84053: झलां जश् झशि¶
Padacheda: झलाम् | S | 6 | 3 |
जश् | S | 1 | 1 |
झशि | S | 7 | 1 |
Sutrartha¶
झल्-वर्णस्य झश्-वर्णे परे जश्-वर्णादेशः भवति ।
<pt> झल् = वर्गचतुर्थाः + वर्गतृतीयाः + वर्गद्वितीयाः + वर्गप्रथमाः + ऊष्माणः । <light>आहत्य 24 वर्णाः । </light> ** जश् ** = वर्गतृतीयाः । ** झश् ** = वर्गतृतीयाः + वर्गचतुर्थाः । </pt> प्रकृतसूत्रेण झल्-वर्णस्य झश्-वर्णे परे अन्तरतमः जश्-वर्णादेशः भवति । इदमेव परिवर्तनम् जश्त्वम् नाम्ना ज्ञायते । अस्य सूत्रस्य प्रसक्तिः अपदान्त-झल्-वर्णस्य विषये एव वर्तते, यतः पदान्त-झल्-वर्णस्य तु झलां जशोऽन्ते (8.2.39) इत्यनेन एव जश्त्वम् विधीयते (तत्र ‘झश्’ इति निमित्तम् नैव आवश्यकम्) । क्रमेण उदाहरणानि एतादृशानि —
**1. क्/ख्/ग्/घ् एतेषां जश्त्वे कृते तेषां स्थाने आन्तरतम्येन गकारः विधीयते **। यथा, “दुह्”-धातोः तुमुन्-प्रत्यये परे प्रकृतसूत्रेण जश्त्वं भवति —
दुहँ (प्रपूरणे, अदादिः, (2.4) )
→ दुह् + तुमुन् [**तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्** (3.3.10) इति तुमुन्]
→ दोह् + तुम् [**पुगन्तलघूपधस्य च** (7.3.86) इति उपधायाः गुणः]
→ दोघ् + तुम् [**हो ढः** (8.2.31) इति हकारस्य ढकारे प्राप्ते अपवादत्वेन **दादेर्धातोर्घः** (8.2.32) इति घत्वम्]
→ दोघ् + धुम् [**झषस्तथोर्धोऽधः** (8.2.40) इति तकारस्य धकारः]
→ दोग् + धुम् [**झलां जश् झशि** (8.4.53) इति घकारस्य गकारः]
→ दोग्धुम्
2. च्/छ्/ज्/झ् एतेषाम् प्रकृतसूत्रेण जश्त्वम् नैव सम्भवति, यतः चोः कुः (8.2.30) इत्यनेन अपदान्त-चवर्गस्य झलि परे कुत्वम् भवति । **3. ट्/ठ्/ड्/ढ् एतेषां जश्त्वे कृते तेषां स्थाने आन्तरतम्येन डकारः विधीयते **। परन्तु अस्य उदाहरणानि नैव सन्ति । **4. त्/थ्/द्/ध् एतेषां जश्त्वे कृते तेषां स्थाने आन्तरतम्येन दकारः विधीयते **। यथा, “बुध्”-धातोः तृच्-प्रत्यये परे प्रकृतसूत्रेण जश्त्वं भवति —
बुधँ (अवगमने, भ्वादिः, (1.994))
→ बुध् + तृच् [**ण्वुल्तृचौ** (3.1.133) इति तृच्-प्रत्ययः]
→ बोध् + तृ [**पुगन्तलघूपधस्य च** (7.3.86) इति गुणः]
→ बोध् + धृ [**झषस्तथोर्धोऽधः** (8.2.40) इति तकारस्य धकारः]
→ बोद्धृ [**झलां जश् झशि** (8.4.53) इति धकारस्य दकारः]
**5. प्/फ/ब्/भ् एतेषां जश्त्वे कृते तेषां स्थाने आन्तरतम्येन बकारः विधीयते **। यथा - “लभ्”-धातोः क्त-प्रत्यये परे प्रकृतसूत्रेण जश्त्वं भवति —
डुलभँष् (प्राप्तौ, भ्वादिः, (1.1130))
→ लभ् + क्त [**निष्ठा** (3.2.102) इति क्त-प्रत्ययः]
→ लभ् + ध [**झषस्तथोर्धोऽधः** (8.2.40) इति तकारस्य धकारः]
→ लब्ध [**झलां जश् झशि** (8.4.53) इति भकारस्य बकारः]
