11001: वृद्धिरादैच्

Padacheda: वृद्धिः | S | 1 | 1 |

आत्-ऐच् | S | 1 | 1 |

Sutrartha

आ, ऐ, औ - एतेषां त्रयाणां ‘वृद्धिः’ इति संज्ञा भवति ।

व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु प्रथमा संज्ञा ‘वृद्धिः’ इति अनेन सूत्रेण पाठ्यते । ‘आ’, ‘ऐ’, ‘औ’ एते त्रयः वर्णाः अनेन सूत्रेण वृद्धिसंज्ञकाः भवन्ति । यथा, “राम:” इत्यत्र रकारोत्तरः आकारः ; “शैवः” इत्यत्र शकारोत्तरः ऐकारः ; तथा च “गौरवः” इत्यत्र गकारोत्तरः औकारः वृद्धिसंज्ञकः वर्तते ।

वृद्धिसंज्ञायाः प्रयोजनम्

वृद्धिसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः उक्ताः सन्ति । कानिचन उदाहरणानि एतादृशानि — 1. अत उपधायाः (7.2.116) इत्यनेन अकारस्य वृद्धिः विधीयते । अत्र अकारस्य स्थाने वृद्धिसंज्ञकः आकारः आदिश्यते इति आशयः । यथा -

पठ् + घञ् [कृत्संज्ञकः घञ्-प्रत्ययः]
→ पठ् + अ [इत्संज्ञालोपः]
→ पाठ् + अ [**अत उपधायाः** (7.2.116) इत्यनेन पकारोत्तरस्य अकारस्य वृद्धिः आकारः]
→ पाठ ।
  1. अचो ञ्णिति (7.2.115) इत्यनेन इकारस्य वृद्धिः विधीयते । अत्र इवर्णस्य स्थाने वृद्धिसंज्ञकः ऐकारः आदिश्यते। यथा -

नी + णिच् [स्वार्थिकः णिच्-प्रत्ययः]
→ नी + इ [इत्संज्ञालोपः]
→ नै + इ [**अचो ञ्णिति** (7.2.115) इत्यनेन नकारोत्तस्य ईकारस्य वृद्धिः ऐकारः]
→ नाय् + इ [**एचोऽयवायावः** (6.1.78) इति आयादेशः]
→ नायि [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा]
  1. तद्धितेष्वचामादेः (7.2.117) इत्यनेन उकारस्य वृद्धिः विधीयते । अनेन उवर्णस्य स्थाने वृद्धिसंज्ञकः औकारः आदिश्यते । यथा -

उपगु + अण् [तद्धितसंज्ञकः अण्-प्रत्ययः]
→ उपगु + अ [इत्संज्ञालोपः]
→ औपगु + अ [**तद्धितेष्वचामादेः** (7.2.117) इत्यनेन आदिस्थस्य उकारस्य वृद्धिः भवति । अनेन उकारस्य स्थाने वृद्धिसंज्ञकः औकारः विधीयते]
→  औपगो + अ [**ओर्गुणः** (6.4.146) इति उकारस्य गुणः ओकारः]
→ औपगव् + अ [**एचोऽयवायावः** (6.1.78) इति अवादेशः]
→ औपगव

वृद्धिसंज्ञा तथा वृद्धिसन्धिः

यस्मिन् सन्धौ द्वयोः स्वरयोः एकत्रीकरणम् कृत्वा उभयोः स्थाने एकः वृद्धिसंज्ञकः वर्णः विधीयते, सः सन्धिः सामान्यरूपेण वृद्धिसन्धिः इति नाम्ना ज्ञायते । यथा, “वन + ओषधिः → वनौषधिः” इत्यत्र प्रक्रियायाम् वृद्धिरेचि (6.1.88) इति सूत्रेण अकार-ओकारयोः स्थाने इति वृद्धि-एकादेशः भवति । अत्र वृद्धिसंज्ञकः वर्णः आदेशरूपेण विधीयते, अतएव अस्य सन्धेः नाम वृद्धिसन्धिः इति दीयते ।

वृद्धिसंज्ञायाः सूत्रेषु प्रयोगः

अष्टाध्याय्यां ‘वृद्धिः’ इयं संज्ञा नवसु सूत्रेषु साक्षात् प्रयुक्ता दृश्यते —

  1. इको गुणवृद्धी (1.1.3)

  2. वृद्धिर्यस्याचामादिस्तद् वृद्धम् (1.1.73)

  3. वृद्धिरेचि (6.1.88)

  4. उत्तरपदवृद्धौ सर्वं च (6.2.105)

  5. इद्वृद्धौ (6.3.28)

  6. वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे (6.3.39)

  7. सिचि वृद्धिः परस्मैपदेषु (7.2.1)

  8. मृजेर्वृद्धिः (7.2.114)

  9. उतो वृद्धिर्लुकि हलि (7.3.89)

अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।

‘आदैच्’ इत्यत्र तपरकरणस्य प्रयोजनम्

“आदैच्” इत्यत्र “आत्” तथा “ऐच्” इति पदद्वयम् विद्यते । तत्र “आत्” इत्यत्र आकारात् अनन्तरम् स्थापितः तकारः तात्कालिकभेदग्रहणार्थम् स्थापितः अस्ति । अयम् तकारः “ऐच्” इत्यनेन सह अन्वेति । इत्युक्ते, ऐच्-प्रत्याहारस्थवर्णाभ्याम् जायमानम् सवर्णग्रहणम् अत्र तकारनिर्देशसामर्थ्यात् तपरस्तत्कालस्य (1.1.70) इति सूत्रस्य साहाय्येन नियम्यते, येन केवलम् दीर्घभेदानाम् एव अत्र ग्रहणं भवति, न हि प्लुतभेदानाम् । प्लुत-ऐकार-औकारयोः ‘वृद्धिः’ इति संज्ञा न इष्यते, अतः अत्र तपरकरणम् कृत्वा सा निवार्यते । अत्र विद्यमानः तकारः आकारेण सह न हि अन्वेति, यतः आकारेण सवर्णग्रहणं नैव क्रियते । इत्युक्ते तकारं विना अपि अनेन सूत्रेण प्लुत-अकारस्य वृद्धिसंज्ञा मूलतः एव न प्राप्नोति, अतः तस्य विषये वृद्धिसंज्ञायाः निषेधः अपि नैव आवश्यकः ।

तद्भावितस्य, अतद्भावितस्य च वृद्धिसंज्ञा

प्रकृतसूत्रस्य व्याख्याने काशिकाकारः तद्भावितानाम् अतद्भावितानां च इति वाक्यं प्रयुङ्क्ते । अत्र विद्यमानयोः द्वयोः शब्दयोः अर्थौ एतादृशौ — 1. तद्भावितः वर्णः — यः आकारः / ऐकारः / औकारः ‘वृद्धिः भवति’ इति निर्देशेन सिद्ध्यति, सः आकारः / ऐकारः / औकारः अत्र तद्भावितवर्णः इत्यनेन निर्दिष्टः अस्ति । यथा, उपरिनिर्दिष्टे उदाहरणे “औपगव” इत्यस्मिन् शब्दे विद्यमानः औकारः उकारस्य ‘वृद्धिं’ कृत्वा सिद्ध्यति, अतः अयम् तद्भावितवर्णः अस्ति इति उच्यते । 2. अतद्भावितः वर्णः — यः आकारः / ऐकारः / औकारः ‘वृद्धिः भवति’ इति निर्देशं विना एव उपस्थितः अस्ति, सः वर्णः अतद्भावितवर्णः नाम्ना ज्ञायते । यथा, “माला” इत्यत्र विद्यमानः मकारोत्तरः आकारः “मा”-धातोः आकारः अस्ति, लकारोत्तरः विद्यमानः च आकारः सवर्णदीर्घेण सिद्ध्यति । अतः अत्र विद्यमानौ द्वौ अपि आकारौ अतद्भावितवर्णौ उच्येते । एतादृशम्, आकार-ऐकार-औकाराणाम् द्वयोः गणयोः विभाजनं कृत्वा काशिकाकारः प्रकृतसूत्रस्य व्याख्याने इदं स्पष्टीकरोति, यत् उभयोः प्रकारयोः आकार-ऐकार-औकाराणाम् (इत्युक्ते, तद्भावितानाम्, अतद्भावितानाम् च) प्रकृतसूत्रेण वृद्धिसंज्ञा भवति । अतएव “माला” शब्दस्य आदौ विद्यमानः आकारः वृद्धिसंज्ञकं स्वीकृत्य “माला” शब्दस्य वृद्धिर्यस्याचामादिस्तद् वृद्धम् (1.1.73) इति सूत्रेण वृद्धसंज्ञा भवति, येन अग्रे वृद्धाच्छः (4.2.114) इत्यनेन छ-प्रत्यये कृते “मालीय” इति शब्दः अपि सिद्ध्यति ।

चकारस्य कुत्वप्राप्तिः

अस्मिन् सूत्रे “आदैच्” इत्यत्र पदान्ते विद्यमानस्य चकारस्य वस्तुतः चोः कुः (8.2.30) इत्यनेन कुत्वे कृते गकारः भवितुम् अर्हति । परन्तु छन्दोवत्सूत्राणि भवन्ति इति वचनेन एतत् सूत्रम् छन्दसः वचनम् (वैदिकवचनम्) मत्वा अयस्मयादीनि च्छन्दसि (1.4.20) इत्यत्र निर्दिष्टे अयस्मयादिगणे “ऐच्” पदस्य समावेशं कृत्वा अस्य भसंज्ञा क्रियते, येन एकसंज्ञाधिकारमनुसृत्य पदसंज्ञा निषिध्यते, येन च अनिष्टं कुत्वमपि निवार्यते ।

Sutrartha (English)

The letters आ, ऐ and औ are called ‘वृद्धि’.

Vasu English Summary

आ, ऐ and औ are called वृद्धि।

Vasu English Translation

आ, ऐ and औ are called वृद्धि । This defines the word vriddhi. The letters आ, ऐ and औ are vriddhi letters. The sutra consists of three words vriddhi, ât and aich. आत् means the long आ, the final त् being indicatory only, and is for the sake of the pratyâhâra aich, and the pratyâhâra ऐच् means the letters ऐ and औ.

