11002: अदेङ् गुणः ================= **Padacheda:** अत्-एङ् | S | 1 | 1 | गुणः | S | 1 | 1 | Sutrartha --------- **अ, ए, ओ - एतेषां त्रयाणां 'गुणः' इति संज्ञा भवति ।** व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'गुण' इति संज्ञा ।** 'अ', 'ए', 'ओ' एते त्रयः वर्णाः अनेन सूत्रेण गुणसंज्ञकाः भवन्ति ** । यथा, "हरिः" इत्यत्र विद्यमानः हकारोत्तरः अकारः, "देवः" इत्यत्र विद्यमानः दकारोत्तरः एकारः, तथा च "गोविन्दः" इत्यत्र विद्यमानः गकारोत्तरः ओकारः - एते सर्वे गुणसंज्ञकाः सन्ति । **गुणसंज्ञायाः प्रयोजनम्** गुणसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उच्यन्ते । कानिचन उदाहरणानि एतानि — 1. **ऋतो ङिसर्वनामस्थानयोः** (7.3.110) इत्यनेन सूत्रेण ऋकारस्य **गुणः** भवति । अत्र ऋकारस्य स्थाने गुणसंज्ञकः **अकारः** आगच्छति । यथा - .. code-block:: text पितृ + औ [प्रथमाद्विवचनस्य 'औ' प्रत्ययः] → पितर् + औ [**ऋतो ङिसर्वनामस्थानयोः** (7.3.110) इत्यनेन ऋकारस्य गुणः अकारः । **उरण् रपरः** (1.1.51) इति सः रपरः] → पितरौ 2. **जसि च** (7.3.109) इत्यनेन सूत्रेण इकारस्य **गुणः** भवति । अत्र इकारस्य स्थाने गुणसंज्ञकः **एकारः** विधीयते । यथा, .. code-block:: text मति + जस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः] → मति + अस् [इत्संज्ञालोपः] → मते + अस् [**जसि च** (7.3.109) इत्यनेन इकारस्य गुणादेशः एकारः] → मतय् + अस् [**एचोऽयवायावः** (6.1.78) इति अयादेशः] → मतयः [**ससजुषो रुः** (8.2.66), **खरवसानयोर्विसर्जनीयः** (8.3.15)] 3. **सार्वधातुकार्धधातुकयोः** (7.3.84) इत्यनेन सूत्रेण उवर्णस्य **गुणः** भवति । अत्र उकारस्य स्थाने गुणसंज्ञकः **ओकारः** विधीयते । यथा, .. code-block:: text भू + अनीयर् [कृत्संज्ञकः अनीयर्-प्रत्ययः] → भू + अनीय [इत्संज्ञालोपः] → भो + अनीय [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति उकारस्य गुणः ओकारः] → भव् + अनीय [**एचोऽयवायावः** (6.1.78) इति अवादेशः] → भवनीय । **गुणसंज्ञा तथा गुणसन्धिः** यस्मिन् सन्धौ द्वयोः स्वरयोः एकत्रीकरणम् कृत्वा उभयोः स्थाने एकः गुणसंज्ञकः वर्णः विधीयते, सः सन्धिः सामान्यरूपेण गुणसन्धिः इति नाम्ना ज्ञायते । यथा, "महा + ईशः‌ →‌ महेशः" इत्यत्र प्रक्रियायाम् **आद्गुणः** (6.1.87) इति सूत्रेण आकार-ईकारयोः मिलित्वा **ए** इति गुण-आदेशः भवति । अत्र गुणसंज्ञकः वर्णः आदेशरूपेण विधीयते, अतएव अस्य सन्धेः नाम **गुणसन्धिः** इति दीयते । **तद्भावितस्य, अतद्भावितस्य च गुणसंज्ञा** प्रकृतसूत्रस्य व्याख्याने काशिकाकारः **तद्भावितानाम् अतद्भावितानां च** इति वाक्यं प्रयुङ्क्ते । अत्र विद्यमानयोः द्वयोः शब्दयोः अर्थौ एतादृशौ — **1. तद्भावितः वर्णः —** यः अकारः / एकारः / ओकारः 'गुणः भवति' इति निर्देशेन सिद्ध्यति, सः अकारः / एकारः / ओकारः अत्र तद्भावितवर्णः इत्यनेन निर्दिष्टः अस्ति । यथा, "महेशः" इत्यस्मिन् शब्दे विद्यमानः एकारः आकार-ईकारयोः एकत्ररूपेण 'गुणं' कृत्वा सिद्ध्यति, अतः अयम् **तद्भावितवर्णः** अस्ति इति उच्यते । **2. अतद्भावितः वर्णः —** यः अकारः / एकारः / ओकारः 'गुणः भवति' इति निर्देशं विना एव उपस्थितः अस्ति, सः वर्णः अतद्भावितवर्णः नाम्ना ज्ञायते । यथा, "अन्ति"इति प्रत्ययस्य आदौ विद्यमानः अकारः **अतद्भावितवर्णः** उच्यते । एतादृशम्, अकार/एकार/ओकाराणाम् द्वयोः गणयोः विभाजनं कृत्वा काशिकाकारः प्रकृतसूत्रस्य व्याख्याने इदं स्पष्टीकरोति, यत् **उभयोः प्रकारयोः अकार/एकार/ओकाराणाम् (इत्युक्ते, तद्भावितानाम्, अतद्भावितानाम् च) प्रकृतसूत्रेण गुणसंज्ञा भवति** । अतएव "अन्ति" इति प्रत्ययस्य आदौ विद्यमानम् अकारम् गुणसंज्ञकं स्वीकृत्य "पठ् + अ+ अन्ति" इत्यत्र **अतो गुणे** (6.1.97) इति सूत्रेण पररूप-एकादेशः भवति, येन "पठन्ति" इति रूपं सिद्ध्यति । **सूत्रेषु प्रयोगः** अष्टाध्याय्यां 'गुणः' इति संज्ञा पञ्चदशसु सूत्रेषु साक्षात् प्रयुक्ता दृश्यते — 1. **इको गुणवृद्धी** (1.1.3) 2. **आद्गुणः** (6.1.87) 3. **अतो गुणे** (6.1.97) 4. **ओर्गुणः** (6.4.146) 5. **स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः** (6.4.156) 6. **मिदेर्गुणः** (7.3.82) 7. **गुणोऽपृक्ते** (7.3.91) 8. **ह्रस्वस्य गुणः** (7.3.108) 9. **ऋतश्च संयोगादेर्गुणः** (7.4.10) 10. **ऋदृशोऽङि गुणः** (7.4.16) 11. **शीङः सार्वधातुके गुणः** (7.4.21) 12. **गुणोऽर्तिसंयोगाद्योः** (7.4.29) 13. **मुचोऽकर्मकस्य गुणो वा** (7.4.57) 14. **निजां त्रयाणां गुणः श्लौ** (7.4.75) 15. **गुणो यङ्लुकोः** (7.4.82) अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति । **'अदेङ्' इत्यत्र तपरकरणस्य प्रयोजनम्** "अदेङ्" इत्यत्र "अत्" तथा "एङ्" इति पदद्वयम् विद्यते । तत्र "अत्" इत्यत्र अकारात् अनन्तरम् स्थापितः तकारः **तात्कालिकभेदग्रहणार्थम्** स्थापितः अस्ति । अयम् तकारः अकारेण सह, तथा च "एङ्" इत्यनेन सह अपि अन्वेति । इत्युक्ते, अकारेण जायमानम् सवर्णग्रहणम् (आकार-अ3कारयोः ग्रहणम्), तथा च एङ्-प्रत्याहारस्थवर्णाभ्याम् जायमानम् अपि सवर्णग्रहणं अत्र तकारनिर्देशसामर्थ्यात् **तपरस्तत्कालस्य** (1.1.70) इति सूत्रस्य साहाय्येन नियम्यते, येन केवलम् ह्रस्व-अकारस्य तथा च दीर्घ-एकार-ओकारयोः एव 'गुण'संज्ञा भवति । Sutrartha (English) ------------------- The letters अ, ए and ओ are called 'गुण'. Vasu English Summary -------------------- अ, ए and ओ are called