84054: अभ्यासे चर्च

Padacheda: अभ्यासे | S | 7 | 1 |

चर् | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha

अभ्यासे विद्यमानस्य झल्-वर्णस्य यथायोग्यम् जश्/चर्-आदेशः भवति ।

<pt> झल् = वर्गचतुर्थाः + वर्गतृतीयाः + वर्गद्वितीयाः + वर्गप्रथमाः + ऊष्माणः । <light>आहत्य 24 वर्णाः । </light> ** जश् ** = वर्गतृतीयाः । ** चर् ** = वर्गप्रथमाः + श् + ष् + स् । </pt> षष्ठाध्यायस्य एकाचो द्वे प्रथमस्य (6.1.1) इति द्वित्वप्रकरणस्य सूत्रैः द्वित्वे कृते, तत्र यः प्रथमः तस्य पूर्वोभ्यासः (6.1.4) इति सूत्रेण अभ्यासः इति संज्ञा भवति । अस्मिन् अभ्यासे विद्यमानस्य यः झल्-वर्णः तस्य यथायोग्यम् जश्-वर्णादेशः उत चर्-वर्णादेशः भवति — इति प्रकृतसूत्रस्य अर्थः । संवार-नाद-घोष-वर्णानाम् तादृशः एव संवार-नाद-घोष-आदेशः जश्-वर्णादेशःभवति, तथा च विवार-श्वास-अघोष-वर्णानाम् तादृशः एव विवार-श्वास-अघोषः चर्-वर्णादेशः भवति इति अत्र आशयः । क्रमेण लिट्-लकारस्य प्रथमपुरुषैकवचनस्य उदाहरणानि एतानि — 1. वर्गप्रथमानां स्थाने चर्त्वे कृते सः एव वर्णः आदेशरूपेण विधीयते —

  1. कूज् → चुकूज । अत्र कुहोश्चुः (7.4.62) इति अभ्यासककारस्य चकारे कृते प्रकृतसूत्रेण तस्य चर्त्वे चकारः एव विधीयते ।

  2. चल् → चचाल । चकारस्य स्थाने चर्त्वे चकारः एव विधीयते ।

  3. टीक् → टिटीक । टकारस्य स्थाने चर्त्वे टकारः एव विधीयते ।

  4. तॄ → ततार । तकारस्य स्थाने चर्त्वे तकारः एव विधीयते ।

  5. पठ् → पपाठ । पकारस्य स्थाने चर्त्वे पकारः एव विधीयते ।

2. वर्गद्वितीयानां स्थाने चर्त्वे कृते वर्गप्रथमः वर्णः आदेशरूपेण विधीयते —

  1. खाद् → चखाद । अत्र कुहोश्चुः (7.4.62) इति अभ्यासखकारस्य छकारे कृते प्रकृतसूत्रेण तस्य चर्त्वे चकारः भवति ।

  2. छिद् → चिच्छेद । छकारस्य स्थाने चर्त्वे चकारः विधीयते । ‘च्छ्’ इत्यत्र विद्यमानः चकारः तु तुगागमे, श्चुत्वे च कृते सिद्ध्यति ।

  3. धातुपाठे ठकारादिधातवः न विद्यन्ते अतः अत्र लिट्-लकारस्य उदाहरणं न सम्भवति । परन्तु “ठकारम् आचष्टे” इत्यस्मिन् अर्थे <!तत्करोति तदाचष्टे!> उत <! प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च!> इति वार्त्तिकेन “ठकार”-शब्दात् “णिच्”-प्रत्यये कृते, प्रक्रियायाम् इष्ठन्-प्रत्ययस्य प्रक्रियाम् अनुसृत्य टेः (6.4.155) इति टिलोपे कृते “ठकारि” इति यः आतिदेशिकधातुः सिद्ध्यति, तस्य सन्नन्तस्य प्रथमैकवचने द्वित्वे कृते प्रकृतसूत्रेण ठकारस्य चर्त्वे टकारादेशः सम्भवति, येन “टिठकारिषति” इति प्रथमपुरुषैकवचनस्य रूपं लभ्यते ।

