11004: न धातुलोप आर्धधातुके¶
Padacheda: न | S | 0 | 0 |
धातुलोपे | S | 7 | 1 |
आर्धधातुके | S | 7 | 1 |
Sutrartha¶
यः आर्धधातुकप्रत्ययः धातोः कस्यचन अंशस्य लोपम् करोति, सः आर्धधातुकप्रत्ययः अवशिष्टस्य अंशस्य इक्-वर्णस्य गुणं वृद्धिं वा न करोति ।
धातोः विहितः कश्चित् आर्धधातुकप्रत्ययः यदि तस्य धातोः कस्यचन अंशस्य लोपस्य निमित्तम् भवति, तर्हि तादृशे लोपे कृते अवशिष्टस्य अंशस्य यः इक्-वर्णः, तस्य गुणस्य/वृद्धेः निमित्तम् सः आर्धधातुकप्रत्ययः न भवति — इति अस्य सूत्रस्य आशयः । अस्य सूत्रस्य प्रयोगः यङ्-लुगन्तप्रक्रियायाम् एव दृश्यते । द्वे उदाहरणे एतादृशे — 1. लुञ्-धातोः यङ्लुगन्तप्रक्रियायाम् अस्य सूत्रस्य गुणनिषेधार्थम् प्रयोगः — “लूञ् (छेदने)” अस्मात् धातोः “पुनः पुनः लुनाति” अस्मिन् अर्थे धातोरेकाचो हलादे क्रियासमभिहारे यङ् (3.1.22) इत्यनेन यङ्-प्रत्ययः भवति । अस्य प्रयोगेण “लोलूय” इति आतिदेशिकः धातुः सिद्ध्यति । अस्मात् धातोः नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (3.1.134) इत्यनेन कर्त्रर्थे यदा “अच्”-प्रत्ययः विधीयते, तदा प्रक्रियायाम् अच्-प्रत्ययम् निमित्तरूपेण स्वीकृत्य लोलूय-धातोः “य”-इत्यस्य लोपः भवति । एतादृशे लोपे कृते अवशिष्टे अंशे विद्यमानस्य लकारोत्तस्य उकारस्य सार्वधातुकार्धधातुकयोः (7.3.84) इत्यनेन प्राप्तः गुणः प्रकृतसूत्रेण निषिध्यते । प्रक्रिया एतादृशी —
पुनः पुनः लुनाति सः
= लूञ् (छेदने, क्र्यादिः, (9.16))
→ लू + यङ् + अच् [**धातोरेकाचो हलादे क्रियासमभिहारे यङ्** (3.1.22) इत्यनेन यङ् । **सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा । ततः कर्त्रर्थे **नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः** (3.1.134) इति अच्-प्रत्ययः]
→ लूय् लूय + अ [**सन्यङोः** (6.1.9) इत्यनेन यङन्तस्य प्रथम-एकाच्-अवयवस्य द्वित्वम् भवति । द्वित्वे कृते प्रथमस्य 'लूय्' इत्यस्य **पूर्वोभ्यासः** (6.1.4) इत्यनेन अभ्याससंज्ञा भवति ।]
→ लू लूय + अ [**हलादिः शेषः** (7.4.60) इति यकारलोपः]
→ लू + लू + अ [**यङोऽचि च** (2.4.74) इत्यनेन अच्-प्रत्यये परे यङ्-प्रत्ययस्य लुक्-भवति । **अच-प्रत्ययनिमित्तकः लुक् यङ्-प्रत्ययनिमित्तकस्य द्वित्वस्य अपेक्षया बहिरङ्गः अस्ति, अतः अयं लुक् द्वित्वकार्यात् अनन्तरम् एव विधीयते** ।]
→ लो + लू + अ [**गुणो यङ्लुकोः** (7.4.82) इति यङ्लुकि कृते इगन्तस्य अभ्यासस्य गुणः ओकारः भवति ।]
→ लो + ल् उवङ् + अ [ अच्-प्रत्ययं निमित्तरूपेण स्वीकृत्य **सार्वधातुकार्धधातुकयोः** (7.3.84) इत्यनेन लू-इत्यस्य ऊकारस्य गुणादेशः प्राप्नोति । परन्तु अयम् अच्-प्रत्ययः धातोः अंशस्य ('य' इत्यस्य) लोपस्य निमित्तम् अस्ति, अतः प्रकृतसूत्रेण अयं गुणः निषिध्यते । गुणाभावे **अचि श्नुधातुभ्रूवाम् य्वोः इयङ्-उवङौ** (6.4.77) इत्यनेन लू-इत्यस्य उवङ्-आदेशः विधीयते । **ङिच्च** (1.1.53) इति अयम् अन्त्यादेशरूपेण विधीयते ।]
→ लोलुव् + अ [ङकारस्य इत्संज्ञा, लोपः । वकारोत्तरः अकारः उच्चारणार्थः अस्ति, अतः तस्यापि लोपः भवति ।]
→ लोलुव ।
2. मृज्-धातोः यङ्लुगन्तप्रक्रियायाम् अस्य सूत्रस्य वृद्धिनिषेधार्थम् प्रयोगः — “मृजूँ (शुद्धौ)” अस्मात् धातोः “पुनः पुनः मार्ष्टि” अस्मिन् अर्थे धातोरेकाचो हलादे क्रियासमभिहारे यङ् (3.1.22) इत्यनेन यङ्-प्रत्ययः भवति । अस्य प्रयोगेण “मरीमृज्य” इति आतिदेशिकः धातुः सिद्ध्यति । अस्मात् धातोः नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (3.1.134) इत्यनेन कर्त्रर्थे यदा “अच्”-प्रत्ययः विधीयते, तदा प्रक्रियायाम् अच्-प्रत्ययम् निमित्तरूपेण स्वीकृत्य मरीमृज्य-धातोः “य”-इत्यस्य लोपः भवति । एतादृशे लोपे कृते अवशिष्टे अंशे विद्यमानस्य मकारोत्तरस्य ऋकारस्य मृजेर्वृद्धिः (7.2.114) इत्यनेन प्राप्तः वृद्धिः प्रकृतसूत्रेण निषिध्यते । प्रक्रिया एतादृशी —
पुनः पुनः मार्ष्टि सः
= मृजूँ (शुद्धौ, अदादिः, (2.61))
→ मृज् + यङ् + अच् [**धातोरेकाचो हलादे क्रियासमभिहारे यङ्** (3.1.22) इत्यनेन यङ् । **सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा । ततः कर्त्रर्थे **नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः** (3.1.134) इति अच्-प्रत्ययः]
→ मृज्य् मृज्य + अ [**सन्यङोः** (6.1.9) इत्यनेन यङन्तस्य प्रथम-एकाच्-अवयवस्य द्वित्वम् भवति । द्वित्वे कृते प्रथमस्य 'मृज्य्' इत्यस्य **पूर्वोभ्यासः** (6.1.4) इत्यनेन अभ्याससंज्ञा भवति ।]
→ मृ मृज्य + अ [**हलादिः शेषः** (7.4.60) इति यकारलोपः]
→ मृज् मृज् + अ [**यङोऽचि च** (2.4.74) इत्यनेन अच्-प्रत्यये परे यङ्-प्रत्ययस्य लुक्-भवति । **अच-प्रत्ययनिमित्तकः लुक् यङ्-प्रत्ययनिमित्तकस्य द्वित्वस्य अपेक्षया बहिरङ्गः अस्ति, अतः अयं लुक् द्वित्वकार्यात् अनन्तरम् एव विधीयते** ।]
→ मर् मृज् + अ [**उरत्** (7.4.66) इति ऋकारस्य अकारः । **उरण् रपरः** (1.1.51) इति सः रपरः]
→ म मृज् + अ [**हलादिः शेषः** (7.4.60) इति रेफलोपः । ]
→ म रीक् मृज् + अ [**रीगृदुपधस्य च** (7.4.90) इति अभ्यासस्य रीक्-आगमः । **आद्यन्तौ टकितौ** (1.1.46) इति अन्त्यावयवः ।]
