11005: क्ङिति च

Padacheda: क्ङिति | S | 7 | 1 |

च | S | 0 | 0 |

Sutrartha

कित्/गित्/ङित्-प्रत्ययस्य उपस्थितौ इग्लक्षणम् गुणकार्यम् वृद्धिकार्यं च निषिध्यते ।

यस्मिन् प्रत्यये ककारः, गकारः उत ङकारः इत्संज्ञकः अस्ति, तं प्रत्ययं निमित्तरूपेण स्वीकृत्य अङ्गस्य इक्-वर्णस्य गुणवृद्धी न भवतः —‌ इति अस्य सूत्रस्य अर्थः । क्रमेण उदाहरणानि एतानि — <hlb>1. कित्-प्रत्ययनिमित्तकः गुणवृद्धिनिषेधः</hlb> 1. भिद्-धातोः क्त-प्रत्यये कृते, पुगन्तलघूपधस्य च (7.3.86) इति अङ्गस्य प्राप्तः लघूपधगुणः प्रत्ययस्य कित्त्वात् निषिध्यते । प्रक्रिया इयम् —

भिदिँर् (विदारणे, रुधादिः, अनिट्. (7.2))
→ भिद् + क्त [**निष्ठा** (3.2.102) इति क्तप्रत्ययः]
→ भिद् + त [प्रत्ययस्थककारस्य **लशक्वतद्धिते** (1.3.8) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः]
→ भिन्न [**रदाभ्यां निष्ठातो नः पूर्वस्य च दः** (8.2.42) इति दकारस्य, तकारस्य च नकारः]
  1. मृज्-धातोः क्यप्-प्रत्यये कृते मृजेर्वृद्धिः (7.2.114) इति अङ्गस्य प्राप्तः वृद्धिः प्रत्ययस्य कित्त्वात् निषिध्यते । प्रक्रिया इयम् —

मृजूँ (शुद्धौ, अदादिः, (2.61))
मृज् + क्यप् [**मृजेर्विभाषा** (3.1.113) इति क्यप्-प्रत्ययः]
→ मृज् + य [ककारस्य **लशक्वतद्धिते** (1.3.8) इति इत्संज्ञा, पकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा । **तस्य लोपः** (1.3.9) इति द्वयोः अपि लोपः]
→ मृज्य [**मृजेर्वृद्धिः** (7.2.114) इत्यनेन प्राप्ता वृद्धिः **क्ङिति च** (1.1.5) इति निषिध्यते ।]

<hlb>2. गित्-प्रत्ययनिमित्तकः गुणवृद्धिनिषेधः</hlb> गित्-प्रत्ययस्य विषये केवलम् द्वे एव उदाहरणे स्तः — ग्लाजिस्थश्च क्स्नुः (3.2.139) इति सूत्रेण “जि”-धातोः तथा च “भू”-धातोः “ग्स्नु”-प्रत्यये कृते, अङ्गस्य जायमानः गुणः प्रत्ययस्य गित्त्वात् निषिध्यते । प्रक्रिया इयम् —

जि (अभिषवे, भ्वादिः, (1.1096)) / भू (सत्तायाम्, भ्वादिः, (1.1))
→ जि / भू + ग्स्नु [**ग्लाजिस्थश्च क्स्नुः** (3.2.139) इति ग्स्नु-प्रत्ययः]
→ जि / भू + स्नु [प्रत्ययस्थगकारस्य **लशक्वतद्धिते** (1.3.8) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः । अत्र अङ्गस्य **सार्वधातुकार्धधातुकयोः** (7.3.84) इत्यनेन प्राप्तः गुणादेशः प्रत्ययस्य गित्त्वात् **क्ङिति च** (1.1.5) इति निषिध्यते ।]
→ जिष्णु / भूष्णु [**आदेशप्रत्यययोः** (8.3.59) इति षत्वम्]

<hlb>3. ङित्-प्रत्ययनिमित्तकः गुणवृद्धिनिषेधः</hlb> 1. तृष्-धातोः नजिङ्-प्रत्यये कृते अङ्गस्य उपधावर्णस्य गुणः प्रत्ययस्य ङित्त्वात् निषिध्यते । यथा —

ञितृषाँ (पिपासायाम्, दिवादिः, (4.141))
→ तृष् + नजिङ् [**स्वपितृषोर्नजिङ्** (3.2.172) इति नजिङ्-प्रत्ययः]
→ तृष् + नज् [ङकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः । जकारोत्तरः इकारः उच्चारणार्थः, सोऽपि लुप्यते । अत्र **पुगन्तलघूपधस्य च** (7.3.86) इत्यनेन प्राप्तः गुणः **क्ङिति च** (1.1.5) इति निषिध्यते ।]
→ तृष्णज् [**रषाभ्यां नो णः समानपदे** (8.4.1) इति णत्वम्]
  1. सार्वधातुकमपित् (1.2.4) इति सूत्रेण अपित्-सार्वधातुकः प्रत्ययः ङिद्वत् भवति; अतः एतादृशम् प्रत्ययं निमित्तरूपेण स्वीकृत्य अङ्गस्य प्रातः गुणः वृद्धिः वा प्रकृतसूत्रेण अवश्यं निषिध्यते । यथा, मृज्-धातोः लट्लकारस्य प्रथमपुरुषस्य द्विवचनस्य ‘तस्’ प्रत्ययस्य प्रक्रियायाम् अङ्गस्य वृद्धिः प्रत्ययस्य ङित्त्वात् निषिध्यते ।

मृजूँ (शुद्धौ, अदादिः, (2.61))
→ मृज् + लट् [**वर्तमाने लट्** (3.2.123) इति लट्]
→ मृज् + तस् [प्रथमपुरुषद्विवचनस्य विवक्षायाम् **तिप्तस्झि..** (3.4.78) इति तस्-प्रत्ययः]
→ मृज् + शप् + तस् [**कर्तरि शप्** (3.1.68) इति शप्]
→ मृज् + तस् [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शब्लुक् । अत्र तस्-प्रत्ययः सार्वधातुकः अस्ति, अपित् अपि अस्ति, अतः **सार्वधातुकमपित्** (1.2.4) इति तस्य ङिदतिदेशः भवति । अतः **मृजेर्वृद्धिः** (7.2.114) इत्यनेन प्राप्ता वृद्धिः **क्ङिति च** (1.1.5) इति निषिध्यते ।]
→ मृष् + तस् [**व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः** (8.2.36) इति षत्वम्]
→ मृष् + तः [**ससजुषो रुँः** (8.2.66) इति षत्वम् । **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
→ मृष्टः [**ष्टुना ष्टुः** (8.4.41) इति ष्टुत्वम्]