The indicatory त् in आत् serves the purpose of showing that the very form आ having two måtrâs or prosodial measure, is to be taken. This त् also joins with the succeeding vowels ऐ and औ by the rule of तपर (1.1.70) or that “which precedes or succeeds त्” and indicates that these vowels must be taken as having two mâtrâs only, though they may be the result of the combination of vowels whose aggregate mâtrâs may be more than two. A short vowel has one måtrâ, a long vowel has two, and a consonant has half a mátrâ. Thus by a rule of arm or euphonic conjunction of letters आ+आ=आ, as महा + आशयः = महाशयः. Here हा has two mâtrâs and not four. So also खट्वैडकः the vowel ऐ the resultant of आ+ऐ has only two, not four, mâtrâs.

Thus the initial vowels in the following secondary derivative nouns are vriddhi forms of their primitive vowels. आङ्गः “bodily”, from अङ्गः; ‘body’ ऐच्छिकः “optional”, from इच्छा “option”; औपगवः “the son of Upagu”, from the word उपगुः meaning “a sage called Upagu”. Similarly in शालीयः “belonging to the house” the आ is radical, and is also called vriddhi. The word vriddhi occurs in sûtras like सिचिवृद्धिपरस्मैपदेषु (7.2.1) “Let the final इक् of the base get vriddhi substitute before the affix सिच् of the Parasmaipada”.