→ मरीमृज् + अ [ककारस्य इत्संज्ञा, लोपः।]
→ मरीमृज [अत्र अच्-प्रत्ययं निमित्तरूपेण स्वीकृत्य **मृजेर्वृद्धिः** (7.2.114) इत्यनेन मरीमृज्-इत्यस्य उपधा-ऋकारस्य गुणादेशः प्राप्नोति । परन्तु अयम् अच्-प्रत्ययः धातोः अंशस्य ('य' इत्यस्य) लोपस्य निमित्तम् अस्ति, अतः प्रकृतसूत्रेण अयं वृद्धिः निषिध्यते ।]
दलकृत्यम्
1. लोपे इति किमर्थम् ? यदि धातोः कस्य अपि अंशस्य लोपः न भवति, तर्हि प्रकृतसूत्रेण गुणवृद्धिनिषेधः न हि क्रियते । यथा, “भू”-धातोः “अनीयर्”-प्रत्यये कृते प्रत्ययनिमित्तकः लोपः न भवति, अतः अत्र सार्वधातुकार्धधातुकयोः (7.3.84) इत्यनेन अवश्यम् गुणादेशः भवति, येन “भवनीय” इति रूपं सिद्ध्यति । 2. धातोः इति किमर्थम् ? यदि अन्यपदार्थस्य लोपः भवति (न हि धात्वंशस्य) तर्हि प्रकृतसूत्रेण गुणवृद्धिनिषेधः न क्रियते । यथा, “रिष् + विच्” इत्यत्र प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति । परन्तु अयम् धातुलोपः नास्ति, अतः अत्र एतादृशे लोपे कृते अपि प्रत्ययनिमित्तकम् गुणकार्यम् अवश्यं सम्भवति । प्रक्रिया इयम् —
रिषँ (हिंसायाम्)
→ रिष् + विच् [**अन्येभ्योऽपि दृश्यन्ते** (3.2.75) इति विच्-प्रत्ययः]
→ रिष् + ० [चकारस्य इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, तस्यापि लोपः भवति । अपृक्तवकारस्य **वेरपृक्तस्य** (6.1.67) इति लोपः क्रियते ।]
→ रेष् [विच्-प्रत्ययस्य लोपे कृते अपि तल्लक्षणः गुणः अवश्यं भवति, अतः **सार्वधातुकार्धधातुकयोः** (7.3.84) इति इकारस्य गुणादेशः विधीयते ।]
→ रेड् [**झलां जशोऽन्ते** (8.2.39) इति जश्त्वम् ]
→ रेड् / रेट् [**वाऽवसाने** (8.4.56) इति वैकल्पिकं चर्त्वम् ।]
3. आर्धधातुके इति किमर्थम् ? यदि धात्वंशस्य लोपः आर्धधातुकप्रत्ययनिमित्तः नास्ति, तर्हि तत्र प्रकृतसूत्रस्य प्रयोगः न क्रियते । यथा, भू-धातोः यङ्-प्रत्यये कृते, अग्रे लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् अदादित्त्वात् यङ्-प्रत्ययस्य लोपे कृते अपि अङ्गस्य इक्-वर्णस्य गुणः अवश्यम् भवति, यतः यङ्-प्रत्ययस्य लोपस्य निमित्तम् अत्र कोऽपि आर्धधातुकप्रत्ययः नास्ति । प्रक्रिया इयम् —
भू (सत्तायाम्, भ्वादिः, (1.1))
→ भू + यङ् + लट् [**धातोरेकाचो हलादे क्रियासमभिहारे यङ्** (3.1.22) इति यङ् । **सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा । ततः **वर्तमाने लट्** (3.2.123) इति लट् ।]
→ भू + यङ् + तिप् [प्रथमपुरुषैकवचनस्य विवक्षायाम् **तिप्तस्झि..** इति तिबादेशः ।]
→ भू + तिप् [**यङोऽचि च** (2.4.74) इत्यत्र 'बहुलम्' इति अनुवृत्तिरूपेण स्वीकृत्य अच्-प्रत्ययं विना अपि यङ्-प्रत्ययस्य लुक् भवति । लुकि कृते अपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन प्रत्ययनिमित्तकम् द्वित्वकार्यम् अवश्यम् भवति ।]
→ भू + भू + ति [**सन्यङोः** (6.1.9) इति अङ्गस्य एकाच्-अवयवस्य द्वित्वम् । अनैमित्तिकस्य लुकः अपेक्षया इदं द्वित्वं बहिरङ्गम् अस्ति अतः इदं कार्यं लुकः अनन्तरम् एव, प्रत्ययलक्षणं स्वीकृत्य क्रियते ।]
→ भो + भू + ति [**गुणो यङ्लुकोः** (7.4.82) इत्यनेन यङ्लुकि इगन्तस्य अभ्यासस्य गुणः भवति ।]
→ भो + भू + शप् + ति [**कर्तरि शप्** (3.1.68) इति शप्-विकरणप्रत्ययः]
→ भोभू + ति [अदादिगणे **चर्करीतं च** इति गणसूत्रविधानसामर्थ्यात् यङ्लुगन्ताम् अदादिगणत्वं स्वीक्रियते, अतः **अदिप्रभृतिभ्यः शपः** (2.4.72) इति शप्-प्रत्ययस्य लुक् भवति ।]
→ भोभो + ति [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति ऊकारस्य गुणः । अत्र शप्-प्रत्ययस्य कृतः लुक् आर्धधातुनिमित्तकः नास्ति, अतः अस्मिन् सन्दर्भे प्रकृतसूत्रं नैव प्रवर्तते । अतः यङ्लुकि कृते अपि धातोः अङ्गस्य इक्-वर्णस्य गुणः अवश्यं भवति ।
→ बोभोति [**अभ्यासे चर्च** (8.4.54) इति अभ्यासस्य जश्त्वम् ।]
4. आर्धधातुके धातुलोपे इति किमर्थम् ? यदि धातोः अंशस्य लोपः अवश्यं भवति परन्तु सः गुणवृद्धिविधायकम् आर्धधातुकप्रत्ययं निमित्तरूपेण स्वीकृत्य न हि भवति, अपितु अन्यत् निमित्तं स्वीकृत्य विधीयते, तर्हि तत्र प्रकृतसूत्रस्य प्रयोगः नैव भवति, अतः एतादृशस्य लोपस्य आधारेण आर्धधातुकप्रत्ययनिमित्तकः गुणः वृद्धिः वा नैव निषिध्यते । यथा, “क्नूयीँ” धातोः णिच्-प्रत्यये कृते अङ्गस्य पुक्-आगमः भवति; अस्मिन् आगमे परे धातोः अन्ते विद्यमानस्य यकारस्य लोपो व्योर्वलि (6.1.66) इति लोपः विधीयते । अयं लोपः प्रत्ययनिमित्तकः नास्ति (वर्णनिमित्तकः अस्ति), अतः अस्मिन् लोपे कृते अपि अङ्गस्य ऊकारस्य गुणः अवश्यं विधीयते । प्रक्रिया इयम् —
क्नूयीँ (शब्दे, उन्दने च, भ्वादिः, (1.558))
→ क्नूय् + णिच् + अनीयर् [**हेतुमति च** (3.1.26) इति प्रेरणार्थे णिच् । णिजन्तस्य **सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा । ततः **तव्यत्तव्यानीयरः** (3.1.96) इति अनीयर्-प्रत्ययः]
→ क्नूय् + पुक् + इ + अनीय [**अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ** (7.3.36) इति पुगागमः । अयम् **आद्यन्तौ टकितौ** (1.1.46) इति अन्त्यावयवरूपेण विधीयते ।]