‘क्ङिति’ इति निमित्तसप्तमी

प्रकृतसूत्रे ‘क्ङिति’ इत्यत्र विद्यमाना सप्तमी निमित्तसप्तमी अस्ति, न हि परसप्तमी, यतः कित्/ङित्-प्रत्ययस्य व्यवहित-परत्वे अपि गुणस्य / वृद्धेः निषेधः अवश्यम् इष्यते । यदि अत्र परसप्तमी स्वीक्रियेत, तर्हि पुगन्तलघूपधस्य च (7.3.86) इत्यनेन प्राप्तस्य गुणस्य बाधः उत मृजेर्वृद्धिः (7.2.114) इत्यनेन प्राप्तायाः वृद्धेः बाधः अत्र नैव स्यात्, यतः एतयोः स्थलयोः इक्-वर्णात् अव्यवहित-पररूपेण प्रत्ययः नैव विद्यते । परसप्तम्यर्थम् तु तस्मिन्निति निर्दिष्टे पूर्वस्य (1.1.66) इत्यनेन अव्यवहितपरत्वम् एव आवश्यकम् । निमित्तसप्तम्यर्थम्के तु केवलम् निमित्तस्य उपस्थितिः एव इष्यते, तस्य अव्यवहितत्वं न । अतः अतः अस्मिन् सूत्रे निमित्तसप्तमी एव स्वीक्रियते, येन इक्-वर्णात् अनन्तरम् व्यवधाने सति अपि गुणस्य वृद्धेः वा निषेधः सम्भवति ।

इग्लक्षणस्य एव गुणस्य प्रतिषेधः, अन्यप्रकारस्य गुणस्य न

प्रकृतसूत्रेण उक्तः गुणवृद्धिनिषेधः केवलम् इको गुणवृद्धी (1.1.3) इत्यस्मिन् सन्दर्भे; इत्युक्ते इक्-वर्णस्य गुणादेशे वृद्ध्यादेशे वा कर्तव्ये एव भवति । इत्युक्ते, यत्र इग्लक्षणे गुणवृद्धी न स्तः, तत्र प्रकृतसूत्रेण तयोः निषेधः अपि न भवति । यथा, ई च खनः (3.1.111) इति सूत्रेण खन्-धातोः क्यप्-प्रत्यये कृते प्रक्रियायाम् आद्गुणः (6.1.87) इति गुणैकादेशः अवश्यमेव भवति, यतः आद्गुणः (6.1.87) इत्यनेन उक्तः गुणादेशः इग्लक्षणः नास्ति । प्रक्रिया इयम् —

खनुँ (अवदारणे, दिवादिः, (1.1020))
→ खन् + क्यप् [**ई च खनः** (3.1.111) इति क्यप्-प्रत्ययः]
→ ख ई + य [**ई च खनः** (3.1.111) इत्यनेनैव सूत्रेण नकारस्य ईकारादेशः]
→ खेय [**आद्गुणः** (6.1.87) इति गुणैकादेशः । अयम् इग्लक्षणः गुणः नास्ति, अतः अयम् प्रकृतसूत्रेण नैव निषिध्यते ।]

सूत्रे गकारप्रश्लेषः भाष्यकारकृतः

वस्तुतः पाणिनीयसूत्रपाठे अस्मिन् सूत्रे केवलम् ककारः ङकारः च श्रूयते, न हि गकारः । परन्तु भाष्यकारेण अस्मिन् सूत्रे गकारस्य अपि प्रश्लेषं कृतः अस्ति । “ग् + क् + ङ्” इति अत्र मूलस्थितिः अस्ति इति भाष्यकारस्य मतम् । अत्र अग्रे एतादृशी प्रक्रिया भवति —

ग् + क् + ङित्
→ क् + क् + ङित् [**यरोऽनुनासिकेऽनुनासिको वा** (8.4.45) इति ककारस्य विकल्पेन अनुनासिकादेशः न भवति । अग्रे **खरि च** (8.4.55) इति गकारस्य चर्त्वे ककारः विधीयते।]
→ क् + ङित् [निपातनेन प्रथमककारस्य लोपः]
→ क्ङित्

अतः प्रकृतसूत्रे “क्ङिति” इति शब्दः प्रयुक्तः अस्ति, इति अत्र भाष्यमतम् । एतादृशम् गकारग्रहणम् ग्लाजिस्थश्च क्स्नुः (3.2.139) इति सूत्रस्य प्रयोगार्थम् आवश्यकम् अस्ति इत्यपि भाष्यकारेण स्पष्टीकृतम् अस्ति । एतत् उदाहरणम् उपरि प्रदर्शितम् अस्ति । <br> विशेषः — केषुचन पुस्तकेषु क्ङित्-शब्दस्य प्रक्रिया केनचित् भिन्नरूपेण दीयते — <prd> ग + क् + ङित् → क् + क् + ङित् [खरि च (8.4.55) इति गकारस्य चर्त्वे ककारः] → क् + ङ् + ङित् [यरोऽनुनासिकेऽनुनासिको वा (8.4.45) इति ककारस्य अनुनासिकादेशे ङकारः] → क् + ङित् [हलो यमां यमि लोपः (8.4.64) इति मध्यङकारस्य लोपः] → क्ङित् </prd> परन्तु इयम् प्रक्रिया दोषपूर्णा अस्ति, यतः अत्र प्रथमसोपाने खरि च (8.4.55) तथा यरोऽनुनासिकेऽनुनासिको वा (8.4.45) इत्येतयोः युगपत् प्राप्तौ सत्याम् यरोऽनुनासिकेऽनुनासिको वा (8.4.45) इत्येतं प्रति खरि च (8.4.55) इत्यस्य असिद्धत्वात् आदौ अनुनासिकादेशः एव प्रवर्तेत । अनुनासिकादेशे कृते ततः तु खरि च (8.4.55) इति चर्त्वम् नैव सम्भवति । अतः ककारलोपस्य निपातनेन एव “क्ङिति” इति शब्दः साधनीयः इति उचितम् ।

Sutrartha (English)

In presence of a कित्, गित् or a ङित् प्रत्यय, any गुण or वृद्धि that might happen on an इक्-letter of an अङ्ग is prohibited.

Vasu English Summary

And that, which otherwise would have caused गुण or वृद्धि, does not do so, when it has an indicatory क् , ग् , ङ्।

Vasu English Translation

And that, which otherwise would have caused गुण or वृद्धि, does not do so, when it has an indicatory क् , ग् , ङ्। Thus the past participle terminations क्त and क्तवतु are ardhadhatuka affixes, which would, by the general rule (7.3.84), have caused guna, but as their indicatory letter क is इत्, the real terminations being, त and तवत्, they do not cause guna. Therefore, when these terminations are added to a root, the ik of the root is not gunated. Thus with the root चि “to collect” we have चितः or चितवान्, श्रू, “to hear”, श्रुतः, श्रुतवान्; भी; “to fear” भीतः, भीतवान्.

Similarly the terminations क्यप् केलिम, क्वसु कानच्, क्त्वा, क्तिन्, &c., are all कित् terminations ‘the indicatory letters of all being क्,’ the real affixes being य, एलिम्, वस् &c. &c. &c. Before these, the root is not gunated. Thus we have from भृ “to bear” भृत्व, from भिद् “to pierce” भिदेलिम.

The terms कित् &c., of this sûtra are in the locative or seventh case. The force of this case termination here is that of निमित or cause, that is the guna or vriddhi which would otherwise have been caused, does not take place, if an affix is कित्, गित्, ङित्. Thus all ardhadhâtuka and sårvadhatuka affixes cause gunation of the final ik of the inflective base (7.3.84) Thus the Sårvadhâtuka affix शप्(अ) in the following:-

भू+शप्+तिप् = भो+अ+ति = भवति “he is.” Similarly sårvadhatuka and ardbadhâtuka affixes cause the guna substitution of the short penultimate ik of the inflective base (7.3.85). Thus बुध्+शप्+तिप् = बोधति.

