11002: अदेङ् गुणः¶
Padacheda: अत्-एङ् | S | 1 | 1 |
गुणः | S | 1 | 1 |
Sutrartha¶
अ, ए, ओ - एतेषां त्रयाणां ‘गुणः’ इति संज्ञा भवति ।
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति ‘गुण’ इति संज्ञा ।** ‘अ’, ‘ए’, ‘ओ’ एते त्रयः वर्णाः अनेन सूत्रेण गुणसंज्ञकाः भवन्ति ** । यथा, “हरिः” इत्यत्र विद्यमानः हकारोत्तरः अकारः, “देवः” इत्यत्र विद्यमानः दकारोत्तरः एकारः, तथा च “गोविन्दः” इत्यत्र विद्यमानः गकारोत्तरः ओकारः - एते सर्वे गुणसंज्ञकाः सन्ति ।
गुणसंज्ञायाः प्रयोजनम्
गुणसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उच्यन्ते । कानिचन उदाहरणानि एतानि — 1. ऋतो ङिसर्वनामस्थानयोः (7.3.110) इत्यनेन सूत्रेण ऋकारस्य गुणः भवति । अत्र ऋकारस्य स्थाने गुणसंज्ञकः अकारः आगच्छति । यथा -
पितृ + औ [प्रथमाद्विवचनस्य 'औ' प्रत्ययः]
→ पितर् + औ [**ऋतो ङिसर्वनामस्थानयोः** (7.3.110) इत्यनेन ऋकारस्य गुणः अकारः । **उरण् रपरः** (1.1.51) इति सः रपरः]
→ पितरौ
जसि च (7.3.109) इत्यनेन सूत्रेण इकारस्य गुणः भवति । अत्र इकारस्य स्थाने गुणसंज्ञकः एकारः विधीयते । यथा,
मति + जस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः]
→ मति + अस् [इत्संज्ञालोपः]
→ मते + अस् [**जसि च** (7.3.109) इत्यनेन इकारस्य गुणादेशः एकारः]
→ मतय् + अस् [**एचोऽयवायावः** (6.1.78) इति अयादेशः]
→ मतयः [**ससजुषो रुः** (8.2.66), **खरवसानयोर्विसर्जनीयः** (8.3.15)]
सार्वधातुकार्धधातुकयोः (7.3.84) इत्यनेन सूत्रेण उवर्णस्य गुणः भवति । अत्र उकारस्य स्थाने गुणसंज्ञकः ओकारः विधीयते । यथा,
भू + अनीयर् [कृत्संज्ञकः अनीयर्-प्रत्ययः]
→ भू + अनीय [इत्संज्ञालोपः]
→ भो + अनीय [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति उकारस्य गुणः ओकारः]
→ भव् + अनीय [**एचोऽयवायावः** (6.1.78) इति अवादेशः]
→ भवनीय ।
गुणसंज्ञा तथा गुणसन्धिः
यस्मिन् सन्धौ द्वयोः स्वरयोः एकत्रीकरणम् कृत्वा उभयोः स्थाने एकः गुणसंज्ञकः वर्णः विधीयते, सः सन्धिः सामान्यरूपेण गुणसन्धिः इति नाम्ना ज्ञायते । यथा, “महा + ईशः → महेशः” इत्यत्र प्रक्रियायाम् आद्गुणः (6.1.87) इति सूत्रेण आकार-ईकारयोः मिलित्वा ए इति गुण-आदेशः भवति । अत्र गुणसंज्ञकः वर्णः आदेशरूपेण विधीयते, अतएव अस्य सन्धेः नाम गुणसन्धिः इति दीयते ।
तद्भावितस्य, अतद्भावितस्य च गुणसंज्ञा
