11061: प्रत्ययस्य लुक्श्लुलुपः¶
Padacheda: प्रत्ययस्य | S | 6 | 1 |
लुक्-श्लु-लुपः | S | 1 | 3 |
Sutrartha¶
प्रत्ययस्य लोपः यदि ‘लुक्’, ‘श्लु’, ‘लुप्’ एतैः विशिष्टशब्दैः क्रियते, तर्हि तादृशस्य लोपस्य क्रमेण ‘लुक्’, ‘श्लु’, ‘लुप्’ इति संज्ञा दीयते ।
व्याकरणशास्त्रे निर्दिष्टासु संज्ञासु अन्यतमाः सन्ति ‘लुक्’, ‘श्लुः’, ‘लुप्’ एताः तिस्रः संज्ञाः । प्रत्ययस्य लोपस्य निर्देशार्थम् व्याकरणशास्त्रे एताः तिस्रः संज्ञाः प्रयुज्यन्ते । तदित्थम् — 1) केषुचित् सूत्रेषु लुक् इति शब्देन कस्यचन प्रत्ययस्य लोपः निर्दिष्टः अस्ति । यथा, षड्भ्यो लुक् (7.1.22) अनेन सूत्रेण षट्-संज्ञकात् शब्दात् विहितस्य जस्-प्रत्ययस्य लोपः उच्यते, सः च ‘लुक्’ इति शब्देन निर्दिश्यते । एतादृशः ‘लुक्’शब्देन कृतः प्रत्ययलोपः स्वयम् अपि ‘लुक्’ इति नाम्ना एव ज्ञायते । अतः अत्र ‘जस्-प्रत्ययस्य लुक्-भवति’ इति वाक्यप्रयोगः भवितुम् अर्हति । 2) केषुचन अन्येषु सूत्रेषु श्लुः इति शब्देन प्रत्ययस्य लोपः क्रियते । यथा, जुहोत्यादिभ्यः श्लुः (2.4.75) अनेन सूत्रेण जुहोत्यादिगणस्य शब्देभ्यः विहितस्य शप्-प्रत्ययस्य लोपः उच्यते, सः च ‘श्लुः’ इति संज्ञया निर्दिश्यते । एतादृशः ‘श्लुः’शब्देन कृतः प्रत्ययलोपः स्वयम् अपि ‘श्लुः’ इति नाम्ना एव ज्ञायते । 3) केषुचन अपरेषु सूत्रेषु लुप् इति शब्देन प्रत्ययस्य लोपः क्रियते । यथा, लुप् च (4.3.166) इत्यनेन सूत्रेण ‘अण्’ इति तद्धितप्रत्ययस्य लोपः उच्यते, सः च ‘लुप्’ इति शब्देन निर्दिश्यते । एतादृशः ‘लुप्’ इति शब्देन कृतः प्रत्ययलोपः स्वयम् अपि ‘लुप्’ इति नाम्ना एव ज्ञायते । अनेन प्रकारेण अष्टाध्याय्यां प्रत्ययस्य लोपः त्रिभिः शब्दैः उक्तः दृश्यते, तस्य च यथासङ्ख्यम् (ताः एव) तिस्रः संज्ञाः दत्ताः सन्ति । कुत्रचित् तु केवलम् ‘लोपः’ इत्येतं शब्दम् उपयुज्य अपि प्रत्ययलोपः कृतः दृश्यते । यथा, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इत्यनेन सूत्रेण अपृक्त-सुँ-प्रत्ययस्य लोपः केवलं ‘लोपः’ इति संज्ञया एव उक्तः अस्ति । एतादृशः लोपः तु ‘लुक् / श्लुः / लुप्’ एताभिः तिसृभिः संज्ञाभिः नैव परिगण्यते ।
‘लु’ इति निर्देशः
लुक्, श्लुः, तथा लुप् - एताभिः संज्ञाभिः कृतः लोपः अष्टाध्याय्यां एकत्ररूपेण ‘लु’ इति शब्देन निर्दिश्यते । यथा, न लुमताङ्गस्य (1.1.63) इत्यस्मिन् सूत्रे प्रयुक्तः ‘लु’ इति शब्दः लुक्-श्लु-लुप्-संज्ञानाम् एकत्ररूपेण निर्देशं करोति । यस्य प्रत्ययस्य लोपः ‘लुक्’, ‘श्लुः’ उत ‘लुप्’ एताभ्यः एकया संज्ञया क्रियते, तस्यैव विषये न लुमताङ्गस्य (1.1.63) इति सूत्रम् प्रयोक्तव्यम्, केवलम् ‘लोप’संज्ञया कृतस्य प्रत्ययलोपस्य विषये इदं सूत्रं न हि प्रयोक्तव्यम्, इति अत्र आशयः ।
लुक्/श्लुः/लुप्-इत्यनेन उक्तस्य लोपस्य सर्वादेशत्वम्