Bhashya

वृद्धिरादैच् ॥(1.1.1) ॥ कुत्वं कस्मान्न भवति चोः कुः पदस्य इति । भत्वात् । कथं भसंज्ञा । अयस्मयादीनि च्छन्दसि इति । छन्दसीत्युच्यते, न चेदं छन्दः । छन्दोवत्सूत्राणि भवन्ति । यदि भसंज्ञा,वृद्धिरादैजदेङ् गुणः इति जश्त्वमपि न प्राप्नोति । उभयसंज्ञान्यपि च्छन्दांसि दृश्यन्ते । तद्यथा स सुष्टुभा स ऋक्वता गणेन पदत्वात्कुत्वम् । भत्वाज्जश्त्वं न भवति । एवमिहापि पदत्वाज्जश्त्वं भत्वात्कुत्वं न भविष्यति ॥ किं पुनरिदं तद्भावितग्रहणम् - वृद्धिरित्येवं ये आकारैकारौकारा भाव्यन्ते, तेषां ग्रहणम्, आहोस्विदादैज्मात्रस्य । किं चातः । यदि तद्भावितग्रहणं शालीयो मालीय इतिवृद्धलक्षणश्छो न प्राप्नोति । आम्रमयम्, शालमयम्, वृद्धलक्षणो मयण्न प्राप्नोति । आम्रगुप्तायनिः, शालगुप्तायनिः, वृद्धलक्षणः फिञ्ञ् न प्राप्नोति । अथादैज्मात्रस्य ग्रहणम्, सर्वो भासः सर्वभास इति उत्तरपदवृद्धौ सर्वं च इत्येष विधिः प्राप्नोति । इह च तावती भार्या यस्य तावद्भार्यः, यावद्भार्यः वृद्धिनिमित्तस्य- इति पुंवद्भावप्रतिषेधः प्राप्नोति । अस्तु तर्हि आदैज्मात्रस्य ग्रहणम् । ननु चोक्तम् - सर्वो भासः सर्वभासः इत्युत्तरपदवद्धौ सर्वं च इत्येष विधिः प्राप्नोति । नैष दोषः । नैवं विज्ञायते - उत्तरपदस्य वृद्धिरुत्तरपदवृद्धिरुत्तरपदवृद्धाविति । कथं तर्हि । उत्तरपदस्य इत्येवं प्रकृत्य या वृद्धिस्तद्वत्युत्तरपदे, इत्येवमेतद्विज्ञायते । अवश्यं चैतदेवं विज्ञेयम् । तद्भावितग्रहणे सत्यपीह प्रसज्येत - सर्वः कारकः सर्वकारक इति । यदप्युच्यते - इह तावती भार्या यस्य तावद्भार्यः, यावद्भार्य इति च वृद्धिनिमित्तस्य - इति पुंवद्भावप्रतिषेधः प्राप्नोतीति । नैष दोषः । नैवं विज्ञायते - वृद्धेर्निमित्तं वृद्धिनिमित्तं वृद्धिनिमित्तस्येति । कथं तर्हि । वृद्धेर्निमित्तं यस्मिन्सोयं वृद्धिनिमित्तः, वृद्धिनिमित्तस्येति । किं च वृद्धेर्निमित्तम् । योऽसौ ककारो ञ्ञकारो णकारो वा । अथवा यः कृत्स्नाया वृद्धेर्निमित्तम् । कश्च कृत्स्नाया वृद्धेर्निमित्तम् । यस्त्रयाणामाकारैकारौकारणाम् ॥ संज्ञाधिकारः संज्ञासम्प्रत्ययार्थः ॥ अथ संज्ञा इत्येवं प्रकृत्य वृद्ध्यादयः शब्दाः पठितव्याः । किं प्रयोजनम् । संज्ञासम्प्रत्ययार्थः । वृद्ध्यादीनां शब्दानां संज्ञा इत्येष सम्प्रत्ययो यथा स्यात् । इतरथा ह्यसम्प्रत्ययो यथा लोके ॥ अक्रियमाणे हि संज्ञाधिकारे वृद्ध्यादीनां संज्ञेत्येष सम्प्रत्ययो न स्यात् । इदमिदानीं बहुसूत्रमनर्थकं स्यात् । अनर्थकमित्याह । कथम् । यथा लोके । लोके ह्यर्थवन्ति चानर्थकानि च वाक्यानि दृश्यन्ते । अर्थवन्ति तावत् - देवदत्त गामभ्याज शुक्लां दण्डेन, देवदत्त गामभ्याज कृष्णाम् इति । अनर्थकानि - दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः, अधरोरुकमेतत्कुमार्याः स्फयकृतस्य पिता प्रतिशीन इति ॥ संज्ञासंज्ञ्यसंन्देहश्च ॥ क्रियमाणेऽपि संज्ञाधिकारे संज्ञासंज्ञिनोरसन्देहो वक्तव्यः । कुतो ह्योतत्-वृद्धिशब्दः संज्ञा, आदैचः संज्ञिन इति । न पुनरादैच संज्ञा, वृद्धिशब्दः संज्ञीति । ॥ यत्तावदुच्यते - संज्ञाधिकारः कर्तव्यः संज्ञासम्प्रत्ययार्थ इति,न कर्तव्यः ॥ आचार्याचारात्संज्ञासिद्धिः ॥। आचार्याचारात्संज्ञासिद्धिर्भविष्यति । किमिदमाचार्याचारादिति । आचार्याणामुपचारात् ॥ ॥ यथा लौकिकवैदिकेषु ॥ तद्यथा लौकिकेषु वैदिकेषु च कृतान्तेषु । लोके तावत् मातापितरौ पुत्रस्य जातस्य संवृतेऽवकाशे नाम कुर्वाते देवदत्तो यज्ञदत्त इति । तयोरुपचारादन्येपि जानन्ति इयमस्य संज्ञेति । वेदे याज्ञिकाः संज्ञां कुर्वन्ति - स्फयो यूपश्चषाल इति । तत्र भवतामुपचारादन्येऽपि जानन्ति इयमस्य संज्ञेति । एवमिहापि - इहैव तावत्केचिद् व्याचक्षाणा आहुः वृद्धिशब्दः संज्ञा, आदैचः संज्ञिन इति । अपरे पुनः सिचि वृद्धिः इत्युक्त्वाऽऽकारेकारौकारानुदाहरन्ति । तेन मन्यामहे यया प्रत्याय्यन्ते सा संज्ञा, ये प्रतीयन्ते ते संज्ञिन इति । यदप्युच्यते - क्रियमाणेपि संज्ञाधिकारे संज्ञासंज्ञिनोरसन्देहो वक्तव्य इति ॥ ॥ संज्ञासंज्ञ्यसन्देहश्च ॥ संज्ञासंज्ञिनोरसन्देहः सिद्धः । कुतः । आचार्याचारादेव । उक्त आचार्याचारः ॥ अनाकृतिः ॥ अथवाऽनाकृतिः संज्ञा, आकृतिमन्तः संज्ञिनः । लोकेऽपि ह्याकृतिमतो मांसपिण्डस्य देवदत्त इति संज्ञा क्रियते । ॥ लिङ्गेन वा ॥। अथवा किञ्ञ्चिल्लिङ्गमासज्य वक्ष्यामि इत्थंलिङ्गा संज्ञेति । वृद्धिशब्दे च तल्लिङ्गः करिष्यते, नादैच्छब्दे । इदं तावदयुक्तं यदुच्यते - आचार्याचारादिति । किमत्रायुक्तम् । तमेवोपालभ्य अगमकं ते सूत्रम् इति, तस्यैव पुनः प्रमाणीकरणमित्येतदयुक्तम् । अपरितुष्यन् खल्वपि भवाननेन परिहारेण अनाकृतिर्लिङ्गेन वा इत्याह । तच्चापि वक्तव्यम् । यद्यप्येतदुच्यते । अथवैतर्हि इत्संज्ञा न वक्तव्या लोपश्च न वक्तव्यः । संज्ञालिङ्गमनुबन्धेषु करिष्यते । न च संज्ञाया निवृत्तिरुच्यते । स्वभावतः संज्ञां संज्ञिनं प्रत्याय्य स्वयं निवर्तते । तेनानुबन्धानामपि निवृत्तिर्भविष्यति । सिध्यत्येवम् । अपाणिनीयं तु भवति । यथान्यासमेवास्तु । ननु चोक्तम्-संज्ञाधिकारः संज्ञासम्प्रत्ययार्थ इतरथा ह्यसम्प्रत्ययो यथा लोक इति । न च यथा लोके तथा व्याकरणे । प्रमाणभूत आचार्यो दर्भपवित्रपाणिः शुचाववकाशे प्राङ्मुख उपविश्य महता प्रयत्नेन सूत्राणि प्रणयति स्म । तत्राशक्यं वर्णेनाप्यनर्थकेन भवितुम्, किं पुनरियता सूत्रेण । किमतो यदशक्यम् । अतः संज्ञासंज्ञिनावेव ॥ कुतो नु खल्वेतत् संज्ञासंज्ञिनावेवेति । न पुनः साध्वनुशासनेऽस्मिञ्ञ्शास्त्रे साधुत्वमनेन क्रियते । कृतमनयोः साधुत्वम् । कथम् । वृधिरस्मायविशेषणोपदिष्टः प्रकृतिपाठे, तस्मात् क्तिन्प्रत्ययः । आदैचोप्यक्षरसमाम्नाय उपदिष्टाः । प्रयोगनियमार्थं तर्हीदं स्यात् - वृद्धिशब्दात्परे आदैचः प्रयोक्तव्या इति । नेह प्रयोगनियम आरभ्यते । किन्तर्हि संस्कृत्य संस्कृत्य पदान्युत्सृज्यन्ते तेषां यथेष्टमभिसम्बन्धो भवति । तद्यथा - आहर पात्रम्, पात्रमाहरेति । आदेशास्तर्हीमे स्युः । वृद्धिशब्दस्यादैच आदेशाः । षष्ठीनिर्दिष्टस्यादेशा भवन्ति । न चात्र षष्ठीं पश्यामः । आगमास्तर्हीमे स्युर्वृद्धिशब्दस्यादैच आगमः । आगमा अपि षष्ठीनिर्दिष्टस्यैवोच्यन्ते । लिङ्गेन च । न चात्र षष्ठीं न खल्पप्यागमलिङ्गं पश्यामः । इदं खल्वपि भूयः सामानाधिकरण्यमेकविभक्तिकत्वं च । द्वयोश्चैतद्भवति । कयोः । विशेषणविशेष्यवोर्वा संज्ञासंज्ञिनोर्वा । तत्रैतत्स्यात् - विशेषणविशेष्ये इति । तच्च न । द्वयो र्हि प्रतीतपदार्थकयोर्लोके विशेषणविशेष्यभावो भवति न चादैच्छब्दः प्रतीतपदार्थकः । तस्मात्संज्ञासंज्ञिनावेव ॥ तत्र त्वेतावान्सन्देहः - कः संज्ञी का संज्ञेति । स चापि क्व सन्देहः । यत्रोभे समानाक्षरे । यत्र त्वन्यतरल्लघु सा संज्ञा, यद्गुरु स संज्ञी । कुत एतत् । लध्वर्थं हि संज्ञाकरणम् । तत्राप्ययं नावश्यं गुरुलघुतामेवोपलक्षयितुमर्हति, किन्तर्हि, आनाकृतितामपि । अनाकृतिः संज्ञा आकृतिमन्तः संज्ञिनः । लोकेपि ह्याकृतिमतो मांसपिण्डस्य देवदत्त इति संज्ञा क्रियते । अथवाऽऽवर्तिन्यः संज्ञा भवन्ति । वृद्धिशब्दश्चावर्तते, नादैच्छब्दः । तद्यथा - इतरत्रापि देवदत्तशब्द आवर्तते, न मांसपिण्डः । अथवा पूर्वोच्चारितः संज्ञी, परोच्चारिता संज्ञा । कुत एतत् । सतो हि कार्यिणः कार्येण भवितव्यम् । तद्यथा - इतरत्रापि सतो मांसपिण्डस्य देवदत्त इति संज्ञा क्रियते ॥ कथं वृद्धिरादैज् इति । एतदेकमाचार्यस्य मङ्गलार्थं मृष्यताम् । माङ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थं वृद्धिशब्दमादितः प्रयुङ्क्ते । मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषकाणि भवन्त्यायुष्मत्पुरुषकाणि चाध्येतारश्च वृद्धियुक्ता यथा स्युरिति । सर्वत्रैव हि व्याकरणे पूर्वोच्चारिता संज्ञी, परोच्चारिता संज्ञा अदेङ् गुण इति यथा ॥ दोषवान्खल्वपि संज्ञाधिकारः । अष्टमेपि हि संज्ञा क्रियते तस्य परमाम्रेडितम् इति । तत्रापीदमनुर्वत्य स्यात् । अथवाऽस्थानेऽयं यत्नः क्रियते । नहीदं लोकाद् भिद्यते । यदीदं लोकाद् भिद्येत ततो यत्नार्हं स्यात् । तद्यथा - अगोज्ञाय कश्चिद् गां सक्थनि कर्णे वा गृहीत्वोपदिशति - अयं गौरिति । न चास्मायाचष्टे इयमस्य संज्ञेति । भवति चास्य सम्प्रत्ययः । तत्रैतत्स्यात् - कृतस्तत्र पूर्वैरभिसम्बन्ध इति । इहापि कृतः पूर्वैरभिसम्बन्धः । कैः । आचार्यैः । तत्रैतत्स्यात् - यस्मै तर्हि सम्प्रत्युपदिशति तस्याकृत इति । लोकेऽपि हि यस्मै सम्प्रत्युपदिशति तस्याकृतः । अथ तत्र कृतः, इहापि कृतो द्रष्टव्यः । ॥ सतो वृद्ध्यदिषु संज्ञाभावात्तदाश्रय इतेरतराश्रयत्वादप्रसिद्धिः ॥। सतः संज्ञिनः संज्ञाभावात् । तदाश्रये संज्ञाश्रये संज्ञिनि वृद्ध्यादिष्वितरेतराश्रयत्वादप्रसिद्धिः । का इतरेतराश्रयता । सतामादैचां संज्ञया भवितव्यम्, संज्ञया चादैचो भाव्यन्ते । तदेतद् इतरेतराश्रयं भवति । इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते । तद्यथा - नौर्नावि बद्धा नेतरत्राणाय भवति । ननु च भो इतरेतराश्रयाण्यपि कार्याणि दृश्यन्ते । तद्यथा - नौः शकटं वहति, शकटं च नावं वहति । अन्यदपि तत्र किञ्ञ्चिद् भवति जलं स्थलं वा । स्थले शकटं नावं वहति । जले नौः शकटं वहति । यथा तर्हि त्रिविष्टब्धकम् । तत्राप्यन्ततः सूत्रकं भवति । इदं पुनरितरेतराश्रयमेव । ॥ सिद्धं तु नित्यशब्दत्वात् ॥ सिद्धमेतत् । कथम् । नित्यशब्दत्वात् । नित्याः शब्दाः, नित्येषु शब्देषु सतामादैचां संज्ञां क्रियते, न च संज्ञयाऽऽदैचो भाव्यन्ते । यदि तर्हि नित्याः शब्दाः, किमर्थं शास्त्रम् ॥ किमर्थं शास्त्रमिति चेन्निवर्तकत्वात्सिद्धम् ॥ निवर्तकं शास्त्रम् । कथम् । मृजिरस्मायविशेषेणोपदिष्टः । तस्य सर्वत्र मृजिबुद्धिः प्रसक्ता । तत्रानेन निवृत्तिः क्रियते मृजेरक्ङित्सु प्रत्ययेषु मृजिप्रसङ्गे मार्जिः साधुर्भवतीति । ॥ वृद्धिगुणसंज्ञयोः प्रत्येकं वचनम् ॥ वृद्धिगुणसंज्ञयोः प्रत्येकं ग्रहणं कर्तव्यम् । प्रत्येकं वृद्धिगुणसंज्ञे भवत इति वक्तव्यम् । किं प्रयोजनम् । समुदाये मा भूतामिति । अन्यत्र सहवचनात्समुदाये संज्ञाऽप्रसङ्गः ॥ अन्यत्र सहवचनात्समुदाये वृद्धिगुणसंज्ञयोरप्रसङ्गः । यत्रेच्छति सहभूतानां कार्यं करोति तत्र सहग्रहणम् । तद्यथा सह सुपा उभे अभ्यस्तं सह इति । ॥ प्रत्यवयवं च वाक्यपरिसमाप्तेः ॥। प्रत्यवयवं च वाक्यपरिसमाप्तिर्दृश्यते । तद्यथा देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्तामिति । न चोच्यते प्रत्येकमिति । प्रत्येकं च भुजिः परिसमाप्यते । ननु चायमप्यस्ति दृष्टान्तः - समुदाये वाक्यपरिसमाप्तिरिति । तद्यथा गर्गाः शतं दण्ड्यन्तामिति । अर्थिनश्च राजानो हिरण्येन भवन्ति, न च प्रत्येकं दण्डयन्ति । सत्येतस्मिन्दृष्टान्ते यदि तत्र सहग्रहणं क्रियते, इहापि प्रत्येकमिति वक्त्व्यम् । अथ तत्रान्तरेण सहग्रहणं सहभूतानां कार्यं भवति, इहापि नार्थः प्रत्येकमिति वचनेन ॥ अथ किमर्थमाकारस्तपरः क्रियते । ॥ आकारस्य तपरकरणं सवर्णार्थम् ॥ आकारस्य तपरकरणं क्रियते । किं प्रयोजनम् । सवर्णार्थम् । तपरस्तइति तत्कालानां सवर्णानां ग्रहणं यथा स्यात् । केषाम् । उदात्तानुदात्तस्वरितानाम् । किं च कारणं न स्यात् । ॥ भेदकत्वात्स्वरस्य ॥ भेदका उदात्तादयः । कथं पुनर्ज्ञायते भेदका उदात्तादय इति । एवं दृश्यते लोके य उदात्ते कर्तव्येऽनुदात्तं करोति खण्डिकोपाध्यायस्तस्मै चपेटां ददाति अन्यत्त्वं करोषीति । अस्ति प्रयोजनमेतत् । किन्तर्हि इति । - ॥ भेदकत्वादुगुणस्य ॥। भेदकत्वाद्गुणस्येति वक्त्व्यम् । किं प्रयोजनम् । आनुनासिक्यं नाम गुणः, तदि्भन्नस्यापि ग्रहणं यथा स्यात् । किं च कारणं न स्यात् । भेदकत्वाद् गुणस्य । भेदका गुणाः । कथं पुनर्ज्ञायते भेदका गुणा इति । एवं हि दृश्यते लोके - एकोऽयमात्मा उदकं नाम, तस्य गुणभेदादन्यत्त्वं भवति-अन्यदिदं शीतम्, अन्यदिदमुष्णमिति । ननु भो अभेदका अपि गुणा दृश्यन्ते । तद्यथा देवदत्तो मुण्ड्यपि जट्यपि शिख्यपि स्वामाख्यां न जहाति, तथा बालो युवा वृद्धो वत्सो दम्यो बलीवर्द इति । उभयमिदं गुणेषूक्तम् - भेदका अभेदका इति । किं पुनरत्र न्याय्यम् । अभेदका गुणा इत्येव न्याय्यम् । कुत एतत् । यदयमस्थिदधिसक्थ्यक्ष्णामनङुदात्तः इत्युदात्तग्रहणं करोति तज्ज्ञापयत्याचार्योऽभेदका गुणा इति । यदि हि भेदका गुणाः स्युः, उदात्तमेवोच्चारयेत् । यदि तर्ह्यभेदका गुणा अनुदात्तादेरन्तोदात्ताच्च यदुच्यते तत्स्वरितादेः स्वरितान्ताच्च प्राप्नोति । नैष दोषः । आश्रीयमाणो गुणो भेदको भवति । तद्यथा-शुक्लमालभेत, कृष्णमालभेत । तत्र यः शुक्ल आलब्धव्ये कृष्णमालभते, न हि तेन यथोक्तं कृतं भवति । असन्देहार्थस्तर्हि तकारः । ऐजित्युच्यमाने सन्देहः स्यात् किमिमावैचावेव, आहोस्विदाकारोप्यत्र निर्दिश्यत इति । सन्देहमात्रमेतद्भवति । सर्वसन्देहेषु चेदमुपतिष्ठते - व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम् इति । त्रयाणां ग्रहणमिति व्याख्यास्यामः । अन्यत्राप्येवञ्ञ्जातीयकेषु सन्देहेषु न कंचिद् यत्नं करोति । तद्यथा - औतोम्शसोः इति । इदं तर्हि प्रयोजनम् - आन्तर्यतस्त्रिमात्रचतुर्मात्राणां स्थानिनां त्रिमात्रचतुर्मात्रा आदेशा मा भूवन्निति । खट्वा इन्द्रः खट्वेन्द्रः, खट्वा उदकम् खट्वोदकम्, खट्वा इर्षा खट्वेषा, खट्वा ऊढा खट्वोढा, खट्वा एलका खट्वैलका, खट्वा ओदनः खट्वौदनः खट्वा ऐतिकायनः खट्वैतिकायनः, खट्वा औपगवः खट्वौपगव इति । अथ क्रियमाणेपि तकारे कस्मादेव त्रिमात्रचतुर्मात्राणां स्थानिनां त्रिमात्रचतुर्मात्रा आदेशा न भवन्ति । तपरस्तत्कालस्य इति नियमात् । ननु तः परो यस्मात्सोऽयं तपरः । नेत्याह । तादपि परस्तपरः । यदि तादपि परस्तपरः, ऋदोरप् इतीहैव स्यात् - यवः स्तवः, लवः पव इत्यत्र न स्यात् । नैष तकारः । कस्तर्हि । दकारः । किं दकारे प्रयोजनम् । अथ किं तकारे । यद्यसन्देहार्थस्तकारः, दकारोपि । अथ मुखसुखार्थस्तकारः, दकारोपि । वृद्धिरादैच् ॥