The general force of the locative case in an aphorism is to cause the operation directed, on the expression immediately preceding it (1.1.66). If the force of the locative case in the present sūtra were also that as explained in (1.1.66), then the interpretation would be this:- An affix having an indicatory k, g or , would not cause the guna substitution of the vowel ik, immediately preceding it. The case of the penultimate short ik will not be covered by it. Then though the rule may apply to चि+क्त=चितः “collected” it would not apply to भिद्+क्त; there would be nothing to bar the guna substitution of the penultimate इ of भिद्. This however is prevented by explaining the locative as one of “occasion” and thus भिद्+क्त = भिन्नः “broken.”

Similarly from the root जि we have a word जिष्णुः ‘victorious’, in which the affix ग्स्नु has an indicatory ग्. Thus जि+ग्स्नु = जिष्णुः “victorious” (3.2.139), so also स्थास्नुः “durable,”

Similarly the affix, अङ् is a ङित् affix, the real suffix being अ, the ङ् being merely indicatory. Therefore when अङ् is added to a root, there is no gunation or vriddhing. Thus we have from विद् “to know” विदः.

Similarly by (1.2.4), all sårvadhâtuka affixes that are not marked by an indicatory प्, are treated as ङित्. Thus the second person singular termination तस् is ङित्, and we have चिनुतः “they two collect,” similarly चिन्वन्ति, “they collect”, मृज्+क्त = मृष्टः “cleansed,” मृजन्ति “they cleanse.”

The phrase “when indicated by the term ik” is understood in this sutra. The prohibition, therefore, applies to ik vowels only, and not to all vowels in general. Thus by (3.1.30), the root कम् “to desire” takes the affix णिङ्; of this affix the letters ण् and ङ् are indicatory, the real affix is इ. The force of ण् is to cause vriddhi (7.2.116). The indicatory ङ् does not prevent such vriddhi, as the letter अ of कम् is not included in ik. Thus we have कामि+अते = कामे+अते = कामयते “he desires”.

According to the wish of the author of the Mahabhashya, the verb मृज् optionally takes vriddhi, before kit or ṅit affixes beginning with a vowel. As परिमृजन्ति or परिमार्जन्ति “they rub.” Here in this sūtra there is prohibition of the guna of the short penultimate ik also.

The indicatory ङ् of the verbal tense affixes i.e., लङ्, लिङ्, लुङ्, लृङ् is an exception to this rule of ङित्. This is an inference deduced from (3.4.104) which declares “when the sense is that of benediction, then the augment यासुट् of लिङ् is as if it were distinguished by an indicatory क.” There would have been no necessity of making यासुट् a कित्, if लिङ् were a ङित्, but the very fact of making यासुट् a कित् indicates by implication or is ज्ञापक that the final ङ of लिङ्, लङ् &c. does not make these tense affixes ङित्. Thus in लङ् or Imperfect tense we have अचिनवम् “he collected” (अचिनू+लङ् = अचिनु+अम् = अचिनो+अम् = अचिनवम्.)

Bhashya

क्ङिति च क्ङिति प्रतिषेधे तन्निमित्तग्रहणम् । क्ङिति प्रतिषेधे तन्निमित्तग्रहणं कर्तव्यम्। क्ङिन्निमित्ते ये गुणवृद्धी प्राप्नुतस्ते न भवत इति वक्तव्यम् । किं प्रयोजनम्। उपधारोरवीत्यर्थम्। उपधार्थं रोरवीत्यर्थं च। उपधार्थं तावद्। भिन्नः। भिन्नवान् इति। किं पुनः कारणं न सिध्यति ? क्ङितीत्युच्यते तेन यत्र क्ङित्यनन्तरो गुणो भाव्यस्ति? तत्रैव स्यात्। चितम्। स्तुतम्। इह तु न स्याद् भिन्नः भिन्नवान् इति । ननु च यस्य गुण उच्यते तत् क्ङित्परत्वेन विशेषयिष्यामः। पुगन्तलघूपधस्याङ्गस्य गुण उच्यते तच्चात्र क्ङित्परम् । पुगन्तलघूपधस्येति नैवं विज्ञायते पुगन्ताङ्गस्य लघूपधस्य चेति। कथं तर्हि। पुकि अन्तः पुगन्तः। लघ्वी उपधा लघूपधा पुगन्तश्च लघूपधा च पुगन्तलघूपधं पुगन्तलघूपधस्येति। अवश्यं चैतदेवं विज्ञेयम्। अङ्गविशेषणे सतीह प्रसज्येत- भिनत्ति छिनत्तीति। रोरवीत्यर्थं च। त्रिधा बद्धो वृषभो रोरवीति। यदि तन्निमित्तग्रहणं क्रियते, शचङन्ते दोषः - रियति पियति धियति। प्रादुद्रुवत्। प्रासुस्रुवत्। अत्र न प्राप्नोति। ॥ शचङन्तस्यान्तरङ्गलक्षणात्वात् सिद्धम् ॥। अन्तरङ्गलक्षणत्वादियङुवङोः कृतयोरनुपधात्वाद् गुणो न भविष्यति। एवं क्रियते चेदं तन्निमित्तग्रहणं न च कश्चिद्दोषो भवति। इमानि च भूयस्तन्निमित्तग्रहणस्य प्रयोजनानि- हतो हथः। उपोयते, औयत, लौयमानिः, पौयमानिः,नेनिक्ते इति । नैतानि सन्ति प्रयोजनानि। इह तावत् हतो हथ इति प्रसक्तस्यानभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुम्। अयं च धातूपदेशावस्थायामेवाकारः। इह चोपोयते-औयत- लौयमानिः- पौयमानिः इति। बहिरङ्गे गुणवृद्धी। अन्तरङ्गः प्रतिषेधः। असिद्धं बहिरङ्गमन्तरङ्गे। नेनिक्त इति परेण रूपेण व्यवहितत्वान्न भविष्यति। उपधार्थेन तावन्नार्थः। धातोरिति वर्तते। धातुं क्ङित्परत्वेन विशेषयिष्यामः। यदि धातुर्विशेष्यते विकरणस्य न प्राप्नोति। चिनुतः। सुनुतः। लुनीतः पुनीतः इति। नैष दोषः। विहितविशेषणं धातुग्रहणम्। धातोर्यो विहित इति। धातोरेव तर्हि न प्राप्नोति। नैवं विज्ञायते धातोर्विहितस्य क्ङितीति। कथं तर्हि, धातोर्विहिते क्ङितीति। अथवा कार्यकालं सञ्ज्ञापरिभाषम्। यत्र कार्यं तत्र द्रष्टव्यम्। पुगन्तलघूपधस्य गुणो भवतीत्युपस्थितमिदं भवति क्ङिति नेति । अथवा यदेतस्मिन् योगे क्ङिद्ग्रहणं तदनवकाशं तस्यानवकाशत्वाद् गुणवृद्धी न भविष्यतः । अथवाचार्यप्रवृत्तिर्ज्ञापयति- भवत्युपधालक्षणस्य गुणस्य प्रतिषेध इति। यदयं त्रसिगृधिधृषिक्षिपेः क्नुः। इको झल्, हलन्ताच्चेति क्नुसनौ कितौ करोति। कथं कृत्वा ज्ञापकम्। कित्करणस्येतत्प्रयोजनम्। गुणः कथं न स्यादिति। यदि चात्र गुणनिषेधो न स्यात् कित्करणमनर्थकं स्यात्। पश्यति त्वाचार्यो भवत्युपधालक्षणस्यापि गुणस्य प्रतिषेध इति ततः क्नुसनौ कितौ करोति । रोरवीत्यर्थेनापि नार्थः। क्ङितीत्युच्यते। न चात्र कितं ङितं वा पश्यामः। प्रत्ययलक्षणेन प्राप्नोति। न लुमता तस्मिन्। इति प्रत्ययलक्षणप्रतिषेधः। अथापि न लुमताङ्गस्येत्युच्यते। एवमपि न दोषः। कथम्। न लुमता लुप्तेऽङ्गाधिकारः प्रतिनिर्दिश्यते। किं तर्हि, योऽसौ लुमता लुप्यते तस्मिन् यदङ्गं तस्य यत्कार्यं तन्न भवतीति। अथाप्यङ्गाधिकारः प्रतिनिर्दिश्यते एवमपि न दोषः। कथम्। कार्यकालं सञ्ज्ञापरिभाषम्। यत्र कार्यं तत्र द्रष्टव्यम्। सार्वधातुकार्धधातुकयोर्गुणो भवतीत्युपस्थितमिदं भवति क्ङिति नेति। अथवा छान्दसमेतत्। दृष्टानुविधिश्छन्दसि भवति। अथवा बहिरङ्गो गुणः। अन्तरङ्गः प्रतिषेधः। असिद्धं बहिरङ्गमन्तरङ्गे। अथवा पूर्वस्मिन् योगे यदार्धधातुकग्रहणं तदनवकाशं तस्यानवकाशत्वाद् गुणो भविष्यति। इह कस्मान्न भवति। लैगवायनः। कामयते? तद्धितकाम्योरिक् प्रकरणात्। इग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। न चैते इग्लक्षणे। ॥ लकारस्य ङित्त्वादादेशेषु स्थानिवद्भावप्रसङ्गः ॥। लकारस्य ङित्त्वादादेशेषु स्थानिवद्भावः प्राप्नोति। अचिनवम्। असुनवम्। अकरवम्। ॥ लकारस्य ङित्त्वादादेशेषु स्थानिवद्वावप्रसङ्ग इति चेद् यासुटो ङिद्वचनात् सिद्धम् ॥। यदयं यासुटो ङिद्वचनं शास्ति तज्ज्ञापयत्याचार्यो न ङिदादेशा ङितो भवन्तीति। यद्येतज्ज्ञाप्यते, कथं नित्यं ङितः। इतश्चेति। ङितो यत् कार्यं तद् भवति। ङिति यत्कार्यं तन्न भवतीति। किं वक्तव्यमेतत्। नहि। कथमनुच्यमानं गंस्यते। यासुट एव ङिद्वचनात्। अपर्याप्तश्चैव हि यासुट् समुदायस्य ङित्त्वे, ङितं चैनं करोति। तस्यैतत् प्रयोजनं ङितो यत्कार्यं तद् यथा स्यात्, ङिति यत्कार्यं तन्मा भूदिति ।

