84042: न पदान्ताट्टोरनाम्¶
Padacheda: न | S | 0 | 0 |
पदान्तात् | S | 5 | 1 |
टोः | S | 5 | 1 |
अनाम् | S | | | 6
Sutrartha¶
पदान्तटवर्गात् परस्य सकारतवर्गयोः ष्टुत्वं न भवति ; परन्तु षष्ठीबहुवचनस्य ‘नाम्’ प्रत्यये परे ष्टुत्वम् अवश्यं भवति ।
ष्टुना ष्टुः (8.4.40) इत्यनेन सूत्रेण निर्दिष्टम् ष्टुत्वम् प्रकृतसूत्रेण विशिष्टासु स्थितिषु निषिध्यते । पदान्तटवर्गीयवर्णात् परस्य सकारस्य, तवर्गीयवर्णस्य च ष्टुत्वं न भवति— इति अस्य सूत्रस्य आशयः । वस्तुतस्तु पदान्तटकारठकारढकाराणाम् आदौ जश्त्वे डकारः एव भवति, अतः अत्र केवलम् पदान्तडकारस्य, पदान्तणकारस्य च उदाहरणानि विद्यन्ते । यथा — 1. **पदान्तडकारात् परस्य सकारस्य / तवर्गस्य ष्टुत्वनिषेधः ** —
षड् + सन्ति / तरन्ति / थकारीयन्ति / ददति / धावन्ति / नयन्ति [अत्र **ष्टुना ष्टुः** (8.4.41) इति ष्टुत्वे प्राप्ते **न पदान्ताट्टोरनाम्** (8.4.42) इति तत् निषिध्यते ।]
→ षट्सन्ति / षट्तरन्ति / षट्थकारीयन्ति / षड्ददति / षड्धावन्ति / षण्नयन्ति [आदिस्थेषु त्रिषु उदाहरणेषु **खरि च** (8.4.55) इति चर्त्वम् भवति । अन्तिमे उदाहरणे **यरोऽनुनासिकेऽनुनासिको वा** (8.4.45) इति डकारस्य पाक्षिकं णत्वम्]
**पदान्तणकारात् परस्य सकारस्य / तवर्गस्य ष्टुत्वनिषेधः ** —
सुगण् + सहते / तरति / थकारीयति / ददाति / धावति / नयति
→ सुगण्सहते, सुगण्तरति, सुगण्थकारीयति, सुगण्ददाति, सुगण्धावति, सुगण्नयति ।
परन्तु षष्ठीबहुवचनस्य नाम्-प्रत्यये परे ष्टुत्वम् अवश्यं भवति । अतएव प्रकृतसूत्रे “अनाम्” इति निर्देशः क्रियते ।
षष् + आम् [षष्ठीबहुवचनस्य प्रत्ययः]
→ षष् + नुट् + आम् [**षट्चतुर्भ्यश्च** (7.1.55) इत्यनेन नुडागमः]
→ षड् + नाम् [**झलां जशोऽन्ते** (8.2.39) इति जश्त्वम् ]
→ षड् + णाम् [**ष्टुना ष्टुः** (8.4.41) इति ष्टुत्वम् ।]
→ षण् + णाम् [**यरोऽनुनासिकेऽनुनासिको वा** (8.4.45) इति डकारस्य विकल्पेन अनुनासिके णकारे प्राप्ते <!प्रत्यये भाषायां नित्यम्!> अनेन वार्त्तिकेन नित्यम् णकारादेशः]
→ षण्णाम्
वार्त्तिकम् - <!अनाम्-नवति-नगरीणाम् इति वाच्यम् !>
प्रकृतसूत्रे विद्यमानः ‘अनाम्’ इति निर्देशः नगरी-नवति-शब्दयोः विषये अपि ज्ञेयः — इति अस्य वार्त्तिकस्य आशयः । इत्युक्ते, पदान्तटवर्गात् परस्य नवतिशब्दस्य नगरीशब्दस्य च नकारस्य ष्टुत्वम् अवश्यम् एव भवति । यथा —
षड् + नगर्यः / नवतिः
→ षड् + णगर्यः / नवतिः [**ष्टुना ष्टुः** (8.4.40)] इति ष्टुत्वम् । **न पदान्ताट्टोरनाम्** (8.4.42) इत्यनेन उक्तः निषेधः <!अनाम्-नवती-नगरीणामिति वाच्यम्!> इति वार्तिकेन न प्रवर्तते । ]
→ षण्णगर्यः, षड्णगर्यः / षण्णवतिः, षड्णवतिः [**यरोऽनुनासिकेऽनुनासिको वा** (8.4.45) इति डकारस्य वैकल्पिकः णकारः]
Sutrartha (English)¶
Except when followed by the प्रत्यय नाम्, a पदान्तटवर्ग letter does not cause the ष्टुत्वम् of सकार or a तवर्ग letter that follows it.
