11038: तद्धितश्चासर्वविभक्तिः¶
Padacheda: तद्धितः | S | 1 | 1 |
च | S | 0 | 0 |
अ-सर्व-विभक्तिः | S | 1 | 1 |
Sutrartha¶
यस्मात् तद्धितान्तशब्दात् सर्वे विभक्तिप्रत्ययाः न विधीयन्ते, तस्य ‘अव्यय’ इति संज्ञा भवति ।
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति ‘अव्यय’ इति संज्ञा । स्वरादिनिपातमव्ययम् (1.1.37) इत्यस्मात् सूत्रात् अव्ययीभावश्च (1.1.41) इति यावत्सु पञ्चसु सूत्रेषु अव्ययसंज्ञा पाठ्यते । एतेषु इदं द्वितीयम् सूत्रम् । विशिष्टानाम् तद्धितप्रत्ययान्तशब्दानाम् अनेन सूत्रेण अव्ययसंज्ञा दीयते ।
‘असर्वविभक्तिः’ इत्यस्य अर्थः
तद्धिताधिकारे निर्दिष्टाः केचन तद्धितप्रत्ययाः यदा प्रातिपदिकेभ्यः विधीयन्ते, तर्हि तत्र निर्मितेभ्यः नूतनप्रातिपदिकेभ्यः सङ्ख्यात्वस्य अभावात् द्विवचन-बहुवचनस्य विभक्तिप्रत्ययाः न भवन्ति । एतेभ्यः औत्सर्गिकरूपेण केवलं एकवचनस्यैव विभक्तिप्रत्ययाः भवन्ति । अतएव एतेषां निर्देशः अत्र ‘असर्वविभक्तिः’ इत्यनेन क्रियते । एतादृशाः सर्वे शब्दाः येभ्यः द्विवचन-बहुवचन-प्रत्ययाः न विधीयन्ते ते प्रकृतसूत्रेण ‘अव्यय’संज्ञां स्वीकुर्वन्ति ।
असर्वविभक्तिकानां तद्धितप्रत्ययानाम् आवली
यैः तद्धितप्रत्ययैः अव्ययस्य निर्माणं भवति तेषाम् सूत्राणाम् आवली एतादृशी वर्तते - 1. तसिश्च (4.3.113) इत्यनेन विहितः ‘तसि’प्रत्ययः येषाम् अन्ते वर्तते, ते शब्दाः अव्ययसंज्ञकाः भवन्ति । यथा - सुदामतः, हिमवत्तः - आदयः । अयम् प्रत्ययः सर्वेभ्यः प्रातिपदिकेभ्यः पञ्च्यमर्थे विधीयते, अतः अनेन सूत्रेण अनेकानि नूतनानि अव्ययानि सिद्ध्यन्ति । 2. तेन तुल्यं क्रिया चेद्वतिः (5.1.115), तत्र तस्येव (5.1.116), तदर्हम् (5.1.117) एतैः सूत्रैः उक्तः ‘वति’प्रत्ययः येषाम् अन्ते विद्यते, ते शब्दाः अव्ययसंज्ञकाः भवन्ति । यथा - ब्राह्मणवत्, क्षत्रियवत् - आदयः । अनेन अपि सूत्रेण बहूनि नूतनानि अव्ययानि सिद्ध्यन्ति । 3. विनञ्भ्यां नानाञौ नसह (5.2.27) अनेन विहितः ना-प्रत्ययः नञ्-प्रत्ययः च येषाम् अन्ते अस्ति, ते शब्दाः अव्ययसंज्ञकाः भवन्ति । अनेन सूत्रेण ‘विना’ तथा ‘नाना’ एतयोः शब्दयोः अव्ययसंज्ञा भवति । 4. पञ्चम्यास्तसिल् (5.3.7) इत्यतः एधाच्च (5.3.46) एतेषु सूत्रेषु निर्दिष्टाः तद्धितप्रत्ययाः येषाम् अन्ते आगच्छन्ति, ते शब्दाः अव्ययसंज्ञकाः भवन्ति । यथा - ततः, यतः, यत्र, कुत्र, परितः, अभितः, क्व, इह, तत्रभवान्, द्वैधम्, त्रैधम् - आदयः । आहत्य पञ्चाशताधिकानां शब्दानाम् इत्थम् अव्ययसंज्ञा भवति । 5. किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे (5.4.11) इत्यनेन उक्तः आम्-प्रत्ययः तथा अमु च च्छन्दसि (5.4.12) इत्यनेन उक्तः अम्-प्रत्ययः येषाम् अन्ते विद्यते , ते शब्दाः अव्ययसंज्ञकाः भवन्ति । यथा - किंतराम्, पूर्वाह्णेतराम्, पचतितराम्, प्रतराम् - आदयः । एतौ प्रत्ययौ सर्वेभ्यः तिङन्तेभ्यः, सङ्ख्यावाचकशब्देभ्यः उक्तौ स्तः । 6. संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच् (5.4.17), द्वित्रिचतुर्भ्यः सुच् (5.4.18), एकस्य सकृच्च (5.4.19) तथा विभाषा बहोर्धाऽविप्रकृष्टकाले (5.4.20) एतैः सूत्रैः प्रोक्ताः ‘कृत्वसुच्’, ‘सुच्’, तथा ‘धा’ प्रत्ययाः येषाम् अन्ते सन्ति, ते शब्दाः अव्ययसंज्ञकाः भवन्ति । यथा - द्विस्, त्रिस्, चतुर्, पञ्चकृत्वः , पञ्चधा - आदयः । एतेषु ‘कृत्वसुच्’ प्रत्ययः सर्वेभ्यः संख्यावाचकशब्देभ्यः विधीयन्ते । 7. बह्वल्पार्थाच्छस् कारकादन्यतरस्याम् (5.4.42) इत्यतः मद्रात् परिवापणे (5.4.67) इति यावत्सु सूत्रेषु ये प्रत्ययाः उक्ताः सन्ति, तदन्ताः शब्दाः अव्ययसंज्ञकाः भवन्ति । यथा - बहुशः, अल्पशः, आदितः, ग्रामतः, देवत्रा - आदयः । एतेषु केचन प्रत्ययाः प्रायः सर्वेभ्यः प्रातिपदिकेभ्यः विधीयन्ते । अतः अनेन प्रकारेण अनन्तशब्दानाम् अव्ययसंज्ञा भवितुम् अर्हति ।
सुबुत्पत्तिः, पदसंज्ञा
सर्वे तद्धितान्तशब्दाः कृत्तद्धितसमासाश्च (1.2.46) इत्यनेन प्रातिपदिकसंज्ञकाः सन्ति । एतेषु येभ्यः केवलम् एकवचनस्य प्रत्ययाः उत्पद्यन्ते, प्रकृतसूत्रेण तेषाम् अव्ययसंज्ञा विधीयते । अस्य एकवचनस्य प्रत्ययस्य प्रक्रियायाम् अग्रे अव्ययादाप्सुपः (2.4.82) इत्यनेन लुक् भवति ।
विना [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **तद्धितश्चासर्वविभक्तिः** (1.1.38) इत्यनेन अव्ययसंज्ञा ।]
--> विना + सुँ [**स्वौजस्...** (4.1.2) इत्यनेन सुबुत्पत्तिः]
--> विना + ० [**अव्ययादाप्सुपः** (2.4.82) इत्यनेन अव्ययसंज्ञकात् विहितस्य सुप्-प्रत्ययस्य लुक्]
--> विना [**प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इति प्रत्ययस्य लोपे कृते अपि तल्लक्षणा **सुप्तिङन्तं पदम्** (1.4.14) इति पदसंज्ञा ]
अनेन प्रकारेण पदसंज्ञायाम् जातायाम् एव अस्य शब्दस्य वाक्ये प्रयोगः भवति । अतः ‘रामः भरतं विना गच्छति’ अस्मिन् वाक्ये विद्यमानः ‘विना’ इति शब्दः पदसंज्ञकः अस्ति, न हि प्रातिपदिकम् ।
Sutrartha (English)¶
A तद्धितान्त word to which all the विभक्तिप्रत्ययाः cannot be attached is known as ‘अव्यय’.
Vasu English Summary¶
And the words ending in तद्धित or secondary affixes – तद्धिताः (4.1.76), which are not declined in all the cases are also अव्यय or indeclinables.
Vasu English Translation¶
And the words ending in तद्धित or secondary affixes – तद्धिताः (4.1.76), which are not declined in all the cases are also अव्यय or indeclinables. This expands the definition of avyaya. There are three words in the sutra taddhitah, cha and asarva-vibhaktih. Taddhitas or secondary affixes are certain affixes, by which nouns are derived from other nouns, such as, from मनु we have मानवः, sarva-vibhaktis are those words which take all case-terminations, asarva-vibhaktis are those which do not take all vibhaktis but some only. Thus the adverb यतः is declined in the singular ablative only, and does not take the dual and plural terminations.
