘शेश्च्छन्दसि बहुलम्’ इति लोपे ङपुंसकस्य झलचः’ इति नुम्, ‘सर्वनामस्थाने’ इति दीर्घश्च भवति; अनड्वान् - सोर्लोपे नुम्भवति; अधोक् - अड्गुणौ भवतः; न्यमार्ट्-मृजेर्वृद्धिः; उन्देर्लङ् इतिलोपे श्नमाटौ भवतः; ‘श्नान्नलोपः’ - औनत्; अग्निचित्-क्विपो लोपे तुग्भवति ? एतान्यपि स्थानिवद्भावेनैव सिद्ध्यन्ति; अल्विधित्वात् । सर्वत्रैवाल्मत्रप्रत्ययः, तदाश्रयो विधिरल्विधिरिति । नैतत्सुष्ठूअच्यते, उक्तं हि कार्यापेक्षमल्विधित्वं नोदाहरणापेक्षमिति । नुमादिविधौ च सर्वत्र शास्त्रे यद्रूपमाश्रीयते - सर्वनामस्थाने सार्वधातुके पिति कृति सुप्तिङ्न्तमिति, साधारणं तदलश्चानलश्च । केवलं ताता पिण्डानामित्याद्यौदाहरणेऽर्थादलात्मकं तदित्येतावत् । इह तर्हि अतृणेट्-‘तृहि हिसायाम्’, लङ्, तिप्, श्नम्,’इतश्च’ इतीकारलोपः, तकारस्य हल्ङ्यादिलोपे हलादौ पिति सार्वधातुके विधीयमानोऽल्विधिः ‘तृणहैम्’ अस्माद्भवति; तथा आशीरित्यत्र ‘शास ईदङ्हलोः’ इतीत्वं लुप्तेऽपि क्विपि भवति । ननु च ‘वर्णाश्रये नास्ति प्रत्ययलक्षणम्’; नैवंविधं वचनमस्ति । द्वितीयस्य प्रत्ययग्रहणस्य प्रयोजनमिदं पठ।ल्ते - अत्र हि ‘ प्रत्ययलोपे तल्लक्षणम्’ इत्येव सिद्धे पुनः प्रत्ययग्रहणाद्यत्र प्रत्ययस्यैवासाधारणं रूपं निमितत्वेनाश्रीयते सुपि सार्वधातुके कृति सुप्तिङ्न्तमिति तदेव यथा स्यात् । तेन गोहितमित्यवादेशो न भवति । न हि ‘एचोऽयवायावः’ इत्यत्र प्रत्ययस्यासाधारणं किञ्चिद्रूपमुपातम्, किन्त्वचीति यदुपातं तद्गवे हितमित्यस्मिन्नुदाहरणे अर्थात्प्रत्ययात्मकमित्येतावत् । इत्वेमागमयोस्तु हलादौ क्ङिति हलादौ पिति सार्वधातुक इति प्रत्यय एव प्राधान्येन निमितम्, हल् तु तद्विशेषणमिति नेमौ वर्णाश्रयौ । तस्मादल्विध्यर्थमिदमारब्धव्यम् । यद्येवम्, भसंज्ञाङीप्ष्फेषु दोषः । भसंज्ञायां तावद्-राज्ञः पुरुषो राजपुरुष इति श्रूयमाणे प्रत्यये यथा संज्ञा भवति, एवं लुप्तेऽपि स्यात् । ततश्च तया पदसंज्ञाया बाधितत्वाद् लनोपो न स्यात् । ननु च द्वे अत्र पदसंज्ञे - स्वादाविति च, सुप्तिङ्न्तमिति च । तत्र या स्वादौ पदमिति पदसंज्ञा, साऽपवादभूतया बाध्यते; या तु शुप्तिङ्न्तम्’ इति पदसंज्ञा, सा न बाधनीया, यथा - श्रूयमाणे प्रत्यये ‘राज्ञः’ इति समुदायस्य ? नैतदेवम्; श्रूयमाणे प्रत्यये ततः पूर्वस्य भागस्य भसंज्ञा, समुदायस्य तु विसर्जनीयान्तस्य पदसंज्ञेति युक्तम्-विभिन्नावधिकया