6. शकारस्य जश्त्वे कृते तस्य स्थाने उच्चारणस्थानसाधर्म्यम् अनुसृत्य आन्तरतम्येन जकारः विधीयते । उदाहरणम् एतादृशम् —
भ्रस्जँ (पाके, तुदादिः, (6.4))
→ भ्रस्ज् + अनीयर् [**तव्यत्तव्यानीयरः** (3.1.96) इति अनीयर्-प्रत्ययः]
→ भ्रश्ज् + अनीय [जकारे परे **स्तोः श्चुना श्चुः** (8.4.40) इति सकारस्य शकारः । अस्य असिद्धत्त्वात् **व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः** (8.2.36) इति षत्वं न भवति ।]
→ भ्रज्ज् + अनीय [जकारे परे **झलां जश् झशि** (8.4.53) इति शकारस्य जकारः]
→ भ्रज्जनीय
एवमेव “मस्ज्”-धातोः विषये अपि अनेन सूत्रेण जश्त्वे कृते मज्जनीय</qt> इति रूपं सम्भवति । 7. षकारस्य जश्त्वे कृते तस्य स्थाने उच्चारणस्थानसाधर्म्यम् अनुसृत्य आन्तरतम्येन डकारः विधीयते । यथा, “द्विष्”-धातोः आत्मनेपदस्य लोट्लकारस्य मध्यमपुरुष-बहुवचनस्य रूपसिद्धौ प्रकृतसूत्रेण षकारस्य जश्त्वम् विधीयते —
द्विषँ (अप्रीतौ, अदादिः, उभयपदी, (2.3))
→ द्विष् + लोट् [**लोट् च** (3.3.162) इति लोट्]
→ द्विष् + ध्वम् [**तिप्तस्झि..** (3.4.78) इति आत्मनेपदस्य मध्यमपुरुषबहुवचनस्य विवक्षायाम् ध्वम्-प्रत्ययः]
→ द्विष् + शप् + ध्वम् [**कर्तरि शप्** (3.1.68) इति विकरणप्रत्ययः शप्]
→ द्विष् + ध्वम् [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शप्-प्रत्ययस्य लुक्]
→ द्विष् + ढ्वम् [**ष्टुना ष्टुः** (8.4.41) इति धकारस्य ष्टुत्वे ढकारः]
→ द्विड् + ढ्वम् [**झलां जश् झशि** (8.4.53) इति झलि परे षकारस्य जश्त्वे डकारः]
→ द्विड्ढ्वम्
8. सकारस्य जश्त्वे कृते तस्य स्थाने उच्चारणस्थानसाधर्म्यम् अनुसृत्य आन्तरतम्येन दकारः विधीयते । । यथा, “भ्रस्ज्”-धातोः ण्यत्-प्रत्यये परे इयं प्रक्रिया भवति —
भ्रस्जँ (पाके, तुदादिः, (6.4))
→ भ्रस्ज् + ण्यत् [**ऋहलोर्ण्यत्** (3.1.124) इति ण्यत्-प्रत्ययः]
→ भ्रस्ग् + य [**चजोः कु घिण्ण्यतोः** (7.3.52) इति जकारस्य कुत्वे तत्सदृशः वर्गतृतीयः गकारः]
→ भ्रद् ग् + य [गकारे परे सकारस्य **झलां जश् झशि** (8.4.53) इति जश्त्वे दकारः]
→ भ्रद्ग्य
9.हकारस्य प्रकृतसूत्रेण जश्त्वम् नैव सम्भवति, यतः हो ढः (8.2.31) इत्यनेन हकारस्य झलि परे ढकारादेशः भवति ।
Sutrartha (English)¶
A झल्-letter is converted to a corresponding जश्-letter when followed by a झश् letter.
Vasu English Summary¶
In the room of झल् letters, there is substitution of जश् letters, when झश् letters follow.
Vasu English Translation¶
In the room of झल् letters, there is substitution of जश् letters, when झश् letters follow. A mute letter is changed to a sonant non-aspirate mute, when a sonant mute follows it.
