11006: दीधीवेवीटाम्

Padacheda: दीधी-वेवी-इटाम् | S | 6 | 3 |

Sutrartha

दीधीङ्-धातोः, वेवीङ्-धातोः तथा च इडागमस्य इक्-वर्णस्य गुणवृद्धी न भवतः । यथा - दीध्यनीयः, वेव्यनीयः, भविता ।

दीधीङ् (दीप्तिदेवनयोः) तथा च वेवीङ् (गतिव्याप्तिप्रजनकान्त्यसनस्वादनेषु) एतौ अदादिगणस्य धातू । एतौ द्वौ अपि धातू छान्दसौ स्तः (इत्युक्ते, केवलं वेदेषु एव एतयोः प्रयोगः दृश्यते) । एतयोः धात्वोः विद्यमानस्य अन्तिम-ईकारस्य इक्-वर्णस्य गुणः वृद्धिः वा न भवति । एवमेव इडागमस्य इकारस्य अपि गुणादेशः न भवति (इडागमस्य वृद्धिः नैव सम्भवति, अतः तस्य निषेधस्य अपि न प्रयोजनम्, अतः केवलम् गुणनिषेधः एव अत्र क्रियते) । क्रमेण उदाहरणानि एतानि — <hlb>1.दीधीङ्/वेवीङ्-धातोः गुणनिषेधः</hlb> दीधीङ्/वेवीङ्-धात्वोः अनीयर्-प्रत्यये परे सार्वधातुकार्धधातुकयोः (7.3.84) अनेन अङ्गस्य प्राप्तः गुणादेशः प्रकृतसूत्रेण निषिध्यते —

दीधीङ् (दीप्तिदेवनयोः, अदादिः, (2.71)) / वेवीङ् (गतिव्याप्तिप्रजनकान्त्यसनस्वादनेषु, अदादिः, (2.72))
→ दीधी / वेवी + अनीयर् [**तव्यत्तव्यानीयरः** (3.1.96) इति अनीयर्-प्रत्ययः]
→ दीध्यनीय / वेव्यनीय [**सार्वधातुकार्धधातुकयोः** (7.3.84) इत्यनेन अङ्गस्य गुणादेशे प्राप्ते **दीधीवेवीटाम्** (1.1.6) इति सः निषिध्यते, अतः अत्र **एरनेकाचोऽसंयोगपूर्वस्य** (6.4.82) इति यणादेशे कृते रूपं सिद्ध्यति ]

<hlb>2.दीधीङ्/वेवीङ्-धातोः वृद्धिनिषेधः</hlb> दीधीङ्/वेवीङ्-धात्वोः ण्वुल्-प्रत्यये परे अचो ञ्णिति (7.2.115) अनेन अङ्गस्य प्राप्तः वृद्ध्यादेशः प्रकृतसूत्रेण निषिध्यते —

दीधीङ् (दीप्तिदेवनयोः, अदादिः, (2.71)) / वेवीङ् (गतिव्याप्तिप्रजनकान्त्यसनस्वादनेषु, अदादिः, (2.72))
→ दीधी / वेवी + ण्वुल् [**ण्वुल्तृचौ** (3.1.133) इति ण्वुल्-प्रत्ययः]
→ दीधी / वेवी + अक [**युवोरनाकौ** (7.1.1) इति अक-आदेशः]
→ दीध्यक / वेव्यक [**अचो ञ्णिति** (7.2.115)  इत्यनेन अङ्गस्य वृद्ध्यादेशे प्राप्ते **दीधीवेवीटाम्** (1.1.6) इति सः निषिध्यते, अतः अत्र **एरनेकाचोऽसंयोगपूर्वस्य** (6.4.82) इति यणादेशे कृते रूपं सिद्ध्यति ]

<hlb>3. इडागमस्य गुणनिषेधः</hlb> यत्र विकरणप्रत्ययस्य इडागमः भवति, तत्र अयं इडागमः तस्मात् अग्रे विद्यमानस्य प्रत्ययस्य कृते अङ्गावयवरूपेण स्वीक्रियते । अस्यां स्थितौ इडागमस्य गुणादेशे प्राप्ते प्रकृतसूत्रेण सः निषिध्यते । यथा, भू-धातोः लुट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपे अस्य सूत्रस्य इत्थं प्रयोगः भवति —