Kashika

निमित्तसप्तम्येषा। क्ङिन्निमित्ते ये गुणवृद्धी प्राप्नुतस्ते न भवतः। चितः। चितवान्। स्तुतः। स्तुतवान्। भिन्नः। भिन्नवान्। मृष्टः। मृष्टवान्। ङिति खल्वपि — चिनुतः, चिन्वन्ति। मृष्टः, मृजन्ति। गकारोप्यत्र चर्त्वभूतो निर्दिश्यते। ग्लाजिस्थश्च क्स्नुः (३.२.१३९) — जिष्णुः। भूष्णुः। इक इत्येव — कामयते। लैगवायनः। मृजेरजादौ संक्रमे विभाषा वृद्धिरिष्यते। संक्रमो नाम गुणवृद्धिप्रतिषेधविषयः। परिमृजन्ति, परिमार्जन्ति। परिमृजन्तु, परिमार्जन्तु। लघूपधगुणस्याप्यत्र प्रतिषेधः। अचिनवमसुनवमित्यादौ लकारस्य सत्यपि ङित्वे यासुटो ङिद्ववचनं ज्ञापकं ङिति यत् कार्यं तल्लकारे ङिति न भवतीति॥

Siddhanta Kaumudi

गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः । भूयात् । भूयास्ताम् । भूयासुः । भूयाः । भूयास्तम् । भूयास्त । भूयासम् । भूयास्व । भूयास्म ॥

Laghu Siddhanta Kaumudi

गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः। भूयात्। भूयास्ताम्। भूयासुः। भूयाः। भूयास्तम्। भूयास्त। भूयासम्। भूयास्व। भूयास्म॥

Balamanorama

क्क्ङिति च - क्ङिति च । ग् क् ङ् एषां समाहारद्वन्द्वः, कात्पूर्वगकारस्य चर्त्वेन निर्देशात् । ग् क् ङ् च इत् यस्येति विग्रहः । द्वन्द्वान्ते श्रूयमाण इत्यर्थ । इक इत्युचार्य विहिते इति लभ्यते ।न धातुलोप आर्धधातुके॑ इत्यतो नेत्यनुवर्तते । तदाह — गित्किन्ङिन्नमित्ते इत्यादिना । गितीत्यनुक्तौ तुग्लाजिस्थश्च ग्स्नु॑रिति ग्स्नुप्रत्ययेजिष्णु॑रित्यत्र गुणनिषेधो न स्यात् । न च ग्स्नुप्रत्ययः किदेव क्रियतामिति वाच्यं, तथा सतिघुमास्थे॑ति किति विहितस्य ईत्वस्य प्रसङ्गात् । यदि तु गिति ङिति परतो गुणवृद्धी न स्त इति व्याख्यायेत, तदा च्छिन्नं भिन्नमित्यत्र क्तप्रत्यये परे लघुपधगुणनिषेधो न स्यात् । स्थानिभूतस्येको हला व्यवधानात् । न च येन नाव्यवधानन्यायः शङ्क्यः । चितं स्तुतमित्यादावव्यवहिते चरितार्थत्वात् । यदि च ‘इको गुणवृद्धी’ इत्येव व्याख्यायेत, न त्विग्लक्षणे इति, तदा लिगोरपत्यं लैगवायनः, नडादित्वात् फक्, इह आदिवृद्धेरोर्गुणस्य च वस्तुगत्या इक्स्थानिकत्वान्निषेधः स्यादित्यलम् । भूयादिति । इहार्धधातुकत्वाल्लिङ सलोप इत्यस्याऽप्रवृत्तेः स्कोरिति सलोप इत्युक्तं न विस्मर्तव्यम् । न चैवमपि संयोगादिलोपस्याऽसिद्धत्वाद्धल्ङ्यादिलोपः स्यादिति वाच्यं, सुटि यासुटि च सति ताभ्यां विशिष्टस्यैव प्रत्ययत्वेनाऽपृक्तत्वाऽभावादित्यलम् । भूयास्तामिति । आशिषि लिङस्तस्तामादेशे आर्धधातुकत्वाच्छभावे यासुडागमेऽतः परत्वाऽभावादियादेशाऽभावे सुटि झल्परसंयोगदित्वेन यासुटः सकारस्य लोपो, गुणनिषेधश्च । भूयासुरिति । झेर्जुसि यासुडागमे गुणनिषेधे रूपम् । भूया इति । आशीर्लिङः सिपि इतश्चेतीकारलोपः । यासुटःस्को॑रिति सलोपः, गुणनिषेधः, रुत्वविसर्गौ । भूयास्तमिति । थसस्तमादेशे यासुटि गुणनिषेधः । एवं थस्य तादेशेऽपि भूयास्तेति रूपम् । भूयासमिति । मिपोऽमादेशे यासुटि गुणनिषेधः । भूयास्वेति । लिङो वस् । ‘नित्यं ङित’ इति सकारलोपः । यासुट् । गुणनिषेधः । एवं मसि भूयास्मेति रूपम् । इत्याशीर्लिङ्प्रक्रिया ।

