11039: कृन्मेजन्तः¶
Padacheda: कृत् | S | 1 | 1 |
म्-एच्-अन्तः | S | 1 | 1 |
Sutrartha¶
मकारान्तः उत ‘एच्’ वर्णान्तः कृत् प्रत्ययः यस्य अन्ते विद्यते सः शब्दः ‘अव्यय’ नाम्ना ज्ञायते ।
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति ‘अव्यय’ इति संज्ञा । स्वरादिनिपातमव्ययम् (1.1.37) इत्यस्मात् सूत्रात् अव्ययीभावश्च (1.1.41) इति यावत्सु पञ्चसु सूत्रेषु अव्ययसंज्ञा पाठ्यते । एतेषु इदं तृतीयं सूत्रम् । विशिष्टानाम् कृदन्तशब्दानाम् अनेन सूत्रेण अव्ययसंज्ञा दीयते । अष्टाध्याय्याम् धातोः (3.1.91) अस्मिन् अधिकारे सर्वे कृत्-प्रत्ययाः विहिताः सन्ति । एतेषु ये कृत्-प्रत्ययाः मकारान्ताः सन्ति, ये च ‘एच्’ प्रत्याहारान्ताः अन्ति, तैः सिद्धाः शब्दाः प्रकृतसूत्रेण अव्ययसंज्ञकाः भवन्ति ।
मकारान्ताः कृत्प्रत्ययाः
अष्टाध्याय्याम् आहत्य चत्वारः कृत्प्रत्ययाः मकारान्ताः सन्ति - 1) णमुल्-प्रत्ययः - आभीक्ष्ण्ये णमुल् च (3.4.22) तथा च अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ (3.4.59) एतयोः निर्दिष्टः णमुल्-प्रत्ययः (‘णम्’ इति दृश्यरूपम्) मकारान्तः अस्ति । अस्य प्रयोगेण सिद्धम् कृदन्तम् अव्ययसंज्ञकम् भवति । यथा, स्मृ + णमुल् –> ‘स्मारम्’ इति अव्ययम् । उच्चैस् + कृ + णमुल् –> ‘उच्चैःकारम्’ इति अव्ययम् । 2) खमुञ्-प्रत्ययः - कर्मण्याक्रोशे कृञः खमुञ् (3.4.25) अनेन निर्दिष्टः खमुञ्-प्रत्ययः (‘खम्’ इति दृश्यरूपम्) मकारान्तः अस्ति । अस्य प्रयोगेण सिद्धम् कृदन्तम् अपि अव्ययसंज्ञकम् भवति । यथा, चोर + कृ + खमुञ् –> ‘चोरंकारम्’ इति अव्ययम् । 3) तुमुन्-प्रत्ययः - तुमुण्वुलौ क्रियायां क्रियार्थायाम् (3.3.10) इत्यनेन निर्दिष्टः तुमुन्-प्रत्ययः (‘तुम्’ इति दृश्यरूपम्) मकारान्तः अस्ति । अस्य प्रयोगेण अपि अव्ययानि सिद्ध्यन्ति । यथा, कृ + तुमिन् –> ‘कर्तुम्’ इति अव्ययम् । 4) कमुल्-प्रत्ययः - शकि णमुल्कमुलौ (3.4.12) अनेन सूत्रेण णमुल् तथा कमुल् एतौ मकारान्तौ प्रत्ययौ वेदेषु कृतौ दृश्येते । एतयोः प्रयोगेण अपि अव्ययं सिद्ध्यति । वि + भज् + णमुल् –> ‘विभाजम्’ इति अव्ययम् । अप + लुप् + कमुल् –> ‘अपलुपम्’ इति अव्ययम् ।
एजन्ताः कृत्प्रत्ययाः
अष्टाध्याय्याम् कृदधिकारे एजन्ताः प्रत्ययाः एकेनैव सूत्रेण दत्ताः सन्ति - तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः (3.4.9) अस्मिन् सूत्रे पाठिताः सर्वे प्रत्ययाः एजन्ताः सन्ति । एते सर्वे वैदिकप्रत्ययाः सन्ति । एतेषाम् प्रयोगेण अपि अव्ययाः सिद्ध्यन्ति । यथा - पा + शध्यै –> ‘पिबध्यै’ इति अव्ययम् ।