यत्र प्रत्ययस्य लोपः लुक्, श्लुः, लुप् - एताभिः संज्ञाभिः उक्तः अस्ति, तत्र अलोऽन्त्यस्य (1.1.52) उत आदेः परस्य (1.1.54) इत्यतेतयोः परिभाषयोः प्रयोगः नैव करणीयः, अपि तु सम्पूर्णस्यैव प्रत्ययस्य लोपः करणीयः । यथा, षड्भ्यो लुक् (7.1.22) इत्यनेन सूत्रेण ‘जस्’प्रत्ययस्य उक्तः लुक् सम्पूर्णप्रत्ययस्य भवति, न हि केवलम् आदिस्थस्य अकारस्य उत अन्ते विद्यमानस्य सकारस्य । परन्तु ‘लोपः’ इत्यनया संज्ञया प्रत्ययलोपे कृते तु यथायोग्यं अलोऽन्त्यस्य (1.1.52) इत्यनेन अन्तिमवर्णस्य उत आदेः परस्य (1.1.54) इत्यनेन आदिवर्णस्य एव लोपः भवति । यथा, क्यस्य विभाषा (6.4.50) इत्यनेन क्यच्/क्यङ्-प्रत्यययोः उक्तः लोपः आदेः परस्य (1.1.54) इत्यनेन केवलम् आदिस्थस्य यकारस्य विषये एव भवति ।
तिसृणाम् संज्ञानाम् प्रयोजनम्
‘प्रत्ययस्य लोपः’ इति एकस्यैव कार्यस्य निर्देशार्थम् अष्टाध्याय्याम् तिस्रः संज्ञाः आचार्येण विशिष्टेन हेतुना दत्ताः सन्ति । प्रत्येकं संज्ञाम् अधिकृत्य पृथक् पृथक् विशिष्टं कार्यं भवितुम् अर्हति । तदित्थम् — [1] श्लु-संज्ञायाः प्रयोजनम् — यत्र ‘श्लुः’ संज्ञया प्रत्ययस्य लोपः क्रियते, तत्र श्लौ (6.1.10) इत्यनेन प्रकृतेः द्वित्वं भवति । यथा -
दा + लट् ['दा' धातोः **वर्तमाने लट्** (3.2.123) इति लट्-लकारप्रत्ययः]
→ दा + तिप् [प्रथमपुरुषैकवचनस्य विवक्षायाम् **तिप्तस्झि..** (3.4.78) इति तिप्-प्रत्ययः]
→ दा + शप् + ति [**कर्तरि शप्** (3.1.68) इति शप् विकरणप्रत्ययः]
→ दा + ति [**जुहोत्यादिभ्यः श्लुः** (2.4.75) इत्यनेन शप्-प्रत्ययस्य श्लुः ।]
→ दा + दा + ति [श्लु-संज्ञया प्रत्ययलोपे कृते **श्लौ** (6.1.10) इति प्रकृतेः द्वित्वम् भवति ।]
→ द + दा + ति [**ह्रस्वः** (7.4.59) इति अभ्यासह्रस्वः]
→ ददाति
[2] लुप्-संज्ञायाः प्रयोजनम् — **यत्र ‘लुप्’ इति संज्ञया प्रत्ययस्य लोपः क्रियते, तत्र **लुपि युक्तवद्व्यक्तिवचने (1.2.51) अनेन सूत्रेण लुप्तप्रत्ययान्तशब्दस्य वचनम् (लिङ्गं च) प्रकृतिम् अनुसरति, न हि विशेष्यम् । यथा -
पञ्चालानाम् निवासः [तद्धितवृत्तिः]
→ पञ्चाल + अण् ['पञ्चालानाम्' इति षष्ठ्यन्तात् शब्दात् **तस्य निवासः** (4.2.69) इत्यस्मिन् अर्थे जनपदस्य निर्देशार्थम् अण्-प्रत्ययः । **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति षष्ठीप्रत्ययस्य लोपः ।]
→ पञ्चाल [ **जनपदे लुप्** (4.2.81) इत्यनेन अण्-प्रत्ययस्य लुप् ।]
→ पञ्चाल [लुपि कृते सिद्धः 'पञ्चाल' इति शब्दः यद्यपि 'जनपद' शब्दस्य विशेषणम् अस्ति, तथापि सः वंशवाचिनम् 'पञ्चाल'शब्दम् (इत्युक्ते, मूलप्रकृतिम्) अनुसरति । वंशवाची पञ्चालशब्दः भाषायां नित्यबहुवचनान्तः एव प्रयुज्यते, अतः अत्रापि जनपदवाचकः पञ्चालशब्दः बहुवचने एव प्रयुज्यते ।]
→ पञ्चालाः जनपदः। [वाक्ये प्रयोगसमये 'जनपद' शब्दस्य एकवचनत्वेऽपि पञ्चालशब्दस्य बहुवचनमेव प्रयुज्यते । ]
[3.1] लुक्-संज्ञायाः विशेषं प्रयोजनम् — ** तद्धितप्रत्ययस्य यदा ‘लुक्’ भवति तदा **लुक्तद्धितलुकि (1.2.49) इत्यनेन उपसर्जनस्य स्त्रीप्रत्ययस्यापि लुक् भवति । यथा -
आमलक्याः फलम् [तद्धितवृत्तिः]
→ आमलकी + अण् [**अवयवे च प्राण्यौषधिवृक्षेभ्यः**(4.3.135) इति वृक्षस्य अवयवस्वरूपम् यत् फलम्, तस्य निर्देशार्थम् अण्-प्रत्ययः]
→ आमलकी [**फले लुक्** (4.3.163) इति अण्-प्रत्ययस्य लुक्]