Tattvabodhini

क्क्ङिति च - ङिन्निमित्ते इति ।कितिगितिङिति परे इको गुणवृद्धी न स्त॑ इति न व्याख्यातम्, छिन्नं भिन्नमित्यत्र लघूपधगुणस्याऽनिषेधप्रसङ्गात् । नचाऽऽरम्भसामर्थ्यं शङ्क्यं, चितं स्तुतमित्यादाव्वयवहिते किति चरितार्थत्वादिति भावः । अन्ये तु — क्ङितीति प्रत्ययग्रहणात्प्रत्ययेन संनिधापितस्याऽह्गस्य क्ङिति पर इति व्याख्यानेन तु छिन्नं भिन्नमित्यादि सिध्यत्येव । नचैवं भवावः भवाम प्रश्लिष्यत इत्याशयेनगित्किन्ङिन्निमित्ते॑ इत्युक्तम् । गिति किम् ।ग्लाजिस्थश्च ग्स्नु॑ जिष्णुः । किति त्वस्मिन्स्थास्नुरित्यत्रघुमास्थे॑तीत्त्वं प्रसज्येत । न ग्स्नोर्गित्त्वे भूष्णुरित्यत्रेण्निषेधो न स्यात्,ग्लाजिस्थश्चे॑ति चकाराद्भुवश्च ग्स्नुर्भवतीति स्वीकारादिति वाच्यम्,श्र्युकः किती॑त्यत्रापि चर्त्वेन गकारं प्रश्लिष्य गित्कितोरिण्न स्यादिति व्याख्यानात् । न चैवं चर्त्वस्याऽसिद्धतयाश्र्युकः॑ इत्यत्र विसर्जनीयो न लभ्यत इतिहशि चे॑त्युत्वमेव स्यादिति वाच्यं, सौत्रत्वात् ।न मु ने॑त्यत्यत्र नेति योगविभागेनाऽसिद्धत्वाऽभावाद्वेष्टसिद्धेः । वामनस्तु — ॒ग्लाजिस्थश्चे॑ति सूत्रे स्था- आ इति प्रश्लेषात्स्थास्नुरित्यत्रघुमास्थे॑तीत्वं न भविष्यतीति गकारप्रश्लेषाऽभावान्नश्र्युकः किती॑त्यत्र चर्त्वस्याऽसद्धत्वाऽभावसमर्थनक्लेश इत्याह । इग्लक्षण इति ।इक॑ इत्येवं विहिते इत्यर्थः । इग्लक्षणे किम् । लैगवायनः । लिगोर्नडादित्वात्फक् । इहादिवृद्धेरोर्गुणस्य च वस्तुगत्या इक्स्थानिकत्वेऽपि न निषेधः । न चेक इत्युक्तेऽपिकिति चे॑त्यारम्भसामर्थ्यादत्र निषेधो न भवेदिति शङ्क्यम्, नाडायनादौ तस्य चरितार्थत्वात् । भूयादिति । इहस्को॑रिति लोपस्याऽसिद्धत्वात्तकारस्य संयोगान्तलोपः प्राप्तः पदान्तसंयोगादिलोपेनाऽनवकाशेन बाध्यते । नन्वेवमपि संयोगादिलोपस्यपूर्वत्रासिद्ध॑मित्यसिद्धत्वाद्धल्ङ्यादिलोपः स्यात्, पदान्ते संयोगादिलोपस्य भृट् भृडित्यादौ सावकाशत्वादितिचेत्, अत्राहुः - सुडआसुटोः सतोस्ताभ्यां विशिष्टस्यैव प्रत्ययत्वेनाऽपृक्तत्वाऽभावात्, हलन्तायाः प्रकृतेः परत्वाऽभावाच्चोक्तदोषशङ्कैव नास्तीति ।