सुबुत्पत्तिः, पदसंज्ञा
सर्वाणि कृदन्तानि कृत्तद्धितसमासाश्च (1.2.46) इत्यनेन प्रातिपदिकसंज्ञकानि सन्ति । एतेषु मकारान्तप्रत्ययनिर्मितानाम् एजन्तप्रत्ययनिर्मितानां च कृदन्तानाम् प्रकृतसूत्रेण अव्ययसंज्ञा विधीयते । एतेभ्यः विहितानाम् सुप्-प्रत्ययानाम् अग्रे अव्ययादाप्सुपः (2.4.82) इत्यनेन लुक् भवति ।
कर्तुम् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **कृन्मेजन्तः** (1.1.39) इत्यनेन अव्ययसंज्ञा ।]
--> कर्तुम् + सुँ [**स्वौजस्...** (4.1.2) इत्यनेन सुबुत्पत्तिः]
--> कर्तुम् + ० [**अव्ययादाप्सुपः** (2.4.82) इत्यनेन अव्ययसंज्ञकात् विहितस्य सुप्-प्रत्ययस्य लुक्]
--> कर्तुम् [**प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इति प्रत्ययस्य लोपे कृते अपि तल्लक्षणा **सुप्तिङन्तं पदम्** (1.4.14) इति पदसंज्ञा ]
अनेन प्रकारेण पदसंज्ञायाम् जातायाम् एव अस्य शब्दस्य वाक्ये प्रयोगः भवति । अतः ‘रामः रक्षणं कर्तुम् गच्छति’ अस्मिन् वाक्ये विद्यमानः ‘कर्तुम्’ इति शब्दः पदसंज्ञकः अस्ति, न हि प्रातिपदिकम् ।
सूत्रे ‘अन्त’ग्रहणस्य प्रयोजनम्
प्रकृतसूत्रे ‘कृन्मेजन्तः’ इत्यस्य स्थाने ‘कृन्मेच्’ इत्येव उच्यते चेदपि ‘मेच्’ इति शब्दं ‘कृत्’ इत्यस्य विशेषणरूपेण स्वीकृत्य येन विधिस्तदन्तस्य (1.1.72) इत्यनेन तदन्तविधनिना ‘मेच् कृत्’ इत्यस्य अर्थः ‘मकारान्तः / एच्-वर्णान्तः कृत्प्रत्ययः’ इत्येव भवितुम् अर्हति । तथापि अस्मिन् सूत्रे ‘मेजन्त’ इति अन्तग्रहणम् कृतम् अस्ति । अस्मिन् विषये तत्वबोधिनीकारः वदति - येन विधिस्तदन्तस्य इत्यनेन एव सिद्धे सूत्रे अन्तग्रहणम् औपदेशिकप्रतिपत्त्यर्थम्, तेन इह न - आधये, चिकीर्षवे ** । इत्युक्ते, अत्र ‘अन्त’ग्रहणेन एतत् स्पष्टीक्रियते यत् केवलम् तेषाम् कृत्-प्रत्ययान्तानाम् अत्र ग्रहणम् करणीयम् ये *मूलरूपेण* एजन्ताः सन्ति - यथा, से, असे, असेन् - आदयः । यत्र कृत्प्रत्ययः मूलरूपेण एजन्तः नास्ति (यथा, अण्, उ इत्यादयः) परन्तु प्रक्रियायाम् कुत्रचित् अग्रे एजन्तत्वम् गृह्णाति तत्र अस्य सूत्रस्य प्रयोगः न करणीयः । यथा, ‘कुम्भ + कृ + अण् –> कुम्भकार’ इत्यत्र विद्यमानः अण्-प्रत्ययः यद्यपि अकारान्तः अस्ति, तथापि अस्मात् प्रातिपदिकात् चतुर्थीबहुवचनस्य प्रत्यये कृते ‘कुम्भकार + भ्यस्’ इति स्थिते **बहुवचने झल्येत् (7.3.103) इत्यनेन अदन्त-अङ्गस्य एकारादेशे कृते ‘कुम्भकारे’ इति एजन्तम् रूपम् सिद्ध्यति । परन्तु एतत् एजन्तम् रूपम् अत्र न स्वीकरणीयम्, केवलम् प्रत्ययस्य औपदेशिस्वरूपम् (अकारान्तत्वम्) एव आश्रित्य अव्ययसंज्ञायाः निर्णयः करणीयः - इति अत्र ‘अन्त’ग्रहणेन ज्ञाप्यते । वस्तुतस्तु ‘कुम्भकारेभ्यः’ इत्यादिषु उदाहरणेषु लक्षणप्रतिपदोक्तयोः प्रतिपदपक्तस्यैव ग्रहणम्, तथा च सन्निपातविधिरनिमित्तको तद्विघातस्य इत्यादिभिः भिन्नाभिः परिभाषाभिः अपि अव्ययत्वं निषेधयितुम् शक्यते, अतः अस्मिन् सूत्रे ‘अन्त’ग्रहणम् नैव आवश्यकम् । तथापि अत्र स्थापितम् अन्तग्रहणम् एतासाम् परिभाषाणाम् अनित्यत्वज्ञापनार्थम् अस्ति इति प्रौढमनोरमायां निर्दिश्यते ।
Sutrartha (English)¶
A word that ends in - (a) a मकारान्त कृत्-प्रत्यय, or (b) a कृत्-प्रत्यय that ends in the एच् letter - is known as ‘अव्यय’.
Vasu English Summary¶
The words formed by those कृत् or primary affixes – कृदतिङ् (3.1.93), which end with a म् or in a ए , ओ , ऐ and औ are also अव्यय or indeclinables.
Vasu English Translation¶
The words formed by those कृत् or primary affixes – कृदतिङ् (3.1.93), which end with a म् or in a ए , ओ , ऐ and औ are also अव्यय or indeclinables. All affixes for the formation of nouns are of two kinds:-1. Those by which nouns are derived directly from roots: Primary affixes. 2. Those by which nouns are derived from other nouns: Secondary affixes. The former are called krit, the latter, taddhita.
Words formed by krit affixes which end in म or ए, ओ, ऐ, or औ (connoted by the pratyahara एच्) are avyayas. Thus the affix तुम् (technically तुमुन्) and अम् (technically णमुल्, (3.3.10)) are affixes which end in म्. The words formed by the addition of these affixes will be indeclinables. Thus दातुम् ‘to give,’ and स्मारम् ‘remembering’ are avyayas. So also words like जीवसे ‘to live,’ पिवध्यै ‘to drink,’ are also avyayas as they end in ए, &c.
Thus, in the following examples, the words within quotation are avyayas ‘स्वादुंकारं,’ ‘संपन्नंकारं,’ ‘लवणंकारं,’ भुङ्क्ते, ‘he eats first having made it relishing’ (3.4.26). “वक्षे” रायः ( वच् + से (3.4.9) = वक्षे ); ता ‘वामेषे,’ रथनामुर्वीम् गव्युतिमेषां ( इ + से = एषे. Rig _*Veda* V. 66.3). अस्मे शतं शरदो ‘जीवसे’ धा अस्मे वीराञ्छ्श्वत इंद्र शिप्रिन् (Rig _*Veda* III.36.10). आपः पृणीत भेषजं वरूथं तन्वे मम । ज्योक् च सूर्य्यं ‘दृशे,’ (Rig _*Veda* 1.25.21, दृश् + केन् (3.4.2) दृशे).