→ आमलक [**लुक् तद्धितलुकि** (1.2.49) इत्यनेन उपसर्जनस्य स्त्रीप्रत्ययस्य लुक् । अत्र पूर्वसोपाने अण्-प्रत्ययस्य यदि लुकि कृते अस्मिन् सोपाने स्त्रीप्रत्ययस्य अपि लुक् भवितुम् अर्हति । ]
[3.2] लुक्-संज्ञायाः सामान्यं प्रयोजनम् — ** सामान्यरूपेण, प्रत्ययस्य लोपे कृते अपि **प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इति सूत्रेण प्रत्ययविशिष्टम् अङ्गकार्यम् अवश्यं भवितुम् अर्हति । परन्तु एतादृशम् अङ्गकार्यम् यत्र न इष्यते, तत्र ‘लुक् / श्लुः / लुप्’ एतासु अन्यतमां संज्ञां प्रयुज्य प्रत्ययस्य लोपः करणीयः — इति न लुमताङ्गस्य (1.1.63) इति सूत्रेण उच्यते । अस्यां स्थितौ ‘लुप्’ उत ‘श्लुः’ इत्यनेन लोपे कृते अनिष्टं कार्यम् आपतति चेत् तत्र (अन्यपर्यायस्य अभावं दृष्ट्वा) ‘लुक्’ इति संज्ञया प्रत्ययस्य लोपः क्रियते । यथा, पञ्चन्-शब्दस्य प्रथमाबहुवचनस्य प्रक्रियायाम् जस्-प्रत्ययस्य षड्भ्यो लुक् (7.1.22) इति सूत्रेण लुक् उच्यते । अत्र प्रक्रियायाम् जस्-प्रत्ययविशिष्टस्य अङ्गकार्यस्य निषेधः इष्यते, अतः अत्र जस्-प्रत्ययस्य लोपार्थम् लुक्/श्लुः/लुप्-एतासु अन्यतमा संज्ञा आवश्यकी वर्तते । अस्यां स्थितौ अत्र जस्-प्रत्ययस्य श्लुः क्रियते चेत् तत्र द्वित्वस्य अतिप्रसङ्गः स्यात्; एवमेव जस्-प्रत्ययस्य लुप्-क्रियते चेत् ‘पञ्चन्’-शब्दस्य वचनम् लिङ्गं च विशेष्यम् नैव अनुसरेत् । अतः अत्र जस्-प्रत्ययस्य लोपः श्लुः उत लुप् इति संज्ञया नैव सम्भवति । अस्यां स्थितौ ‘लुक्’ इति अवशिष्टया संज्ञया एव प्रत्ययस्य लोपः क्रियते । सम्पूर्णा प्रक्रिया इयम् —
पञ्चन् + जस् [नकारान्त-नपुंसकलिङ्गात् 'पञ्चन्' शब्दात् प्रथमाबहुवचनस्य विवक्षायाम् जस्-प्रत्ययः]
→ पञ्चन् + शि [**जश्शसोः शिः** (7.1.20) इति प्रत्ययस्य शि-आदेशः]
→ पञ्चन् [**षड्भ्यो लुक्** (7.1.22) इति षट्-संज्ञकात् 'पञ्चन्' शब्दात् विहितस्य जस्-प्रत्ययस्य (शि-प्रत्ययस्य) लुक् । अत्र श्लुः अथवा लुप् क्रियते चेत् अनिष्टं कार्यं स्यात् । एवमेव, अत्र 'लोपः' इति शब्देन लोपः क्रियते चेत् अग्रिमसोपाने अङ्गकार्यस्य निषेधः नैव सम्भवेत् । अत्र अतः अत्र लुक्-शब्देन प्रत्ययलोपः क्रियते ।
→ पञ्च [**सर्वनामस्थाने चासम्बुद्धौ** (6.4.8) इत्यनेन सर्वनामस्थानसंज्ञके प्रत्यये परे अङ्गस्य प्राप्तः अनिष्टः उपधादीर्घः **न लुमताङ्गस्य** (1.1.63) इति सूत्रेण निषिध्यते । अत्र अत्र उपधादीर्घः न भवति । अग्रे **प्रत्ययलोपे प्रत्ययलक्षणम्** इत्यनेन लुप्तप्रत्ययस्य लक्षणम् 'पदत्वम्' आधारीकृत्य **नलोपः प्रातिपदिकान्तस्य** (8.2.7) इत्यनेन नकारलोपः भवति । अयं नकारलोपः अङ्गकार्यम् नास्ति अतः अयम् तु **न लुमताङ्गस्य** (1.1.63) इत्यनेन न प्रतिषिध्यते ।
Sutrartha (English)¶
The elision of a प्रत्यय done using the specific words लुक्, श्लु and लुप् is respectively known by the terms लुक्, श्लु, लुप्.
Vasu English Summary¶
The disappearance of an affix when it is caused by the words लुक् , श्लु or लुप् are designated by those terms respectively.