गुण। Vasu English Translation ------------------------ अ, ए and ओ are called गुण। Each one of the letters अ, ए and ओ whether radical or secondary is called a *guna* letter; as the initial vowels in the following:- अर्त्ति,"he moves"; एति "he comes", ओखति "he goes." Here the initial vowels of the roots ऋ, इ, and उख् have been respectively *gunated* into अर्, ए, and ओ before the third person singular termination ति. The term *Guna* occurs in *sutras* like मिदेर्गुणः (7.3.82). "Let there be *guna* substitute for the *ik* of the root मिद् "to melt." Kashika ------- गुणशब्दः संज्ञात्वेन विधीयते प्रत्येकमदेङां वर्णानां सामान्येन तद्भावितानामतद्भावितानां च। तपरकरणं त्विह सर्वार्थम्। तरिता। चेता। स्तोता। पचन्ति। यजन्ति। अहं पचे। गुणप्रदेशाः — **मिदेर्गुणः** (७.३.८२) इत्येवमादयः॥ Siddhanta Kaumudi ----------------- अदेङ् च गुणसंज्ञः स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- अत् एङ् च गुणसंज्ञः स्यात्॥ Balamanorama ------------ **अदेङ् गुणः** - अदेङ्गुणः । संज्ञाप्रस्तावात्संज्ञेति लभ्यते । अच्च एङ् चेति समाहारद्वन्द्वः । तदाह — अदेङ् चेत्यादिना । Tattvabodhini ------------- **अदेङ् गुणः** - अदेङ्गुणः । तपरकरणमिह सर्वार्थम् । तेनगङ्गोदक॑मित्यत्र त्रिमात्रो न ।तरती॑त्यत्र त्वकार एव, नतु कदाचिदाकारः । नच प्रमाणत आन्तर्येण नियमसिद्धिः, रपरत्वे कृते एकस्याध्यर्धमात्रत्वादपरस्यार्धतृतीयमात्रत्वात् । गुणप्रदेशास्तु-॒आद्गुणः॑अतो गुणे॑ इत्यादयः । Padamanjari ----------- पूर्वेण तुल्यमेतत् । ऽतपरकरणं त्विह सर्वार्थमिऽति । न तु पूर्ववदन्यतरार्थमिति तु शब्दस्यार्थः । असति हि तस्मिन् दीर्घप्लुतयोरपि गुणसंज्ञा स्यात्; ततश्च तरतीति कदाचिदकारः स्यात्, कदाचिदाकारः, रपरत्वे कृत एकस्याध्यर्धमात्रत्वादपरस्यार्धतृतीयमात्रत्वात् । न चाकारस्य वृद्धिसंज्ञा बाधिका; एकसंज्ञाधिकारादन्यत्र संज्ञासमावेशात् । एङश्च त्रिमात्रचतुर्मात्रस्य गुणसंज्ञायाम्-रथेषा,खट्वेषा, अश्वोढः, वडवोढ इति त्रिमात्रतुर्मात्रौ स्याताम् । तरितेत्यादीनि तद्भावितानामदेङं क्रमेण रूपोदाहरणानि । पचन्ति जयन्तीत्यकारस्य कार्योदाहरणे । अत्रान्त्यकारे परतः शबकारस्य 'अतो गुणे' इति पररूपं भवति । एकारस्यातद्भावितस्योदाहरणम्-ऽअहं पचे ऽइति । ओकारस्य तु न संभवति ॥ Nyaas ----- `तपरकरणं त्विह सर्वार्थम्िति। सर्वस्मिन्नर्थः प्रयोजनं यस्य तत्तथोक्तम्। तुशब्दः पूर्वस्माद्विशेषं दर्शयति। तत्र ह्रैजर्थमेव, इह तु सर्वार्थम्, अकारार्थमेङर्थमपि। असति हि तपरकरणं अदेङामणत्वात् सवर्णानां ग्रहणं सति भिन्नकालानामप्येषा सञ्ज्ञा स्यात्। ततश्च `तरिता` इत्यत्रान्तरत्मयाद्दीर्घस्य दीर्घ एव गुणस्यात्।