प्रकृतसूत्रस्य व्याख्याने काशिकाकारः तद्भावितानाम् अतद्भावितानां च इति वाक्यं प्रयुङ्क्ते । अत्र विद्यमानयोः द्वयोः शब्दयोः अर्थौ एतादृशौ — 1. तद्भावितः वर्णः — यः अकारः / एकारः / ओकारः ‘गुणः भवति’ इति निर्देशेन सिद्ध्यति, सः अकारः / एकारः / ओकारः अत्र तद्भावितवर्णः इत्यनेन निर्दिष्टः अस्ति । यथा, “महेशः” इत्यस्मिन् शब्दे विद्यमानः एकारः आकार-ईकारयोः एकत्ररूपेण ‘गुणं’ कृत्वा सिद्ध्यति, अतः अयम् तद्भावितवर्णः अस्ति इति उच्यते । 2. अतद्भावितः वर्णः — यः अकारः / एकारः / ओकारः ‘गुणः भवति’ इति निर्देशं विना एव उपस्थितः अस्ति, सः वर्णः अतद्भावितवर्णः नाम्ना ज्ञायते । यथा, “अन्ति”इति प्रत्ययस्य आदौ विद्यमानः अकारः अतद्भावितवर्णः उच्यते । एतादृशम्, अकार/एकार/ओकाराणाम् द्वयोः गणयोः विभाजनं कृत्वा काशिकाकारः प्रकृतसूत्रस्य व्याख्याने इदं स्पष्टीकरोति, यत् उभयोः प्रकारयोः अकार/एकार/ओकाराणाम् (इत्युक्ते, तद्भावितानाम्, अतद्भावितानाम् च) प्रकृतसूत्रेण गुणसंज्ञा भवति । अतएव “अन्ति” इति प्रत्ययस्य आदौ विद्यमानम् अकारम् गुणसंज्ञकं स्वीकृत्य “पठ् + अ+ अन्ति” इत्यत्र अतो गुणे (6.1.97) इति सूत्रेण पररूप-एकादेशः भवति, येन “पठन्ति” इति रूपं सिद्ध्यति ।
सूत्रेषु प्रयोगः
अष्टाध्याय्यां ‘गुणः’ इति संज्ञा पञ्चदशसु सूत्रेषु साक्षात् प्रयुक्ता दृश्यते —
इको गुणवृद्धी (1.1.3)
आद्गुणः (6.1.87)
अतो गुणे (6.1.97)
ओर्गुणः (6.4.146)
स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः (6.4.156)
मिदेर्गुणः (7.3.82)
गुणोऽपृक्ते (7.3.91)
ह्रस्वस्य गुणः (7.3.108)
ऋतश्च संयोगादेर्गुणः (7.4.10)
ऋदृशोऽङि गुणः (7.4.16)
शीङः सार्वधातुके गुणः (7.4.21)
गुणोऽर्तिसंयोगाद्योः (7.4.29)
मुचोऽकर्मकस्य गुणो वा (7.4.57)
निजां त्रयाणां गुणः श्लौ (7.4.75)
गुणो यङ्लुकोः (7.4.82)
अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।
‘अदेङ्’ इत्यत्र तपरकरणस्य प्रयोजनम्
“अदेङ्” इत्यत्र “अत्” तथा “एङ्” इति पदद्वयम् विद्यते । तत्र “अत्” इत्यत्र अकारात् अनन्तरम् स्थापितः तकारः तात्कालिकभेदग्रहणार्थम् स्थापितः अस्ति । अयम् तकारः अकारेण सह, तथा च “एङ्” इत्यनेन सह अपि अन्वेति । इत्युक्ते, अकारेण जायमानम् सवर्णग्रहणम् (आकार-अ3कारयोः ग्रहणम्), तथा च एङ्-प्रत्याहारस्थवर्णाभ्याम् जायमानम् अपि सवर्णग्रहणं अत्र तकारनिर्देशसामर्थ्यात् तपरस्तत्कालस्य (1.1.70) इति सूत्रस्य साहाय्येन नियम्यते, येन केवलम् ह्रस्व-अकारस्य तथा च दीर्घ-एकार-ओकारयोः एव ‘गुण’संज्ञा भवति ।
Sutrartha (English)¶
The letters अ, ए and ओ are called ‘गुण’.
Vasu English Summary¶
अ, ए and ओ are called गुण।
Vasu English Translation¶
अ, ए and ओ are called गुण। Each one of the letters अ, ए and ओ whether radical or secondary is called a guna letter; as the initial vowels in the following:- अर्त्ति,”he moves”; एति “he comes”, ओखति “he goes.” Here the initial vowels of the roots ऋ, इ, and उख् have been respectively gunated into अर्, ए, and ओ before the third person singular termination ति.