Vasu English Translation¶
The disappearance of an affix when it is caused by the words लुक् , श्लु or लुप् are designated by those terms respectively. When an affix is elided by using the term luk, that disappearance gets the appellation of luk, similarly when an affix is elided by using the terms slu or lup, the disappearance gets the name of slu or lup.
Thus in अद् + शप्लुक् + ति = अत्ति ‘he eats.’ Here the vikarana शप् has been elided by using the word luk (2.4.72). Similarly in जुहोति ‘he invokes,’ the vikarana शप् is elided by the word slu (2.4.75), so in वरणाः ‘a city in the vicinity of weeds called varana.’ Here the Taddhita affix indicating vicinity has been elided by the word lup. (4.2.82).
Why do we use the words “of the affix”? Without these words, the sutra would have run thus:- “The disappearance is called luk, slu or lup.” So that the disappearance of a base would also be caused by the use of these terms. Thus in (2.4.70), there would have been ‘luk’ of the bases agastya, and kaundinya; which however is not intended. In that sutra, the ‘luk’ of the affixes is only intended. So also in sutra (4.3.168) there would have been the substitution of ‘luk’ for the bases of the words.
Bhashya¶
प्रत्ययस्य लुक् श्लुलुपः प्रत्ययग्रहणं किमर्थम् ? लुमति प्रत्ययग्रहणमप्रत्ययसञ्ज्ञाप्रतिषेधार्थम्। लुमति प्रत्ययग्रहणं क्रियते। अप्रत्ययस्यैताः सञ्ज्ञा मा भूवन्निति। किं प्रयोजनम्? प्रयोजनं तद्धितलुकि कंसीयपरशव्ययोर्लुकि च गोप्रकृतिनिवृत्त्यर्थम्। तद्धितलुकि गोनिवृत्त्यर्थम्। कंसीयपरशव्ययोश्च लुकि प्रकृतिनिवृत्त्यर्थम्। लुक्तद्धितलुकीति गोरपि लुक् प्राप्नोति। प्रत्ययग्रहणान्न भवति कंसीयपरशव्ययोर्यञ्ञञ्ञौ लुक् चेति प्रकृतेरपि लुक् प्राप्नोति। प्रत्ययग्रहणान्न भवति। गोनिवृत्त्यर्थेन तावन्नार्थः। योगविभागात् सिद्धम्। योगविभागः करिष्यते - गोरुपसर्जनस्य। गोन्तस्य प्रातिपदकस्योपसर्जनस्य ह्रस्वो भवति। ततः स्त्रियाः। स्त्रीप्रत्ययान्तस्य प्रातिपदिकस्योपसर्जनस्य ह्रस्वो भवति। ततो लुक्तद्धितलुकीति। स्त्रिया इति वर्तते। गोरिति निवृत्तम्। कंसीयपरशव्ययोर्विशिष्टनिर्देशात् सिद्धम्। कंसीयपरशव्ययोर्विशिष्टनिर्देशः कर्तव्यः। कंसीयपरशव्ययोर्यञ्ञञ्ञौ भवतश्छयतोश्च लुग् भवतीति। स चावश्यं विशिष्टनिर्देशः कर्तव्यः। क्रियमाणेऽपि वै प्रत्ययग्रहणे उकारसकारयोर्मा भूदिति। कमेः सः कंसः। परान् शृणातीति परशुः इति। नैष दोषः। उणादयोऽव्युत्पन्नानि प्रातिपदिकानि। स एषोऽनन्यार्थो विशिष्टनिर्देशः कर्तव्यः। प्रत्ययग्रहणं वा कर्तव्यम्। किमुक्तम्? ङ्याप्प्रातिपदिकग्रहणमङ्गभपदसञ्ज्ञार्थं यच्छयोश्च लुगर्थमिति। षष्ठीनिर्देशार्थं तु। षष्ठीनिर्देशार्थं तर्हि प्रत्ययग्रहणं कर्तव्यम्। षष्ठीनिर्देशो यथा प्रकल्पेत। अनिर्देशे हि षष्ठ्यर्थाप्रसिद्धिः। अक्रियमाणे हि प्रत्ययग्रहणे षष्ठ्यर्थस्याप्रसिद्धि स्यात्। कस्य? स्थानेयोगत्वस्य। क्व पुनरहि षष्ठीनिर्देशेनार्थः प्रत्ययग्रहणेन