The word अन्त is used in this sutra for the same purpose, as it was employed in sutra (1.1.24), showing that these terminations must be ‘aupadesika,’ and not derivative. Therefore the following words are not avyayas:– आधये (d, s.), आधेः (g.s.) चिकीर्षवे । चिकीर्षोः । कुम्भकारेभ्यः । नगरकारेभ्यः ॥
Bhashya¶
कृन्मेजन्तः कथमिदं विज्ञायते- कृद् यो मकारन्त इति। आहोस्वित् कृदन्तं यन्मान्तमिति। किं चातः? यदि विज्ञायते - कृद् यो मान्त इति। कारयांचकार हारयांचकार इत्यत्र न प्राप्नोति। अथ विज्ञायते- कृदन्तं यन्मान्तमिति प्रतामौ प्रतामः अत्रापि प्राप्नोति। यथेच्छसि तथास्तु। अस्तु तावत् कृद् यो मान्त इति। कथं कारयांचकार हारयांचकार इति? किं पुनरत्राव्ययसञ्ञ्ज्ञया प्रार्थ्यते ? अव्ययादित लुग् यथा स्यादिति। मा भूदेवम्। आमः इत्येवं भविष्यति। न सिध्यति। लिग्रहणं तत्रानुवर्तते। लिग्रहणं तत्र निवर्तिष्यते। यदि निवर्तते प्रत्ययमात्रस्य लुक् प्राप्नोति। इष्यते च प्रत्ययमात्रस्य। आतश्चेष्यते। एवं ह्याह- कृञ्ञ्चानुप्रयुज्यते लिटीति। यदि च प्रत्ययमात्रस्य लुग् भवति तत एतदुपपन्नं भवति। अथवा पुनरस्तु कृदन्तं यन्मान्तमिति । कथं प्रतामौ प्रतामः इति। आचार्यप्रवृत्तिर्ज्ञापयति - न प्रत्ययलक्षणेनाव्ययसञ्ञ्ज्ञां भवतीति। यदयं प्रशान् शब्दं स्वरादिषु पठति। ॥ कृन्मेजन्तश्चानिकारोकारप्रकृतिः । कृन्मेजन्तश्चानिकारोकारप्रकृतिरिति वक्तव्यम्। इह मा भूत् - आधये, आधेः। चिकीर्षवे- चिकीर्षोरिति। ॥ अनन्यप्रकृतिरिति वा । अथवा - अनन्यप्रकृतिः कृदव्ययसंज्ञो भवतीति वक्तव्यम्। किं पुनरत्र ज्यायः ? अनन्यप्रकृतिरिति वचनमेव ज्यायः। इदमपि सिद्धं भवति - कुम्भकारेभ्यो नगरकारेभ्य इति। तत्तर्हि वक्तव्यम् ? ॥ न वा संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति । न वा वक्तव्यम्। किं कारणम्? संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येत्येषा परिभाषा कर्तव्या। कः पुनरत्र विशेषः - एषा वा परिभाषा क्रियेत। अनन्यप्रकृतिरिति वोच्येत? अवश्यमेषा परिभाषा कर्तव्या। बहून्येतस्याः परिभाषायाः प्रयोजनानि। कानि पुनस्तानि ? प्रयोजनं ह्रस्वत्वं तुग्विधेर्ग्रामणिकुलम्। ग्रामणिकुलम् सेनानिकुलम् इत्यत्र ह्रस्वत्वे कृते ह्रस्वस्य पिति कृति तुगिति तुक् प्राप्नोति। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न दोषो भवति। नैतदस्ति प्रयोजनम्। बहिरङ्गं ह्रस्वत्वम्। अन्तरङ्गस्तुक्। असिद्धं बहिरङ्गमन्तरङ्गे। ॥ न लोपो वृत्रहभिः । वृत्रहभिर्भ्रूणहभिरित्यत्र नलोपे कृते ह्रस्वस्य पिति कृति तुगिति तुक् प्राप्नोति। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न दोषो भवति। एतदपि नास्ति प्रयोजनम्। असिद्धो नलोपः। तस्यासिद्धत्वान्न भविष्यति। ॥ उदुपधत्वमकित्त्वस्य निकुचिते । उदुपधत्वमकित्त्वस्यानिमित्तम्। क्व? निकुचिते। निकुचितमित्यत्र नलोपे कृते उदुपधाद् भावादिकर्मणोरन्यतरस्यामित्यकित्त्वं प्राप्नोति। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न दोषो भवति। एतदपि नास्ति प्रयोजनम्। अस्त्वत्राकित्त्वम्। न धातुलोप आर्धधातुके इति प्रतिषेधो भविष्यति। ॥ नाभावो यञ्ञि दीर्घत्वस्यामुना । नाभावो यञ्ञि दीर्घत्वस्यानिमित्तम्। क्व? अमुना। नाभावे कृते अतो दीर्घो यञ्ञि सुपि चेति दीर्घत्वं प्राप्नोति। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न दोषो भवति। एतदपि नास्ति प्रयोजनम्। वक्ष्यत्येतत् - न मु टादेशे इति। ॥ आत्वं कित्त्वस्योपादास्त । आत्वं कित्त्वस्यानिमित्तं स्यात्। क्व? उपादास्तास्य स्वरः शिक्षकस्येति। आत्वे कृते स्थाघ्वोरिच्चेतीत्त्वं प्राप्नोति। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न दोषो भवति। एतदपि नास्ति प्रयोजनम्। उक्तमेतत् - दीङः प्रतिषेधः स्थाघ्वोरित्त्वे इति। ॥ तिसृचतसृत्वं ङीब् विधेः । तिसृचतसृत्वं ङीब् विधेरनिमित्तम्। क्व? तिस्रस्तिष्ठन्ति। चतस्रस्तिष्ठन्तीति। तिसृ चतसृभावे कृते ऋन्नेभ्यो ङीप् इति ङीप् प्राप्नोति। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न दोषो भवति। एतदपि नास्ति प्रयोजनम्। आचार्यप्रवृत्तिर्ज्ञापयति न तिसृचतसृभावे कृते ङीप् भवतीति। यदयं न तिसृचतसृ इति नामि दीर्घत्वस्य प्रतिषेधं शास्ति। इमानि तर्हि प्रयोजनानि - शतानि सहस्राणि नुमि कृते ष्णान्ता षडिति षट्संज्ञा प्राप्नोति। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न दोषो भवति। शकटौ पद्धतौ। अत्त्वे कृते अतः इति टाप् प्राप्नोति। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न दोषो भवति। इयेष -उवोष। गुणे कृते इजादेश्च गुरुमतोऽनृच्छः इत्याम् प्राप्नोति। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न दोषो भवति। ॥ तस्य दोषो वर्णाश्रयः प्रत्ययो वर्णविचालस्य । तस्यैतस्य लक्षणस्य दोषो वर्णाश्रयः प्रत्ययो वर्णविचालस्यानिमित्तं स्यात्। क्व? अत इञ्ञ्। दाक्षिः। प्लाक्षिः। न प्रत्ययः संनिपातलक्षणः। अङ्गसञ्ज्ञा तर्ह्यनिमित्तं स्यात्। ॥ आत्वं पुग्विधेः क्रापयति । आत्वं पुग्विधेरनिमित्तं स्यात्। क्व? क्रापयतीति। ॥ पुग् ह्रस्वत्वस्यादीदपत् । पुग् ह्रस्वत्वस्यानिमित्तं स्यात्। क्व? अदीदपदिति। ॥ त्यदाद्यकारष्टाब् विधेः । त्यदाद्यकारष्टाब्विधेरनिमित्तं स्यात्। क्व? या सेति। ॥ इड्विधिराकारलोपस्य पपिवान् । इड्विधिराकारलोपस्यानिमित्तं स्यात्। क्व? पपिवान्। तस्थिवानिति। ॥ मतुब्विभक्त्युदात्तत्वं पूर्वनिघातस्य । मतुब्विभक्त्युदात्तत्वं पूर्वनिघातस्यानिमित्तं स्यात्। क्व? अग्निमान्। वायुमान्। परमवाचा। परमवाचे इति। ॥ नदीह्रस्वत्वं सम्बुद्धिलोपस्य । नदीह्रस्वत्वं सम्बुद्धिलोपस्यानिमित्तं स्यात्। क्व? नदि कुमारि किशोरि ब्राह्मणि बह्मबन्धु इति। नदीह्रस्वत्वे कृते एङ्ह्रस्वात्संबुद्धेरिति सम्बुद्धिलोपो न प्राप्नोति। मा भूदेवम्। ङ्यन्तादित्येवं भविष्यति। न सिध्यति। दीर्घादित्युच्यते। ह्रस्वान्ताच्च न प्राप्नोति। इदमिह सम्प्रधार्यं ह्रस्वत्वं क्रियतां सम्बुद्धिलोप इति। किमत्र कर्तव्यम्? परत्वाद्ह्रस्वत्वम्। नित्यः सम्बुद्धिलोपः। कृते ह्रस्वत्वे प्राप्नोति, अकृतेपि। अनित्यः सम्बुद्धिलोपः। न हि कृते ह्रस्वत्वे प्राप्नोति। किं कारणम्? संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति। एते दोषाः समा भूयांसो वा। तस्मान्नार्थोऽनया परिभाषया। न हि दोषाः सन्तीति परिभाषा न कर्तव्या, लक्षणं वा न प्रणेयम्। नहि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते। न च मृगाः सन्तीति यवा नोप्यन्ते। दोषाः खल्वपि साकल्येन परिगणिताः प्रयोजनानामुदाहरणमात्रम्। कुत एतत्? नहि दोषाणां लक्षणमस्ति। तस्माद् येन्येतस्याः परिभाषायाः प्रयोजनानि तदर्थमेषा परिभाषा कर्तव्या। प्रतिविधेयं दोषेषु ॥39 ॥
Kashika¶
कृद् यो मकारान्त एजन्तश्च तदन्तं शब्दरूपमव्ययसंज्ञं भवति। स्वादुंकारं भुङ्क्ते। सम्पन्नंकारं भुङ्क्ते । लवणंकारं भुङ्क्ते। एजन्तः — वक्षे रायः। ता वा॒मेषे॒ रथा॑नाम् (ऋ० ५.६६.३)। क्रत्वे॒ दक्षा॑य जी॒वसे॑ (ऋ० १०.५७.४)। ज्योक् च॒ सूय᐀्ं॑ दृ॒शे (ऋ० १०.५७.४)। वक्षे इति वचेः तुमर्थे सेसेन० (३.४.९) इति सेप्रत्यये कुत्वे षत्वे च कृते रूपम्। एषे इति इणः सेप्रत्यये गुणे षत्वे च कृते रूपम्। जीवसे इति जीवेरसेप्रत्यये रूपम्। दृशे इति दृशेः केन्प्रत्ययो निपात्यते — दृशे विख्ये च (३.४.११) इति। अन्तग्रहणमौपदेशिकप्रतिपत्त्यर्थम्। इह मा भूत् — आधये, चिकीर्षवे, कुम्भकारेभ्य इति॥
Siddhanta Kaumudi¶
कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यात् । स्मारं स्मारम् । जीवसे । पिबध्यै ॥
Laghu Siddhanta Kaumudi¶
कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यात्। स्मारं स्मारम्। जीवसे। पिबध्यै॥
Balamanorama¶