Padamanjari

क्ङिद्ग्रहणं यदि विधीयमानस्य प्रतिषेधस्य विशेषणं स्याद् - गुणवृद्धी क्ङिति न भवत इति, ततो विधिसंस्पर्शात् ‘ तस्मिन्निति निर्दिष्टे पूर्वस्य’ इत्यस्योपस्थानात् क्ङित्यनन्तर एव प्रतिषेधः स्यात् । यद्यपि प्रतिषेधस्य विधानदशायां पौर्वापर्यं न संभवति, तथा निषेध्यमानयोर्गुणवृद्ध्योरपि; तथापि स्थानिन इकोऽनन्तरे क्ङिति प्रतिषेधः स्यात् । एवं हि विधानोतरकालमपि तावद् गुणवृद्ध्यभावरूपस्य प्रतिषेधस्य क्ङिदनन्तरः सम्भवति, ‘इको यणचि’ इत्यादावप्येतावदेव पौर्वापर्यं यद्विधानदशायां तु स्थानिनः, उतरकालं तु विधेयस्य । यदा त्वनूद्यमानयोर्गुणवृद्ध्योर्विशेषणम्-क्ङिति सति ये गुणवृद्धी प्राप्नुतस्ते न भवत इति, तदाऽनुवादकत्वातस्मिन्नित्यादिकायाः परिभाषाया अनुपस्थानम् । न हि ‘क्ङिति सति ये गुणवृद्धी’ इत्युक्ते विधिव्यापारेण क्ङितः कश्चित् संस्पर्शः । विध्यङ्गभूताश्च परिभाषास्तत्रैवोपतिष्ठन्ते नानुवादे, तस्यापि परार्थत्वाद्,द्वयोश्च परार्थयोः परस्परं सबन्धाभावात्; अन्यथा ‘वृद्धिर्यस्याचामादिस्तद्वृद्धम्’ इत्यत्रेक्परिभाषोपस्थाने शालीय इति वृद्धसंज्ञाया अभावातल्लक्षणश्छाए न स्यात् । तथा च ‘उदीचामातः स्थाने’ इति स्थानेग्रहणं कृतम्-आतः स्थाने योऽकार इत्यनुवादकत्वात् ‘षष्ठी स्थानेयोगा’ इति स्थानेयोगो न लभ्येतेति । अतोऽस्मिन् पक्षे क्ङितीति सति सप्तमी ‘यस्य च भावेन’ इति । किङितोर्हि सतालक्षणेन भावेन गुणवृद्ध्योः प्राप्तलक्षणो भावो लक्ष्यते, निमितस्य च सतया निमितिनः प्राप्तिर्लक्ष्यत इति ‘क्ङिति सति ये गुणवृद्धी प्राप्नुतः ‘ इत्यस्य ‘क्ङिन्निमिते ये गुणवृद्धी प्राप्नुतस्ते न भवत’ इत्यर्थो भवति । भिन्नः, मृष्ट इत्यादौ चोपधाया अपि प्राप्नुवन्त्यौ गुणवृद्धी क्ङितं निमितमाश्रित्य प्राप्नुत इत्येतत्सर्वमालोच्याह - निमितसप्तम्येषेति । निमितात्सप्तमी निमितसप्तमी, पञ्चम्यर्थे शेषत्वेन विवक्षिते पष्ठीसमासः । क्ङिन्निमिते इति । एतेन गुणवृद्धिविशेषणं क्ङिद्ग्रहणमिति दर्शयति । ननु च विधीयमानतया प्राधान्यात् प्रतिषेधस्यैवैतद्विशेषणं युक्तम्, नैतदस्ति; यत्र हि गुणः कृतात्मसंस्कारः प्रधानोपकाराय महते प्रभवति, तत्रात्मनोऽपि संस्कारमनुभूय प्रधानेन सम्बध्यते, यथा-पानीयमेलादिसंस्कृतं पुरुषेण । उक्तं च- ‘गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते । प्रधानस्योपकारे हि तथा भूयसि वर्तते ॥’ इति । इह च गुणवृद्ध्योः क्ङिद्ग्रहणेन विशेषितयोर्महान् प्रधानप्रतिषेधस्योपकारो भवति; व्यवहितस्यापि तत्सिद्धेः । ऽभिन्नऽ इति-‘रदाभ्याम्’ इति नत्वम् । ऽमृष्टऽ इति - व्रश्चादिना षत्वम् । ऽचिन्वन्तीऽति-‘सार्वधातुकमपित्’ ‘हुश्नुवोः सार्वधातुके’ । यद्येषा निमितसप्तमी, शचङन्ते दोषः; ‘धि धारणे’ ‘रि गतौ’तुदादी ताभ्यां तिपि ‘तुदादिभ्यः शः’ ‘णिश्रिद्रुस्रुभ्यः कर्तरि चङ्’ धि अ ति, रि अ ति, श्रि अ त्, द्रु अ त्, इति स्थिते शचङ्न्तस्याङ्गस्य तिपि लघूपधलक्षणश्च गुणः प्राप्नोति, शचङेः परतः पूर्वस्य सार्वधातुकलक्षणश्च, तत्र शचङ्निमितस्यैव प्रतिषेधः स्याद्, न तिङ्निमितस्य । पक्षान्तरे तु तिङ्निमितस्यापि गुणस्य शचङेः परतः प्रतिषेधो लभ्यते । न वा बहिरङ्गलक्षणत्वाद्वहिर्भूततिबाश्रयो गुणो बहिरङ्गोऽन्तर्भूतशचङ्निमिताभ्यामियणुवङ्भ्यां बाधिष्यते । ‘ग्लाजिस्थश्च ग्स्नुः’ इत्यत्र वक्ष्यति - ‘गिच्चायं प्रत्ययो न कित्, तेन स्थ ईकारो न भवति’ इति,’ग्स्नोर्गित्वान्न स्थ ईकारः’ इति च । ततश्च भूष्णुरित्यत्र प्रतिषेधो न स्यादित्यत आह - ऽगकारोऽप्यत्रेऽत्यादि । ऽचर्त्वे भूतःऽ-चर्त्वं प्राप्तः । अत एव गकरप्रश्लेषात् संख्यातानुदेशो न भवति; अन्यथा क्ङितौ द्वौ, गुणवृद्धी अपि द्वे इति संख्यातानुदेशः प्राप्नोति-किति गुणस्य, ङिति वृद्धेरिति । ज्ञापकाद्वा, यदयं ‘मिदेर्गुणः’ इति श्यनि ङिति गुणं शास्ति, तज्ज्ञापयत्याचार्यः-ङात्र संख्यातानुदेशो भवति’ इति । यदि तर्हि क्स्नुप्रत्ययो गिद्, भूष्णुरितीट् प्राप्नोति, नैष दोषः; ‘र्श्युकः किति’ इत्यत्रापि गकारश्चर्त्वभूतो निर्दिश्यते, सौत्रत्वाच्च निर्देशस्य चर्त्वस्यासिद्धत्वात्प्राप्तमपि ‘हशि च’ इत्युत्वं न भवति, ‘कुप्वोः’ इति विसर्जनीयश्च भवति । ऽकामयतेऽ इति-‘कमेर्णिङ्’ । ऽलैगवायनऽ इति-लिगुशब्दात्ङडादिभ्यः फक्’ इति फक् । ‘ओर्गुणः’ इति गुणस्य प्रतिषेधः कथं न भवति यावतोकार इगेव ? नैतदस्ति; अत्र हि चकारः क्रियते, स इत्यर्थो विज्ञायते, तेनेक इतीमं शब्दमुच्चार्य विधीयमानयोर्गुणवृद्ध्योः प्रतिषेधः, न चैवमोर्गुणः । मृजेरित्यादि । इह त्रिमुनि व्याकरणम्, यथोतरं च मुनीनां प्रामाण्यमिति दर्शनस्थितिस्तेन सूत्रकारेणानुक्तं वार्तिककार आह,तदुक्तं च दूषयति, एवं भाष्यकारो वार्तिककारेण । व्याख्यातृत्वमपि द्वयोश्चास्तीत्येतावत्,? ‘यस्मिन्विधिस्तदादावल्ग्रहण’ इत्यनेन तदादिविधौ सिद्धेऽप्यादिग्रहणं मुख्येऽजादौ यथा स्याद् व्यपदेशिवद्भावेनाजादौ मा भूत् । तुन्दपरिमृजः, यूयं ममृज, त्वया ममृजे । ऽसंक्रमो नामेऽत्यादि । संक्रामतोऽपक्रामतो गुणवृद्धी अस्मादिति कृत्वा । ऽलघूपधगुणस्याप्यत्र प्रतिषेधऽ इति। अत्र सूत्रे लघूपधगुणस्यापि प्रतिषेधः, न तु ‘सार्वधातुकार्द्धधातुकयोः’ इत्येतस्यैवेत्यर्थः । अनेन निमितसप्तम्याः फलं दर्शितम् । अत्र इत्यनेन सूत्रं निर्दिश्यते । इह अचिनोदिति ङितो लिङस्तिबादेशः, स्थानिवद्भावाद् ङिदिति गुणप्रतिषेधः प्राप्नोति, इह ‘अचिनवम्’ इति ङितो लिङे मिपि तस्यापि स्थानिवद्भावपरम्परया ङित्वाद् गुणिप्रतिषेधः स्यादित्यत आह-ऽअचिनवमिऽत्यादि । यदि ङिति यत्कार्यं तद् इङितो लकारस्यादेशे स्थानिवद्भावात्स्यात्, यासुटो चनमनर्थकं स्याद्; लिङे ङित्वादेवि तदादेशेषु ङित्कार्यस्य सिद्धत्वात् ॥