→ क्नू + प् + इ + अनीय [यकारस्य **लोपो व्योर्वलि** (6.1.66) इति लोपः भवति ।]
→ क्नो + प् + इ + अनीय [णिच्-प्रत्ययं निमित्तरूपेण स्वीकृत्य पुगन्तस्य अङ्गस्य उपधावर्णस्य **पुगन्तलघूपधस्य च** (7.3.86) इति गुणः भवति । पूर्वं जातः यकारलोपः प्रत्ययनिमित्तकः नास्ति, अतः यकारलोपे कृते अपि प्रकृतसूत्रं न प्रवर्तते, अतः अत्र गुणः नैव निषिध्यते । ]
→ क्नोप् + अनीय [**णेरनिटि** (6.4.51) इति णिलोपः]
→ क्नोपनीय
5. इकः इति किमर्थम् ? प्रकृतसूत्रेण अङ्गस्य इक्-वर्णस्यैव गुणवृद्धी निषिध्येते, अन्यवर्णानाम् न । यथा, “रन्ज्” धातोः उपधानकारस्य घञ्-प्रत्यये घञि च भावकरणयोः (6.4.27) इति सूत्रेण लोपः भवति । अस्मिन् लोपे कृते अपि घञ्-प्रत्ययनिमित्तकम् अत उपधायाः (7.2.116) इति उपधावृद्धिकार्यम् अवश्यं सम्भवति, यतः अत्र अकारस्य वृद्धिः क्रियते, न हि इक्-वर्णस्य; अतश्च प्रकृतसूत्रेण अस्याः लोपः अपि न सम्भवति । प्रक्रिया इयम् —
रन्जँ (रागे, भ्वादिः, (1.1154))
→ रन्ज् + घञ् [**भावे** (3.3.18) इति घञ्]
→ रन्ज् + अ [इत्संज्ञालोपः]
→ रन्ग् + अ [**चजोः कु घिण्ण्यतोः** (7.3.52) इति कुत्वम्]
→ रग् + अ [**घञि च भावकरणयोः** (6.4.27) इति उपधानकारलोपः]
→ राग् + अ [**अत उपधायाः** (7.2.116) इति उपधावृद्धिः ।इयं वृद्धिः प्रकृतसूत्रेण न बाध्यते, यतः इयम् इक्-वर्णस्य स्थाने नैव उच्यते ।
→ राग
अनुबन्धलोपः धात्वंशलोपः न, सः आर्धधातुकप्रत्ययनिमित्तकः अपि न
अनेकान्ताः अनुबन्धाः इत्यनया परिभाषया धातौ विद्यमानाः अनुबन्धाः धात्ववयवरूपेण नैव स्वीक्रियन्ते । अपि च, तेषाम् लोपः अनिमित्तकः अस्ति, सः च प्रत्ययविधानात् पूर्वम् एव भवति । अतः आर्धधातुकप्रत्ययम् अस्य लोपस्य निमित्तरूपेण नहि स्वीकर्तुं शक्यते । अतः अनुबन्धलोपस्य विषये प्रकृतसूत्रं नैव प्रयुज्यते ।
भाष्ये सूत्रस्य प्रत्याख्यानम्
भाष्यकारेण प्रकृतसूत्रम् अनावश्यकम् उक्त्वा तस्य प्रत्याख्यानम् कृतम् अस्ति । तदर्थम् भाष्यकारः अकारलोपे कृते तस्य स्थानिवद्भावात् गुणवृद्धी न भविष्यतः इति ब्रूते । अस्य अर्थः अयम् — आदौ भाष्यकारः यस्य हलः (6.4.49) इति सूत्रस्य योगविभागं करोति । तत्र ‘यस्य’ इति शब्देन सह अतो लोपः (6.4.48) इति सम्पूर्णं सूत्रम् अनुवर्त्य यस्य अतः लोपः इति नूतनं सूत्रं सिद्ध्यति । अस्य सूत्रस्य अर्थः — यङ्-प्रत्ययस्य अकारस्य लोपः भवति— इति क्रियते । एतादृशम् अकारस्य लोपे कृते, ततः यङोऽचि च (2.4.74) इति यकारस्यापि लोके कृते, अग्रे विद्यमानम् अच्-प्रत्ययम् अच्-प्रत्ययं निमित्तरूपेण स्वीकृत्य सार्वधातुकार्धधातुकयोः (7.3.84) इति अङ्गस्य गुणे प्राप्ते; लुप्त-अकारस्य स्थानिवद्भावेन अयं गुणः नैव सम्भवति । प्रक्रिया एतादृशी —
लूञ् (छेदने, क्र्यादिः, (9.16))
→ लू + यङ् + अच् [**धातोरेकाचो हलादे क्रियासमभिहारे यङ्** (3.1.22) इत्यनेन यङ् । **सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा । ततः कर्त्रर्थे **नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः** (3.1.134) इति अच्-प्रत्ययः]
→ लू + य् + अच् [**यस्य हलः** (6.4.49) इत्यत्र योगविभागं कृत्वा, 'यस्य' इत्यत्र **अतो लोपः** (6.4.48) इति सूत्रम् अनुवर्त्य **यस्य अतः लोपः** इति नूतनं सूत्रं सिद्ध्यति, येन यङ्-प्रत्ययस्य अकारस्य लोपः क्रियते । ]
→लूय् लूय् + अ [**सन्यङोः** (6.1.9) इति यङन्तस्य प्रथम-एकाच्-अवयवस्य द्वित्वम्]
→ लू लूय् + अ [**हलादिः शेषः** (7.4.60) इति यकारः लुप्यते]
→ लू लू + अ [**यङोऽचि च** (2.4.74) इति यङ्-प्रत्ययस्य अवशिष्टस्य अंशस्य अपि लोपः भवति ।]
→ लो + लू + अ [**गुणो यङ्लुकोः** (7.4.82) इगन्तस्य अभ्यासस्य गुणः]
→ लो + ल् उवङ् + अ [ अत्र **सार्वधातुकार्धधातुकयोः** (7.3.84) इत्यनेन लू-इत्यस्य ऊकारस्य गुणादेशः प्राप्नोति, परन्तु यङ्-प्रत्ययस्य लुप्तः अकारः स्थानिवद्भावेन उपस्थीय अन्तिम-ऊकारम् उपधास्थाने प्रेषयति, येन अत्र **सार्वधातुकार्धधातुकयोः** (7.3.84) इत्यनेन न हि कश्चन गुणः सम्भवति । गुणस्य अभावे **अचि श्नुधातुभ्रूवाम् य्वोः इयङ्-उवङौ** (6.4.77) इत्यनेन लू-इत्यस्य उवङ्-आदेशः भवति । उवङ्-आदेशस्य पि स्थानिवद्भावेन बाधः भवति, परन्तु तन्निवारणार्थम् **अचि श्नुधातुभ्रूवाम् य्वोः इयङ्-उवङौ** (6.4.77) इत्यस्मिन् सूत्रे **दीङो युडचि क्ङिति** (6.4.63) इत्यस्मात् 'अचि' इति पदम् अनुवर्त्य अस्य सूत्रस्य — 'अजादि-प्रत्यये परे, अच्-प्रत्यये च परे उवङ्-आदेशः भवति' एतादृशः अर्थः क्रियते, येन विधानसामर्थ्यात् अत्र अवश्यम् उवङ्-आदेशः भवति ।]
→ लोलुव
अनेन प्रकारेण भाष्यकारेण अत्र विविधाः कॢप्तीः उक्त्वा, अन्ते प्रकृतसूत्रम् अनावश्यकम् प्रतिपाद्य तस्य प्रत्याख्यानम् कृतम् अस्ति । अस्मिन् सन्दर्भे अधिकम् पिपठिषवः भाष्यम् प्रदीपोद्योतम् च पश्येयुः ।
Sutrartha (English)¶
If a part of धातु gets removed due to an आर्धधातुक प्रत्यय, then that प्रत्यय cannot cause any गुण or वृद्धि on the इक् letter of the remaining part of that धातु.