Kashika

वृद्धिशब्दः संज्ञात्वेन विधीयते प्रत्येकमादैचां वर्णानां सामान्येन तद्भावितानामतद्भावितानां च। तपरकरणमैजर्थं तादपि परस्तपर इति, खट्वैडकादिषु त्रिमात्रचतुर्मात्रप्रसङ्गनिवृत्तये। आश्वलायनः। ऐतिकायनः। औपगवः। औपमन्यवः। शालीयः। मालीयः। वृद्धिप्रदेशाः — सिचि वृद्धिः परस्मैपदेषु (७.२.१) इत्येवमादयः॥

Siddhanta Kaumudi

आदैच्च वृद्धिसंज्ञः स्यात् ॥

Laghu Siddhanta Kaumudi

आदैच्च वृद्धिसंज्ञः स्यात्॥

Laghu Shabdendushekhar

वृद्धिरादैच् । वृद्धिः, आत्, ऐजिति पदत्रयमिति- न समासान्तादिप्रवृत्तिशङ्का । तपरकरणमसन्देहार्थतया पूर्वार्थम्, प्रकृतसूत्रे भाष्येऽत्र शास्त्रे गुणानामभेदकत्वं ज्ञापकादाश्रित्य सवर्णग्रहणार्थत्वाभावस्योक्तत्वात् । कृष्णौत्कण्ठ्यं, गङ्गौघ इत्यादौ त्रिमात्रव्यावृत्तये परार्थमपि वृद्धिशब्दोऽत्र पदपरोऽर्थपरत्वासम्भवात् । आदैचो वृद्धिपदाऽभिन्ना इति वाक्यार्थः, पदपदार्थयोस्तादात्म्यस्याङ्गीकारात् रामेति द्व्यक्षरं नाम मानभङ्ग पिनाकिनः इत्यादौ तयोरभेदप्रतीतेरनुभव सिद्धत्वादित्यन्यत्र विस्तरः । वृद्धिशब्दस्य सञ्ज्ञात्वन्तु व्याख्यानात् । विधेयत्वेऽपि तस्य पूर्वपाठो मङ्गलार्थः । अपृक्त एकाल् (1.2.41) इत्यादौ तथा करणं विधेयस्य प्रथमं प्रयोगेऽसाधुत्वभ्रमनिवारणायेति भाष्ये स्पष्टम् । सर्वशब्दानां सर्वार्थवाचकत्वेऽपि वाचकत्वस्य गृहीतस्यैव बोधजनकतया सञ्ज्ञासूत्राणामज्ञातशक्तिज्ञापकतया विधित्वम्। किञ्च सर्वे सर्वार्थाः इत्यभ्युपगमो योगिदृष्ट्या नास्मदृष्ट्या, सर्वशब्दानामर्थानाञ्च विशिष्य ज्ञानाभावात् सामान्यतस्तथा ज्ञानञ्च न बोधोपयोगि शास्त्रन्त्वस्मदाद्देशेनैव प्रवृत्तमिति योद्ध्यम् तत्रैव सङ्केत ग्राहकशास्त्रकरणं स्वेच्छयैवेत्येषां ‘यदृच्छा’ शब्दत्वेन व्यवहारः, ‘स्वेच्छया सञ्ज्ञाः क्रियन्त’ इति च । एतदुपदेशरूपसङ्केतात्प्राक् तत्र सञ्ज्ञात्वाग्रहेण तासामनित्यत्वव्यवहारः । अत एव तत्तत्सञ्ज्ञाकरणज्ञानरूपप्रकरणादन्यार्थाग्रहणरूपनियमः कृत्रिमा कृत्रिम न्यायमूलतयोक्तः सङ्ख्यासूत्रे भाष्ये। आर्थिकमेवामुं नियममादाय सञ्ज्ञासूत्रेषु नियमत्वव्यवहारो- व्यवहाराय नियमः क्वचिदित्यादिना कृतः । सञ्ज्ञाया: सञ्ज्ञिनि वाचकताबोधकत्वेऽपि तदनुत्पादकत्वान्न शब्दार्थ सम्बन्धनित्यताहानिः । आसाञ्च शिष्टप्रयुक्तत्वात्साधुत्वमित्यन्यत्र विस्तरः । कार्यकालपक्षे मृजेर्वृद्धि (7.2.114) इत्यादौ वृद्धिपदार्थजिज्ञासायां वृद्धिरादैच् (1.1.1) इत्युपस्थित्या तदर्थबोधरूपे शक्तिग्रहे वृत्ते विधिवाक्यार्थबोधः । अत एव ष्यङ: सम्प्रसारणम् (6.1.13) इति सूत्रे भाष्ये- ** कार्यकालं सञ्ज्ञापरिभाषम्, भस्येत्युपस्थितमिदं भवति- यचि भम् (1.4.18) इति ** इत्युक्तम् । ईदूदेद् (1.1.11) इति सूत्रे भाष्येऽपि- ** कार्यकालं सञ्ज्ञापरिभाषम्, प्रगृह्य: प्रकृत्येत्युपस्थितमिदं भवति ईदूदेद् द्विवचनं प्रगृह्यम् (1.1.11)** इति। निष्ठा (3.2.102) इति सूत्रे कैयटोऽपि- ** निष्ठेत्युक्ते सञ्ज्ञावाक्यं - क्तक्तवतू निष्ठा (1.1.26) इति स्मर्यते** इत्याह । अत्र पक्षे एकत्र शक्तिग्रहे वृत्तेऽपि तत्प्रदेशस्थस्यैव तत्रार्थे शक्तिरिति सम्भावनया प्रदेशान्तरस्थे बोधो न स्यादिति सर्वप्रदेशेषु तत्तत्पदशक्तिग्रहपूर्वकं विधिवाक्यार्थबोधः। यथोद्देशे तु एकदैव शक्तिग्रहात्सर्वत्र बोध इति विशेषः। एतेन- **कार्यकालपक्षे तपरत्वं स्पष्टार्थमेव, आदैच्पदार्थस्य विधेयत्वेन सवर्णग्रहणाप्रसक्तेः । यत्र वृद्धिपदं तत्रादैजित्युपतिष्ठते इति क्रमेण सञ्ज्ञासूत्राणामर्थात् ** इत्यपास्तमित्यन्यत्र विस्तरः । अत्रातद्भावितानामपि आदैचां ग्रहणं, तेन शालीयादिसिद्धिः ।

Balamanorama

वृद्धिरादैच् - इदानीं संज्ञान्तराणि विधास्यन् वृद्धिसंज्ञां तावदाह — वृद्धिरादैच् । यद्यपि पाणिनीयाष्टाध्याय्यामिदमादिमं सूत्रं, तथापि नेदमादावुपन्यस्तम्, अस्य सूत्रस्य तपरकरणेन प्रत्याहारगर्भितत्वेन ग्रहणकशास्त्रनियमार्थतपरसूत्रप्रत्याहारसूत्रप्रवृत्त्युत्तरप्रवृत्तिकतया प्रत्याहरशास्त्रप्रपञ्चनिरूपणात्प्रागुपन्यासनर्हत्वात् । न च सूत्रकृता अयमेव पाठकमः कुतो नाद्रियत इति वाच्यम् । स्वतन्त्रेच्छस्य महर्षेर्नियन्तुमशक्यत्वात् । आच्च ऐच्चेति समाहारद्वन्द्वः ।द्वन्द्वाच्चुदषहान्तात् इति समासान्तस्तु न, अत एव निर्देशेन समासान्तविधेरनित्यत्वात् । ‘चोः कुः’ इति पदान्ते विहितं कुत्वमपि न ।अयस्मयादीनि छन्दसि॑ इति भत्वात् । ‘वृद्धिरादैजदेङ’ इति संहितापाठपक्षे चकारस्य ‘झलां जशोऽन्ते’ इति पदान्ते विहितजश्त्वं तु भवत्येव,उभयसंज्ञान्यपि छन्दसि दृश्यन्ते॑ इति वचनात् ,छन्दोवत्सूत्राणि भवन्ति॑ इति छान्दसविधीनां सूत्रेष्वपि प्रवृत्तेः । नचैवमपि पदत्वात्कुत्वं भत्वाज्जश्त्वाऽभावश्च कुतो न स्यादिति वाच्यम्,छन्दसि दृष्टानुविधिः॑ इति वचनादित्यलम् ।आच्च ऐच्चेतीतरेतरयोगद्वन्द्वो वा । तथा सति सौत्रमेकवचनम् । आचार्यपारंपर्योपदेशसिद्धसंज्ञाधिकारात् संज्ञेति लभ्यते । तदेतदाह — आदैच्चेत्यादिना ।