Nyaas

क्ङितीति यदीयं परसप्तमी स्यादनन्तरस्यैवेकः प्रतिषेधः स्यात्, चितः, चितवात् इत्यादौ व्यवहितस्य भिन्नो भिन्नवात् इत्यादौ न स्यात्, तस्मिन्निति निर्दिष्टे पूर्वस्य (1.1.66) इत्यत्र निर्दिष्टग्रहणस्यानन्तरर्यार्थत्वात्। निमित्तसप्तम्यां त्वस्यां सर्वत्र भवितव्यम्, व्यवहितयोरपि निमित्तनिमित्तिभावसद्भावा-दिति मन्यमान आह- निमित्तसप्तम्येषा इति। निमित्तात् सप्तमी निमित्तसप्तमी। पञ्चमी भयेन (2.1.37) इति पञ्चमी इति योगविभागात् समासः। सा पुनः सप्तमी यस्य च भावेन भावलक्षणम् (2.3.37) इत्यनेन वेदितव्या। क्ङितो हि निमित्तभावेन गुणवृद्धयोःप्राप्तिलक्षणो भावो लक्ष्यते। अथ निमित्तसप्तम्यामप्यस्यां कस्मादेव व्यवहितस् प्रतिषेधो लभ्यते? तत्र तस्मिन् (1.1.65) इत्यादिकायाः परिभाषाया अनुपस्थानात्। क्ङिति च (1.1.5) इत्यादरावप्यस्या इक्परिभाषाया उपस्थानात् शालीयः, मालीयः इत्यत्र वृद्धरसञ्ज्ञा न स्यात। यता चेयमिक्परिभाषा विध्यङ्गशेषभूतत्वाद्विधावेवोपतिष्ठते, तथासावप्यानन्तर्यपरिभाषा। न चेह गुणवृद्धी विधीयेते, किं तर्हि? विहिते अप्यन्यत्र क्ङितीत्यनेन विशिष्येते। तस्मान्नात्र तस्याः परिभाषाया उपस्थानमित्यन-न्तरस्यापि प्रतिषेधः सिध्यति। क्ङिन्निमित्ते ये गुणवृद्धी इति। क्ङिन्निमित्तं ययोस्ते तथोक्ते। ते पुनर्ये क्ङिन्निमित्ते सति प्राप्नुतस्ते विज्ञेये। एतेन गुण-वृद्धीविशेषणं क्ङिद्ग्रहणमिति दर्शयति। ननु च विधीयमानतया प्राधान्यात् प्रतिषेध-स्यैवैतद्विशेषणं युक्तम्? नैतदस्ति; यत्र हि गुणः कृतात्मसंस्कारः प्रधानोपकाराय महते प्रभवति, तत्र प्रधानस्यैव भूयांसमुपकारं कर्तुमात्मनः संस्कारमनुभूय प्रधानेन सम्बन्धमनुभवति। यथोक्तम्-गुणः कृतात्मसंस्कारः प्रतिपद्यते।प्रधानस्योपकारे हि तथा भयसि वर्तते॥ इति।इह तु गुणवृद्धयोः क्ङिद्दग्रहणेन विशेषितयोर्महान प्रधानस्य प्रतिषेधस्योपकारो भवति, व्यवहितस्यापि तत्सिद्धेः। `भिन्नः इति। भिदिर्विदारणे (धातुपाठः- 1439),क्तः, रदाभ्यां निष्ठातोनः (8.2.42) इति नत्वम्। मृष्टः इति। मृजेः व्रश्च (8.2.36) इत्यादिना जकारस्य षत्वम्, ष्टुना ष्टुः (8.4.41) इति ष्टुत्वम्। चिनुत इत्यादौ तु सार्वधातुकमपित् (1.2.4) इति क्ङित्त्वम्। चिन्वन्ति`इति। `हुश्नुवोःसार्वधातुके (6.4.87) इति यणादेशः। अत्र चितः, चितवान्, स्तुतः, स्तुतवान्, चिनतः, चिन्वन्ति इत्येषूदाहरणेषु यतायोगं सार्वधातुकार्धधातुकलक्षणस्य गुणस्य प्रतिषेधः, भिन्नः भिन्नवान् इति लघूपधलक्षणस्य, परिशिष्टेषु मृजेर्वृद्धिः (7.2.114) इति वृद्धेः। ग्लाजिस्थश्च क्स्नुः इति। क्स्नुप्रत्ययोऽयं यदि कित् स्यात्, स्थास्नुरित्यत्र घुमास्थादिसूत्रेण (6.4.66) तिष्ठतेरीत्त्वं स्यात्। अतस्तत्परिहाराय क्स्नोर्गित्त्वं प्रतिज्ञायते। तथा हि तत्र वक्ष्यति-गिच्चायं प्रत्ययो न कित्। तेन स्थ ईकारो न भवति`(का।241) इति। गित्वे च सति `भूष्णुः, जिष्णुः इत्यत्र`क्ङितिच` (1.1.5) इति प्रतिषेध उच्यमानो न प्राप्नोति। अत एतद्दोषपरिहारायाह- गकारोऽप्यत्र इत्यादि (का241)।चत्त्र्वभूतः चर्त्वं प्राप्त इत्यर्थः। चर्त्वं तु खरि च (8.4.54) इति। यदि हि क्स्नोर्गित्त्वमिष्यते, भूष्णुरित्यत्र श्रयुकः किति (7.2.11) इति किति प्रतिषेध उच्यमानो न स्यात्? नैष दोषः; तत्रापि चत्त्र्वभूतोगकारो निर्दिश्यते। तथा हि -ग्लाजिस्थश्च क्स्नुः (3.2.139) इत्यत्र जयादित्यवृ-त्तौ ग्रन्थः- **क्ङिति च** (1.1.5) इत्यत्र गकारश्चत्त्र्वभूतो निर्दिश्यते, तेन गुणो न भवति। `श्रयुकः किति (7.2.11) इत्यत्रापि गकारो निर्दिश्यते, तेन भुव इड् न भवति`(का। 241) इति। श्रयुकः किति (7.2.11) इत्यत्रापि जयादित्यवृत्तौ ग्रन्थः- गकारोऽप्यत्र चत्त्र्वभूतो निर्दिश्यते भूष्णुरित्यत्र यथा स्यात् इति। वामनस्यत्वेतत् सर्वमनभिमतम्। तथा हि तस्यैव सूत्रस्य तद्विरचितायां वृत्तौ ग्रन्थः- केचिदत्र द्विककरानिर्देशेन गकारप्रश्लेषं वर्णयन्ति भूष्णुरित्येवं यथा स्यात्। सौत्रत्वाच्च निर्देशस्य श्रयुकः किति (7.2.11) इत्यत्र चर्त्वस्यासिद्धत्वमना-श्रित्य रोरुत्वं न कृतम्, विसर्जनीयश्च कृतः इति। ग्लाजिस्थश्च क्स्नुः (3.2.139) इत्यत्र स्था आ इत्यकारप्रश्लेषेण स्थास्नोः सिद्धत्वान्न किञ्चदेतत्`(का 802)इति। स एवं मन्यते- यदि क्स्नुप्रत्यययस्य कित्त्वे सति तिष्ठतेरीत्त्वं प्राप्नुयात् तथा तत्परिहारार्थं गित्त्वं युज्यते प्रतिज्ञातुम। गित्त्वे च सति जिष्णुः, भूष्णुः` इत्यत्र यथायोगमिड्गुणयोर्निरासाय क्ङिति च (1.1.5) इत्यत्र`श्रयुकः किति` (7.2.11) इत्यत्र च गकारश्चर्त्वभूतो निर्दिश्यमानः शोभेत। न च क्स्नुप्रत्ययो गित्,किं तर्हि? किदेव। तत्किमिड्गुण्प्रतिषेधार्थेन चत्त्र्वभूतगकारस्य निर्देशेन !