  4. थूर्व्→ तुथूर्विथ । थकारस्य स्थाने चर्त्वे तकारः विधीयते ।

  5. फल् → पफाल । फकारस्य स्थाने चर्त्वे पकारः विधीयते ।

3. वर्गतृतीयानां स्थाने जश्त्वे कृते सः एव वर्णः आदेशरूपेण विधीयते —

  1. गम् → जगाम । अत्र कुहोश्चुः (7.4.62) इति अभ्यासगकारस्य जकारे कृते प्रकृतसूत्रेण तस्य जश्त्वे जकारः एव विधीयते ।

  2. जप् → जजाप । जकारस्य स्थाने जश्त्वे जकारः एव विधीयते ।

  3. डी → डिड्ये । डकारस्य स्थाने जश्त्वे डकारः एव विधीयते ।

  4. दिव् → दिदेव । दकारस्य स्थाने जश्त्वे दकारः एव विधीयते ।

  5. बाध् → बबाध । बकारस्य स्थाने जश्त्वे बकारः एव विधीयते ।

4. वर्गचतुर्थानां स्थाने जश्त्वे कृते वर्गतृतीयः वर्णः आदेशरूपेण विधीयते —

  1. घघ् → जघाघ । अत्र कुहोश्चुः (7.4.62) इति अभ्यासघकारस्य झकारे कृते प्रकृतसूत्रेण तस्य जश्त्वे जकारः भवति ।

  2. झर्झ् → जझर्झ । झकारस्य स्थाने जश्त्वे जकारः विधीयते ।

  3. ढौक् → डुढौके । ढकारस्य स्थाने जश्त्वे डकारः विधीयते ।

  4. धाव्→ दधाव । धकारस्य स्थाने जश्त्वे दकारः विधीयते ।

  5. भूष् → बुभूष । भकारस्य स्थाने जश्त्वे बकारः विधीयते ।

4. शकार-षकार-सकाराणां चर्त्वे कृते सः एवः वर्णः आदेशरूपेण विधीयते —

  1. शास् → शशास । शकारस्य स्थाने चर्त्वे शकारः एव विधीयते ।

  2. ष्वष्क् → षष्वस्के । षकारस्य स्थाने चर्त्वे षकारः एव विधीयते ।

  3. स्मृ → सस्मार । सकारस्य स्थाने चर्त्वे सकारः एव विधीयते ।

5. अभ्यासहकारस्य विषये इदं सूत्रं नैव प्रवर्तते, यतः अभ्यासहकारस्य कुहोश्चुः (7.4.62) इत्यनेन चुत्वे अन्तरतमः झकारादेशः भवति, यस्य च अग्रे प्रकृतसूत्रेण जश्त्वे कृते जकारादेशः विधीयते — हस् → जहास ।

Sutrartha (English)

A झल् letter present in an अभ्यास is converted either to a जश् letter or a चर् letter as appropriate.

Vasu English Summary

The चर् is also substitute of झल् letters occurring in a reduplicate syllable, as well as जश्।

Vasu English Translation

The चर् is also substitute of झल् letters occurring in a reduplicate syllable, as well as जश्। In a reduplicate syllable, a sonant non-aspirate (जश्) as well as a surd non aspirate (चर्) is the substitute of a Mute letter. By applying the rule of nearest in place (1.1.50), we find that sonant non-aspirate (जश्) is the substitute of all sonants; and is the substitute of all surds. In other words all aspirate letters become non-aspirate. The word जश् has been drawn into the sutra by the word च ‘also’.

Thus चिखनिषति ॥ Here सन् (Desiderative), is added to the root खन्, the ख is changed to छ by (7.4.62), and this aspirate छ is now changed to non-aspirate by the present sutra. चिच्छिषति, टिठकारयिषति, तिष्ठासति, पिफकारयिषति, बुभूषति, जिघत्सति, डुढौकिषते ॥

If there is चर् (non-aspirate surd) in the original, it will remain of course unchanged. As, चिचीषति, टिटीकिषते, तितनिषति ॥

The original जश् also remains unchanged. Thus जिजनिषति, बुबुधे, ददौ, डिड्ये ॥ Or to be more accurate a चर् is replaced by a चर् and a जश् by a जश् letter.