Vasu English Summary¶
The गुण and वृद्धि substitutions which otherwise would have presented themselves do not take place, when such an आर्धधातुक (3.4.114) affix follows, which causes a portion of the root to be elided.
Vasu English Translation¶
The गुण and वृद्धि substitutions which otherwise would have presented themselves do not take place, when such an आर्धधातुक (3.4.114) affix follows, which causes a portion of the root to be elided. This is an exception to sūtra 3. By that sūtra iks were to be gunated or vriddhied and by sūtra (7.3.84), the root is to be gunated before all ardhadhatuka terminations. All primary affixes, that are applied directly to roots in Sanskrit, are divided into two broad classes, called sårvadhâtuka and årdhadhâtuka. The affixes marked with an indicatory श (called शित्), and the conjugational affixes, such as तिप्, तः &c., (called तिङ्) are sårvadhatuka; all other affixes are called årdhadhâtuka.
Though by the general rule, (7.3.84), the root is to be gunated before årdhadhâtuka terminations, yet it is not to be so, before those affixes which cause the लोप ‘lopping off or ellipses’ of a portion or a member of the original dhấtu. Thus the termination स्यामि is a first person singular termination of the future tense ( लृट् ) and is an ardhadhâtuka termination; when this is added to root जि ‘to excel’ the इ of जि becomes gunated and we have जेष्यामि “I shall or will excel.” But in those cases where there is a lopa of the member of a root form, caused by an affix, there is no guṇation. Thus in लोलुवः “a great cutter”, the original root is लू “to cut” which forms the Intensive verb लोलूय. In forming the noun of agency from the verb लोलूय, an ardhadhatuka suffix अच् (3.1.134), is added. Thus लोलूय+अच्. At this stage, by force of sūtra (2.4.74) which declares that “before the affix अच् (3.1.134) the य of the Intensive verb must be suppressed,” the ya is dropped and we have लोलू+अ. Here by the general rule (7.3.84), the final ऊ would have been gunated. But by virtue of the present sūtra, no guna takes place, because here on account of the ardhadhâtuka affix अच्, a portion of the root, namely, य, has been elided; therefore no guņa takes place. Thus we have लोलुवः “a great cutter.”
The word धातु “root” has been used in the sûtra, in order to indicate that the exception does not apply where there is an elision of an anubandha or of an affix. As in लूञ्+इता = लो+इता = लविता. Here the indicatory letter ञ् has been elided, but that does not prevent gunation. Similarly in रेड् the affix विच् is added to the root रिष् “to injure.” Thus रिष्+विच् (3.2.75) = रिष्+व् (1.3.2) and (1.3.3) = रिष्+० (6.1.67). Here the affix व् is elided, but nevertheless, the guṇa substitute must take place in रिष्. Thus we have रिष्+० = रेष् (7.3.86) and (1.1.62) = रेड् (8.2.39).
The word ardhadhâtuka has been used to indicate that a sarvadhatuka affix which causes the elision of a portion of a root, does not prevent guna or vriddhi as in रोरवीति, (Rig Veda IV.58.3) “he roars much”. रू+यङ् = रोरुव (3.1.22). रोरुय+तिप् = रोरु+ति (2.4.74). Here the sarvadhatuka affix तिप् causes the elision of य, a portion of the root. The guna substitution however takes place, and we have रोरो+ई+ति (7.3.94) = रोरवीति, the augment ईट् being added by sūtra (7.3.94).
The word “ikah” of the previous sūtra is understood in this sūtra also. The ik letters only are not gunated or vriddhied before such ardhadbatuka affixes; the other vowels may do so. Thus in अभाजि the equation is as follows:- अ+भञ्ज्+चिण् = अ+भज्+इ (6.4.33). Here the ardhadhátuka affix चिण् has caused a portion of the root भञ्ज्, to be suppressed, vis., the letter ञ् has been elided. But nevertheless the अ of भज् is vriddhied before चिण् because अ is not included in the pratyahara ik ; and the exception contained in the present sutra only applies to the ik letters. So also रञ्ज्+घञ् (3.3.18) = रज्+अ (6.4.27) = रागः (7.2.116) and (7.3.52).