यावता सर्वत्रैव षष्ठ्युच्चार्यते- अणिञ्ञोः, तद्राजस्य, यञ्ञञ्ञोः, शप इति। इह न काचित् षष्ठी। जनपदे लुबिति। अत्रापि प्रकृतं प्रत्ययग्रहणमनुवर्तते। क्व प्रकृतम्? प्रत्ययः परश्चेति। तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहार्थः। ङ्याप्प्रातिपदिकादित्येषा पञ्चमी प्रत्यय इति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्येति। प्रत्ययविधिरयम्। न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिका भवन्ति। नायं प्रत्ययविधिः। विहितः प्रत्ययः। प्रकृतश्चानुवर्तते। सर्वादेशार्थं वा वचनप्रामाण्यात्। सर्वादेशार्थं तर्हि प्रत्ययग्रहणं कर्तव्यम्। लुक् श्लु लुपः सर्वादेशा यथा स्युः। अथ क्रियमाणेऽपि प्रत्ययग्रहणे कथमिव लुक् श्लु लुपः सर्वादेशा लभ्याः। वचनप्रामाण्यात्। प्रत्ययग्रहणसार्मथ्यात्। एतदपि नास्ति प्रयोजनम्। आचार्यप्रवृत्तिर्ज्ञापयति लुक् श्लुलुपः सर्वादेशा भवन्तीति। यदयं लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये इति लोपे प्रकृते लुकं शास्ति। उत्तरार्थं तु। उत्तरार्थं तर्हि प्रत्ययग्रहणं कर्तव्यम्। क्रियते तत्रैव प्रत्ययलोपे प्रत्ययलक्षणमिति। द्वितीयं कर्तव्यम्। कृत्स्नप्रत्ययलोपे प्रत्ययलक्षणं यथा स्यात्। एकदेशलोपे मा भूदिति। आघ्नीत। सं रायस्पोषेण ग्मीयेति ॥61 ॥
Kashika¶
अदर्शनमिति वर्तते। प्रत्ययादर्शनस्य लुक्, श्लु, लुप् इत्येताः संज्ञा भवन्ति। अनेकसंज्ञाविधानाच् च तद्भावितग्रहणमिह विज्ञायते। लुक्संज्ञाभावितं प्रत्ययादर्शनं लुक्संज्ञं भवति, श्लुसंज्ञाभावितं श्लुसंज्ञं भवति, लुप्संज्ञाभावितं लुप्संज्ञं भवति। तेन संज्ञानां संकरो न भवति। विधिप्रदेशेषु च भाविनी संज्ञा विज्ञायते। अत्ति। जुहोति। वरणाः। प्रत्ययग्रहणं किम्? अगस्तयः। कुण्डिनाः। लुक्श्लुलुप्प्रदेशाः — लुक् तद्धितलुकि (१.२.४९), जुहोत्यादिभ्यः श्लुः (२.४.७५),**जनपदे लुप्** (४.२.८१) इत्येवमादयः॥
Siddhanta Kaumudi¶
लुक्श्लुलुप्शब्दैः कृतं प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यात् ॥
Laghu Siddhanta Kaumudi¶
लुक्श्लुलुप्शब्दैः कृतं प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यात्॥
Balamanorama¶
प्रत्ययस्य लुक्श्लुलुपः - अतो नैवमर्थः, किं तु लुक्श्लुलुप इत्यावर्तते । ततश्च लुक् श्लु लुप इत्युच्चार्य विहितं प्रत्ययाऽदर्शनं यथासङ्ख्यपरिभाषया क्रमाल्लुगादिसंज्ञं स्यादिति लभ्यते, अतो नोक्तसङ्कर इत्यभिप्रेत्याह-लुक्श्लुलुप्शब्दैरित्यादिना ।फले लुक्,जुहोत्यादिभ्यः श्लुः॑ ‘जनपदे लुप्’ इत्यादिविधिप्रदेशेषुअस्य सूत्रस्य शाटकं वये॑तिवद्भाविज्ञानान्नान्योन्याश्रयः । तदेवं कतिशब्दस्य षट्संज्ञायाम् — ।
Tattvabodhini¶
प्रत्ययस्य लुक्श्लुलुपः - पत्ययस्य लुक्श्लुलुपः ।अदर्शनं लोपः॑इत्यतोऽनुवृत्तस्याऽदर्शनस्यानेकसंज्ञाकरणसामर्थ्यात्तन्त्त्राद्यश्रित्य तद्भावितसंज्ञा इह विज्ञायन्ते, तेन संज्ञासङ्करोऽत्र न भवति, तदेतदाह — लुक्श्लुलुप्शब्दैरित्यादि । सति तु संज्ञासङ्करेहन्ती॑त्यत्र शब्लुकिश्लौ॑इति द्वित्वं स्याति ।जुहेती॑त्यत्र श्लौ सतिउतोवृद्धिर्लुकि हली॑ति वृद्धिः स्यात् । न च तत्रअभ्यस्तस्य ने॑त्यनुवृत्तेर्योयोति नोनोतीत्यादाविव वृद्धिर्न भविष्यतीति वाच्यं, संज्ञासङ्करपक्षे तदनुवृत्त्यसंभवात्, अन्यथा सूत्रस्य निर्विषयत्वापत्तेः । न चयौती॑त्यादिरवकाशः, संज्ञसङ्करे तत्रापि द्वित्वस्य दुर्वारत्वादिति भावः ।फले लुक्जुहोत्यादिभ्याः श्लुः॒॑जनपदे लु॑बित्यादिविधिप्रदेशेषु सूत्रशाटक वद्भाविसंज्ञाविज्ञानान्नान्योन्याश्रयः ।