Tattvabodhini

वृद्धिरादैच् - वृद्धिरादैच् । आच्च ऐच्चेति इतरेतरयोगद्वन्द्वः,सुपां सुलु॑ गिति औङः सुर्लुग्वा । यद्वा समाहारद्वन्द्वः । नचैवंद्वन्द्वाच्चुदषहान्तात्समाहारे॑ इति टच्स्यादिति वाच्यम्, समासान्तविधेरनित्यत्वात् । तत्र च प्रमाणं समासेषु वक्ष्यामः । अथवाआ॑दित्यसमस्तमेवास्तु, वृद्धिशब्दस्तन्त्रेणावृत्त्यां वा योजनीयः । यस्मयादित्वेन भत्वाच्चोः कुर्न ।ऐ॑जिह द्विमात्र एव, तात्परत्वात्, तेनकृष्णैकत्व॑मित्यत्र त्रिमात्रो न । वृद्धिप्रदेशाः-वृद्धिरेचि॑त्यादयः ।

Padamanjari

त्रिपदमिदं सूत्रम् - वृद्धिः, आद्, ऐज् इति । अत्र चाकारः प्रयोगस्थैराकारैरर्थवान् । जात्यभिप्रायं चैकवचनम् । ऐच्छब्दस्तु ऐकारौकाराभ्याम् । संज्ञिनोर्द्वित्वेऽपि द्विवचनं न भवति; द्वयोरप्येकशब्दरूपरूषितत्वेनैक्यमापन्नयोरिवाभिधानात् । एवं सर्वेष्वेव प्रत्याहारेष्वेकवचनं द्रष्टयम् । समाहारद्वन्द्वो वा - आदैजिति । ‘द्वन्द्वाच्चुदषहान्तात् समाहारे’ इति समासान्तस्तु न भवति; समासान्तविधेरनित्यत्वात् । अनित्यत्वं च ‘द्वित्रिभ्यां पाद्दन्मूर्द्धसु’ इति मूर्द्धन्शब्दस्य निर्द्देशादवसीयते । अन्यथा ‘द्वित्रिभ्यां ष मूर्ध्नः’ इति षप्रत्ययान्तत्वान्मूर्धेष्विति निर्द्देश्यं स्यात् । आदैच्छब्दात्समासत्वादर्थवत्वाद्वा विभक्त्युत्पतौ ‘चोः कुः ‘ पदस्येति कुत्वं प्राप्तम्, अयस्मयादित्वेन भत्वान्न हि भविष्यति; छन्दोवत्सूत्राणि भवन्ति । वृद्धिशब्दस्य त्रयीशब्दानां प्रवृत्तिरिति पक्षे ‘वृधु वृद्धौ’ इत्यस्माद्भावे क्तिनि व्युत्पत्तिः, अभेदोपचाराच्च वृद्धियुक्तेष्वादैक्षु वृत्तिः । न चैवं लक्षणयैवादैक्षु वृद्धिशब्दस्य वृत्तिसिद्धेः सूत्रस्यानर्थक्यम्; नियमार्थत्वात् । अन्यथा वर्द्धनक्रियायोगिष्विकारादिषु प्लुतेषु च वर्तेत । मा तत्र वर्तिष्ट, आदैक्ष्वेव वर्ततामिति नियमः । चतुष्टयीपक्षे तु कथम्, यावतश्च संज्ञात्वेन विनियुक्ते सति ‘सिचि वृद्धिः’ इत्यादौ प्रदेशान्तर एव वृद्धिशब्दस्यादैक्षु प्रवृत्तिर्युक्ता, न त्वत्रैव संज्ञाविनियुक्तिकाले ? उच्यते; ‘नित्यः शब्दार्थसम्बन्धः’ इति दर्शनेन क्वचिदपि पुरुषव्यापारात्प्रअग् वाचकः सन् पुरुषव्यापारेण वाचकः क्रियते । अतः सर्वे शब्दाः संज्ञारूपेण सर्वानर्थान् प्रतिपादयितुं समर्थाः । तत्रानियतार्थेन व्यवहारासिद्धेर्नियमार्थ एव पुरुषव्यापारः - मया प्रयुक्तस्य वृद्धिशब्दस्यादैजर्थ इति । एवं तावत्पदार्थो व्याख्यातः । वाक्यविषयाः पुनरष्टौ विकल्पाः-अनर्थकम्, साध्वनुशासनम्, प्रयोगनियमार्थम्, आदेशार्थम्, आगमार्थम्, विशेषणार्थम्, तद्गुणाध्यारोपार्थम्, संज्ञार्थमिति । तत्रानर्थकाभिधानं प्रमादाश्रयदोषादनवधानादशक्तेर्वा भवति । न चैतच्चतुष्टयं भगवतः सम्भवति; आचार्यो हि दर्भपवित्रपाणिः शुचाववकाशे प्राङ्मुख आसीनो मङ्गलपूर्वकं महता प्रणिधानेन सूत्राणि प्रणीतवान् । तत्राशक्यं वर्णेनाप्यनर्थकेन भवितुम्, किं पुनरियता सूत्रेण ! साध्वनुशासनमपि न भवति, सिद्धत्वाद्वृद्धिशब्दस्य क्तिन्नन्तत्वात्, आदैच्छब्दस्य चार्थवत्वात् । ननु छन्दोवद्भावेन सूत्र एव प्रयोगः सिद्ध्यति, सूत्राद्वहिरपि कुत्वाभावार्थं निपातनमेतत् स्यात्, उच्यते; वृद्धिशब्दस्यैवमनन्वयप्रसङ्गः, संभूयकारित्वं च पदानां व्युत्पत्तिसिद्धम्, अतो नायं पक्षः । नापि प्रयोगनियमार्थम्, यत्र हि सहप्रयोगप्रसङ्गस्तत्र नियमः कर्तव्यः । न च वृद्ध्यादैच्छब्दयोः सहप्रयोगप्रसङ्गः, विनियोगात्प्रागसम्बन्धाद् उतरकालं वृद्धिशब्देनैव गतत्वात् । किं च नेह प्रयोगनियम आरभ्यते । नन्वारभ्यते,’परश्च’ इति ? पदस्य नारभ्यते । पदस्याप्यारभ्यते ‘उपसर्जनं पूर्वम् ‘ इति ? ययोरैकपद्यं नास्ति तयोर्नारभ्यते । तयोरप्यारभ्यते ‘ते प्राग्धातोः’ ‘कृञ्चानुप्रयुज्यते लिटि’ इति ? नैवंविधेनोच्चारणेनारभ्यते । एवमप्यारभ्यते ‘विदाङ्कुर्वन्त्वित्यन्यतरस्याम्’ इति ? नात्र केवलः प्रयोग एव नियम्यते, किन्तु आमादिकमपि विधीयते, अतः केवलस्य प्रयोगनियमस्य साक्षादुच्चारणेन क्वचिदप्यभावान्नायं प्रयोगनियमः । आदेशार्थमपि न भवति; स्थान्यर्थाभिधानसमर्थस्यैव ह्यादेशत्वम् । न च वृद्धिशब्द आदैचाम्, ते वा तस्यार्थमभिधातुं समर्थाः । निर्देशाच्च; यदयं ‘सिचि वृद्धिः’ ‘यातिवातिद्राति’ ‘रायः’ङावः’ इत्याह, ततो ज्ञायते - न वृद्धिशब्द आदैचां ते वा तस्यादेशाः इति । अथादैच्शब्दस्य वृद्धिशब्द आदेशः कस्मान्न भवति, न ह्यत्र किं चिल्लिङ्गमस्ति ? सत्यम्; अयं तु पक्षो न संभवत्येव, ऐच्छब्दो ह्यादिरन्त्येनेति संज्ञात्वेन विनियुक्तः कथमस्य स्वरूपस्य ग्रहणम्; अशब्दसंज्ञेति निषेधात् । एतैरेव लिङ्गैरागमार्थत्वं न भवति । षष्ठ।ल्भावाच्च, ‘पूर्वौ तु ताभ्याम्’ इति पञ्चम्याः षष्ठ।ल्र्थोऽवगम्यते । टित्वादिलिङ्गाभावाच्च, न हि तद्रहितः कश्चिदागमो दृष्टः । विशेषणत्वमपि न भवति, असंभवादप्रयोजनत्वाच्च । न ह्यस्ति संभवो वृद्धशिब्दश्चासावादैच्छब्दश्चेति, नापि वर्द्धनक्रियाऽऽदैज् इति । एवं विशेषणे च प्रयोजनमपि नास्ति । एतेन तद्गुणाध्यारोपोऽपि निरस्तः । यथा हि सिंहो माणवक इति सिंहगुणा माणवके आरोप्यन्ते, नैवमत्र सम्भवः प्रयोजनं वाऽस्ति; अतः पारिशेष्यात्संज्ञासंज्ञिसम्बन्ध एवेत्यालोच्याह-ऽवृद्धिशब्दऽ इत्यादि । विपर्ययस्तु न भवति - वृद्धिशब्दः संज्ञी, आदैचः संज्ञेति । स हि त्रिधा स्यात् - आदैजित्ययं शब्दः, आ ऐ औ इत्ययं समुदायः, ते वा प्रत्येकमिति । तत्रादैच्छब्दस्तावन्न सम्भवति; ऐजित्यस्य संज्ञाशब्दत्वात्, स्वरूपग्रहणासम्भवात्, गौरवाद्, अनावृतेश्च । आवर्तिन्यो हि संज्ञा भवन्ति, वृद्धिः शब्दश्चावर्तते; नादैच्छब्दः । नापि समुदायः, गौरवादनावृतेश्च । अस्तु तर्हि प्रत्येकम्, लाघवादावृतेश्च - ‘अष्टन आ विभक्तौ’, ‘पूतक्रतोरै च’ ‘मनोरौ वा ‘ इति ? न; प्रयोजनमन्तरेणैकस्यानेकसंज्ञाकरणस्यायुक्तत्वात्, न ह्ययं वृद्धिशब्दः सहस्रेण नामभिः स्तोतव्यः । शब्देनार्थस्य संज्ञात्वं मा विज्ञायीति शब्दग्रहणम्, एतच्चार्थे व्यवहारासम्भवाल्लभ्यते । तदिह वृद्धिशब्दः संज्ञात्वेन विधीयत इति समुदायेनानर्थकादिपक्षनिरासः । वृद्धिशब्द इत्यनेन विपर्ययनिरासः । वृद्धिशब्दः संज्ञा, न पुनरादैच्छब्द इति वचनव्यक्त्या शब्दग्रहणेनार्थनिरासः-वृद्धिशब्दः संज्ञा न पुनरर्थ इति । यत्र समुदायस्य कार्यमिच्छति करोति तत्र प्रयत्नम् - ‘उभे अभ्यस्तम्’ इति । तत्र ह्युभे ग्रहणं समुदितप्रतिपत्यर्थम् । अन्वर्थां वा महतीं संज्ञां करोति-‘हलोऽनन्तराः संयोगः’ इति । इह तु महासंज्ञाकरणं मङ्गलार्थम् । अत एव प्रथममुच्चारणम्; अन्यथा हि सतः कार्यिणः कार्येण भवितव्यमिति ‘अदेङ् गुणः’ इत्यादिवन्निर्दिश्येत । अतो यत्नाभावात्प्रत्येकमेव संज्ञा । किञ्च - लौकिकप्रयोगे व्यवस्थितानामादैचां संज्ञया भवितव्यम् । न च समुदायस्य क्वचित्प्रयोगः, अतोऽसंभवादपि प्रत्येकमेव संज्ञा । लिङ्गाच्च-किं लिङ्गम् ? ‘प्रस्थे वृद्धमकर्क्यादीनाम्’ ‘मालादीनां च’ इति । इदं हि ‘मालाप्रस्थः’ इत्यादाववृद्धमिति पर्युदासे प्राप्ते वचनम्,अतः प्रत्येकमेव संज्ञा तदाह-प्रत्येकमिति ॥ तत्रापि त्रयः प्रकाराः-लुगादिसंज्ञावतद्भावितानामेव, टिसंज्ञावद्वाऽतद्भावितानामेव, अनुनासिकादिसंज्ञावदुभयेषां वेति । तत्र यदि तद्भावितानामेव - ये वृद्धिसंज्ञया भाव्यन्ते, तेषामेव स्यात्, शालीयो मालीय इति छाए न स्यात्; आम्रमयं रैकुलमयम् - वृद्धलक्षणो मयण् न स्यात्; आम्रगुप्तायनिः - ‘उदीचां वृद्धात्’ इति फिञ् न स्यात् । अथातद्भावितानामेव - गार्गीयः, ऐतिकायनीयः, औपगवीयः-छाए न स्यात् ; अतो दोषदर्शनादगृह्यमाणविशेषत्वाच्चोभयेषां संज्ञेत्याह-ऽसामान्येनेऽति । आकारोऽनण्त्वादेव न भिन्नकालानां ग्राहक इति न तन्निवॄत्यर्थं तपरत्वम्, नापि गुणान्तरयुक्तानां ग्रहणार्थम् । अभेदकत्वाच्च गुणानाम्, लोके हि मुण्डेनापि चौर्ये कृते संजातकेशोऽपि प्रत्यभिज्ञाय निगृह्यते । तथा ‘अडुदातः’ इत्युदातवचनं लिङ्गम्, अन्यथा ह्युदातगुणमेवाटमुच्चारयेत् । अतोऽनर्थकं तपरकरणमित्यत आह - ऽतपरकरणमिऽति । तश्चासौ परश्च तपरः, तस्य करणमुच्चारणम्, आकारात्परस्य तकारस्योच्चारणमित्यर्थः । अथ वा-तः परो यस्मादिति तद्गुणसंविज्ञानो बहुव्रीहिः, तकारसहितस्याकारस्योच्चारणमित्यर्थः । ऽऐजर्थमिऽति । ऐचोरर्थः प्रयोजनं यस्य ततथोक्तम् । ‘तपरस्तत्कालस्य’ इत्यत्र तः परो यस्मादिति बहुव्रीहिराश्रितः । तत्कथं तपरकरणमैजर्थमित्याशङ्क्य पञ्चमीसमासोऽपि तत्राश्रित इति दर्शयति-ऽतादपि परऽ इति । इतिकरणो हेतौ । यस्मात् तादपि परस्तस्मादैजर्थ इति । ऐजर्थत्वमेव प्रकटयति - ऽखट्वैलकादिष्विऽति । असति तपरकरणे त्रिमात्रचतुर्मात्रयोरप्यैचोः सवर्णग्रहणेन ग्रहणाद् वृद्धिसंज्ञा स्यात्, ततश्च वृक्षैलकः, वृक्षौदनः, खट्वैलका, खट्वौदन इति त्रिमात्रचतुर्मात्रस्थानिनोस्त्रिमात्रचतुर्मात्रावेवैकारौकारौ स्यातामिति तन्निवृत्यर्थं तपरकरणम् । आश्वलायन इत्यादीनि तद्भावितानामाकारादीनां क्रमेण रूपोदाहरणानि । अश्वलेतिकशब्दौ नडादी । उपमन्युशब्दो बिदादिः । लक्षणस्य बहुविषयत्वसूचनार्थं चतुर्थस्योदाहरणस्योपन्यासः । आकारस्यातद्भावितस्य कार्योदाहरणमाह - ऽशालीयः, मालीयऽ इति । ऐकारौकारयोस्त्वतद्भावितयोरुदाहरणं रैकुलमयं नौकुलमयमिति, वृद्धलक्षणो मयड् भवति ॥