भू (सत्तायाम्, भ्वादिः, (1.1))
भू + लुट् [**अनद्यतने लुट्** (3.3.15) इति लुट्]
→ भू + तास् + लुट् [**स्यतासी लृलुटोः** (3.1.33) इति तास्-विकरणप्रत्ययः]
→ भू + ता + तिप् [प्रथमपुरुषैकवचनस्य विवक्षायाम् **तिप्तस्झि...** (3.4.78) इति तिप्-प्रत्ययः]
→ भू + ता + डा [**लुटः प्रथमस्य डारौरसः** (2.4.85) इति तिप्-प्रत्ययस्य डा-आदेशः । अनेकाल्त्वात् सर्वादेशः]
→‌ भू + इट् ता + आ [**आर्धधातुकस्येड् वलादेः** (7.2.35) इति तकारादिविकरणप्रत्ययस्य इडागमः]
→ भू + इता + आ [टकारस्य इत्संज्ञा, लोपः]
→ भो + इता + आ [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति विकरणप्रत्ययस्य अङ्गस्य गुणः]
→‌ भो + इत् + आ [**टेः** (6.4.143) इति डित्-प्रत्यये परे अङ्गस्य टिसंज्ञकस्य लोपः । अत्र डा-इति डित्-प्रत्ययस्य अङ्गम् 'भो + इता' इति अस्ति । अस्य टिसंज्ञकस्य अत्र लोपः विधीयते । एतादृशे लोपे कृते **पुगन्तलघूपधस्य च** (7.3.86) इति अङ्गस्य उपधा-इकारस्य गुणः प्राप्नोति । परन्तु अयम् इकारः इडागमस्य इकारः अस्ति, अतः प्रकृतसूत्रेण अयम् इडागमः प्रतिषिध्यते ।]
→ भव् + इत् + आ [**एचोऽयवायावः** (6.1.78) इति अवादेशः]
→ भविता

भाष्ये सूत्रस्य प्रत्याख्यानम्

भाष्यकारेण अस्य सूत्रस्य विषये अयं योगः शक्यः अवक्तुम् इति उक्त्वा अस्य सूत्रस्य अनावश्यकता स्पष्टीकृता अस्ति । तत्र भाष्यकारस्य आशयः अयम् — “दीधीङ्” तथा “वेवीङ्” धात्वोः केवलं वेदेषु एव प्रयोगः भवति, तत्र च गुणं कृत्वा अपि एतयोः रूपाणि दृश्यन्ते, अतः सर्वे विधयः छन्दसि विकल्प्यन्ते इति परिभाषया एव एतयोः यथायोग्यं गुणं गुणनिषेधं वा कृत्वा रूपाणि साधयितुम् शक्यन्ते, तदर्थम् प्रकृतसूत्रे एतयोः निर्देशः नैव आवश्यकः — इति । एवमेव, इडागमस्य विषये भाष्यकारः ब्रूते — आर्धदातुकस्येड्वलादेः इत्यत्र इड् इति अनुवर्तमाने पुनः इड्ग्रहहणस्य प्रयोजनम् इट् इट्-एव यथा स्यात्; यदन्यत् प्राप्नोति तत् मा भूद् इति ** । अस्य आशयः अयम् — **नेड् वशि कृति (7.2.8) इत्यस्मात् सूत्रात् “इड्” इति पदस्य वस्तुतः आर्धधातुकस्येड् वलादेः (7.2.35) इत्यत्र अनुवृत्तिः अवश्यं सम्भवति । तथापि पाणिनिना आर्धधातुकस्येड् वलादेः (7.2.35) इत्यत्र पुनः “इड्” इति शब्दः स्थापितः अस्ति । अस्याः पुनरुक्तेः प्रयोजनम् ‘इडागमः इट्-स्वरूपे एव भवेत्, तस्य अन्यः कोऽपि आदेशः नैव करणीयः’ इति अस्ति । अतश्च “भविता” इत्यादिषु उदाहरणेषु इडागमस्य गुणः मूलतः एव न सम्भवति, अतश्च अप्राप्तस्य गुणस्य निषेधार्थम् प्रकृतसूत्रं नैव आवश्यकम् —‌ इति । अस्मिन् विषये अधिकं ज्ञातुम् जिज्ञासवः भाष्यम् पश्येयुः ।

Sutrartha (English)

The इक् letter of - (a) the verb दीधीङ्, (b) The verb वेवीङ् , and (c) इडागम - do not undergo a गुण or a वृद्धि.