Bhashya¶
न धातुलोप आर्धधातुके धातुग्रहणं किमर्थम्? इह मा भूत्। लूञ्ञ्- लविता। लवितुम्। पूञ्ञ्- पविता। पवितुम् । आर्धधातुकग्रहणं किमर्थम्? त्रिधा बद्धो वृषभो रोरवीति । किं पुनरिदमार्धधातुकग्रहणं लोपविशेषणम्। आर्धधातुकनिमित्ते धातुलोपे सति ये गुणवृद्धी प्राप्नुतस्ते न भवत इति। आहोस्विद् गुणवृद्धिविशेषणमार्धधातुकग्रहणम्। धातुलोपे सत्यार्धधातुकनिमित्ते ये गुणवृद्धी प्राप्नुतस्ते न भवत इति । किं चातः? यदि लोपविशेषणम्। उपेद्धः प्रेद्धः अत्रापि प्राप्नोति। अथ गुणवृद्धिविशेषणम्। क्नोपयतीत्यत्रापि प्राप्नोति । यथेच्छसि तथास्तु। अस्तु लोपविशेषणम् । कथमुपेद्धः प्रेद्ध इति? बहिरङ्गो गुणः। अन्तरङ्गः प्रतिषेधः। असिद्धं बहिरङ्गमन्तरङ्गे । यद्येवं नार्थो धातुग्रहणेन। इह कस्मान्न भवति। लूञ्ञ् लविता। लवितुम्। लवितव्यम् - इति? आर्धधातुकनिमित्ते लोपे प्रतिषेधः। न चैष आर्धधातुकनिमित्तो लोपः। अथवा पुनरस्तु गुणवृद्धिविशेषणम् । ननु चोक्तं क्नोपयतीत्यत्रापि प्राप्नोति ? नैष दोषः। निपातनात् सिद्धम्। किं निपातनम्। चेले क्नोपेः इति । परिगणनं कर्तव्यम्। ॥ यङ्यक्क्यवलोपे प्रतिषेधः । यङ्यक्क्यवलोपे प्रतिषेधो वक्तव्यः। यङ्। बेभिदिता। मरीमृजः। यक्। कुषुभिता। मगधकः। क्य। समिधिता। दृषदकः। वलोपे- जीरदानुः। किं प्रयोजनम् ? ॥ नुम्लोपेस्रिव्यनुबन्धलोपेऽप्रतिषेधार्थम् ॥। नुम्लोपे स्रिव्यनुबन्धलोपे च प्रतिषेधो मा भूदिति। नुम्लोपे। अभाजि। रागः। उपबर्हणम्। स्रिवेः अस्रेमाणम्। अनुबन्धलोपे- लूञ्ञ् लविता लवितुम्। यदि परिगणनं क्रियते स्यदः प्रश्रथः हिमश्रथ इत्यत्रापि प्राप्नोति । वक्ष्यत्येतत्- निपातनात् स्यदादिषु इति। तत्तर्हि परिगणनं कर्तव्यम् ? न कर्तव्यम्। नुम्लोपे कस्मान्न भवति ? इक्प्रकारणान्नुम्लोपे वृद्धिः। इग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। न चैषेग्लक्षणा वृद्धिः। यदीग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। स्यदः हिमश्रथः इत्यत्र न प्राप्नोति। इह च प्राप्नोति । अवोदः एधः ओद्मः इति । ॥ निपातनात्स्यदादिषु ॥। निपातनात् स्यादादिषु प्रतिषेधो भविष्यति। न च भविष्यति । यदीग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। स्रिव्यनुबन्धलोपे कथम् ? प्रत्ययाश्रयत्वादन्यत्र सिद्धम्। आर्धधातुकनिमित्ते लोपे प्रतिषेधः। न चैष आर्धधातुकनिमित्तो लोपः । यद्यार्धातुकनिमित्ते लोपे प्रतिषेधः, ‘जीरदानुः’ (ऋ॰ सं॰ ५।८३।१) अत्र न प्राप्नोति । ॥ रकि ज्यः सम्प्रसारणम् ॥ नैतज्जीवे रूपम्। रकि एतद् ज्यः सम्प्रसारणं भवति। यावता चेदानीं रकि जीवेरपि सिद्धं भवति । कथमुपबर्हणम् ? बृहिः प्रकृत्यन्तरम्। कथं ज्ञायते बृहिः प्रकृत्यन्तरमिति ? अचीति हि लोप उच्यते। अनजादावपि दृश्यते-निबृह्यते। अनिटीति चोच्यते। इडादावपि दृश्यते- निबर्हिता निबर्हितुम् इति। अजादावपि न दृश्यते- बृंहयति। बृंहकः। तस्मान्नार्थः परिगणनेन । यदि परिगणनं न क्रियते। भेद्यते छेद्यते अत्रापि प्राप्नोति । नैष दोषः। धातुलोप इति नैवं विज्ञायते- धातोर्लोपो धातुलोपो धातुलोपे इति। कथं तर्हि ? धातोर्लोपो यस्मिंस्तदिदं धातुलोपं धातुलोपे इति। तस्मादिग्लक्षणा वृद्धिः । यदि तर्हीग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। पापचकः। पापठकः। मगधकः। दृषदकः। अत्र न प्राप्नोति । अल्लोपस्य स्थानिवत्त्वात्। अकारलोपे कृते तस्य स्थानिवद्भावात् गुणवृद्धी न भविष्यतः । ॥ अनारम्भो वा ॥ अनारम्भो वा पुनरस्य योगस्य न्याय्यः । कथं बेभिदिता। मरीमृजकः। कुषुभिता। मगधकः। समिधिता इति ? अत्राप्यकारलोपे कृते तस्य स्थानिवद्भावाद् गुणवृद्धी न भविष्यतः । यत्र तर्हि स्थानिवद्भावो नास्ति तदर्थमयं योगो वक्तव्यः। क्व च स्थानिवद्भावो नास्ति? यत्र हलचोरादेशः। लोलुवः। पोपुवः। मरीमृजः। सरीसृपः इति । अत्राप्यकारलोपे कृते तस्य स्थानिवद्भावाद् गुणवृद्धी न भविष्यतः । लुकि कृते न प्राप्नोति। इदमिह सम्प्रधार्यं लुक् क्रियतामल्लोपो वेति। किमत्र कर्तव्यम्? परत्वादल्लोपः। नित्यो लुक्। कृतेप्यल्लोपे प्राप्नोति अकृतेपि प्राप्नोति। लुगप्यनित्यः। कथम्। अन्यस्य कृते लोपे प्राप्नोति, अन्यस्याकृते। शब्दान्तरस्य च प्राप्नुवन् विधिरनित्यो भवति । अनवकाशस्तर्हि लुक्। सावकाशो लुक्। कोऽवकाशः? अवशिष्टः। अथापि कथंचिदनवकाशो लुक् स्यादेवमपि न दोषः। अल्लोपे योगविभागः करिष्यते। अतो लोपः। ततो यस्य। यस्य च लोपो भवति। अत इत्येव। किमर्थमिदम्। लुकं वक्ष्यति तद्बाधनार्थम्। ततो हलः। हल उत्तरस्य यस्य च लोपो भवति। इह तर्हि परत्वाद् योगविभागाद्वा लोपो लुकं बाधेत। कृष्णो नोनाव वृषभो यदीदम्। (ऋ 1,79,2) नोनूयतेर्नोनाव। समानाश्रयो लुक् लोपेन बाध्यते। कश्च समानाश्रयः? यः प्रत्ययाश्रयः। अत्र च प्रागेव प्रत्ययोत्पत्तेर्लुग् भवति। कथं स्यदः प्रश्रथः हिमश्रथः। जीरदानुः। निकुचितः इति। ॥ उक्तं शेषे ॥। किमुक्तम्। निपातनात् स्यदादिषु। प्रत्ययाश्रयत्वादन्यत्र सिद्धम्। रकिः ज्यः सम्प्रसारणम्। निकुचितेऽप्युक्तम्। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति।