Those derivative words which do not take all the case-terminations, but only some of them and which are formed by the addition of Taddhita affixes are indeclinables. As ततः ‘thence,’ तत्र ‘there.’ Both these words are formed by taddhita affixes from the pronoun तद् ‘that,’ the one is used in the ablative case only and the other in the locative. So also यतः, यत्र, तदा, यदा, सर्वदा &c.
Bhashya¶
तद्धितश्चासर्वविभक्तिः ॥ असर्वविभक्तावविभक्तिनिमित्तस्योपसङ्ख्यानम् । असर्वविभक्तावविभक्तिनिमित्तस्योपसङ्ख्यानं कर्तव्यम्। विना। नाना। किं पुनः कारणं न सिध्यति? सर्वविभक्तिर्ह्यविशेषात्। सर्वविभक्तिर्ह्येष भवति। किं कारणम्? अविशेषेण विहितत्वात्। ॥ त्रलादीनां चोपसङ्ख्यानम् । त्रलादीनां चोपसङ्ख्यानं कर्तव्यम्। तत्र। यत्र। ततः यतः। ननु च विशेषेण एते विधीयन्ते। पञ्चम्यास्तसिल्। सप्तम्यास्त्रल् इति। वक्ष्यत्येतद्- इतराभ्योपि दृश्यन्ते इति। यदि पुनरविभक्तिः शब्दोऽव्ययसंज्ञो भवतीत्युच्यते। ॥ अविभक्तावितरेतराश्रयत्वादप्रसिद्धिः । अविभक्तावितरेतराश्रयत्वादप्रसिद्धिः सञ्ज्ञायाः। का इतरेतराश्रयता? सत्यविभक्तित्वे सञ्ञ्ज्ञया भवितव्यम्। सञ्ञ्ज्ञया चाविभक्तित्वं भाव्यते। तदितरेतराश्रयं भवति। इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते। ॥ अलिङ्गमसंख्यमिति वा । अथवा अलिङ्गमसंख्यमव्ययसञ्ञ्ज्ञं भवतीति वक्तव्यम्। एवमपीतरेतराश्रयमेव भवति। का इतरेतराश्रयता? सत्यलिङ्गासंख्यत्वे सञ्ञ्ज्ञया भवितव्यम्। सञ्ञ्ज्ञया चालिङ्गासंख्यत्वं भाव्यते। तदितरेतराश्रयं भवति। इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते। नेदं वाचनिकमलिङ्गता असंख्यता च। किं तर्हि? स्वाभाविकमेतत्। तद्यथा - समानमीहमानानां चाधीयानानां च केचिदर्थैर्युज्यन्ते अपरे न। तत्र किमस्माभिः शक्यं कर्तुम्। स्वाभाविकमेतत्। तत्तर्हि वक्तव्यमलिङ्गमसंख्यमिति। न वक्तव्यम्। सिद्धं तु पाठात्। पाठाद्वा सिद्धमेतत्। कथं पाठः कर्तव्यः? तसिलादयः प्राक् पाशपः। शस्प्रभृतयः प्राक् समासान्तेभ्यः। मान्तः। तसिवती। कृत्वोऽर्थः। नानाञ्ञाविति। अथवा पुनरस्त्वविभक्तिः शब्दोऽव्यसंज्ञो भवतीत्येव। ननु चोक्तमविभक्तावितरेतराश्रयत्वादप्रसिद्धिरिति। नैष दोषः। इदं तावदयं प्रष्टव्यः। यद्यपि तावद् वैयाकरणा विभक्तिलोपमारभमाणा अविभक्तिकान् शब्दान् प्रयुञ्ञ्जते ये त्वेते वैयाकरणेभ्योऽन्ये मनुष्याः कथं तेऽविभक्तिकान् शब्दान् प्रयुञ्ञ्जते? अभिज्ञाश्च पुनर्लौकिका एकत्वादीनामर्थानाम्। आतश्चाभिज्ञाः। अन्येन हि वस्नेनैकं गां क्रीणन्ति। अन्येन द्वावन्येन त्रीन्। अभिज्ञाश्च न च प्रयुञ्ञ्जते। तदेतदेवं संदृश्यताम् - अर्थरूपमेवैतदेवञ्ञ्जातीयकं