कृन्मेजन्तः - कृन्मेजन्तः । कृत्-मेजन्त इति छेदः । म् च एच्च मेचौ , तौ अन्ते यस्येति बहुव्रीहिः । तदाह — कृद्योमान्त इति । तदन्तमिति । केवलस्य कृतः प्रयोगाऽनर्हत्वात्संज्ञाविधावपि तदन्तविधिरिति भावः । स्मारं स्मारमिति ।आभीक्ष्ण्ये णमुल्चे॑ति स्मृधातोर्णमुल्,अचो ञ्णिती ति वृद्धिः, रपरत्वम्,नित्यवीप्सयो॑रिति द्वित्वं, मान्तकृदन्तत्वादव्ययत्वम् । जीवसे इति । ‘तुमर्थे सेसेनसे’ इत्यादिनाऽसेप्रत्ययः । पिबध्यै इति । ‘तुमर्थे से’ इत्यादिना शध्यैप्रत्ययः । शित्त्वात्सार्वधातुकत्वम् ।पाघ्राध्मे॑ति पिबादेश इति भावः । शप्तु न, कत्र्रर्थे सार्वधातुके तद्विधेः, ‘अव्ययकृतो भावे’ इति सिद्धान्तादित्याहुः ।
Tattvabodhini¶
कृन्मेजन्तः - कृन्मेजन्तः । अत्रमेजन्त॑इत्येतच्छतत्वात्कृत एव विशेषणं नतु कृदन्तस्याऽश्रुतस्य । अन्यथाप्रतामौ॑प्रतामः॑ । लवमाचष्टे णौ क्विपि णिलोपे वस्योठि वद्धौ चलौः॑ -अत्रापि प्रसज्यतेति भावः । भवति ह्रेतत्प्रत्ययलक्षणेन कृदन्तम्, एजन्तं च श्रूयते इति, तदाह — कृद्यो मान्त एजन्त इति । स्मारं स्मारमिति । स्मरतेः॒आभीक्ष्ण्ये णमुल् । वृद्धिः । रपरत्वम् ।नित्यवूप्सयोः॑इति द्वित्वम् । जीवसे इति ।तुमर्थे सेसेन्इत्यसेप्रत्ययः । पिबध्यै इति ।तुमर्थे॑ इत्यनेनैवशध्यै॑प्रत्ययः ।पाघ्रे॑ति पिबादेशः ।येन विधिस्तदन्तस्ये॑त्यनेनैव सिद्धे सूत्रेऽन्तग्रहणमौपदेशिकप्रतिपत्त्यर्थं, तेनेह न -आधये । चिकीर्षवे । लक्षणप्रतिपदोक्त — संनिपातपरिभाषाभ्यां सिद्धे तयोरनित्यत्वज्ञापनायेदमिति मनोरमायां स्थितम् । एतच्च अव्ययादाप्सुप॑इत्यत्राव्ययात्परस्य सुपो लु॑गिति यथाश्रुतव्याख्यानमभिप्रेत्योक्तम् ।अव्ययाद्विहिकस्ये॑ति व्याख्याने त्वाधये इत्यादौ अव्ययसंज्ञामनिष्टान्तरमूह्रम् ।
Padamanjari¶
अत्रापि पूर्ववतदन्तस्य संज्ञेति स्थिते मेजन्तग्रहणं कदन्तस्य विशेषणम् - ‘कृदन्तम्मेजन्तमब्ययम्’ इति । कृत एव वा-कृद्यो मेजन्तस्तदन्तमव्यमिति । तत्राद्यो पक्षे प्रतामौ प्रतामः, लवमाचष्टे इति णिचि क्विपि णिलोपे ऊठि ‘एत्येधत्यूठ्सु’ इति वृद्धौ लौरत्रापि प्राप्नोति, भवति ह्यएतत् प्रत्ययलक्षणेन कृदन्तम्, मेजन्तं च श्रूयत इतीमं दोषं दृष्ट्वा द्वितीयं पक्षमाश्रित्याह - कृद्य इति । नन्वत्रापि कारयाञ्चकार - आमन्तस्य न प्राप्नोति, पूर्वत्र तु लिटः कृत्वात्सिद्धम्, अत्रापि स्वरादिष्वामिति पाठात् सिद्धम् । अथापि तत्र तद्धितस्य पाठः; एवमपि कृदन्तत्वादुत्पन्नानां सुपाम् ‘आमः’ इति लुग्भविष्यति, ‘लेः’ इति हि तत्र नानुवर्तते । स्वादुङ्कारमिति । श्वादुमि णमुल्’ स्वादुमित्यर्थग्रहणात्सम्पन्नङ्कारमित्यपि भवति, स्वादुमिति । निपातनात्पूर्वपदस्य मान्तत्वम् । ‘येन विधिस्तदन्तस्य’ इत्येव सिद्धेरपार्थकमन्तग्रहणं तत्राह-अन्तग्रहणमित्यादि । नित्ययोगे बहुव्रीहिविज्ञानादौपदेशिकप्रतिपतिः । आधय इति । आङ्पूर्वाद्धाञः ‘उपसर्गे घोः किः’,चतुर्थ्येकवचने ‘घेर्ङिति’ आधये, भवत्ययं संप्रत्येजन्तः, नोपदेशे । एवं चिकीर्षवे-करोतेः सन्नन्तात् शनाशंसभिक्ष उः ‘, कुम्भकारशब्दः कर्मण्यणन्तः ‘बहुवचने झल्येत्’, अत्राव्ययसंज्ञायाम् ‘अव्ययात्’ इति लुक् स्यात्, सन्निपातपरिभाषयाऽप्येतत्सिद्धम्, तथा लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति । अन्तग्रहणं तु यत्नान्तरं द्रष्टव्यम् ॥
Nyaas¶
स्वादुङ्कारं भुङ्क्ते इति। स्वादुमि णमुल् (3.4.26) । स्वादुमि इत्यत एवनिर्देशादुपपदस्य मकारान्तत्वं निपात्यते। स्वादुमिति चार्थग्रहणम्। तेन सम्पन्नादावप्युपपदे णमुल् भवति। वक्षे इति। वच परिभाषणे (धातुपाठः-1063), ब्रुवो वचिः (2.4.53) इति ब्राऊञादेशो वा। चोः कुः (8.2.30) इति कुत्वम्।अन्तग्रहणम् इत्यादि। औपदेशिकप्रतिपत्त्यर्थम् इति। नित्ययोगे बहुव्रीहिविज्ञानादौपदेशिकप्रतिपत्तिः। उपदेशे भवमौपदेशिकम्।तस्य प्रतिपत्तिज्र्ञानम् प्रयोजनं यस्य तत् तथा। एवं मन्यते- विनाप्यन्तग्रहणेन येन विधिस्तदन्तस्य (1.1.72) इति सामर्थ्याद्वा कृतस्तदन्तविधौ सिद्धे यदन्तग्रहणं क्रियते तस्यैतत् प्रयोजनम् नियोगतो यस्यैजन्तत्वमुपदेशावस्थायामेव भवति तस्यैव प्रतीतिर्यथा स्यादिति। आधये इति। दधातेराङ्पूर्वात् उपसर्गे घोः किः (3.3.92) इति किः, आतो लोप इटि च (6.4.64) इत्याकारलोपः, चतुर्थ्येकवचने घेर्ङिति (7.3.111) इति गुणः। चिकीर्षदः इति। करोतेः सन्, अज्झनगमां सनि (6.4.16) इति दीर्घः; सनाशंसभिक्ष उः (3.2.168) इत्युप्रत्ययः; अतो लोपः, शेषं पूर्ववत्। कुम्भकारेभ्यः इति। कर्मण्यण् (3.2.1) उपपदमतिङ (2.2.19) इति समासः; बहुवचने झल्येत् (7.3.103) इत्येत्त्वम्। ननु च लक्षमप्रतिपदोक्तपरिभाषयैव वा असिद्धं बहिरङ्गमन्तरङ्गे (व्या।प।42) इत्येव वात्र संज्ञा न भविष्यति- विभक्तिप्रत्ययं ह्राश्रित्य विधीयमानत्वाद् गुणादिकार्यं बहिरङ्गम्, अव्ययसंज्ञा त्वन्तरङ्गम्, बाह्रस्य निमित्तस्यानाश्रयणात्, सत्यमेतत्; एवं त्वर्थप्रतिपत्तौ प्रतिपत्तिगौरवं स्यात्। अतस्तत्परिहारार्थमन्तग्रहणं कृतम्॥
Praudhamanorama¶
जीवसे इति। ‘तुमर्थे सेसेन्’ इति असे प्रत्ययः। पिबद्ध्यै इति। तेनैव शध्यै प्रत्ययः ‘पाघ्रा’ इति पिबादेशः। यत्त्वाहुः—कर्तरि शबिति, तद्रभसात्। ‘अव्ययकृतो भावे’ इति सिद्धान्तात्। अन्तग्रहणमौपदेशिकत्वप्रतिपत्त्यर्थम्। तेनेह न। आधये। चिकीर्षवे। लक्षणप्रतिपदोक्त-सन्निपातपरिभाषाभ्यां सिद्ध्यैतयोरनित्यत्वज्ञापनार्थमिदम्।
Prakriyasarvasvam¶
मान्त एजन्तश्च कृच्छब्दोऽव्ययसंज्ञः ॥
Sutra Prayogas¶
उरः प्रतिषेधं (शिशुपालवधम्): कृन्मेजन्तः इत्यव्ययसंज्ञा।