Padamanjari¶
‘अदर्शनम्’ इति सम्बन्धात् ‘प्रत्ययस्य’ इति कर्मणि षष्ठी । यदि प्रत्ययादर्शनस्य लुगदिसंज्ञासङ्करः प्राप्नोति, विधानदशायां यया कयाचन संज्ञया भावितस्य प्रत्ययादर्शनस्यानुवादप्रदेशेषु यत्किञ्चनसंज्ञोच्चारणेऽपि ग्रहणप्रसङ्गः, ततश्च-अतीति लुक्संज्ञाया भावितस्यापि शपोऽदर्शनस्य ‘श्लौ’ इत्यत्र ग्रहणाद् द्विर्वचनं स्यात्; जुहोतीति-‘उतो वृद्धिर्लुकि हलि’ इति वृद्धिः स्यात्; हरीतक्या फलानि-‘लुक्तद्धितलुकि’ इति ङीषो लुक् स्यात्; ‘लवणाल् लुक्’ लवणस्सूपः, युक्तवद्भावः स्यात्; तथा लोपसंज्ञया भावितस्यापि लुक्संज्ञाया अगोमति गोमती सम्पन्ना गोमतीभूता ब्राह्मणीति च्वेर्लोपे ‘लुक् तद्धितलुकि’ इति लुक् स्यादित्यत आह-अनेकसंज्ञाविधानाच्चेत्यादि । यद्यतद्भावितस्याप्येताः संज्ञाः स्युः, नेकसंज्ञाकरणमनर्थकं स्यात् । एकामेव संज्ञां कृत्वा तयैव सर्वाणि कार्याणि विधीयेरन् ! तस्मादनेकसंज्ञाविधानाद्यया संज्ञया यददर्शनं भवतितं तस्यैव सा संज्ञेति संज्ञानां सङ्करो न भवति । यद्येवम्, विधिप्रदेशेष्वितरेतराश्रयः प्राप्नोति । न चात्र नित्यतया परिहारः सम्भवाति; अदर्शनमेव हि नित्यम्; न पुनर्लुगादिसंज्ञया भावितम् । तत्र यदि तया संज्ञया भावितस्यादर्शनस्य सा संज्ञेति, व्यक्तमितरेतराश्रयो भवति, तत्राह-विधिप्रदेशेषु चेति । अदिप्रभृतिभ्यः परस्य शपस्तद्भवति, यस्य भूतस्य लुक्संज्ञा भविष्यतीत्येवं भाविन्याः संज्ञाया विज्ञानान्न भवतीतरेतराश्रयत्वदोषः । लोपसंज्ञात्वदर्शनमात्रस्य विधीयत इति लुगादिसंज्ञाविषयेऽपि भवत्येव । न च लुगादिसंज्ञाभिबधिः; एकसंज्ञाधिकारादन्यत्र संज्ञानां समावेशात् । अत एव ‘ न लुमताङ्गस्य’ इति निषेधः । वरणा इति । ‘अदूरभवश्च’ इत्यणः ‘वरणादिभ्यश्च’ इति लुप् । प्रत्ययग्रहणं किमति । न तावदप्रत्ययनिवृत्यर्थम्; लुग्, अणिञोः, तद्राजस्य यञञोश्च, शपः, यङः, सिचः, लेः, सुपः इति सर्वत्र प्रत्ययस्यैव निर्देशाद्, अनुवादेषु च तद्भावितस्यैव तस्य संप्रत्ययात् । ‘गोस्त्रियोरुपसर्जनस्य’ इत्यत्र योगो विभज्यते - ‘गोरुपसर्जनस्य स्त्रियाः’ इति, ‘लुक् तद्धितलुकि’ इति स्त्रिया इत्येव;गोरिति निवृतम्; इतरथा कृतेऽपि प्रत्ययग्रहणे गमेर्डो लुक् स्यात्, ‘कंसीयपरशब्ययोर्यञञौ लुक् च’ इत्यत्र ङ्याप्प्रातिपदिकाधिकारात् कंसीयपरशव्ययोः प्रतिपदिकात्परस्य भागस्य लुग्विज्ञास्यते, न प्रकृतिभागस्य; अन्यथा कृतेऽपि प्रत्ययग्रहणे कमेः सः कंसः, परान् शृणाति परशुरिति उकारसकारयोर्लुक् स्यात्, अतोऽप्रत्ययनिवृत्यर्थ तावत्प्रत्यग्रहणं न कर्तव्यम् । यत्र तर्हि न कश्चिन्निर्दिश्यते - ‘अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च’ इति, अत्र प्रत्ययप्रतिपत्यर्थं प्रत्ययग्रहणं भविष्यति ? नैवम्; तत्रापि ‘यस्कादिभ्यो गोत्रे’ इत्ययो गोत्रग्रहणानुवृतेरत्र्यादिभ्यो गोत्रे यो विहितस्तस्य लुक्, तथा ‘जनपदे लुप्’ इत्यत्र ‘ङ्याप्प्रातिपदिकातप्रत्ययः ‘ इत्यनुवृतेः जनपदे विहितस्य चातुरर्थिकप्रत्ययस्यैव लुप् । ‘लवणाल्लुक्’ इत्यदिष्वपि प्रकृतस्य, अतः प्रत्ययस्य प्रतिपत्यर्थमपि न कर्तव्यं भवति । सर्वत्र चात्र्यादिभ्यः प्रतिपदिकाल्लवणादिति पञ्चम्यधिकारेण सन्निहितस्य षष्ठआआ प्रकल्पयिष्यति, सा चानियतयोगत्वात् स्थानषष्ठी भविष्यतीति स्थानषष्ठीप्रतिपत्यर्थमपि प्रत्ययग्रहणं न कर्तव्यं भवति । एवं तर्हि सर्वादेशार्थं प्रत्ययग्रहणम्; असति तस्मिन् ‘यञञोश्च’,शुपो धातु प्रातिपदिकयोः’ इत्यादिषु यत्रानेकाल् प्रत्ययः, तत्रालोऽन्त्यस्य स्यात्, ‘लवणाल्लुक्’ इत्यादौ तु आदेः स्यात्; सति तु प्रत्ययग्रहणे तत्सामर्थ्यात् सर्वादेशो लुगादिर्भवति ? ज्ञापकात्सिद्धम्, यदयम् ‘घोर्लोपो लेटि वा’ इति लोपे प्रकृते ‘लुग्वा दुहदिह’ इति लुकं शास्ति,तज्ज्ञापयति - ‘लुगादयः सर्वादेशाः’ इति । ‘अलोऽन्त्यस्य’ ह्यदर्शनं प्रकृतेन लोपेनापि सिद्धम् । विपर्ययस्तु न भवति, ‘घोर्लोपः’ इत्यत्र तावदसंजातविरोधित्वाद् ‘अलोऽन्त्यस्य’ इति प्रवर्तते, पश्चाल्लुग्ग्रहणं तस्यैव सर्वादेशतां गमयति । सामान्येन च ज्ञापकं समर्थयिष्यते - ‘लोपव्यतिरिक्तमदर्शनं सर्वादेशः’ इति । अतः सर्वादेशार्थमपि प्रत्यग्रहणं न कर्तव्यमिति प्रश्नः । इतरोऽपि विदिताभिप्रायः परिहरति । आगस्तयः कुण्डिना इति । असति प्रत्ययग्रहणे आगस्त्यकौण्डिन्ययोरित्यत्र ‘लुगणिञोः’ इत्यतो लुग्ग्रहणमनुवर्तते वा ? न वा ? अनुवृतौ - स्थानिनौ द्वौ, लुका सह त्रय आदेशा इति वैषम्यादसति यथासङ्ख्ये एकैकस्य त्रय आदेशाः पर्यायेण स्युः । ततश्चागस्तयोऽपि कुण्डिनाः स्युः, कुण्डिनाश्चागस्तयः स्युः । लुक् च क्रियमाणो यदि ज्ञापकात्सर्वादेशः, तत उभयत्रापि विभक्तिमात्रश्रवणप्रसङ्गः । अथ निवृतम् - ततोऽगस्तयः, कुण्डिना इत्यत्र न कश्चिद्दोषः । अगस्तीनां छात्रा आगस्तीया इत्यत्र तु प्राग्दीव्यतीयेऽजादौ प्रत्यये विवक्षितेऽप्यगस्त्यादेशस्य नि,एधाभावात् प्रवृताववृद्धत्वाच्छाए न स्यात्; प्रत्ययग्रहणे तु सति लुग्ग्रहणानुवृत्याऽऽगस्त्यकौण्डिन्ययोः प्रत्ययांशस्य लुग्न भवति । परिशिष्टयोर्भागयोर्यथासंख्यमगस्तिकुण्डिनचावित्यर्थः सम्पद्यते; तेनगस्तयः, कुण्डिना इति च सिद्ध्यति । प्राग्दीव्यतीये च विवक्षिते ‘गोत्रे लुगचि’ इति लुकि प्रतिषिद्धे तत्सन्नियोगशिष्टत्वादगस्त्यादेशेऽपि निवृते आगस्त्यशब्दस्य वृद्धत्वाच्छे कृते शूर्यतिष्यागस्त्य’ इति यलोपे चगस्तीया इति सिद्ध्यति । कौण्डिन्ये च नास्ति विशेषः, निवृतेऽपि कुण्डिनजादेशे कौण्डिन्यशब्दादपि ‘कण्वादिभ्यो गोत्रे’ इति अणि कृते ‘आपत्यस्य’ इति यलोपे कौण्डिना इत्येव भवितव्यम् । अत आगस्त्यकौण्डिन्ययोरित्यत्रावश्यमनुवर्त्यं लुग्ग्रहणम् । ततश्च पूर्वोक्तदोषपरिहाराय प्रत्ययग्रहणमपि कर्तव्यम् । वयन्तु ब्रूमः-शर्वादेशार्थमपि प्रत्ययग्रहणं सामान्येन ज्ञापकमगतिकगति’ इत ॥
Nyaas¶