The term Guna occurs in sutras like मिदेर्गुणः (7.3.82). “Let there be guna substitute for the ik of the root मिद् “to melt.”
Kashika¶
गुणशब्दः संज्ञात्वेन विधीयते प्रत्येकमदेङां वर्णानां सामान्येन तद्भावितानामतद्भावितानां च। तपरकरणं त्विह सर्वार्थम्। तरिता। चेता। स्तोता। पचन्ति। यजन्ति। अहं पचे। गुणप्रदेशाः — मिदेर्गुणः (७.३.८२) इत्येवमादयः॥
Siddhanta Kaumudi¶
अदेङ् च गुणसंज्ञः स्यात् ॥
Laghu Siddhanta Kaumudi¶
अत् एङ् च गुणसंज्ञः स्यात्॥
Balamanorama¶
अदेङ् गुणः - अदेङ्गुणः । संज्ञाप्रस्तावात्संज्ञेति लभ्यते । अच्च एङ् चेति समाहारद्वन्द्वः । तदाह — अदेङ् चेत्यादिना ।
Tattvabodhini¶
अदेङ् गुणः - अदेङ्गुणः । तपरकरणमिह सर्वार्थम् । तेनगङ्गोदक॑मित्यत्र त्रिमात्रो न ।तरती॑त्यत्र त्वकार एव, नतु कदाचिदाकारः । नच प्रमाणत आन्तर्येण नियमसिद्धिः, रपरत्वे कृते एकस्याध्यर्धमात्रत्वादपरस्यार्धतृतीयमात्रत्वात् । गुणप्रदेशास्तु-॒आद्गुणः॑अतो गुणे॑ इत्यादयः ।
Padamanjari¶
पूर्वेण तुल्यमेतत् । ऽतपरकरणं त्विह सर्वार्थमिऽति । न तु पूर्ववदन्यतरार्थमिति तु शब्दस्यार्थः । असति हि तस्मिन् दीर्घप्लुतयोरपि गुणसंज्ञा स्यात्; ततश्च तरतीति कदाचिदकारः स्यात्, कदाचिदाकारः, रपरत्वे कृत एकस्याध्यर्धमात्रत्वादपरस्यार्धतृतीयमात्रत्वात् । न चाकारस्य वृद्धिसंज्ञा बाधिका; एकसंज्ञाधिकारादन्यत्र संज्ञासमावेशात् । एङश्च त्रिमात्रचतुर्मात्रस्य गुणसंज्ञायाम्-रथेषा,खट्वेषा, अश्वोढः, वडवोढ इति त्रिमात्रतुर्मात्रौ स्याताम् । तरितेत्यादीनि तद्भावितानामदेङं क्रमेण रूपोदाहरणानि । पचन्ति जयन्तीत्यकारस्य कार्योदाहरणे । अत्रान्त्यकारे परतः शबकारस्य ‘अतो गुणे’ इति पररूपं भवति । एकारस्यातद्भावितस्योदाहरणम्-ऽअहं पचे ऽइति । ओकारस्य तु न संभवति ॥
Nyaas¶
तपरकरणं त्विह सर्वार्थम्िति। सर्वस्मिन्नर्थः प्रयोजनं यस्य तत्तथोक्तम्। तुशब्दः पूर्वस्माद्विशेषं दर्शयति। तत्र ह्रैजर्थमेव, इह तु सर्वार्थम्, अकारार्थमेङर्थमपि। असति हि तपरकरणं अदेङामणत्वात् सवर्णानां ग्रहणं सति भिन्नकालानामप्येषा सञ्ज्ञा स्यात्। ततश्च `तरिता इत्यत्रान्तरत्मयाद्दीर्घस्य दीर्घ एव गुणस्यात्।