भसंज्ञया पदसंज्ञा न बाध्यत इति । लुप्ते तु प्रत्यये यस्यैवावधेः स्वादौ पदमिति पदसंज्ञा,सुबन्तं पदमित्यपि तस्यैवावधेः पदसंज्ञा । तत्रैवावधौ भसंज्ञा भवन्ती यथाऽयवदत्वात् स्वादिलक्षणां पदसंज्ञां बाधते, तथा सुबन्तलक्षणामपि परत्वाद्वाधते । एवं तर्हि ङ लुमताङ्गस्य’ इति प्रतिषेधाद् भसंज्ञा न भविष्यति, यचीति सप्तमीनिर्देअषात् । ततः पूर्वस्य भागस्य वस्तुतोऽस्य प्रवर्तमाना भसंज्ञाप्यङ्गकार्यमेव । एवं च बुध्वा ङ ङिसंबुद्ध्योः’ इत्यत्र ङै नलोपः प्रतिषिध्यते, यदि प्रत्ययलक्षणेन भसंज्ञा स्याद्, अपवादत्वादेवार्द्रेअ चर्मन्निति नलोपो न भविष्यतीति किं तेन प्रतिषेधेन ? इह तर्हि चित्रायां जाता ‘चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम्’ इत्यणो लुकि ‘लुक्तद्धितलुकि’ इति टापि लुप्ते, चित्र इति स्थिते प्रत्ययलक्षणेनाणन्तत्वात् ङीप् प्राप्नोति, नैष दोषः; ‘टिड्ढाणञ्’ इत्यत्र ‘अतः’ इत्यनुवर्तते, तत्र चाणाकारो विशेष्यते - अणोऽकार इति, ततश्चाकार एव ङीपो निमितम्; अण् तु तद्विशेषणमिति प्रत्ययलक्षणत्वाभावाद् ङीबभावः । इह तर्हि वतण्डस्यात्यं स्त्री ‘वतण्डाच्च’ इत्यञः ‘लुक् स्त्रियाम्’ इति लुकि वतण्डी-शार्ङ्गरवादिलक्षणं ङीनं बाधित्वा ‘प्राचां ष्फस्तद्धितः सर्वत्र’ इति सर्वत्रग्रहणस्य पूर्वत्रापकर्षात्प्राचां मतेन यञन्तलक्षणः ष्फः प्राप्नोति, यथा आवट।लच्चापं वा बाधित्वा ष्फ एव भवतीति ? नैष दोषः; अत्रापि यञाकारो विशेष्यते-यञोऽकार इति, यञवयवो योऽकारस्तदन्तादिति । तेनात्राप्यकार एव निमितम्, तद्विशेषणन्तु यञिति ष्फो न भवति । अयं तर्हि दोषः-परिवीरिति, परिपूर्वाद्ध्येञः क्विपो लोपे यजादित्वात् संप्रसारणे पूर्वत्वे च तुक् प्राप्नोति, ‘हलः’ इति दीर्घश्च; तत्र विप्रतिषेधेन दीर्घ इष्यते, स विप्रतिषेधो न सिद्ध्यति । किङ्कारणम् ? इह प्रत्ययलोपे सर्वाणि प्रत्ययाश्रयाणि कार्याणि पर्यवसन्नानि, तान्यनेन प्रत्युत्थाप्यन्ते, अनेनैव तुक्, अनेनैव दीर्घः-तदेकयोगलक्षणयोरयुक्तो विप्रतिषेधः ? नैष दोषः; अवस्थिते प्रत्यये, तन्निबन्धनं यत्कार्यं भवत्येव तदेवानेन लुप्ते तस्मिन् प्रत्युत्थाप्यते, न तु यस्य प्राप्तिमात्रं तदपि । परिवीयेत्यादौ श्रूयमाणे प्रत्यये दीर्घ एव परत्वाद् भवति, न तुक्; ततश्चात्रापि यदि क्विबेवास्थास्यद्, दीर्घ एवाभविष्यदिति स एवानेन प्रत्युत्थाप्यते । तदेवमारब्धव्यं