न च क्स्नोः कित्त्वेसति तिष्ठतेरात्वं प्राप्नोति। तस्मात् ग्लाजिस्थशाच क्स्नुः (3.2.139) इत्याकारप्रश्लेषः कृतः, क्स्नुप्रत्ययान्तस्यतिष्ठतेराकार एव यथा स्यात्, यदन्यत् प्राप्नोति तन्मा भूत् इत्येवमर्थः। ततश्च तेनैव सिद्धत्वात् स्थास्नुशब्दस्याकिञ्चित्करमिह गकारप्रश्लेषवर्णनमिति। कामयते इति। कमेर्णिङ (3.1.30) । अत्र अत उपधायाः (7.2.116) इति वृद्धेः प्रतिषेधो न भवति। लैगवायनः इति। लिगुशब्दात् नडादिभ्यःफक् (4.1.99) इति फकि कृते ओर्गुणः (6.4.146) इति गुणस्य प्रतिषेधो न भवति। ननु चोकारैगेव, तदयुक्तमिदं प्रत्युदाहरणम्? नैतदस्ति; अत्र हि चकारः क्रियते इकः इत्यनुकर्षणार्थः। तत्र चकारेणानुकर्षणसा-मथ्र्यादिक इत्येतदर्थपदार्थतामुत्सृज्य स्वरूपपदार्थतामनुभवति। अन्यथा हि यदिचकारेणाध्यनुकृष्यमाणमर्थपदार्थकमेव स्यात् तदनुकर्षणार्थं चकारकरणमनर्थकं स्यात्, अर्थपदार्थस्य स्वरितत्वादेवानुवृत्तिसिद्धेः। स्वरूपपदार्थके च तस्मिन्निह सन्नि-हिते सत्ययमर्थो भवति, इकग इत्येवं ये गुणवृद्धी विधीयेते, इक इतीमं शब्दमुचार्य ये गुणवृद्धी विधीयेते, ते क्ङिन्निमित्ते न भवतः इति। न च लैगवायनः इत्यत्र इकः` इतीमं शब्दमुचार्य गुणो विधीयते, इक्परिभाषायास्तत्रानुपस्थानात्। अनुपस्थानं तु साक्षादुकारस्य स्थानिनो निर्देशात्। यत्र हि साक्षात् स्थानी न निर्दिश्यतेतत्रासावुपतिष्ठते। ननु यदि स्वरूपपदार्थस्येक इत्यस्येह सन्निधानम्, स्थानी न निर्दिष्टः स्यात्, ततश्च न ज्ञायते कस्य गुणवृद्धी प्रतिषिध्येते इति? नैष दोषः। सामर्थ्यादिक एव गुणवृद्धयोः प्रतिषेधोऽयं गम्यते। न ह्रन्यस्येक इतीमं शब्दुमु-च्चार्य गुणवृद्धी विधीयेते। अथ वा ` यद्यपीक्परिभाषा विध्यङ्गशेषभूता, तथापीहास-त्यपि गुणवृद्धयोर्विधाने चकारेणानुकृशष्य सन्निधाप्यते। एतदेव हि चकारकरणस्य प्रयोजनं यदिदमिक्परिभाषायाः सन्निधापनम्। ततश्च तस्या उपस्थाने सति यत्रासौ व्याप्रियते तत्रैवायं प्रतिषेधो विज्ञायते। क्व चासौ व्याप्रियते? यत्र स्थानी साक्षान्न् निर्दिश्यते। इह तु निर्दिश्यते स्थानी, तस्मादिक्परिभाषाया व्यापाराभावाद्भवति प्रत्युदाहरण्। मृजेः इत्यादि। कथं पुनरिष्यमाणापि सा लभ्यते? यथा लभ्यते तथा श्रूयताम। अचो ञ्णिति श् (7.2.115) इत्यत्र मृजेर्वृद्धिः (7.2.114) इति वर्तते, जराया जरसन्यतरस्याम् (7.2.101) इत्यतोऽन्यतरस्यां ग्रहणं च मण्डूकप्लुतिन्यायेनानुवर्तते, सा च व्यवस्थितविभाषा। अचः इति योगविभागः क्रियते। मृजेरजादौ संक्रमे विभाषा वृद्धिर्भवति, अन्यत्र न भवत्येव।लघूपधगुणस्याप्यत्र प्रतिषेधः इति। एतेन संक्रमत्वं दर्शयति। अन्ये तु उत्तरसूत्रे कणिता आः रणिता आः` इत्यनन्तरमनेन ग्रन्थेन भवितव्यम्िह तु दुर्विन्यस्तकाकुपदजनितभ्रान्तिभिः कुलेखकैर्लिखितमिति वर्णयन्ति। अथ वा- निमित्तसप्त-म्या एवेदं फलं दर्शितमिति मन्तव्यम्। अचिनवम्, असनुवम् इत्यत्र लङो ङित्वात्तदादेशस्यापि मिपो ङित्त्वम्। स्थानिवद्भावेन मिपो ङित्त्वात् तदादेशस्याप्यमो ङित्त्वं पूर्ववत्, ततश्च तदाश्रयो विकरणस्य गुणप्रतिषेधः प्राप्नोति। कस्मान्नभवतीत्याह- अचिनवम् इत्यादि। आदिशब्देन अकरवम् इत्यादिनां परिग्रहः। लकारस्य इति। लकारादेशोऽपि पारम्पर्येण लकारपूर्वकत्वादुपचारेण लकार इत्युक्तः। सत्यपीत्य-भ्युपगमे हलः श्नः शानज्झौ (3.1.83) इति शानजादेशस्य शित्करणाल्लिङ्गान्नावश्यमनुबन्धकार्येषु स्थानिवद्भावो भवतीत्यध्यवसितोऽयमर्थः। अतो ङित्त्ववचम्` इत्यादि। यदि ङिति यत्कार्यं विधीयते तल्लकारे ङिति स्यात्, ततो लिङ एव ङित्त्वेन चिनुयादि-त्यादौ गुणप्रतिषेधस्य सिद्धत्वात् यासुट् परस्मैपदेषूदात्तो ङिच्च (3.4.103) इति यत् तस्य यासुटो ङ्द्विचनं तन्न कुर्यात्, कृतञ्च; ततोऽवसीयते- ङिति यत् कार्यं तल्लकारे इति न भवति इति।

Prakriyasarvasvam

इक् इति प्राप्ते गुणवृद्धी किति ङिति च निमित्ते न स्तः । देवभूयम् ।

Sutra Prayogas

  • मृदितकिसलयः (किरातार्जुनीयम्): क्वचिन्न (मूलसूत्रम्- क्ङिति च) इति प्रतिषेधान्न मृदेर्गुणः।

  • मृदित (किरातार्जुनीयम्): क्विति च (क्ङिति च) इति गुणप्रतिषेधः।

  • धुवत्याः (शिशुपालवधम्): क्ङिति च इति गुणवृद्धिप्रतिषेधादुवङादेशः।

  • अनिमिषम् (शिशुपालवधम्): गाङ्कुटादिभ्योऽञ्णिन्ङित् इति गुणनिषेधः।