Kashika¶
धात्वेकदेशो धातुः, तस्य लोपो यस्मिन्नार्धधातुके तदार्धधातुकं धातुलोपम्, तत्र ये गुणवृद्धी प्राप्नुतस्ते न भवतः। लोलुवः। पोपुवः। मरीमृजः। लोलूयादिभ्यो यङन्तेभ्यः पचाद्यचि (३.१.१३४) विहिते यङोचि च (२.४.७४) इति यङो लुकि कृते तमेवाचमाश्रित्य ये गुणवृद्धी प्राप्ते तयोः प्रतिषेधः। धातुग्रहणं किम्? लूञ् — लविता। रेड॑सि (मा०सं० ६.१८)। पर्णं नयेः। अनुबन्धप्रत्ययलोपे मा भूत्। रिषेर्हिंसार्थस्य विच्प्रत्ययलोप उदाहरणं रेडिति। आर्धधातुक इति किम्? त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति (ऋ० ४.५८.३)। सार्वधातुके मा भूत्। इक इत्येव — अभाजि। रागः। बहुव्रीहिसमाश्रयणं किम्? क्नोपयति। प्रेद्धम्॥
Siddhanta Kaumudi¶
धात्वंशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धी न स्तः इति नेह निषेधः । तिबादीनामनार्धधातुकत्वात् । तोतोर्ति । हलि च (SK354) इति दीर्घः । तोतूर्तः । तोतूर्वति । तोथोर्ति । दोदोर्ति । दोधोर्ति । मुर्छा । मोमूर्च्छीति । मोमोर्ति । मोमूर्तः । मोमूर्छतीत्यादि । आर्धधातुक इति विषयसप्तमी । तेन यङि विवक्षिते अजेर्वी । वेवीयते । अस्य यङ्लुङ्नास्ति । लुकापहारे विषयत्वाभावेन वीभावस्याप्रवृत्तेः ॥
Tattvabodhini¶
न धातुलोप आर्धधातुके - ज्वर रोगे । ञित्वरा संभ्रमे । अत्र वृत्तौझलादौ क्ङिती॑त्युक्तं तत्र क्ङितीत्येतद्रभयसकृतमेवेत्याह — क्ङितीति नानुवर्तत इति । अवतेस्तुनीति ।ज्वरत्वरे॑त्युपधावकारयोरूठि गुणे च कृते मन्प्रत्ययस्य टिलोपे चोमिति सिध्यतीत्यर्थः । ज्वरादेरुदाहरणं क्विपि जूः । जुरौ । जुरः । झलादौ तु — जूर्तिः । जूर्णः । जूर्णवान् । त्वर — तूः । तुरौ । तुरः । तूर्तिः । तूर्णः । तूर्णवान् । रिउआवि- स्रूः । रुआउवौ । रुआउवः । रुआऊतिः । अवि — ऊः । उवौ । उवः ।ऊतिः । मव — मूः । मुवौ । मूतः । मूतिः । मामोषीत्यादि । ईट्पक्षे मामवीषि । मामवीमि । मामवीतु । अमामवीत् । अमामवीरिति बोध्यम् । राल्लोपः ।च्छ्वोः शू॑डित्तश्च्छ्वोरित्यनुवर्तते । क्वावुदाहरणं — तूः । तुरौ तुरः । धुर्वी — धूः । धुरौ । धुरः । मुच्र्छा — मूः । मुरौ । मुरः ।
Padamanjari¶
‘दुरीणो लोपश्च’ दुःशब्द उपपदे इणो धातोरप्रत्ययो भवति, धातोश्च लोपः । दुःखेन ईयतेउप्राप्यते दूरमित्यत्र यद्यपि कृत्स्नस्य धातोर्लोपः संभवति, तथाप्येवंविषये गुणवृद्ध्योः प्राप्त्यभावादेकदेशे धातुशब्दो वर्तत इत्याह - धात्वेकदेश इति । ‘धातुलोप’ इति तत्पुरुषे सति आर्द्धधातुकग्रहणं लोपविशेषणम्, गुणवृद्धिविशेषणम्, उभयविषेषणं वा-इति त्रयः कल्पाः । तत्र यदि लोपविशेषणम् - आर्द्धधातुकनिमिते धातुलोपे सति यत्किञ्चिद् निमिते गुणवृद्धी न भवत इत्यर्थः स्यात् । ततश्च प्रेद्धम् इत्यत्र प्रपूर्वादिन्धेः क्तप्रत्यये तन्निमिते नलोपे सति प्राप्नुवत आद्गुणस्यापि निषेधः स्यात् । यद्यपीक इत्यनुवर्तते, तथापि द्वयोः षष्ठीनिर्द्दिष्टयोः स्थाने भवन्नन्यतरव्यपदेशं लभत इति स्यादेव । न चेह सूत्रे ‘इक’ इत्यस्य रूपपरत्वे प्रमाणमस्ति । उतरसूत्रे तु प्रमाणं वक्ष्यामः । ननु ‘पूर्वं धातुः साधनेन युज्यते’ इत्यस्मिन् दर्शने प्रथमोपनतक्तप्रत्ययापेक्षत्वादुपधालोपोऽन्तरङ्ग इति तदपेक्षः प्रतिषेधोऽप्यन्तरङ्गः, ‘पूर्वं धातुरुपसर्गेण युज्यते’ इति तु दर्शने प्रथमोपनतोपसर्गापेक्षत्वाद् गुणोऽन्तरङ्गः, ततश्च ‘असिद्धं बहिरङ्गमन्तरङ्गे’ इति प्रतिषेधो न भविष्यति ? नैतदस्ति; ङाजानन्तर्ये’ इति निषेधात् । अथ गुणवृद्धिविशेषणमार्द्धधातुकग्रहणम्, ततोऽयमर्थः स्यात् - यत्किञ्चन निमिते धातुलोपे सत्यार्द्धधातुकनिमिते गुणवृद्धी न भवत इति ; तदा प्रेद्धमित्यत्र दोषो न, गुणस्यातन्निमितत्वात्; किन्तु क्नोपयतीत्यत्र ‘क्नूयी शब्दे’ इत्यस्माण्णिचि पुकि च यलोपे पुगन्तलक्षणस्य गुणस्य निषेधः स्याद् । अत उभयविशेषणम् - आर्द्धधातुकनिमिते धातुलोपे सत्यार्द्धधातुकनिमिते गुणवृद्धी न भवत इति । तत्र सकृच्छ्4%अतस्योभयविशेषणत्वमेव तावद् दुर्लभम् ? अथापि स्याद्, एवमपि लोपगुणवृद्धीनामेकार्द्धधातुकनिमितत्वं न लभ्यते । ततश्च विभज्यान्वाख्यानपक्षे भेद्यत इत्यत्र भिदेर्ण्यन्तात्कर्मणि यकि भिद् अ इ अ य इति स्थिते नित्यत्वात्पूर्वं णिलोपे कृते यकमपेक्ष्य प्रवृते? प्रत्ययलक्षणेन णिचमपेक्ष्य प्राप्नुवतो गुणस्य निषेधः स्याद्, द्वयोरप्यार्द्धधातुकनिमितत्वादिति तत्पुरुषे सति सर्वथा दोषं दृष्ट्वाऽऽह - ऽतस्य लोपो यस्मिन्निऽति । अस्मिन्पक्षे