येनात्र विभक्तिर्न भवतीति। तच्चाप्येतदेवमनुगम्यमानं दृश्यताम्। किंचिदव्ययं विभक्त्यर्थप्रधानं, किंचित् क्रियाप्रधानम्। उच्चैर्नीचैरिति विभक्त्यर्थप्रधानम्। हिरुक् पृथगिति क्रियाप्रधानम्। तद्धितश्चापि कश्चिद् विभक्त्यर्थप्रधानः। कश्चित् क्रियाप्रधानः। तत्र यत्रेति विभक्त्यर्थप्रधानः। विना नानेति क्रियाप्रधानः। न चैतयोरर्थयोर्लिङ्गसङ्ख्याभ्यां योगोस्ति। अथाप्यसर्व विभक्तिरित्युच्यते। एवमपि न दोषः। कथम्? इदं चाप्यद्यत्वेऽति बहु क्रियते एकस्मिन् एकवचनम्। द्वयोर्द्विवचनम्। बहुषु बहुवचनमिति। कथं तर्हि ? एकवचनमुत्सर्गः करिष्यते। तस्य द्विबह्वोरर्थयोर्द्विवचनबहुवचने बाधके भविष्यतः। न चाप्येवं विग्रहः करिष्यते - न सर्वाः असर्वाः। असर्वा विभक्तयो यस्मादिति। कथं तर्हि? न सर्वा असर्वा। असर्वा विभक्तिरस्मादिति। त्रिकं पुनर्विभक्तिसञ्ञ्ज्ञम्। एवं गते कृत्यपि तुल्यमेतन् मान्तस्य कार्यं ग्रहणं न तत्र। ततः परे चाभिमता न कार्यास्त्रयः कृदर्था ग्रहणेन योगाः ॥ 1 ॥ कृत्तद्धितानां ग्रहणं तु कार्यं सङ्ख्याविशेषं ह्यभिनिश्चिता ये। तेषां प्रतिषेधो भवतीति वक्तव्यम्। इह मा भूत् - एको द्वौ बहव इति। तस्मात् स्वरादिग्रहणं च कार्यं, कृत्तद्धितानां ग्रहणं च पाठे ॥ 2 ॥ पाठेनेयमव्ययसञ्ज्ञा क्रियते सेह न प्राप्नोति - परमोच्चैः परमनीचैरिति। तदन्तविधिना भविष्यति। इहापि तर्हि प्राप्नोति - अत्युच्चैः। अत्युच्चैसौ। अत्युच्चैसः इति। उपसर्जनस्य नेति प्रतिषेधो भविष्यति। स तर्हि प्रतिषेधो वक्तव्यः। न वक्तव्यः। सर्वनामसञ्ज्ञायां प्रकृतः प्रतिषेधः इहानुवर्तिष्यते। स वै तत्र प्रत्याख्यायते। यथा स तत्र प्रत्याख्यायते, तथेहापि शक्यः प्रत्याख्यातुम्। कथं च स तत्र प्रत्याख्यायते। महतीयं सञ्ज्ञा क्रियते इति। इहापि च महती सञ्ज्ञा क्रियते। सञ्ज्ञा च नाम यतो न लघीयः। कुत एतत्। लघ्वर्थं हि सञ्ज्ञाकरणम्। तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् - अन्वर्थसञ्ज्ञा यथा विज्ञायेत। न व्येतीत्यव्ययमिति। क्व पुनर्न व्येति? स्त्रीपुंनपुंसकानि सत्त्वगुणाः, एकत्वद्वित्वबहुत्वानि च। एतानर्थान् केचिन्न वियन्ति। ये न वियन्ति तदव्ययम्। सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु। वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ 1 ॥
Kashika¶
तद्धितान्तः शब्दोऽसर्वविभक्तिरव्ययसंज्ञो भवति। यस्माद् न सर्वविभक्तेरुत्पत्तिः सोऽसर्वविभक्तिः। ततः। यतः। तत्र। यत्र। तदा। यदा। सर्वदा। सदा। तद्धित इति किम्? एकः। द्वौ। बहवः। असर्वविभक्तिरिति किम्? औपगवः, औपगवौ, औपगवाः॥
Siddhanta Kaumudi¶