सूत्रं न कश्चिद्दोष इति स्थितम् । अत्रोच्यते - यदुक्तं ‘तृणह इम्’ हलाश्रय इति; नायं हलाश्रयः, हलीति निवर्तिष्यते । यदि निवर्तते, तृणहानि - अत्रापि प्राप्नोति ? नाभ्यस्तस्याचीत्यतो नाचीत्यनुवर्तते, ततश्चानल्विधित्वात् स्थानिवद्भावेनैव सिद्ध इमागमः । आशीरित्यत्रापि ‘आसासः क्वावुपसंख्यानम्’ इत्यस्माद् वचनात्सिद्धमित्वम् । आरब्धेऽपि खल्वस्मिंस्तदवश्यं वक्तव्यम् । यदि तावत् ‘शास इदङ्हलोः’ इत्यत्र शासिमात्रस्य ग्रहणम्, ततो नियमार्थम् ‘आशासः क्वावेव यथा स्याद्, आशास्त इत्यादा मा भूत्’ इति । अथ यस्माच्छासेरङ् विहितस्तस्य ग्रहणम्, ततो यथाऽऽशास्त इत्यादौ न भवति तथा क्विप्यपि न स्यादिति विध्यर्थमिदम् । इह तर्हि बिदस्यापत्यानि बहूनि ‘अनुष्यानन्तर्ये बिदादिभ्योऽञ्’ बिदाः, बिदानामपत्यं युवा, ‘अत इञ्’, तस्य ण्यक्षत्रियार्षञितः’ इति लुकि कृते, अञो गोत्रबहुत्व उत्पन्नस्य लुकि प्राप्ते’गोत्रेऽलुगचि’ इति प्रतिषेध इष्यते, सोऽजादाविति लुप्तेऽप्यस्माद्वचनाद्भवति ? एतदपि नास्ति प्रयोजनम्; अचीति विषयसप्तमी, तेन गोत्र इति विवक्षितेऽनुत्पन्न एव लुकि प्रतिषिद्धे पश्चादिञो लुगिति सिद्धमिष्टम् । तदेवमल्विधेः कस्यचिद् दर्शनात् स्थानिवद्भअवेनैव सिद्धमिति नार्थोऽनेन । एवं तर्हि नियमार्तमिदम्-‘प्रत्ययलोपे प्रत्ययलक्षणमेव यथा स्यात् प्रत्ययाप्रत्यलक्षणं मा भूत्’ इति । एतदुक्तं भवति - यस्मिन्कार्ये विधीयमाने प्रत्ययस्यैवासाधारणं किञ्चिद्रूपं निमितत्वेनाश्रीयते, तदेव प्रत्ययलोपेऽपि भवति, न पुनः प्रत्ययाप्रत्यसाधारणं रूपमाश्रित्य यद्विधीयते तदिति । तेन शोभना दृषदो यस्य सुदृषदिति शोर्मनसी अलोमोषसी’ इत्युतरपदाद्यौदातत्वं न भवति । अन्यथा लुप्तेऽपि जसि स्थानिवद्भावेनासन्तमुतरपदमिति स्यात्प्रसङ्गः । प्रत्ययलक्षणं तु न भवति, ‘अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन तदन्तविधिं प्रयोजयन्ति’ इत्यस्मातस्य ग्रहणात् । वृत्तिकारेण तु ‘ नियमार्थमप्येतत् प्रत्ययलोपे सर्वत्र प्रवर्तते’ इति मत्वोक्तं पदसंज्ञा भवतीति । आघ्नयेति । ‘आङे यमहनः’ । संग्मीयेति । शमो गम्यच्छि’ इत्यात्मनेपदम्, ‘इटोऽत्’, बहुलं च्छन्दसि’ इति शपो लुक्, उभयत्र ‘गमहन’ इत्युपधालोपः ॥
Nyaas¶