Vasu English Summary

The गुण and वृद्धि substitutions which otherwise would have presented themselves do not however come, in the place of the vowels of दिधि ‘to shine’ and वेवि ‘to go’, and of the augment called इट् ।

Vasu English Translation

The गुण and वृद्धि substitutions which otherwise would have presented themselves do not however come, in the place of the vowels of दिधि ‘to shine’ and वेवि ‘to go’, and of the augment called इट् । The roots दीधी and वेवी never take the guna or vriddhi substitutions under ordinary circumstances. Thus the affix ण्वुल् generally causes vriddhi substitution when added to any root; and so the affix ल्युट् causes guņa. But these affixes when applied to the verbs didhi and vevi, never cause vřiddhi or guna substitution. As आदीधी+ण्वुल् = आदीधी+अक (7.1.1) = आदीध्वकः (6.1.77). So also आदीधी+ल्युट् = आदीधी+अन (7.1.1) = आदीध्वनम्. Similarly from वेवी we have आवेव्यनम् and आवेव्यकः. In the Vedas, however, these verbs take guna. Thus अदीधेत् (Rig Ved. X.98.7), and अदीधयुः (Rig Ved. V.40.5). These two verbs are confined generally to the Vedic literature, and the present rule therefore, seems to be an unnecessary prohibition; as they take guna in spite of such prohibition.

Of the augment इट् the real affix is इ. In the general tenses, it is added to certain terminations beginning with consonants of the वल् class, i.e., all consonants except य (7.2.35). Thus the future termination, first person, singular is स्यामि; this when added to the root चर् “to move” requires an intermediate इ, and thus we have the form चरिष्यामि, ‘I shall walk.’ This इ is never gunated or vriddhied, though according to the general rule, coming before an ardhadhâtuka termination, it ought to have been gunated.

The augment इट्, could under no circumstances have taken vriddhi, the prohibition therefore, is in the case of the guna substitute of इट्.

Bhashya

दीधीवेवीटाम् किमर्थमिदमुच्यते ? गुणवृद्धी मा भूताम् इति। आदीध्यनम्। आदीध्यकः। आवेव्यनम्। आवेव्यकः । अयं योगः शक्योऽकर्तुम्। कथम्? ॥ दीधीवेव्योश्छन्दोविषयत्वाद् दृष्टानुविधित्वाच्च छन्दसश्छन्दस्यदीधेददीधयुरिति च गुणस्य दर्शनादप्रतिषेधः । दीधीवेव्योश्छन्दोविषयत्वात्। दीधीवेव्यौ छन्दसो विषयौ। दृष्टानुविधित्वाच्च छन्दसः। दृष्टानुविधिश्च छन्दसि भवति। अदीधेत्, अदीधयुः इत्यत्र च गुणस्य दर्शनादप्रतिषेधः। अनर्थकः प्रतिषेधः अप्रतिषेधः। प्रजापतिर्वै यत् किंचिन्मनसा अदीधेत्। होत्राय वृतः कृपयन्नदीधेत्। अदीधयुर्दाशराज्ञे वृतासः। भवेदिदं युक्तमुदाहरणमदीधेदिति। इदं त्वयुक्तमदीधयुरिति। अयं जुसि गुणः प्रतिषेधविषय आरभ्यते स यथैव क्ङिति चेत्येन बाधते एवमेनमपि बाधेत। नैष दोषः। जुसि गुणः प्रतिषेधविषय आरभ्यमाणस्तुल्यजातीयं प्रतिषेधं बाधते। कश्च तुल्यजातीयः प्रतिषेधः। यः प्रत्ययाश्रयः। प्रकृत्याश्रयश्चायम्। अथवा येन नाप्राप्ते तस्य बाधनं भवति। न चाप्राप्ते क्ङिति नेत्येतस्मिन् प्रतिषेधे जुसि गुण आरभ्यते। अस्मिन् पुनः प्राप्ते चाप्राप्ते च । यदि तर्ह्ययं योगो नारभ्यते, कथं दीध्यत् इति, वेव्यत् इति च । ॥ दीध्यदिति श्यन्व्यत्ययेन ॥। दीध्यदिति वेव्यदिति च स्यन्व्यत्ययेन भविष्यति । इटश्चापि ग्रहणं शक्यमकर्तुम्। कथमकणिषमरणिषम्। कणिता श्वो रणिता श्वः इति। आर्धदातुकस्येड्वलादेरित्यत्र इडित्यनुवर्तमाने पुनरिङ्ग्रहणस्य प्रयोजनम् इट् इडेव यथा स्यात्। यदन्यत् प्राप्नोति तन्मा भूदिति। किं चान्यत् प्राप्नोति। गुणः । यदि नियमः क्रियते पिपठिषतेरप्रत्ययः पिपठीः दीर्घत्वं न प्राप्नोति । नैष दोषः। आङ्गं यत्कार्यं तन्नियम्यते न चैतदाङ्गम्। अथवा असिद्धं दीर्घत्वं तस्यासिद्धत्वान्नियमो न भविष्यति ।