यस्मात्सर्वा विभक्तिर्नोत्पद्यते स तद्धितान्तोऽव्ययं स्यात् । परिगणनं कर्तव्यम् । तसिलादयः प्राक् पाशपः । शस्प्रभृतयः प्राक् समासान्तेभ्यः । अम् । आम् । कृत्वोर्थाः । तसिवती । नानाञाविति । तेनेह न । पचतिकल्पम् । पचतिरूपम् ॥
Balamanorama¶
तद्धितश्चासर्वविभक्तिः - अथ स्वरादिचादिभिन्नान्यव्ययान्याह — तद्धितश्चासर्व । असर्वविभक्तिरिति बहुर्वीहिः । तत्र सर्वा विभक्तयो यस्मान्न भवन्तीति बहुवचनान्तविग्रहो न संभवति, अव्ययेभ्यः सप्तानां विभक्तीनामुत्पत्त्यभ्युपगमात् । तथाहितद्धितश्चे॑ति प्रकृतसूत्रे भाष्ये तावत्द्व्येकयोर्द्विवचनैकवचने॑बहुषु बहुवचन॑मिति सूत्रविन्यासं भङ्क्त्वा ‘एकवचनं’द्वयोर्द्विवचने॒॑बहुषु बहुवचन॑मिति सूत्रन्यासं कृत्वा एकवचनमुत्सर्गतः करिष्यते, द्विबह्वोरर्थयोस्तस्य द्विवचनबहुवचने बाधके इत्यादि स्थितम् । ततश्च एकवचन॑मित्यनेन ङ्याप्प्रातिपदिकादेकवचनं भवतीति सामान्यविधिना द्वित्वबहुत्वाऽभावे एकवचनमिति लभ्यते । एवं च द्विबहुत्वाऽभावे सति एकत्वे तदभावे च एकवचनमिति फलति । तत्र द्वित्वबहुत्वयोर्द्विवचनबहुवचनोक्त्यैव ततोऽन्यत्र एकवचनस्य सिद्धत्वात् ‘एकवचनम्’ इति सूत्रं कर्मत्वाद्यभावेऽपि प्रापणार्थं संपद्यते । तथाच अलिङ्गसंख्येभ्योऽव्ययेभ्य एकवचनं प्रवर्तमानं विनिगमनाविरहात्सर्वविभक्त्येकवचनं भवति । अत एव ‘अव्ययादाप्सुपः’ इत्यत्र प्रत्याहारग्रहणमर्थवत् । तस्मात्सर्वा विभक्तियो यस्मादिति न विग्रहः, किन्तु सर्वशब्दोऽत्र सर्व पटो दग्ध इतिवदवयवकार्त्स्न्ये वर्तते । एवंच सर्वा वचनत्रयात्मिका विभक्तिर्यस्मान्नोत्पद्यते । किन्त्वेकवचनान्येवोत्पद्यन्ते, स तद्धितान्तोऽव्ययसंज्ञः स्यादिति फलतीत्यभिप्रेत्याह — यस्मादिति । सर्वेति । वचनत्रयात्मिकेत्यर्थः । नोत्पद्यत इति ।किन्त्वेकवचनान्येवोत्पद्यन्ते॑ इति शेषः । स्यादेतत्-तिङ्श्चे-त्यनुवृत्तौप्रशंसायां रूप॑मिति रूपप्प्रत्ययेईषदसमाप्तौ कल्प॑बिति कल्पप्प्रत्यये च पचतिरूपं पचतिकल्पमिति रूपम् । प्रशस्तं पचति, ईषत् पचतीत्यर्थः । अत्राप्यव्ययत्वं स्यात्, अरुआवविभक्तितद्धितान्तत्वात् । किञ्च उभयशब्देऽतिव्याप्तिः, तस्याप्यसर्वविभक्तितद्धितान्तत्वादित्यत आह-परिगणनमिति । वार्तिकमेतत् । तसिलादय इति । ‘पञ्चम्यास्तसिल्’ इत्यारभ्यद्वित्र्योश्च धमु॑ञित्यर्थः । शस्प्रभृतय इति ।बह्वल्पार्था॑दित्यरभ्यअव्यक्तानुकरणा॑दिति डाजन्ता इत्यर्थः । अमामिति ।अमु च च्छन्दसी॑त्यम्,किमेत्तिङव्यये॑त्यमा च गृह्रते । कृत्वोऽर्था इति ।सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्,द्वित्रिचतुभ्र्यःसुच्,विभाषा बहोर्थे॑ति त्रय इत्यर्थः । तसिवती इति ।तेनैकदिक्, ‘तसिश्च’ इति तसि#ः ‘तेन तुल्यम्’ इत्यादिविहितो वतिश्च गृह्रते ।प्रतियोगे पञ्चम्यास्तसिः॑ इत्यस्य तु शस्प्रभृतित्वादेव सिद्धम् । एवं च स्वरादिषु वदित्यस्य प्रयोजने चिन्त्यम् । नानाञाविति ।निनञ्भ्यां नानाञौ न सहे॑ति विहातौ नानाञौ । इति परिगणनंकर्तव्यमित्यन्वयः । परिगणनेनैव सिद्धेतद्धितश्चे॑ति सूत्रं न कर्तव्यमिति भावः ।