Nyaas

वृद्धिः,आत् ऐच्- इति केचित् त्रिपदमिदं सूत्रं वर्णयन्ति। अन्ये तु, आच्च, ऐच्च् इति आदैजिति समाहारे द्वन्दोऽयमिति मत्वा वृद्धिः, आदैच् इति द्विपदम्।इतरेतरयोगे हि बहुत्वाद्बहुवचनं स्यात्। ननु च समाहारेऽपि द्वन्द्वाच्चुदषहान्ता-त् (5.4.106) इति टच् समासान्तः स्यात्; समासान्तविधेरनित्यत्वान्न भविष्यति। अनित्यत्वं षष्ठे ज्ञापयिष्यते। अथ चोः कुः (8.2.30) इति कुत्वं कस्मान्न भवति? अय-स्मयादीनि च्छन्दसि (1.4.20) इति भसञ्ज्ञकत्वात्। आदिशब्दस्य प्रकारवाचित्वादैच्छ-ब्दोऽयमयस्मयादिषु द्रष्टव्यः। ननु तत्र च्छन्दसीत्युच्यते, न चेदं छन्दः, तत्कुतो भसञ्ज्ञा? छन्दोवत् सूत्राणि भवन्ति इत्यदोषः।इहेदं सूत्रमनर्थकं वा स्याद्यथाकथञ्चिदुदात्तादिवचनवत्? साध्वनुशासनार्थवा, वृद्धिशब्दस्यादैचाञ्चानेन साधुत्वमाख्यायत इति? प्रयोगनियमार्थं वा, आदैच पर एव वृद्धिशब्दः प्रयोक्तव्य इति? आदेशार्थवा, आदैचां वृद्धिशब्द आदेशो भवति ते वा तस्येति? आगमागमिसम्बन्धार्थं वा, आदैचां वृद्धिशब्द आगमो भवति, ते वा तस्येति? विशेषणविशेष्यभावप्रसिद्ध्यर्थं वा, आदैचां वृद्धिशब्दो विशेषणम्, ते वा, तस्येति?एकविभक्तिकत्वं ह्यत्र दृष्टम्, दृष्टश्चैकविभक्तिकयोर्विशेषणविशेष्यभावः, तद्यथा नीलमुत्पलमिति; सञ्ज्ञासञ्ज्ञिसम्बन्धार्थं वा? दृश्यते हि सोऽप्येकविभक्तिकयोः, तद्यथा अयं पनसः इति? तत्र तावदाद्यः पक्षो नोपपद्यते। सगषिगतज्ञानातिशयो ह्राचार्यः परहितप्रतिपन्नः समाहितचेताः शिष्याणां कृतरक्षासंविधानो मङ्गलपूर्वकं महता प्रयत्नेन सूत्राणि प्रणीतवान्। तत्राशक्यमेकेन वर्णनाप्यनर्थकेन भवितुम, किं पुनरियता सूत्रप्रबन्धेन!नापि शक्यं वृद्धिशब्दस्यादैचां च साधुत्वमनेन विधीयत इति विज्ञातुम्, लक्षणान्तरेण विहितत्वात् तेषां साधुत्वस्य। तथा हि वृद्धिशब्दोऽयम-विशेषेणचोपदिष्टः। वृधु वृद्धौ (धातुपाठः-759) इत्यतः क्तिन्प्रत्ययः स्त्रियां क्तिन् (3.3.94) इति, झषस्तथोर्धोऽधः (8.2.40) इति धत्वम्, झलां जश् झशि (8.4.53) इति धकारस्य दकारः। आदैचोऽप्यक्षरसमाम्नाय उपदेशात्। ऐचोऽक्षरसमाम्नाय उपदेशः, नाकारस्येति चेत्? अवर्णजातेरुपदेशात् सोऽपि गृह्रत इत्यदोषः। अथाप्यकारव्यक्तेरुपदेशः? एवमप्यदोषः। अणुदित् सवर्णस्य चाप्रत्ययः (1.1.69) इत्यकारेण गृह्रमाणेनाकारस्यापि ग्रहणात्। प्रयोगनियमार्थमप्येतन्नार्हति भवितुम। प्रयोगनियमार्थे ह्रेतस्मिन्? सिचि वृद्धिः (7.2.1) मृजेर्वृद्धिः` (7.2.114) इत्यादावनादैच्परस्य वृद्धिशब्दस्य प्रयोगो नोपपद्यते। कथं हि नाम स्वयमेव नियमं कृत्वा तमनादैच्परं प्रयुञ्जीत!अन्यस्तु प्रयोगनियमार्थमेतन्न भवतीति प्रतिपादयितुमाह- नह च प्रयोगनियमा-र्थमारभ्यत इति। ननु चायं प्रयोगनियमार्थमेवारभ्यते ते प्राग धातोः (1.4.80) इति? ते गत्यपसर्गसञ्ज्ञका धातोः प्रागेव प्रयोक्तव्याः इति परेण चोदिते परिहारमाह- प्रत्याख्यायते स योगः, न वा, तथानिष्टदर्शनात् इति। न हि प्रपचतीति प्रयोक्तव्ये कश्चित् पचति प्र इति प्रयुङ्कते। अथापि न प्रत्याख्यायेत, एवमपि न दोषः, यतः सञ्ज्ञानियमोऽयं न प्रयोगनियमः, ते प्रादयो धातोः प्राक् प्रयुज्यमाना एव गत्युपस-र्गसञ्ज्ञका भवन्तीति। अथापि प्रयोगनियमार्थं स्यात्, एवमपि न दोषः, लौकिकानां शब्दानामर्थे प्रयुक्तानां प्रयोगनियम आरभ्यते, आदैच्छब्दश्च लौकिकः, तस्य किं प्रयोगनियमार्थेन वचनेनेति? तत्र यदुक्तं प्रत्याखायायते स योगः इति, तदयुक्तम्। न हि सार्थकस्य प्रत्याख्यानं युक्तम्। निरर्थकः स इति चेत्? अत्राप्यनर्थकत्वाशङ्काप्रसङ्गः। यदि ह्रनर्थकान्यपि कानिचित् सूत्राणि प्रणीतवान् सूत्रकार इत्येषोऽ-ध्यवसायः स्यात्। तस्मात तस्य प्रामाण्यमभ्युपगच्छता सर्वं तत्प्रणीतं येन केनचित् प्रकारेण सार्थकमभ्युपेयम्। योऽपि सञ्ज्ञानियमपक्षमाश्रित्य परिहार उक्तः, सोऽपि वृत्त्या विरुध्यते। ते गत्युपसर्गसञ्ज्ञका धातोः प्राक् प्रयोक्तव्याः इत्यनेन हि वृत्तिग्रन्थेन प्रयोगनियम एवाश्रित इति स्पष्टमेवाख्यातम्। न च वृतिंत व्याख्यातुमुद्यतस्य तद्विरुद्धं व्याख्यानं युज्यते कर्तुम।यदप्युक्तं लौकिकानां शब्दानाम् इत्यादि, तदपि न प्रयोगनियमार्थता-शङ्कापनोदायालम्। तथा हि विभाषा सुपो बहुच् पुरस्तातु (5.3.68) , `अव्ययसर्व-नाम्नामकच् प्राक् टेः (5.3.71) , कृञ्चानुप्रयुज्यते लिटि (3.1.40) इत्यलौकिकानामपि बहुजादीनं शास्त्रे प्रयोगनियमो दृश्यते, तत्र भवितव्यमेवाशङ्क्या, किमेतत् प्रयोगनियमार्थम्, अथान्यार्थमित्यलमतिप्रसङ्गेन। तस्मात् पूर्वोक्त एव परीहारो युक्तः।आदेशार्थमप्येतच्छक्यते न विज्ञातुम्। यदि ह्रादैचामनेन वृद्धिशब्द आदेशो विधीयेत, य एते निर्देशाः याति वाति द्राति प्साति (8.4.17) इति, यश्च रायो हलि (7.2.85) इति, यश्च नावो द्विगोः (5.4.99) इति, ते नोपपद्येरन्। अथ वृद्धिशब्द-स्यादैच आदिश्येरन्, एवमपि इद्वृद्धौ (6.3.28) , वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे (6.3.39) इत्येवमादयो निर्देशा न सम्भवेयुः। अत एवागमार्थमप्येतन्नोपपद्यते। न ह्रादैचां वृद्धिशब्द आगमे विहिते तस्य वा तेषु पूर्वोक्ता निर्देशा उपपद्यन्ते।अन्यस्त्वाह- आदेशविधाने स्थान्यादेशसम्बन्धे षष्ठआ भवितव्यम्, आगमविधानेप्यवयवावयविसम्बन्धे, न चेह षष्ठी विद्यते, तस्मात् षष्ठआ अभावान्नेदमादेशार्थम्, नाप्यागमार्थम् इति। एतच्चासम्यक्। विनाऽपि षष्ठआ हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) , अनिते (8.4.19) , अन्तः (8.4.19) , उभौ साभ्यासस्य (8.4.21) इत्यावेशविधानदर्शनात्। आगमविधानस्यापि न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् (7.3.3) इति षष्ठीमन्तरेणापि दर्शनात् विशेषणविशेष्यभावप्रसिद्ध्यर्थमप्येतन्न् सम्भाव्यते। तथा हि सम्भवव्यभिचारे च सति विशेषणविशेष्यभावो भवति, नीलोत्पलवत्। न चेहादैचां वृद्धिशब्दे तस्य वा तेषु सम्भवः। ननु च यथोत्पलशब्दःसर्वत्रोत्पलार्थे वर्तमानो नीलशब्देनार्थान्तराद्वयवच्छिद्यत इति व्यवच्छिद्यमानो विशेष्यो भवति, नीलशब्दस्तु व्यवच्छिन्दन् विशेषणम्, तथानयोरपबि यो वयवच्छेद्यः स विशेष्यो भवति, यस्तु व्यवच्छेदकः स विशेषणमिति? नैतदस्ति। उभयोर्हि सार्थकत्वे सत्येतदुपपद्यते, नीलोत्पलशब्दवत्। न चादैचोऽर्थवन्तः। भवतु नामानयोर्विशेषणविशे-ष्यभावः, तथापि नैतत्सिद्ध्यर्थमिदं युक्तम्; निष्प्रयोजनत्वात्, तत्पुनः प्रकृतानुपयोगित्वात्। शब्दानुशासने हि शास्त्रे प्रकृते यग्नाम शब्दसंस्कारानुपयोगिवचनं तत्सर्वमप्रयोजनम्। शब्दसंस्कारानुपयोगित्वं त्वेतत्प्रतिपदितेन विशेषणविशेष्यभावेनवृद्धिशब्दस्यादैचां वा स्वरविशेषस्य वा रुपविशेषस्य वा संस्कारस्यासिद्धेः। विशेषणविशेष्यभाव एव तेषां संस्कार इति चेत्? यद्येवम्, अत्यल्पमिदमुच्यते**वृद्धिरादैच्** (1.1.1) इति। नीलोत्पलमित्यद्पि हि वक्तव्यम्, नीलोत्पलादिशब्दानां विशेषणविशेष्यभावप्रसिद्धये। न चोक्तम्, अतो नैष संस्कारोऽभिमत इति नास्य तादथ्र्यं सम्भाव्यते।