This is the well-known rule of softening the hard letters. Thus लभ् + ता = लब्धा, so also लब्धुम्, लब्धव्यम्; दोग्धा, दोग्धुम्, दोग्धव्यम्; बोद्धा, बोद्धुम्, बोद्धव्यम् ॥
Why do we say झशि, ‘when a jhas follows’? Observe दत्तः, दत्थः, दध्मः ॥
Kashika¶
झलां स्थाने जशादेशो भवति झशि परतः। लब्धा। लब्धुम्। लब्धव्यम्। दोग्धा। दोग्धुम्। दोग्धव्यम्। बोद्धा। बोद्धुम्। बोद्धव्यम्। झशीति किम्? दत्तः। दत्थः। दध्मः॥
Siddhanta Kaumudi¶
स्पष्टम् । इति धकारस्य दकारः ॥
Laghu Siddhanta Kaumudi¶
स्पष्टम्। इति पूर्वधकारस्य दकारः॥
Laghu Shabdendushekhar¶
दकार इति । स्थानत आन्तर्यादिति भावः ॥
Balamanorama¶
झलां जश् झशि - झलाञ्जश् झशि । स्पष्टमिति । झलां स्थाने जश् स्यात् झशि परत इति सप्ष्टार्थकम् । तत्र न किञ्चिद्व्याख्यातव्यमस्ति, पदान्तरस्यानुवृत्त्यभावादित्यर्थः । इति धकारस्येति । प्रथमधकारस्येत्यर्थः । दकार इति । स्थानत आन्तर्यादिति भावः ।
Padamanjari¶
उदाहरणेषु भ-घ-धानां ब-ग-दाः ॥
Nyaas¶
लब्धा इत्यादि। लभेस्तृच्तुमुन्तव्याः। झषस्तथोर्धोऽधः (8.2.40) इति धकारे झशि भकारस्य जश्त्वम् -बकारः। देग्धा [दोग्घा -काशिका] इति। दिह उपचये (धातुपाठः-1015), दादेर्धातोर्धः (8.2.32) इति हकारस्य धकारः। बोद्धा इति। जश्तेवन धकारस्य दकारः॥
Prakriyasarvasvam¶
झलां झलि परे जशादेशः स्यात् । इति पूर्वधकारयोर्जश्त्वम् । अन्तरतमत्वाद दकारः । सुद् ध् य् अर्च्यः । मद् ध् व् अरिः । श्लिष्टोक्तिः—सुद्ध्यर्च्यः । मद्ध्वरिः । पित्त्रुक्त्या । गम्लाह ।<!यणो मयो द्वे स्त इति वाच्यम्!> (वा० ८-४-४७) इत्यस्य मयः परस्य यणो द्वित्वमिति व्याख्याने यकारादीनामपि द्वित्वम् । सुद्ध्य्यर्च्यः । मद्ध्व्वरिः । पित्त्रुक्त्या । गम्ल्लाह ।
Sarala¶
झलां स्थाने जशादेशः स्याज्झशि परत इत्यर्थः । इति = इत्यनेन शास्त्रेण । धकारस्य दकारः = स्थानत आन्तर्यात्पूर्वधकारस्य दकारः ॥
Sutra Prayogas¶
दिग्धः (भट्टिकाव्यम्): झलां जश् झशि इति जश्त्वम्।
शेध्वम् (भट्टिकाव्यम्): झलां जश् झशि इति सकारस्य दकारः।
माऽऽरब्धा (भट्टिकाव्यम्): झलां जश् झशि इति जश्त्वम्।
उपालब्ध (भट्टिकाव्यम्): झलां जश् झशि इति जश्त्वम्।
समरुद्धेव (भट्टिकाव्यम्): झलां जश् झशि इति जश्त्वम्।
भुद्ध्वं (भट्टिकाव्यम्): झलां जश् झशि इति कित्त्वं पूर्ववत् ।
पिधध्वं (भट्टिकाव्यम्): झलां जश् झशि इति धातोर्दकारे।
मोपालब्धाह्कृतैर्दोषैर्मा (भट्टिकाव्यम्): झलां जश् झशि इति जश्त्वम् ।
अरुद्ध (भट्टिकाव्यम्): झलां जश् झशि इति।