Tattvabodhini¶
तद्धितश्चासर्वविभक्तिः - तद्धितश्चासर्वविभक्तिः । सर्वेति । वचनत्रयात्मिकेत्यर्थः । नोत्पद्यत इति । किं त्वेकवचनमेवोत्पद्यत इति भावः । तद्धितः किम्, एकः । द्वौ । त्रयः । असर्वेत्यादि किम् । औपगवः । ननु पञ्चालाः गदौ वरणा इत्यादावतिप्रसङ्गः । न चलुब्योगाप्रख्याना॑दितचि वदता नैषां तद्धितान्तत्वमङ्गीकृतमिति [नातिप्रसङ्ग इति] वाच्यम्, एवमपिपचतिकल्पं॒॑पचतिरूप॑मित्यादावतिव्याप्तेर्दुर्वारत्वादित्याशङ्क्याह — परिगणनं कर्तव्यमिति । तसिलादय इति ।पञ्चम्यास्तसि॑लिति विहितो यस्तसिल् तदादयोयाप्ये पाश॑बिति विहितपाशप्प्रत्ययपर्यन्ताइत्यर्थः । शस्प्रभृतय इति.॒बह्वल्पार्थात् — ॑इति विहितो यः शस्, तदादयःसमासान्ताः॑इति सूत्रपर्यन्ताः । कृत्वोर्था इति ।सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसु॑जिति विहिताः कृत्वसुजादयस्त्रयः । तसिवती इति । न च तसेः परिगणनं व्यर्थं, शस्प्रभृतित्वादेवप्रतियोगे पञ्चम्यास्तसिः॑इत्यस्य लाभादिति वाच्यम्, तेनैकदिक्तसिश्चे॑त्येतदर्थतया तस्यावश्यकत्वात् ।तेन तुल्य॑मिति वतिः । नानाञाविति ।विनञ्भ्यां नानाञौ न सहे॑ति विहितौ । पचतिकल्पमिति । अव्ययसंज्ञायां हि सत्यां सुपो लुक् स्यादिति भावः ।
Padamanjari¶
इह यद्यपि संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधस्तथापि केवलस्य तद्धितस्य संज्ञायाः प्रयोजनाभावात् तदन्तविधिर्विज्ञायत इत्याह-तद्धितान्तः शब्द इति । अकच् तावत्प्रातिपदिकस्य सुबन्तस्य वा विधीयते । ‘अव्ययादाप्सुपः’ इत्यत्राप्यव्ययाद्विहितस्य सुपो लुक्, न तु परस्य; अत्युच्चैसावित्यादावपि प्रसङ्गात् । ‘तत्पुरुषे तुल्यार्थ’,ङाव्ययदिक्च्छब्द’,’खित्यनव्ययस्य’ इत्यत्रापि पूर्वपदस्याव्ययस्य ग्रहणम् । सर्वा विभक्तिर्यस्य सम्बन्धिनी न भवति सोऽसर्वविभक्तिः । किं पुनरिदं तद्धितस्य वशेषणम् ? आहोस्वितदान्तस्य ? कथञ्चेदं तद्धितस्य विशेषणम्, कथं वा तदन्तस्य ? यदि सर्वा विभक्तिर्यस्य सम्बन्धिनी न भवति - कारणत्वेन यस्योत्पतौ सर्वा विभक्तिः कारणं न भवति, यथा ‘पञ्चम्यास्तसिल्’ इत्यादाविति कार्यमन्यपदार्थः, तदा तद्धितस्य विशेषणं भवति - तद्धितस्यैव ह्युत्पत्तिर्न तदन्तस्य । एवंविशिष्टेन तद्धितेन तदन्तविधौ-तादृशतद्धितान्तोऽव्ययमित्यर्थो भवति । अथ तु सर्वा विभक्तिर्यस्य कार्यत्वेन सम्बन्धिनी न भवति-यस्मात्सर्वा विभक्तिर्नोत्पद्यत इति कारणमन्यपदार्थः, तदा तदन्तसाय विशेषणं भवति । न हि