ननु तुल्यविभक्तिकानां तद्गुणसमाध्यारोपोऽपि दृष्टः, तद्यथा सिंहो माणवकः इति, तस्मात् तदर्थमेतद्भविष्यतीति यत्पक्षान्तरमेके परिकल्पयाम्बभूवुः, तदर्थम-प्येतन्न भवति, तद्गुणसमाध्यारोपस्य सतोऽप्यत्र प्रकृतानुपयोगित्वेनानर्थकत्वात्। तस्मात् पारिशेष्यात् सञ्ज्ञासञ्ज्ञिसम्बन्धार्थमेवैतदित्यालोच्याह-वृद्धिशब्दःसञ्ज्ञात्वेन इत्यादि। भवतु नाम परिशेष्यात्तदर्थम्। एतत् कुतो लभ्यते? वृद्धि-शब्दः सञ्ज्ञा, आदैचः सञ्ज्ञिनः इति। विपर्ययः कस्मान्न भवति,आदैचः सञ्ज्ञा, वृद्धिशब्दः सञ्ज्ञी इति? नार्हति विपर्ययो भवितुम्। तथा हि, लघ्वर्थत्वात् सञ्ज्ञाकरणस्य, यस्मिन्नुच्चार्यमाणे प्रदेशेषु लाघवं भवति तस्य सञ्ज्ञार्थत्वेन भाव्यम्। वृद्धिशब्दे च विभक्तिकेऽप्युच्चार्यमाणे लाघवं भवति, नादैक्षु; यस्माद्वृद्धिशब्द उच्चार्यमाणे चतस्त्रो मात्रा भवन्ति, आदैक्षु तु पञ्च। न चादैचां प्रत्येकंसञ्ज्ञाभावाल्लाघवं भवतीति शक्यं परिकल्पयितुम्, प्रयोजनविशेषमन्तरेणैकस्थाने-सञ्ज्ञाविधानस्य निष्फलत्वात्। किञ्चावर्तिभ्यः सञ्ज्ञा भवन्ति। वृद्धिशब्दश्चावर्तते, नादैच्छब्दः तस्मान्न भवति विपर्ययः वृद्धिशब्दः इति। शब्दग्रहणमर्थव्यवच्छे-दार्थम्। असति हि तस्मिन् शब्दादर्थावगतेरर्थस्यैव सञ्ज्ञात्वं विज्ञायेत। यद्यपि प्रागेव सञ्ज्ञा विहिता, तथापि शिष्यप्रशिष्यप्रबन्धाद्युपरमाद्विधीयत इतिवर्तमानप्रयत्वेन् निर्देशः। यत्र समुदास्य कार्यमिच्छति तत्र उभेपदग्रहणं करोति, यथा उभेअभ्यस्तम् (6.1.5) इति, अन्वर्थां वा महतीं सञ्ज्ञाम्, हलोऽन्तराः संयोगः (1.1.7) इति। तत्र हि महती सञ्ज्ञैवमर्था क्रियते, समुदायस्यैषा सञ्ज्ञायथा स्यादिति। एतच्चोत्तरत्र व्यक्तीकरिष्यामः। इह तु न किञ्चित्तथाविधं वचनमस्ति यतः समुदायस्यै-षा सञ्ज्ञा स्यात्। तस्मादेकैकस्यैषा सञ्ज्ञेति मनसि कृत्वाह प्रत्येककम् इति।ननु चेहापि लाघवार्थमेकाक्षरायां सञ्ज्ञायां कर्तव्यायां वृद्धिरिति महत्याः सञ्ज्ञायाःकरणं समुदायस्य सञ्ज्ञा यथा स्यादित्येवमर्थम्? नैतदस्ति। मङ्गलार्थत्वा-दस्याः सञ्ज्ञायाः। अत एवास्याः प्रागुच्चारणम्। अन्यथा सञ्ज्ञायाः सतः कार्यिणः कार्येण भवितव्यमिति, यथा अदेङ्गुणः (1.1.2) इत्यादौ पूर्वसञ्ज्ञीनिर्दिष्ट-,तथेहापि निर्दिशेत्। आकारस्य गुणान्तरयुक्तयोश्चैचोः प्रत्याहारेऽसन्निवेशान्नामी वर्णा इति कस्यचिन्मन्दधियो भ्रान्तिः स्यात्, अतस्तन्निराकरणायाह-वर्णानाम् इत्यादि। प्रत्यासत्तेस्तद्भावितानामेवैषां सञ्ज्ञा स्यादिति कस्यचिद्विपर्ययः स्यात्, अतस्तमपाकर्तुमाह-सामान्येन इति। व्याप्तेन्र्यायादित्यभिप्रायः। सामान्येनेत्यस्यार्थं विस्पष्टीकर्तुमाह- तद्भावितनाम् इत्यादि। ते तद्भाविताःये वृद्धिशब्देनोत्पादिताः, ततोऽन्येऽतद्भाविताः। आदिति तपरकरणम्-तपरस्तत्कालस्य (1.1.70) इति गुणान्तरभिन्नानामपि तुल्यकालानां ग्रहणार्थं वा स्यात्, भिन्न-कालानां ग्रहणनिवृत्त्यर्थं वा? तत्र्पूर्वः पक्षस्तावन्नोपपद्यते; अभेदकत्वादिहोदात्तादीनां शास्त्रे गुणानाम। कुत एतत्? लुङलङलृङक्ष्वडुदात्तः (6.4.71) इत्युदात्तग्रहणात्, अन्यथा ह्रुदात्तगुणयुक्तमेवाटमुच्चारयेत्। द्वितीयोऽपि नोपपद्यते।यदि ह्राकारः सवर्णानां ग्राहकः स्यात्, ततस्तेन भिन्नकालस्याप्यवर्णस्य ग्रहणे सति तस्यापि सञ्ज्ञा मा भूदिति भिन्नकालानां ग्रहणनिवृत्त्यर्थं तपरकरणमुपपद्यते। नचासौ सवर्णानां ग्राहकः, अनण्त्वात्, तस्य पुनरक्षरसमाम्नायेऽसन्निवेशात्। तस्मादनर्थकं तपरकरणम्। ततो न कर्तव्यमेवेत्यत आह- तपरकरणम् इत्यादि। एचोरर्थः प्रयोजनंयस्य् तत् तथोक्तम्। ननु च जातौ पदार्थे प्लुतस्यापि ग्रहणं भवति, तत्राप्यवर्णजातेः समवयात्, तत्रासति तपरकरणे तस्यापि सञ्ज्ञा स्यत्, तस्मात् तन्निवृत्तय तपरकरणं भवदाकारार्थमप्युपपद्यत एव, तत्किमुच्यते एजर्थम् इति? एवं मन्यते-जातिपक्षसमाश्रयणेऽपि हि दीर्घोच्चारणसामर्थ्याद्द्विमात्रा एवावर्णव्यक्तयःसमाश्रिता इति गम्यते, इतरथा हि लाघवार्थम्? अद् इत्येवाभिदध्यात्। न च ह्रस्वनिवृत्त्यर्थं दीर्घोच्चारणमिति शक्यते परिकल्पयितुम्, दीर्घोच्चारणेऽपि ह्रस्व-ग्रहणं प्राप्नोत्येव, तत्राप्यवर्णजातेः सम्भवादिति। न चासन्देहार्थम् आत् इत्युक्तम्, वर्णान्तरासाधारणत्वात्, असंहितया वा सन्देहाभावादिति। ननु च तपरस्तत्कालस्य (1.1.70) इत्यत्र तः परो यस्मादिति बहुव्रीहिराश्रितः, न चात्रैच् तपरः, तत्कथं तपरकरणमैजर्थं भवतीत्यत आह- तावपि परस्तपरः इति। न केवलं तः परो यस्मात् स तपर इति, अपि तु तादपि यः परः सोऽपि तपर इति अपिशब्देन दर्शयति। एतदुक्तं भवति, न केवलं बहुव्रीहिरेव तत्राश्रीयते, किं तर्हि? पञ्चमीतत्पुरुषोऽपि। यता चैतदुभयमा-श्रीयते तथा तत्रैवोपपादयिष्यामः। इति करणो हेतौ यत एवं तादपि परस्तपरः, तेन तपरकरणमैजर्थमित्यर्थः।खट्वैडकादिषु इत्यादिना तदेवैजर्थत्वं तपरकरणस्य स्पष्टीकरोति।वृक्ष एलका वृक्षैलका। अक्रियमाणे ह्यत्र तपरकरणे त्रिमात्रिकस्याकारैकारसमुदायस्यस्थाने वृद्धिरेचि` (6.1.85) इति वृद्धिरान्तरतम्यात् त्रिमात्रिक एवैकारः स्यात्यदि तस्यापि वृद्धिसञ्ज्ञा स्यात्। खट्वा ओदनं खट्वौदनम्, खट्वा एलका खट्वैलका इत्यत्रापि पूर्वोत्तरसमुदाययोश्चतुर्मात्रायोश्चतुर्मात्रावकारैकारौ स्याताम्,तन्मा भूदेष दोष इति त्रिमात्रचतुर्मात्राणामैचां वृद्धिसञ्ज्ञानिवृत्तये तपरकरणं क्रियते। आआलायनः, ऐतिकायनः` इति। अआलेतिकशब्दाभ्यां नडादिभ्यः फक् (4.1.99) , यस्येति च (6.4.148) इति लोपः, किति च (7.2.118) इत्यादिवृद्धिः। औपगवः इति।उपगुशब्दात् प्राग्दीव्यतोऽण् (4.1.83) । औपमन्यवः इति। उपमन्युशब्दात अनृष्यानन्तर्ये बिदादिभ्योऽञ् (4.1.104) इत्यञ्, उभयत्रापि ओर्गुणः (6.4.146) , अवादेशः (6.1.75) , तद्धितेष्वचामादेः (7.2.117) इति वृद्धिः। एतानि चत्वार्यपि तद्भावितो-दाहरणानि। ननु येऽत्र त्रयः सञ्ज्ञिनस्तेषामाद्यैस्त्रिभिर्विषयो दर्शितः, किमर्थ-श्चतुर्थोपन्यासः? केचिदाहुः- वद्धिनिमित्तभेदात्, आद्ययोरुदाहरणयोः कित्तद्धितो वृद्धेर्निमत्तम्, तृतीयेऽपि णित्, तचुर्थेऽपि ञित् इति। एतच्चायुक्तम्। तथा हि इको गुणवृद्धी (1.1.3) इत्यत्र`अकार्षीत्` इत्युदाहृत्य अहार्षीन् इत्युदाहृतम्`, न च तत्र वृद्धिनिमित्तभेदोऽस्ति। तथा न धातुलोप आर्धधातुके (1.1.4) इत्यत्रलोलुवः इत्युदाहृत्य पोपुवः, मरीमृजः इत्यधिकोदाहरणोपन्यासः कृतः। न च तत्र लोपनिमित्तभेदः; प्रतिषेधनिमित्तभेदो वा अधिकोदाहरणोपन्यासस्य हेतुर्विद्यते। प्रायेणा-न्यष्वेपि च सामान्यलक्षणेषु विनापि निमित्तभेदानाधिकोदाहरणोपन्यास उपलभ्यते। योऽप्याह ओपगव इत्यनेनैच औकारस्य विषये दर्शितेऽपि स्वरभेदादौपमन्यव इत्येतदधिकमुदाहरणमुपन्यस्तम् इति, तस्यापि तदयुक्तम्, अत एवानन्तरोक्ताद्धेतोर्वेदितव्यम् ॥ यदि निमित्तभेदः, स्वरभेदो वा सर्वत्राधिकोदाहरणोपन्यासो वेदितव्यः। शालीयः, मालीयः इति। अतद्भावितस्योदाहरणे। अत्र हि वृद्धिसञ्ज्ञायां वृद्धिर्यस्याचामादिस्तद्वृद्धम्` (1.1.72) इति वृद्धसञ्ज्ञाफं छप्रत्ययोपन्यासस्तस्या एव फलभूताया अभिव्यक्त्यर्थः। वृद्धसञ्ज्ञायां हि सत्यां वृद्धाच्छः (4.2.114) इति जातादावर्थे छो विधीयते। ऐकारौकारयोस्त्वतद्भावितयोरुदाहरणं नात्र दर्शितम्, एतदनुसरसार-णैव गम्यमानत्वात्। आकारस्यातद्भावितस्य वृद्धिसञ्ज्ञायाः कार्ये दर्शिते, तयोरपि तदेव कार्यमिति तन्मुखेनैव गम्यत एव। के पुनसत्योरुदाहरणे? रैमयम्, नौमयम् इति। आत्रैकारौकारयोर्वृद्धिसञ्ज्ञायां सत्यां पूर्ववद्वृद्धसञ्ज्ञा। तस्यां च सत्यां रायो विकारः, नावो विकार इति नित्यं वृद्धशरादिभ्यः (4.3.144) इति मयड्भवति।

Praudhamanorama

ऐजिह द्विमात्र एव, तात्परत्वात्। तेन कृष्णैकत्वमित्यत्र त्रिमात्रो न। एवमुत्तरसूत्रेऽपि। तेन गङ्गोदकमित्यादौ त्रिमात्रो न॥

Prakriyasarvasvam

आकार ऐजपि वृद्धिसंज्ञः ।

Sarala

वृद्धिः - प्रथमान्तम्, आत् - प्रथमान्तम्, ऐच् - प्रथमान्तम् ॥