Kashika

दीधीवेव्योरिटश्च ये गुणवृद्धी प्राप्नुतस्ते न भवतः। आदीध्यनम्। आदीध्यकः। आवेव्यनम्। आवेव्यकः । इटः खल्वपि — कणिता श्वः, रणिता श्वः। वृद्धिरिटो न संभवतीति लघूपधगुणस्यात्र प्रतिषेधः॥

Siddhanta Kaumudi

दीधीवेव्योरिटश्च गुणवृद्धी न स्तः । भविता ॥

Balamanorama

दीधीवेवीटाम् - दीधीवेवी ।दीधीह् दीप्तिदेवनयोः॑वेवीङ् वेतिनी तुल्ये॑ । दीधीश्च वेवीश्च इट् चेति द्वन्द्वात् षष्ठी । ‘इको गुणवृद्धी’ इत्यतो गुणवृद्धी इति, ‘न धातुलोप’ इत्यतो नेति चानुवर्तते ।

Padamanjari

ऽदीधीवेव्योऽरिति । ‘दीधीङ् दीप्तदेवनयोः’ ‘वेवीङ् वेतिना तुल्ये’ इत्येतयोः । अथ दीङ् क्षये’ ‘धीङ् अनादरे’ ‘वेञ् तन्तुसन्ताने’ वी गत्यादिषु’-एतेषां ग्रहणं कस्मान्न भवति ? दीङस्तावन्न भवति, ‘मीनातिमिनोतिदीङं ल्यपि च’ इति चकारेणैज्विषय आत्वविधानात् । वेञोऽपि न भवति, गुणप्राप्त्यभावात्, नैतदस्ति; चकारस्तावन्मीनातिमिनोत्यर्थः स्यात्, दीङेऽपि ग्रहणं ल्यबर्थं स्यात्, वेञोऽपि प्रवेयमित्यत्र ‘ईद्यति’ इति ईत्वे कृते गुणः प्राप्नोति । एवं तर्हि चतुर्णां ग्रहणेऽभिप्रेते, असन्देहार्थं ‘वीवेधीदीटाम्’ इति ब्रूयात् । किञ्च-‘अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी’ । ऽइटश्चेऽति । आर्धधातुकस्येडित्यागमस्य । ननु धातुसाहचर्यात् ‘इट किट गतौ’ इत्यस्य धातोर्ग्रहणं युक्तम्, सत्यम्; प्रसिद्ध्यतिशयादागमस्य ग्रहणम्, आगमो हि प्रसिद्धतरः । शास्त्रेऽल्पाचरत्वेन पूर्वनिपाताभावाच्च धातुरिट्, दीधीवेव्योस्तु धातुत्वात्प्रकृतित्वाद् ‘अभ्यर्हितं च’ इति पूर्वनिपातः । अथ दीधीवेव्योः किमर्थं ग्रहणं, यावता छान्दसावेतौ च्छन्दसि च दृष्टानुविधिः, दृश्यते च गुणः ‘होत्राय वृतः कृपयन्नदीधेत्’, ‘अधीधयुर्दाशराज्ञः’ इति, अतस्तयोरनर्थकः प्रतिषेधः ? केचिदाहुः-‘आदीध्यनमावेव्यनम् इत्युदाहरतो वृत्तिकारस्य नानयोश्छान्दसत्वमभिप्रेतम्, अन्यथा हि च्छन्दस्येव किंचिदुदाहार्यम्’ इति, इदं तु वार्तिकविरुद्धम्; यदाह-‘दीधीवेव्योश्छन्दोविषयत्वाद् दृष्टानुविधानाच्च च्छन्दस्यदीधेददीधयुरिति च गुणदर्शनादप्रतिषेधः’ इति । ऽ आदीध्यनमिऽति । ल्युटि ‘एरनेकाचः’ इति यणादेशः । ऽकणितेऽति । ‘कणिरणी शब्दार्थौ’ लुटि तिपौ डादेशस्तासि टिलोपः, कणित् अ आ इति स्थिते तकारन्तं लघूपधमङ्गमिति प्राप्तस्य गुणस्य प्रतिषेधः । ननु च ङेड्वशि कृति’ इत्यत इडित्यनुवर्तमाने ‘आर्धधातुकस्येट्’ इति पुनरिड्ग्रहणम् ‘इडेव यथा स्याद्, विकारो मा भूद्’ इत्येवमर्थं भविष्यति । यद्येवम्; अलावीत्, पिपठिषतेः क्विपि पिपठी रित्यत्र ‘अकः सवर्णे दीर्घः’ ‘र्वोरुपधायाः’ इति च दीर्घो न स्याद् । अङ्गप्रकरणे नियमादाङ्ग एव विकारो निवर्त्यते, इह च पिपठिषतेरप्रत्यये नपुंसके जसः शिः, अतो लोपस्य स्थानिवत्वान्नुम्न भवतीति शान्तमहतः’ इति दीर्धत्वं न भवतीति पिपठिषि ब्राह्मणकुलानीति भवति ॥