प्रत्ययलक्षणम् इति। प्रत्ययो लक्षणं यस्येति कार्येऽन्यपदार्थे बहुव्रीहिः। प्रत्ययनिमित्तमित्यादिना सूत्रारम्भस्य प्रयोजनमाह।ननु च स्थानिवद्भावनाप्येतत् सिध्यति, नैतदस्ति; अलाश्रयमपि हि प्रत्ययलोपे प्रत्ययलक्षणं कार्यमिष्यते। तथा ह्रग्निचिदित्यत्र ह्रस्वस्य पिति कृति तुक् (6.1.71) इत्यलाश्रयोऽपि तुग् भवत्येव। अग्निचित् इति। अग्नौ चेः (3.2.91) इति क्विप्। अधोगिति हल्ङ्यादिसूत्रेण तिलोपः; अदादित्वाच्छपो लुक् (2.4.72) दादेर्धातोर्घः (8.2.32) इति धत्वम्, एकाचो बशो भष् (8.2.37) इत्यादिना भष् धकारः, झलाञ्जशोऽन्ते (8.2.39) इति जश्त्वम्, घकारस्य गकारः,तस्य वावसाने (8.4.55) इति चर्त्वं ककारः।प्रत्ययः इति। वर्तमाने इति पूर्वसूत्रात्। आहो यमहनः (1.3.28) इत्या-त्मनेपदम्। गमहन (6.4.99) इत्यादिनोपधालोपः। हो हन्तेः (7.3.54) इति घःष। संग्मीय इति। संपूर्वाद् गमेः समो गमि (1.3.29) इत्यादिनात्मनेपदम्। इटोऽत् इत्यद्भावः। बहुलं छन्दसि (7.4.78) इति शपो लुक्। पूर्ववदुपधालोपः।अनुनासिकलोपो न भवति इति। अनुदात्तोपदेश (6.4.37) इत्यादिना।रैकुलम् इति। षष्ठीसमासः। गोहितम् इति। चतुर्थी (2.1.35) इत्यादिना। अस्त्यत्र षष्ठीचतुर्थ्येकवचनयोः प्रत्ययर्लोपः; किं त्वयावादेशयोरचि विधानात्तद्विधौ वर्ण आश्रयीते, न तु प्रत्ययः। तेन वर्णनिमित्तकौ तौ न प्रत्ययनिमित्त-काविति न भवतः। ननु च चात्र प्रत्ययस्य लोपः क्रियते, किं तर्हि? लुक्, नैतदस्ति; लोपशब्दोऽपि सामान्येन तद्भावितस्यातद्भावितस्य चाऽदर्शनस्य संज्ञा। तस्माल्लुगपि लोपो भवत्येव॥
Praudhamanorama¶
स्थानिवत्सूत्रेण सिद्धे नियमार्थमिदम्। प्रत्ययस्यासाधारणं यत्र रूपं प्रयोजकं, तदेव कार्यं प्रत्ययलोपे सति भवति न तु प्रत्ययाप्रत्ययसाधारणमिति। तेन शोभना दृषदोऽस्य सुदृषत् प्रासाद इत्यत्र ‘अत्वसन्तस्य’ इति दीर्घो न। यद्वा यत्र प्रत्ययः प्राधान्येनाश्रीयते तत्राल्विधित्वेऽपि विध्द्यर्थमिदम्। तेन अतृणेडित्यत्र हलादौ पिति सार्वधातुके विहित इम् लुप्तेऽपि तस्मिन् भवति। ‘वर्णाश्रये नास्ति प्रत्ययलक्षणम्’ इति तु वर्णप्राधान्यविषयकम्। तेन गवे हितं गोहितमित्यत्र अव् न।
Prakriyasarvasvam¶
प्रत्यये लुप्ते प्रत्ययहेतुकमेव कार्यं स्यात् । रसा, गोपीत्यादौ सु¹लोपेऽपि सुबन्तत्वेन पदत्वमस्तीत्यादि ।
Sudha¶
प्रत्ययलोपे प्रत्ययलक्षणमिति । प्रत्ययः लक्षणं यस्य तत् प्रत्ययलक्षणम् । प्रत्ययस्य लोपे सति प्रत्ययनिमित्तकं कार्यं स्यादित्यर्थः ।
Vartika¶
वर्णाश्रये नास्ति प्रत्ययलक्षणम् ।