Vasu English Summary¶
After टु final in a पद , the change of a dental (स्तु) to a cerebral (ष्टु), does not take place, except in the case of the affix नाम्।
Vasu English Translation¶
After टु final in a पद , the change of a dental (स्तु) to a cerebral (ष्टु), does not take place, except in the case of the affix नाम्। Thus श्वलिट् + साये = श्वलिट्साये, मधुलिट्साये, श्वलिट्तरति, मधुलिट्तरति ॥
Why do we say पदान्तात् ‘final in a Pada’? Observe ईड् + ते = ईड् + टे = ईट्टे ॥
Why do we say टोः ‘after टु’ Observe सर्पिष् + तमम् = सर्पिष्टमम् ॥
Why do we say अनाम् ‘except in the case of the affix nam’? Observe षट् + नाम् = षण्णाम् ॥ This exception is very inadequate. Hence the following
Vart:- It should be stated rather that नवति and नगरी as well as नाम् are not prevented from undergoing the cerebral change. As, षण्णाम् ‘of six’, षण्णवतिः ninety-six, and षण्णगरी ‘six cities.’
Bhashya¶
न पदान्ताट्टोरनामनामिति किमर्थम्(2)?॥ षण्णां भवति काश्यपः॥ अत्यल्पमिदमुच्यते -अनामिति॥ अनाम्नवतिनगरीणां चेति वक्तव्यम्॥ षण्णाम्। षण्णवतिः। षण्णगर्यः(3)॥ (न पदान्ताट्टोरनाम्।)
Kashika¶
पदान्ताट् टवर्गादुत्तरस्य स्तोः ष्टुत्वं न भवति नामित्येतद् वर्जयित्वा। श्वलिट् साये। मधुलिट् तरति। पदान्तादिति किम्? ईड स्तुतौ — ईट्टे। टोरिति किम्? सर्पिष्टमम्। अनामिति किम्? षण्णाम्। अत्यल्पमिदमुच्यते॥ अनाम्नवतिनगरीणामिति वक्तव्यम्॥ षण्णाम्। षण्णवतिः। षण्णगरी॥
Siddhanta Kaumudi¶
अनामिति लुप्तषष्ठीकं पदम् । पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात् । षट् सन्तः । षट् ते । पदान्तात्किम् । ईट्टे । टोः किम् । सर्पिष्टमम् ॥<!अनाम्नवतिनगरीणामिति वाच्यम् !> (वार्तिकम्) ॥ षण्णाम् । षण्णवतिः । षण्णगर्यः ॥
Laghu Siddhanta Kaumudi¶
पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात्। षट् सन्तः। षट् ते। पदान्तात्किम्? ईट्टे। टोः किम्? सर्पिष्टमम्। अनाम्नवतिनगरीणामिति वाच्यम् (वार्त्तिकम्) । षण्णाम् । षण्णवतिः। षण्णगर्य्यः॥
Balamanorama¶