ननु च वृद्धिसञ्ज्ञा गुणसञ्ज्ञाया बाधिका भविष्यति, तत् कुतोऽयं प्रसङ्गः? नैतदस्ति। एकसञ्ज्ञाधिकारे हि सञ्ज्ञया सञ्ज्ञान्तरं बाध्यते, न चात्रेकसञ्ज्ञाधि-कारः। स्यादेतत्, असत्यप्येकसञ्ज्ञाधिकारे यथा जीवति तु वंश्ये युवा (4.1.163) इति गोत्रसञ्ज्ञा युवसञ्ज्ञया बाध्यते, यथा च लिट् च (3.4.115) , लिङाशिषि (3.4.116) इति चार्धधातुकसञ्ज्ञया सार्वधातुकसंज्ञा बाध्यते, तथा गुणसंज्ञा वृद्धिसञ्ज्ञया बाधिष्यते इति? अयुक्तमेतत। युवसञ्ज्ञाविधौ तुग्रहणं नियमार्थं क्रियते। ततो युक्तं यद्युवसञ्ज्ञया गोत्रसञ्ज्ञा बाध्यत इति। आर्धधातुकसञ्ज्ञाऽपि यत् सार्वधातुकसञ्ज्ञा बाध्यते तदपि युक्तमेव, छन्दस्युभयथा (6.4.86) ति वचनात्। यदि सार्व-धातुकार्धधातुकसञ्ज्ञयोः समावेशः स्यात्, न बाध्यबाधकभावः, तदा छन्दस्युभयथा (6.4.86) इति वचनमपार्थकं स्यात्। इह तु न किञ्चित् तथाविधं निबन्धनमस्ति, यतो वृद्धिसञ्ज्ञया गुणसञ्ज्ञा बाध्यते। अथापि कथञ्चिद्बाध्येत, एवमपि त्रिमात्रिकस्यापि गुण-सञ्ज्ञा स्यादेव। न हि सा तया शक्या बाधितुम्, तस्य अतद्विषयत्वात्। त्रिमात्रस्यापि गुणसञ्ज्ञायां सत्यां त्रिमात्रोऽपि गुणः प्रसज्यते। ऋकारस्य हि कालतो यथैकमत्रिकोऽकारोऽन्तरतमो न सम्भवति, तथा त्रिमात्रोऽपि, तत् कुत एतल्लभ्यते? ह्रस्वेनैवास्य गुणेन भवितव्यम् न हि त्रिमात्रेणाकारेणेति। किञ्च, यदि भिन्न-कालानामपि गुणसञ्ज्ञा स्यात्, खट्वा इन्द्रः= खट्वेन्द्रः खट्वा उर्वी खट्वोर्वी इत्यत्र त्रिमात्रत्वात् पूर्वोत्तरसमुदायात्मनः स्थानिनः आद्गुणः (6.1.87) इति त्रिमात्रो गुणः स्यात्। खट्वा ईषा= खट्वेषा, खट्वा उढा=खट्वोढा` इत्यत्र चतुर्मा-मात्रित्वात् चतुर्मात्रः। तस्मात् सर्वार्थं तपरकरणं कर्तव्यम्। तरिता इत्यादि। तृ? तप्लवनतरणयोः (धातुपाठः-969), चिञ् चयने (धातुपाठः-1251), ष्टुञ् स्तुतौ`(धातुपाठः-1043), एभ्यः `ण्लुल्तृचौ (3.1.133) इति तृच्। आर्धधातुकस्येड् वलादेः (7.2.35) इतीट्, सार्वधातुकार्धधातुकयोः (7.3.84) इति गुणः, सु, ऋदुशनस् (7.1.94) इत्यादिना अनङ, सर्वनामस्थाने च (6.4.8) इति दीर्घः। एतानि त्रीणि यथाक्रमदेङां तद्भावितानामुदाहरणानि। पठन्ति, पठन् इत्यकारस्यात्द्भावितस्योदाहरणे। अत्रान्त्याकारस्य गुणसञ्ज्ञायां अतो गुणे (6.1.97) पररूपत्वं भवति। पठन्निति शत्रन्तमेतत्। एकास्यातद्भावितस्यकार्योदाहरणम्- अहं पचे इत्यादि। ओकारस्यातद्भावितस् तन्न सम्भवतीति न प्रदश्र्यते।
Prakriyasarvasvam¶
अकार एङ् च गुणाख्यः ।
Sarala¶
अत - प्रथमान्तम्, एङ् - प्रथमान्तं, गुणः - प्रथमान्तम् ॥