Nyaas

दीधीवेव्योः इति। दीधीङ दीप्तिदेवनयोः` (धातुपाठः- 1076); वेवीङ वेतिना तुल्ये (धातुपाठः-1077) इत्येतयोग्र्रहणम्। ननु च `दीङ क्षये (धातुपाठः- 1134) धीङ अनादरे`(धातुपाठः-1136), `वेञ् तन्तुसन्ताने (धातुपाठः-1006) वी गतिप्रजनकान्त्यसनखादनेषु (धातुपाठः-1048) इत्येतेषां ग्रहणं कस्मान्न विज्ञायते? यद्येषां ग्रहणमभिमतं स्यादसन्देहार्थं वीवेधीदीटाम् इत्येवं न्यासं कुर्यात्। अन्यथा तु कृतम्। तस्मात् पूर्वोक्तयोरेव धात्वोरिह ग्रहणम्। इटश्चेति- आर्धरधातुकस्य (7.2.35) इत्यादिना विहितस्य। अथ इट्, किट, कटी गतौ (धातुपाठः-318,319320) इत्यस्य ग्रहणं कस्मान्न भवति, युक्तं चैतत्, धातुसाहचर्यात्? नैतदस्ति; इह`अल्पाच्तरम्` (2.2.34) इत इटः पूर्वनिपाते कर्तव्ये तद्विपर्यासं कुर्वतैतत् सूचितम्-अन्योऽ-प्यत्र कश्चिद्विपर्यासो विज्ञेयः इति। तेन धातुसाहचर्याद्धातुग्रहणे प्राप्ते तद्विपरीतस्यैवागमस्य ग्रहणं विज्ञायते। आदीध्यनम् इति। ल्युट्। आदीध्यकः इति। ण्वुल्।कणिता आः, रणिता आः इति। अण रण कण (धातुपाठः-444,445,449) इत्यादौ शब्दार्थे धातुवर्गे कणिरणी पठएते , ताभ्यां लुटि स्यताशी लृलुटोः` (3.1.33) इति तासिः, लुटः प्रथमस्य ` (2.4.85) इत्यादिना तिषो डादेशः, टिलोपः, `आर्धधातुकस्य (7.2.35) इत्यादिनेट्। अथेटो वृद्धेरुदाहरणं कस्मान्न प्रदर्शितमित्याह- वृद्धिरिटो न सम्भवति इति। अङ्गस्य वृद्धिर्ञ्णिदादौ प्रत्यये विधीयते इट् चायमार्धधुकभवतः। न चार्धधातुकस्याङसञ्ज्ञास्ति ञ्णिदादौ प्रत्यये। तस्मादिटो वृद्धिर्न भवति।

Prakriyasarvasvam

दीधीवेव्योरिटश्च गुणवृद्धी न स्तः । भविता भवितास् रौ ।

Sarala

“ओत्” इति “प्रगृह्यम्” इति चानुवर्तते । ऋषिशब्दो वेदवाचीत्यभिप्रेत्याह - सम्बुद्धिनिमित्तक इति । शाकल्यो लोपस्य स्मर्ता, पाणिनिर्नेति व्याख्यानानुसारेण शाकल्यमते विष्ण इतीत्युदाहृतम् ॥