धातोर्लोपो यस्मिन्निति अन्यपदार्थभूतेनार्द्धधातुकेन लोपो विशेष्यते, साक्षाच्च गुणवृद्धी, धातोर्लोपो यस्मिन् तस्मिन्निति । एकार्द्धधातुकनिमितत्वं च लोपगुणवृद्धीनां लभ्यत इति न कश्चिद् दोषः । ऽते न भवतऽ इति । अनेन गुणवृद्ध्योरयं निषेधः, न पूर्वसूत्रव्यापारस्येति दर्शयति । पदोपस्थापनं हि पूर्वसूत्रव्यापारः । न चैवम्भूत आर्द्धधातुके तस्य प्रसङ्गः, ‘दीधीवेवीटाम्’ इति चासम्बद्धं स्यादुपस्थाननिषेधे । ऽलोलुवऽ इत्यादि । लूपूभ्यां यङ्, द्विर्वचनम्, ‘गुणो यङ्लुकोः’ गुणे निषिद्धे उवङ् । ऽमरीमृज ऽइति । ‘रीगृदुपधस्य च’ । लोलूयादिभ्य इत्यादिना सूत्रार्थमुदाहरणेषु दर्शयति । ननु च यङ्कारस्यातो लोपे कृते तस्या स्थानिवत्वादेव गुणवृद्धी न भविष्यतः, यथा - पापचक इति ‘अत उपधायाः’ इति वृद्धिः, न ह्यत्रानेन निषेधः सिध्यति, किं कारणम् ? अनिग्लक्षणत्वात् । नालोपो लभ्यते, ‘यङेऽचि च ‘ इति समुदायलुका प्रतिपदविहितेन बाधितत्वात् । योगविभागात्सिद्धम् - अतो लोपो भवत्यार्द्धधातुके, ततो ‘यस्य’ य इत्यस्य समुदायस्य योऽकारस्तस्यापि लोपो भवति । किमर्थमिदम् ? विशेषविहितेन समुदायलुकाऽतो लोपो मा बाधीति । तेन स्थानिवत्वादेव गुणवृद्धी न भविष्यतः । यथैव तर्हि गुणवृद्धी न भवत एवं चेक्षियः, चेक्रियः, लोलुवः, तोष्टुअवः, सुश्रुव इतीयणुवङवप्यच्प्रत्ययमपेक्ष्य न स्याताम् । मा भूतामचि, य एव त्वसौ स्थान्यकारस्तदाश्रयौ भविष्यतः । स हि यकारे लुप्ते प्रत्ययसंज्ञकः । ननु क्षेत्रियः तोष्टुअव इत्यत्रान्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधत इति अकृत्सार्वधातुकयोर्दीर्घात् प्रागेव यङे लुकि कृते स्थानिवद्भावे सत्यपि चेक्षि अ अ, तोष्टुअ अ अ इति स्थिते स्थान्यकारेण सह लघूपधमङ्गं संजातमिति अच्प्रत्यये गुणः स्यादेव ; न अन्तरङ्गावियणुवङै भविष्यतः, अशिश्रियद् अदुद्रुवद् इति यथा । अतः स्थानिवत्वादेव सिद्धम्, नार्थोऽनेन ? उच्यते; सर्वत्र दीर्घान्तेषु ह्रस्वान्तेषु चेयणुवङेः कृतयोः पुनर्लघूपधलक्षणो गुणः प्राप्नोति । न च पुनरपि स्थानिवद्भावः, आदिष्टादचः पूर्वत्वात् । किञ्च यद्यतो लोपः क्रियेत, जङ्गम इत्यत्र ‘गमहन्’ इत्युपधालोपः स्यात् । अथात्रानङीति प्रतिषेधस्तर्हि दरीदृश इत्यत्र ‘ऋदृशोः’ इति गुणः स्याद्; देद्य इत्यत्र ‘दीङे युडचि’ इति युट् स्यात्; सनीस्रंसः, दनीध्वंस इत्यत्र ‘अनिदिताम्’ इत्युपधालोपः स्यात्; यायावर इत्यादिष्वाकारलोपः स्यात् । यदा पुनर्योगविभागमकृत्वा विशेषविहितः समुदायलुक् क्रियते, तदा हलचोरादेशस्य स्थानिवत्वाभावादुपधालोपादयो न भवन्तीत्यवश्यं समुदायस्य लुगेषितव्यः । एवं च लोलुव इत्यादावपि गुणवृद्धी स्यातामिति सूत्रमपि कर्तव्यम् ॥ ऽलूञ् लवितेऽति । प्रागेव धातुसंज्ञाया भवन्ननुबन्धलोपो धातुलोपो न भवति । ऽरेडसीऽति । ‘रुष रिष हिंसायाम्’ । ‘अन्येभ्योऽपि दृश्यन्ते’ इति विच्, वेरपृक्तस्य लोपः - न धातुलोपो भवति । नन्वसत्यपि धातुग्रहणे लुप्यतेऽस्मिन्नित्यधिकरणसाधनलोपशब्दस्याश्रयणादनैमितिकेऽनुबन्धप्रत्ययलोपे न भविष्यति । तत्र लोपशब्दो हि संज्ञाशब्दः, कथमस्याधिकरणसाधनता लभ्यते । ऽरोरवीतीऽति । ‘रु शब्दे’ यङ्लुकि तिपि रूपम् । नन्वसत्यप्यार्धधातुकग्रहणे धातोर्लोपो यस्मिन्निति बहुव्रीहिर्विज्ञास्यते, रोरवीतीत्यत्र च यङ्लुगनैमितिकः । न ह्यार्द्धधातुकग्रहणं बहुव्रीहित्वे प्रमाणम्; सत्यपि तस्मिंस्तत्पुरुषसम्भवात् । इदं तर्हि प्रयोजनम् - ‘तुर्वी थुर्वी धुर्वी हिंसार्थाः’, मुर्छा मोहसमुच्छ्राययोः, तेभ्यो यङ्लुगन्तेभ्यस्तिबादौ सार्वधातुके परतो राल्लोपे तोतोर्ति मोमोर्तीत्यादौ छरवोर्लोपस्य गुणस्य चैकनिमितत्वान्निषेधः स्यादेव । ऽइक इत्येवेऽति । इक इत्यस्यानुवृत्तिं प्रति न शङ्का कार्येत्येवशब्दस्यार्थः । अतः अभाजि, राग इति ‘भञ्जेश्च चिणि’, ‘घञि च भावकरणयोः’ इत्युपधालोपः ॥ प्रक्रियातर्कगहनप्रविष्टो हृष्टमानसः । हरदतहरिः स्वैरं विहरन् केन वार्यते ॥
Nyaas¶
उक्तपरिमाणस्य शब्दस्य धातुसञ्ज्ञा कृता। तस्य सर्वस्य लोपे कृते यत्र गुणवृद्धी प्राप्नुतस्तदार्धधातुकेन सम्भवत्येव, तत् किं प्रतिषेधेन? तस्मात् प्रतिषेधविधानसामर्थ्याद्धात्वेकदेशे धातुशब्दो वर्तत इति मत्वाह- धात्वेकदेशो धातुः इति। धातुलोपे`इति। यद्ययं धातोर्लोपो धातुलोप इति तत्पुरूषः, तत आर्धधातुकग्रहणं गुणवृद्धिविशेषणं वा स्यात्- `धा4तुलोपे सत्यार्धधातुकनिमित्ते ये गुणवृद्धी प्राप्नुतस्ते न भवतः इति। लोपविशेषणं वा स्यात्-` आर्धधातुकनिमित्ते धातुलोपे सति गुणवृद्धी न भवतः` इति? पूर्वस्मिन् क्नोपयति`इत्यत्र प्रतिषेधः प्राप्नोति। तत्र प्रतिविधानं कर्तव्यम्। द्वितीये तु न भवत्येष दोषः। न हि `क्नोपयति इत्यत्रार्धधातुकनिमित्तलोपः, किं तर्हि, कतवल्निमित्तकः। किन्तु