Bhashya

अभ्यासे चर्च प्रकृतिचरां प्रकृतिचरो भवन्ति। चिचीषति। प्रकृतिजशां प्रकृतिजशश्च भवन्ति। जिजनिषति। बुबुधे। ददौ॥ (अभ्यासे चर्च)॥

Kashika

अभ्यासे वर्तमानानां झलां चरादेशो भवति, चकाराद् जश् च। चिखनिषति। चिच्छित्सति। टिठकारयिषति। तिष्ठासति। पिफकारयिषति। बुभूषति। जिघत्सति। डुढौकिषते। प्रकृतिचरां प्रकृतिचरो भवन्ति — चिचीषति। टिटीकिषते। तितनिषति। प्रकृतिजशां प्रकृतिजशो भवन्ति — जिजनिषते। बुबुधे। ददौ। डिड्ये॥

Siddhanta Kaumudi

अभ्यासे झलां चरः स्युर्जशश्च । झशां जशः खयां चरः । तत्रापि प्रकृतिजशां प्रकृतिजशः प्रकृतिचरां प्रकृतिचर इति विवेक आन्तरतम्यात् ॥

Laghu Siddhanta Kaumudi

अभ्यासे झलां चरः स्युर्जशश्च। झशां जशः खयां चर इति विवेकः। बभूव। बभुवतुः। बभूवुः॥

Balamanorama

अभ्यासे चर्च्च - भ भूव् अ इति स्थिते — अभ्यासे चर्च ।झलां जश् झशी॑त्यस्माज्झलामित्यनुवर्तते । चकारेण जश् समुच्चीयते । तदाह — अभ्यासे झलामित्यादिन । झलश्चतुर्विंशतिः । तत्र शषसाः — शरः । तेषामभ्यासे लोपो वक्ष्यते — ‘शर्पूर्वाः खय’ इति । हकारस्य त्वभ्यासे ‘कुहोश्चु’ रिति चुत्वं वक्ष्यते । एवं च झल्षु झयो विंशतिरिहाऽभ्यासगताः स्थानिनो लभ्यन्ते । तेषां मध्ये कस्य चरः, कस्य जश इत्याशङ्कायामाह — झशां जश इति । वर्गाणां तृतीयचतुर्था झशः । तेषां जशः जबगडदा इत्यर्थः । यद्यद्वर्ग्याः स्थानिनस्तत्तद्वग्र्या आदेशा इत्यपि बोध्यम् । खयां चर इति । वर्गाणां प्रथमद्वितीयाः खयः, तेषां चरः चटकतपा इत्यर्थः । अत्रापि यद्यद्वर्ग्याः स्थानिनस्तत्तद्वग्र्या आदेशा इत्यपि बोध्यम् । तत्रापीति । तेष्वपि वर्ग्येषु प्रकृत्या = स्वभावेन जशामेव सतां प्कृत्या स्वभावेन जश एव सन्तस्तत्तद्वग्र्या आदेशाः स्युः । एवं प्रकृत्या स्वभावेन चरामेव सतां प्रकृत्या स्वभावेन चर एव सन्तस्तत्तद्वग्र्या आदेशाः स्युरित्यर्थः । पर्जन्यवल्लक्षणप्रवृत्तेरिति भावः । कुत इयं व्यवस्थेत्यत आह — आन्तरतम्यात् । झशां जशां च घोषसंवारनादप्रयत्नसाम्यम् । खयां चरां च आआसाऽघोषविवारप्रयत्नसाम्यम् । तत्तद्वग्र्याणां तत्तद्वग्र्या आदेशा इत्यत्र तु स्थानसाम्यं नियामकं बोध्यम् ।