तद्धितमात्राद्विभक्तियुत्पत्तिप्रसङ्गः । तत्र पूर्वस्मिन् पक्षे विना, नानेत्यत्र न स्याद्; न हि विनञ्भ्यमामित्यत्र प्रतिनियता काचिद्विभक्तिराश्रीयत इति सर्वविभक्त्यन्ताभ्यां विनञ्भ्यां नानाञौ भवतः । अव्ययेभ्यस्तु निः सङ्ख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एवेति पक्षे येऽपि भवदादिप्रयोगे तसिलादयो विधीयन्त - ‘इतराभ्योषऽपि दृश्यन्त’ इति, तेऽपि स भवाÄस्ततो भवांस्तं भवन्तं ततो भवन्तमित्यादिसर्वविभक्त्यन्तेभ्य उत्पद्यन्त इति तत्रापि न स्यात् । ‘तस्यापत्यम्’ ‘तत्र भवः’ इत्यादौ च षष्ठ।लदिकैकैव विभक्तिर्निमितम्, न तु सर्वेतत्यौपगवादावतिप्रसङ्गश्चेति द्वितीयं पक्षमाश्रित्याह - यस्मादित्यादि । तत इत्यादौ ‘प्राग्दिशो विभक्तिः’ इति तसिलादीनां विभक्तित्वात्यदाद्यत्वम् । कथं पुनरेतेऽसर्वविभक्तयः; यावता यत्र च सङ्ख्या सम्भवति तत्रायमुपदेशाः, अव्ययेभ्यस्तु निःसङ्ख्येभ्य इत्यस्मिन्पक्षे ‘अव्ययादाप्सुपः’ इति ज्ञापकाश्रयणे च सर्वविभक्तयः; अथ सङ्ख्याकर्मादयश्च स्वादीनामर्थास्तेन सहास्यैकवाक्यतेति पक्षः, ततोऽविभक्तित्वमेवासत्वभूतार्थानामापद्येत ? उच्यते; ‘द्व्येकयोर्द्विवचनैकवचने’ इत्यत्रैकस्मिन्नित्यपनीय ‘एकवचनम्’ इति पृथक् सूत्रं कर्तव्यम्, ततः ‘द्विबह्वोर्द्विवचनबहुवचने’ इति, ततश्चैकवचनमेकस्मिन्नपि भविष्यति, सङ्ख्याकर्माद्यभावे चाप्राप्तप्रापणार्थत्वादेकवचनमित्यस्य सूत्रस्य, द्वित्वबहुत्वयोस्तु प्राप्तं द्विवचनबहुवचनाभ्यां बाध्यते, ततश्चासत्ववचनेभ्योऽपि सप्तानां विभक्तीनां सप्ताप्येकवचनानि भवन्ति । अव्ययीभावादप्येवमेव, तावतापि नाव्ययीभावात् ‘तृतीयासप्तम्योः’ इत्यस्योपपतेः, तदिदमुच्यते-‘एकवचनमुत्सर्गतः करिष्यते’ इति । एवं स्थिते यस्मात्सर्वा विभक्तिर्नोत्पद्यत इत्येकवचनेन विग्रहोऽवयवकार्त्स्न्यवृत्तिः सर्वशब्दो यस्य त्रिकस्य विभक्तिशंज्ञा विहिता तन्निरवशेषं यस्मान्नोत्पद्यते, किन्तु तदेकदेश एवत्यर्थस्तदाह - यस्मान् सर्वा विभक्तिरिति । यदि तु सर्वा विभक्तय इति बहुवचनेन विगृह्यएत ततः सर्वान्नीन इतिवत् प्रकार कार्त्स्न्यऽपि सर्वशब्दस्य संभवाद् एकवचनमात्रोत्पतावपि सर्वा विभक्तयः, सप्ताप्येकवचनान्यसत्ववचनेभ्य उत्पद्यन्त इति न स्यादसर्वविभक्तित्वमिति भावः । इह ‘तेनैक दिक्’ ‘तसिश्च’ इत्येकस्मिन्नर्थे विधीयमानयोरप्यण्तसोरण् द्रव्यप्रधानः, तसिस्तु द्रव्योपसर्जनतृतीयार्थप्रधान इति तस्यासत्ववचनता । तद्धित इति किमिति । असर्वविभक्तिरव्ययमित्येवास्तु, मा भूत्सर्वमेय प्रकरणं ये हि स्वरादयः, ये च निपाताः, ये च कृन्मेजन्ताः, ये च क्त्वादयः, यश्चाव्ययीभावः, सर्वे तेऽसर्वविभक्तय इति प्रश्नः । एकः द्वौ, बहव इति । एतेभ्योऽपि सप्तस्वपि विभक्तिष्वेकैकमेव वचनमुत्पद्यत