द्वितीये पक्षे प्रेद्धमित्यत्र प्राप्नोति। अस्ति ह्यत्रार्धधातुकनिमित्तो लोपः। ननु चेग्लक्षणयोर्गुणवृद्धयोरयं प्रतिषेधः; न चात्रेग्लक्षणो गुणः? नैतदस्ति; अत्रापीग्लक्षण एव गुणो यो ह्रुभयोः स्थाने भवति, लभते सोऽन्तयतरव्यपदेशम्। तथा हि- मातुः, पितुः इत्यत्रोभयोः स्थाने भवन् रपरोऽण् भवति। तस्माल्लोपविशेषणपक्षेऽपि तत्पुरुषे प्रतिविधानंकर्तव्यमेव। बहुव्रीहौ तु न किञ्चित् प्रतिविधेयमिति मन्यमानो बहुव्रीहिरयमिति दर्शयन्नाह- तस्य इत्यादि। एतेन लोपविशेषणमार्धधातुकमित्येतद्दर्शितं भवति। एवं चार्धधातुके सम्भवति यदि तत्तस्य निमित्तं भवति, ततश्च क्नोपयतीत्यत्रातिप्रसङ्गोनावतरति। तत्र इत्यादि। नापि गुणवृद्ध्योरार्धधातुकं निमित्त्वेन विशेषणमित्या-ख्यातम्। ततश्च प्रेद्धमित्यत्राप्यतिप्रसङ्गो न भवति, न ह्राद्गुण आर्धधातुक-निमित्तः। ये ते इति। स्त्रीलिङ्गनिर्देशः गुणवृद्धी`इत्यनेन स्त्रीलिङ्गेन सामानाधिकरण्यात्। अस्य तु स्त्रीलिङ्गता **परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः** (2.4.26) इत्यतिदेशात्। अर्थस्य च सोऽतिदेश इति यत्तदोरपि तत्रार्थे वर्तमानयोः स्त्रीलिङ्गता भवति। ननु च नियमस्य प्रकृतत्वात् तस्यैवायं प्रतिषेधो युक्तः, तत् किमित्येवमाह-`तत्र ये गुणवृद्धी प्राप्नुतस्ते न भवतः इति। तयोः प्राधान्यात्। तत् पुनर्नियमेनोपक्रियमाणत्वात्, नियमस्य तु तादथ्र्यादप्राधान्यम्। तस्माद्गुणवृद्धयोरेवायं प्रतिषेधो न्याय्यः।लोलुवः, पोपुवः इति। लूञ् छेदने (धातुपाठः-1483), पूञ् पवने (धातुपाठः-1482)इत्येताभ्यां `धातोरेकाचः (3.1.22) इत्यादिना यङ्, सन्यङो (6.1.9) इति द्विर्वचनम्, गुणोयङलुकोः (7.4.82) इत्यभ्यासस्य गुणः, यङन्तात् पचाद्यचि यङोऽचि च (2.4.74) इति लुकि तन्निमित्तगुणप्रतिषेधः, तस्मिन् सति अचि श्नुधातुकभ्रुवाम् (6.4.77) इत्यादिनोवङ। मरीमृजः इति। मृजू शुद्धौ (धातुपाठः-1066), पूर्ववद्यङ, द्विर्वचनम्, उरदत्त्वम्, (7.4.66) हलादिः शेषः (7.4.60) रीगृदुपधस्य च (7.4.90) इतिरीगागमः। लोलूयादिभ्य इत्यादिशब्देन पोपूय, मरीमृज्य इत्येतयोग्र्रहणम्। लूञ्-लविता इति। यावदेव धातुसञ्ज्ञा न भवति तावदेव सर्वविधिभ्यो लोपविधिर्बलीयात् (व्या।प।70) इति ञकारस्य लोपो भवति, पश्चाल्लू इत्येतस्य धातुसञ्ज्ञा, तेन ञकारलोपो धातुलोपो न भवतीति भवति प्रत्युदाहरणम्। रेड् ` इति। `रिष रुष हिंसायाम् (धातुपाठः-1232,1230), अन्येभ्योऽपि दृश्यन्ते (3.2.75) इति विच्, इकारचकारौ वेरपृक्तस्य (6.1.67) इत्यत्र सामान्यग्रहणाविघातार्थो, वकारस्य चानेनैव लोपः, पुगन्तलघूपध्स्य च (7.3.86) इति गुणः। झलां जशोऽन्ते (8.2.39) इति षकारस्य डकारः। ननु च द्वयङ्गविकले द्वे अपि एते प्रत्युदाहरणे, तथैव ह्यत्र धातुलोपो न भवति, एवमार्धधातुकनिमि-त्तोऽपि न भवति, नैतदस्ति; सति हि धातुग्रहणे पदद्वयसान्निध्याद्बहुव्रीहिर्लभ्यते। तस्मश्च सत्यार्धधातुकनिमत्तत्वं लोपस्य। असति हि धातुग्रहणे न लोप आर्धधातुके इत्युच्यमाने आर्धधातुकाश्रये ये गुणवृद्धी प्रतिषेधः स्यात्। `रोरवीति इति। रु शब्दे (धातुपाठः- 1034) इत्यस्माद्यङ, बहुलं छन्दसि (7.4.78) इति यङो लुक्, लट्,तिप्, शप्। अदादित्वाच्छपो लुक् (2.4.72(,`यङो वा`7.3.94) इतीट्। अत्रसार्वधातुकनिमित्तो गुणो न प्रतिषिध्यते। ननु च द्वयङ्गविकलमेवेदम्, यथैवह्रार्धधातुकनिमित्तो गुणो न भवत्येवं लोपोऽपि? नैतदस्ति; सति ह्रार्धधातुकग्रहणेऽन्यपदार्थत्वे न तस्याश्रयणात् तन्निमित्तो लोपो लभ्यते, तस्मश्च सति न धातुलोपे इतीयत्युच्यमाने ये केचन गुणवृद्धी ते च लोपे सति भवतः इत्येष वाक्यार्थःस्यात्। ततश्चाविशेषितत्वाल्लोपस्य लोपमात्रे प्रतिषेधो विज्ञायते। अभाजि इति। भञ्जो आमद्र्दने (धातुपाठः- 1453),लुङ्, च्लिः, चिण् भावकर्मणोः (3.1.66) इति चिण्,`इणो लुक्` (6.4.104) इति तशब्दस्य लुक्, भञ्जेश्च चिणि (6.4.33) इत्यनुनासिकलोपः। रागः इति। अत्रापि घञि च भावकरणयोः (6.4.27) इति नलोपः। रञ्ज रागे (धातुपाठः-1167), भावे घञ्। यद्यप्यत्र रुआवमस्ति तथापीक इत्यत्रानुवृत्तेरिह चेकोऽसम्भवात् अत उपधायाः (7.2.116) इति वृद्धेः प्राप्तायाः प्रतिषेधो न भवति। क्नोपयति इति। क्नूयी शब्दे (धातुपाठः-485), हेतुमति च (3.1.26) इति णिच्, अर्त्तिह्यी गुणः। प्रेद्धम् इति। ञीन्धी दीप्तौ (धातुपाठः-1448), क्तः, अनिदिताम् (6.4.24) इत्या-दिनानुनासिकलोपः, झषस्तर्थोर्घोऽधः (8.2.40) इति तकारस्य धत्वम्। झलां जश् झशि (8.4.53) इति धातुधकारस्य दकारः, प्रगतमिद्धमिति कुगतिप्रादयः (2.2.18) इति समासः।
Prakriyasarvasvam¶
धात्वंशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धी न स्तः । उवङ् । लोलुवः । रोरुधः । नेनीयजेजीययोर्यङो लुकि गुणाभावादियङि प्राप्ते,