ननु च वृद्धिसञ्ज्ञा गुणसञ्ज्ञाया बाधिका भविष्यति, तत् कुतोऽयं प्रसङ्गः? नैतदस्ति। एकसञ्ज्ञाधिकारे हि सञ्ज्ञया सञ्ज्ञान्तरं बाध्यते, न चात्रेकसञ्ज्ञाधि-कारः। स्यादेतत्, असत्यप्येकसञ्ज्ञाधिकारे यथा **जीवति तु वंश्ये युवा** (4.1.163) इति गोत्रसञ्ज्ञा युवसञ्ज्ञया बाध्यते, यथा च `लिट् च` (3.4.115) , **लिङाशिषि** (3.4.116) इति चार्धधातुकसञ्ज्ञया सार्वधातुकसंज्ञा बाध्यते, तथा गुणसंज्ञा वृद्धिसञ्ज्ञया बाधिष्यते इति? अयुक्तमेतत। युवसञ्ज्ञाविधौ तुग्रहणं नियमार्थं क्रियते। ततो युक्तं यद्युवसञ्ज्ञया गोत्रसञ्ज्ञा बाध्यत इति। आर्धधातुकसञ्ज्ञाऽपि यत् सार्वधातुकसञ्ज्ञा बाध्यते तदपि युक्तमेव, **छन्दस्युभयथा** (6.4.86) ति वचनात्। यदि सार्व-धातुकार्धधातुकसञ्ज्ञयोः समावेशः स्यात्, न बाध्यबाधकभावः, तदा **छन्दस्युभयथा** (6.4.86) इति वचनमपार्थकं स्यात्। इह तु न किञ्चित् तथाविधं निबन्धनमस्ति, यतो वृद्धिसञ्ज्ञया गुणसञ्ज्ञा बाध्यते। अथापि कथञ्चिद्बाध्येत, एवमपि त्रिमात्रिकस्यापि गुण-सञ्ज्ञा स्यादेव। न हि सा तया शक्या बाधितुम्, तस्य अतद्विषयत्वात्। त्रिमात्रस्यापि गुणसञ्ज्ञायां सत्यां त्रिमात्रोऽपि गुणः प्रसज्यते। ऋकारस्य हि कालतो यथैकमत्रिकोऽकारोऽन्तरतमो न सम्भवति, तथा त्रिमात्रोऽपि, तत् कुत एतल्लभ्यते? ह्रस्वेनैवास्य गुणेन भवितव्यम् न हि त्रिमात्रेणाकारेणेति। किञ्च, यदि भिन्न-कालानामपि गुणसञ्ज्ञा स्यात्, `खट्वा इन्द्रः= खट्वेन्द्रः खट्वा उर्वी खट्वोर्वी` इत्यत्र त्रिमात्रत्वात् पूर्वोत्तरसमुदायात्मनः स्थानिनः **आद्गुणः** (6.1.87) इति त्रिमात्रो गुणः स्यात्। खट्वा ईषा= खट्वेषा, खट्वा उढा=खट्वोढा` इत्यत्र चतुर्मा-मात्रित्वात् चतुर्मात्रः। तस्मात् सर्वार्थं तपरकरणं कर्तव्यम्। `तरिता` इत्यादि। `तृ? तप्लवनतरणयोः` (धातुपाठः-969), `चिञ् चयने` (धातुपाठः-1251), `ष्टुञ् स्तुतौ`(धातुपाठः-1043), एभ्यः `ण्लुल्तृचौ` (3.1.133) इति तृच्। **आर्धधातुकस्येड् वलादेः** (7.2.35) इतीट्, **सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणः, सु, `ऋदुशनस्` (7.1.94) इत्यादिना अनङ, `सर्वनामस्थाने च` (6.4.8) इति दीर्घः। एतानि त्रीणि यथाक्रमदेङां तद्भावितानामुदाहरणानि। `पठन्ति, पठन्` इत्यकारस्यात्द्भावितस्योदाहरणे। अत्रान्त्याकारस्य गुणसञ्ज्ञायां **अतो गुणे** (6.1.97) पररूपत्वं भवति। पठन्निति शत्रन्तमेतत्। एकास्यातद्भावितस्यकार्योदाहरणम्- `अहं पचे` इत्यादि। ओकारस्यातद्भावितस् तन्न सम्भवतीति न प्रदश्र्यते। Prakriyasarvasvam ----------------- अकार एङ् च गुणाख्यः । Sarala ------ **अत** - प्रथमान्तम्, **एङ्** - प्रथमान्तं, **गुणः** - प्रथमान्तम् ॥