इति स्यादतिप्रसङ्ग इति कर्तव्यं तद्धितग्रहणम् । तस्मिंश्च कृते प्रकरणमपि कर्तव्यमिति भावः । विशत्यादयस्तु कृतैकशेषा द्विवचनबहुवचनान्ता अपि भवन्तीति नासर्वविभक्तयाः । एवं द्वयत्रयोभयशब्दा अयजन्ताः । एवमपि गोदयोरदूरभवो ग्रामः ‘अदूरभवश्च’ इत्यणः ‘वरणादिभ्यश्च’ इति लुपि युक्तवद्भावात् सर्वासु विभक्तिषु द्विवचनस्योत्पतेरस्त्यतिप्रसङ्गः । स्यादयं पर्यनुयोगः - यदि तद्धितान्तो गोदशब्दः,वयं तु ‘लुब्योगाप्रख्यानाद्’ ‘योगप्रमाणे च तदभावे दर्शनं स्याद’ इत्यधीयाना नैवं पर्यनुयोज्याः; एवमपि शङ्खायास्संज्ञासङ्घसूत्राध्ययनेषु’ संज्ञायां स्वार्थ उत्पाद्यः, पञ्चैव पञ्चकाः शकुनयः - अत्र प्राप्नोति, पचतिरूपं पचतिकल्पमित्यादौ च एकवचनमेवोत्पद्यत इति स्यादेवातिप्रसङ्गः । तस्मातद्धितानां पाठ एवाश्रयणीयः, तदाह - शिद्धं तु पाठातसिलादयः प्राक् पाशपः, शस्प्रभृतयः प्राक् समासान्तेभयः, मान्तः कृत्वोर्थाः, तसिवती नानाञाविति’ ॥
Nyaas¶
प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहणं भवतीत तद्धितान्तस्य संज्ञा विज्ञायत इत्याह तद्धितान्तः शब्दः`इति। `यस्मान्न सर्व इत्यादि।अत्रावयवकात्र्स्न्यवृत्तिः सर्वशब्दः। सर्वा निरवशेषा येषां त्रयाणां वचनानां विभ-क्तिरिति संज्ञा कृता। तानि सर्वाणि यतो नोपत्पद्यन्त इत्यर्थः। ततः,यतः इति। तद्- यच्छपब्दात् पञ्चमीसमर्थात् पञ्चम्यास्तसिल् (5.3.7) इति तसिल्, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुब्लुक्;**प्राग्दिशो विभक्तिः** (5.3.1) इतिविभक्तित्वात् त्यदाद्यत्वम्; अतो गुणे (6.1.97) , पररूपत्वम्। तत्र यत्र `इति। `सप्तम्यास्त्रल् (5.3.100 इति त्रल्। तदा, यदा, सर्वदा इति। सर्वैकान्यकिंयत्तदः काले दा (5.3.15) । सर्वे एते-ततः प्रभृतयः विभक्त्यर्थप्रधानाः। स च विभक्तयर्थः प्रातिपदिकार्थः सम्पन्न इति प्रातिपदिकार्थे प्रथमैव भवति। सापि संख्याविशेषाभावान्न सर्वा। किं तर्हि? एकवचनमेव; तस्योत्सर्गत्वात्। तथा चोक्तम्-एकवचनमुत्सर्गतः करिष्यते इति। तस्य अव्ययादाप्सुपः (2.4.82) लुक्। एकः इति। अत्रासर्वविभक्तिकत्वमस्ति; एकत्वे द्वित्वायोगात्। अतद्धितत्वान्न भवति। औपगवः इति। अत्र तद्धितान्तस्य सर्वविभक्तियोगान्न भवति॥
Praudhamanorama¶
नेति। किं तु एकवचनमेवोत्पद्यते इति भावः। तद्धितः किम्? एकः, द्वौ, त्रयः। असर्वेत्यादि किम्? औपगवः।
Prakriyasarvasvam¶
सर्वविभक्तिरहितस्तद्धितान्तोऽव्ययसञ्ज्ञः, इति सुलुक् । विना नाना ॥
Sutra Prayogas¶
सुतरां (रघुवंशम्): तद्धितश्चासर्वविभक्तिः इति अव्ययसंज्ञा।
जनवत् (किरातार्जुनीयम्): तद्धितश्चासर्वविभक्तिः इत्यव्ययम्।
ददृशेतराम् (शिशुपालवधम्): तद्धितश्चासर्वविभक्तिः इत्यव्ययसंज्ञा।