Padamanjari

चिखनिषतीति । खनेः सन्, द्विर्वचनम्,’कुहोश्चः’ इति चुत्वम् - च्छकारः, तस्य चर्त्वम् - चकारः । टिठकारयिषतीति । ठकारमाचष्ट इति णिच्, टिलोपः, सन्, ठकारस्य टकारः । तिष्ठासतीति ।’शूर्पूर्वाः खयः’ इति थकारस्य शेषः, तस्य चर्त्वं तकारः । प्रकृतिश्चां प्रकृतिचर इति । जश्त्वबाधनार्थं पर्जन्यवल्लक्षणप्रवृत्या प्रकृतिरूपाश्चरः स्थानिनाऽभिन्नरूपा भवन्तीत्यर्थः । एतच्चान्तरतमपरिभाषया लभ्यते । प्रकृतिजशां प्रकृतिजश इति । व्याख्यातम् । डिड।ल् इति । डीङे लिटि द्विर्वचने ठेरनेकाचःऽ इति यण् ॥

Nyaas

चकारेण चश्ग्रहणमनुवर्तते, तेनोत्तरत्र तदनुवृत्तिर्न भवति। चिखनिषति ति। खनतेः सन्, द्विर्वचनम्, हलरादिशेषः, कुहोश्चुः (7.4.62) इति चुत्वम् -छकारः, तस्थानेन चकारः। चित्छित्सति`[`चिच्छित्सति -का।प्रांउ।पाठो] इति। छिदेः सन्, द्विर्वचनम्, छे च (6.1.71) इति तुक्, चुत्वम्। ठिठकारयिषति इति। ठकारमाचष्ट इति तत्करोति तदाचष्टे (धा।200, 201) इति णिच्, इष्ठवद्भावाट्टिलोपः, सन्, इट्, गुणः, अयादेशः। तिष्ठाससि इति। शर्पूर्वाः खयः (7.4.61) शेषः। पिफकारयिषति इचि। टिठकारयिषतीत्यनेन तुल्यसाधनम्। अयं तु विशेषः -फकारशब्दाण्णिच्। `प्रकृतिचरा प्रकृतिचरो भवन्ति इति। जश्त्वबाधनार्थम्` पर्जन्यवल्लक्षण (व्या।प।83) प्रवृत्त्या प्रकृतिरूपाश्चरः प्रकृतिचरः स्थानिनाऽभिन्नरूपा इत्यर्थः। चिचीषति इति। अज्झनगमां सनि (6.4.16) इति दीर्घः। तितीर्षति`[न स्तः -काशिकायाम्] इति। `ऋत इद्धातोः (7.1.100) इतीत्त्वं रपरत्वं च, हलि च (8.2.77) इति दीर्घः। जिझकारयिषति [न स्तः -काशिकायाम्] इति। टिठकारयिधतीत्यनेन तुल्यसाधनम्। अत्र झकारशब्दाण्णिजि विशेषः। जिघत्सति इति। अदेः सन्, लुङसनोर्घस्लृ (2.4.37) इति धस्लादेशः पूर्ववदभ्यासस्य चुत्वम् -झकारः, तस्य जश्त्वम् -जकारः, सः स्यार्धधातुके (7.4.49) इति सकारस्य तकारः। डुढौकिषते इति। ढौकतेः सन्। प्रकृतिजशां प्रकृतिजशो भवन्ति इति। चर्वाधनार्थं पूर्ववत्? प्रकृत्या स्थानिनाऽभिन्नरूपा जशः प्रकृतिजशः। जिजनिषते इति। पूर्ववत्? सनः (1.3.62) इत्यात्मनेपदम्। बुबुधे इति। अनुदात्तेत्त्वादात्मनेपदम्, लिटस्तझयोरेशिरेच् (3.4.81) इत्येश्। ददौ इति। आत औ णलः (7.1.34) इत्यौत्त्वम्। डिडए इति। `डीङ्? विहायसा गतौ (धातुपाठः-968), पूर्ववदेशादेशः, स्थानिवद्भावड्डीत्यस्य द्विर्वचनम्॥