न पदान्ताट्टोरनाम् - तदाह — पदान्तादित्यादिना । ईट्टे इति । ‘ईडस्तुतौ’ आत्मनेपदी । ईड्-ते इति स्थिते, खरि चेति डस्य चर्त्वम्, ततः परस्य तकारस्य टुत्वम् । तस्य टवर्गात्परत्वेऽपिपदान्तात्परत्वाऽभावान्न टुत्वनिंषेधः । सर्पिष्टममिति । सर्पिष्-तममितित स्थितेस्वादिष्वसर्वनामस्थाने॑ इति, अन्तर्वर्तिनीं विभक्तिमाश्रित्य वा पदत्वात्षकारस्य पदान्तत्वात्ततः परस्य तकारस्य ष्टुत्वनिषेधो न भवति, पदान्ताट्टवर्गात्परत्वाऽभावात् । नच षकारस्य ‘झलाञ्जशोऽन्ते’ इति जश्त्वेन डकारे सति तकारस्य टोः परत्वात्ष्टुत्वनिषेधः स्यादेवेति वाच्यं,ह्रस्वात्तादौ तद्धिते॑ इति षत्वस्याऽसिद्धत्वेन जश्त्वाऽभावात् । इह ‘आदेशप्रत्यययोरिति’ षत्वं तु न भवति,अपदान्तस्य मूर्धन्यः॑ इत्यधिकारात् । अनाम्नवति । ष्टुत्वप्रतिषेधे नाम एव पर्युदासो न भवति, किन्तु नवतिनगरीशब्दावयवनकारस्यापि पर्युदासो वक्तव्यः इत्यर्थः । षण्णामिति । षष्-नामिति स्थितेस्वादिष्वसर्वनामस्थाने ॑ इति पदान्तत्वात् षस्य जश्त्वेन डकारेप्रत्यये भाषायां नित्य॑मिति तस्य णकारः । अत्र टवर्गयोगान्नकारस्य ष्टुत्वम् ।न पदान्ता॑दिति निषेधस्तु न,अना॑मिति पर्युदासात् । षण्-णगर्य इति — पृथक्पदे । न तु कर्मधारयः,दिक्संख्येसंज्ञाया॑मिति नियमात् । अत्रापिन पदान्ता॑दिति नगरीशब्दे नकारस्य टुत्वनिषेधो न भवति, नगरीशब्दस्यापि पर्युदासात् ।
Padamanjari¶
ठनाम्ऽ इति षष्ठीबहुवचनस्यागतनुट्कस्य प्रतिषेधः । श्वलिट्साय इति । धुडभावपक्षे सकारस्य ष्टुअत्वं प्राप्नोति । धुट्पक्षे तु चर्त्वस्यासिद्धत्वातस्यैव धकारस्येति । ईट्टे इति । ठीड् स्तुतौऽ, अदादिरनुदातेत् । षडधिका नवतिः षण्णवतिः । षण्णां नगराणां समाहारः षण्णगरी ॥
Nyaas¶
अनाम् इति षष्ठीबहुवचनस्यागतनुट्कस्य प्रतिषेधः। आलिट्साये इति। यदा डः सि धुट् (8.3.29) इति धुट नास्ति, तदैतदुदाहरणम्। ईट्टे इति। इड स्तुतौ (धातुपाठः-1029)। अनुदात्तेत्त्वादात्मनेपदम्, अदादित्वाच्छपो लुक्, खरि च (8.4.54) इति डकारस्य टः। सर्पिष्टमम् इति। अतिशायने तमप् (5.3.55) , ह्रस्वात् तादौ तद्धिते (8.3.101) इति सकारस्य मूर्धस्यः। षज्णाम् इति। षट्चतुम्र्यश्च (7.1.55) इति गुट्, झलां णशोऽन्ते (8.2.39) इति षकारस्य डकारः, यरोऽनुनासिकेऽनुनासिको वा (8.4.45) इति डकारस्य णकारः। षण्णवतिः इति। पडधिका नवतिरिति शाकपार्थिवा दित्वादुत्तरपदलोपिसमासः। षष्णां नगराणां समाहारः षण्णगरी द्विगोः (4.1.21) इति ङीप्॥
Praudhamanorama¶
सर्पिष्टममिति। ह्रस्वात्तादौ— (8.3.101) इति षत्वम्।