यथा वृद्धिशब्दस्तद्भावितानमतद्भावितानामपि संज्ञा, तथा लुगित्यादिकाअप्यतद्भावितस्यापि संज्ञाः प्राप्नुवन्ति, ततश्च संज्ञासंकरः स्यात्। संज्ञासंकरे हि सति संकीर्येरन्नित्यत आह - अनेकसंज्ञाविधानाच्च इत्यादि। यद्यतद्भावितस्या-प्येताः संज्ञाः स्युः, अनेकसंज्ञाकरणमर्थकं स्यात्; एकस्यैव सर्वकार्यसिद्धः। तस्मादनेकसंज्ञाविधानाद् यददर्शनं यया संज्ञयोच्चारितया भावितम्= निष्पादितं, तस्यैव प्रत्ययादर्शनस्य सा संज्ञा, नान्यस्येति न भवति संकरः। एवं तर्हीतरेतराश्रयदोषः प्राप्नोति, तथा हि - संज्ञया विशिष्टमदर्शनं भाव्यम्, सति च तस्मिन् प्रत्यया-दर्शने संज्ञया भाव्यमित्यत आह - विधिप्रदेशेषु च इत्यादि। तददर्शनं विधीयते यस्य विहितस्य लुगित्येवमादिकाः संज्ञा भवन्तीति भाविन्याः संज्ञया विज्ञानान्न भवतीतरेतराश्रयदोषः।अत्ति इति। अदिप्रभृतिभ्यः शपः (2.4.72) इति शपो लुक्। जुहोति इति। जुहोत्यादिभ्यः श्लुः (2.4.75) । वरणाः इति। वरणानां वृक्षाणामदूरभवो ग्राम इति। प्राग्दीव्यतोऽण् (4.1.83) तस्य वरणादिभ्यश्च (4.2.82) इति लुप्।अगस्तयः, कुण्डिनाः इति। यदि प्रत्ययग्रहमं न क्रियेत, आगस्त्यस्याप-त्यानि बहूनि ऋष्यन्धकवृष्णिकुरुभ्यः (4.1.114) इति ऋष्यण्। कुण्डिन्या अपत्यानि बहूनि गर्गादित्वाद् यञ् (4.1.165) , तयोरागस्त्यकौण्डिन्यशब्दयोर्जसि परतो यदा आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् (2.4.70) इति लुक् क्रियते,अगस्तिकुण्डिनचौ चादेशौ; तदा वैषम्यादेकैकस्य षष्ठीनिर्दिष्टस्य स्थानिनस्त्रय आदेसाः पर्यायेण स्युः। तत्र यदा लुक् क्रियते तदा विभक्तिमात्रस्य श्रवणं प्राप्नोति। अथाप्यलोऽ-न्त्यस्य स्यात्ेवमप्यागस्त्यः,कौण्डिन्यः इति स्यात्; अगस्तयः, कुण्डिना इति चेष्यते। यदाप्यागस्त्यशब्दस्य कुण्डिनजादेशः, कौण्डिन्यशब्दस्य चागसत्यादेशः, तथाप्यनिष्टमेव प्राप्नोति। आगस्त्यशब्दस्य हि जसन्तस्य अगस्तयैति रूपमिष्यते, कौण्डिन्यशब्दस्य तु कुण्डिना इति। अत एवागस्तयः कुण्डिना इत्यनयानुपूर्व्या तयोरुपन्यासः।अथाप्यान्तरतम्यादागस्त्यशब्दस्यागस्तिशब्द एवादेशो भवति, न कुण्डिनजिति? कौण्डिन्यशब्दस्यापि कुण्डिनजादेशो भवति, नागस्तिशब्द इति? एवमपि नैवानिष्टापत्ते-र्मुक्तिः। तथा हि - एवं ह्रगस्तयः, कुण्डिना इति च सिध्यति, तथापि प्राग्दीव्यतीये-ऽजादौ प्रत्यये विवक्षिते सति वृद्धाच्छः (4.2.114) इति च्छोः न स्यात्वृद्ध-त्वात्। प्रकृतेः। प्रत्ययग्रहणे तु सति तददर्शनस्यैवेयं संज्ञा विहितेति तस्यैव लुग् भवति। परिजादिप्रत्ययविवक्षायामपि गोऽत्रेऽलुगचि (4.1.89) इति लुकि प्रतिषिद्धे वृद्धाच्छप्रत्ययश्च। अगस्तीनां छात्रा आगस्तीया इति। कौण्डिन्यशब्दात् तु सत्यपि लुकि कण्वादिभ्यो गोत्रे (4.2.111) इत्यणेव भवति - कौण्डिन्याश्चात्रा इति। तेन तत्र छप्रत्ययाभावदोषो न प्रसञ्जनीयः।
Prakriyasarvasvam¶
प्रत्ययादर्शनस्य लुक्, श्लु, लुप्, इति संज्ञाः । लोलू अ । ऊतो गुणे प्राप्ते,
Sudha¶
प्रत्ययस्य लुगिति । अदर्शनं लोपः**(1.1.60) इत्यतोऽदर्शनमित्यनुवर्तते । प्रत्ययस्यादर्शनं लुकश्लुलुप्संज्ञकं स्यादित्यर्थः प्रतीयते । अत्रानुवृत्तस्यादर्शनस्यानेकसंज्ञाकरणसामर्थ्यात्तन्त्राद्याश्रित्य तद्भावितसंज्ञा इह विज्ञायते । तेन संज्ञासङ्करोऽत्र न भवति, तदेतदाह – **लुक् श्लुलुप् शब्दैरित्यादिना । सति तु संज्ञासङ्करे हन्तीत्यत्र शब्लुकि **श्लौ**(6.1.10) इति द्वित्वं स्यात् । जुहोतीत्यत्र श्लौ सति **उतो वृद्धिर्लुकि हलि**(7.3.89) इति वृद्धिः स्यादिति भावः ।