Prakriyasarvasvam¶
पदान्ताट्टवर्गात् परस्य नांवर्जितस्य स्तोः ष्टुत्वं न स्यात् । द्विट्तापः । नामिति षष्ठीबहुवचनम् । तत्र ष्टुत्वं स्यात् । षण्णाम् ।<!अनाम्नवतिनगरीणामिति वाच्यम्!> (वा० ८-४-४२) । षण्णाम् । षण्णवतिः । षण्णगरी ।
Sarala¶
स्तोः श्चुना श्चुः (८.४.४०) इत्यतः “स्तोः” इति, ष्टुना ष्टुः (८.४.४१) इत्यतः “ष्टुः” इति चानुवर्तते, अत आह - स्तोः ष्टुरिति । ईट्टे इति । तिङन्तमेतत् । “ईड् ते” इति स्थिते ष्टुत्वे चर्त्त्वम् । पदान्ते षकारस्य जश्त्वेन टवर्ग एव भविष्यतीति “ष्टुने”त्यतः ष्टुग्रहणानुवृत्त्यैव सिद्धं किं टोर्ग्रहणेनेति पृच्छति - टोः किमिति । ह्रस्वात्तादौ तद्धिते (८.३.१०१) इति जातस्य षत्वस्य जश्त्वं प्रत्यसिद्धत्वात् पदान्ते षकारो दृश्येतेत्यभिप्रेत्योक्तं - सर्पिष्टममिति । अनामिति । भो सूत्रकार ! त्वया न्यूनमुक्तं, त्वया - “न पदान्ताट्टोरनाम्नवतिनगरीणा”मित्येव सूत्रणीयमित्यर्थः ॥
Sudha¶
नपदान्तादिति । “षट्-सन्तः”, “षट्-ते” इत्यत्र टवर्गस्य पदान्ते वर्तमानान्न ष्टुत्वम् । पदान्तादित्यस्यास्वीकारे “ईट्-ते” इत्यत्रापि निषेध आपद्येत । अतः सूत्रे तन्निवेशः आवश्यकः । टोः किमिति । ननु “सर्पिष्-तमम्” इत्यत्र स्वादिष्वसर्वनामस्थाने (1.4.17) इत्यनेन पदसंज्ञायामत्र झलां जशोऽन्ते (8.2.39) इत्यनेन जश्त्वं स्यादिति चेन्न, ह्रस्वात् तादौ तद्धिते (8.3.101) इत्यनेन कृतस्य षत्वस्य जश्त्वदृष्ट्यासऽसिद्धत्वात् । टोर्ग्रहणाभावे षकारोऽप्यनुवर्तेत । तेन प्रकृतेऽपि निषेधः स्यात्तन्मा भूदिति टोर्ग्रहणम् । षण्णामिति । “षष्-नाम” इत्यवस्थायां झलां जशोऽन्ते (8.2.39) इत्यनेन जश्त्वे “षड्-नाम” इति स्थितौ <!अनाम्नवतिनगरीणामिति वाच्यम्!> इत्यनेन पर्युदासात् (निषेधस्य निषेधात्) ष्टुत्वे “षड्-नाम” इति जाते <!प्रत्यये भाषायां नित्यम् !> इति वार्त्तिकेन “ड्”-इत्यस्य नित्यानुनासिके सति, “षण्णाम्” इति रूपम्बोध्यम् । षण्णवतिरिति । षडधिका नवतिरिति विग्रहः । “षड्-नवतिः” इत्यत्र न पदान्ताट्टोरनाम् (8.4.42) इति निषेधे प्राप्ते <!अनाम्नवतिनगरीणामिति वाच्यम्!> इत्यनेन पर्युदासात् ष्टुत्वे जाते यरोऽनुनासिकेऽनुनासिको वा (8.4.45) इत्यनेन पूर्वस्य “ड्”-इत्यस्यानुनासिके “षण्णवतिः” इति रूपम् । एवमेव “षण्णगर्यः” इत्यत्रापि बोध्यम् ॥
Vartika¶
अनान्नवतिनगरीणामिति वक्तव्यम् ।