84042: न पदान्ताट्टोरनाम् ========================= **Padacheda:** न | S | 0 | 0 | पदान्तात् | S | 5 | 1 | टोः | S | 5 | 1 | अनाम् | S | | | 6 Sutrartha --------- **पदान्तटवर्गात् परस्य सकारतवर्गयोः ष्टुत्वं न भवति ; परन्तु षष्ठीबहुवचनस्य 'नाम्' प्रत्यये परे ष्टुत्वम् अवश्यं भवति ।** **ष्टुना ष्टुः** (8.4.40) इत्यनेन सूत्रेण निर्दिष्टम् ष्टुत्वम् प्रकृतसूत्रेण विशिष्टासु स्थितिषु निषिध्यते । **पदान्तटवर्गीयवर्णात् परस्य सकारस्य, तवर्गीयवर्णस्य च ष्टुत्वं न भवति**— इति अस्य सूत्रस्य आशयः । वस्तुतस्तु पदान्तटकारठकारढकाराणाम् आदौ जश्त्वे डकारः एव भवति, अतः अत्र केवलम् पदान्तडकारस्य, पदान्तणकारस्य च उदाहरणानि विद्यन्ते । यथा — 1. **पदान्तडकारात् परस्य सकारस्य / तवर्गस्य ष्टुत्वनिषेधः ** — .. code-block:: text षड् + सन्ति / तरन्ति / थकारीयन्ति / ददति / धावन्ति / नयन्ति [अत्र **ष्टुना ष्टुः** (8.4.41) इति ष्टुत्वे प्राप्ते **न पदान्ताट्टोरनाम्** (8.4.42) इति तत् निषिध्यते ।] → षट्सन्ति / षट्तरन्ति / षट्थकारीयन्ति / षड्ददति / षड्धावन्ति / षण्नयन्ति [आदिस्थेषु त्रिषु उदाहरणेषु **खरि च** (8.4.55) इति चर्त्वम् भवति । अन्तिमे उदाहरणे **यरोऽनुनासिकेऽनुनासिको वा** (8.4.45) इति डकारस्य पाक्षिकं णत्वम्] 2. **पदान्तणकारात् परस्य सकारस्य / तवर्गस्य ष्टुत्वनिषेधः ** — .. code-block:: text सुगण् + सहते / तरति / थकारीयति / ददाति / धावति / नयति → सुगण्सहते, सुगण्तरति, सुगण्थकारीयति, सुगण्ददाति, सुगण्धावति, सुगण्नयति । **परन्तु षष्ठीबहुवचनस्य नाम्-प्रत्यये परे ष्टुत्वम् अवश्यं भवति । अतएव प्रकृतसूत्रे "अनाम्" इति निर्देशः क्रियते ।** .. code-block:: text षष् + आम् [षष्ठीबहुवचनस्य प्रत्ययः] → षष् + नुट् + आम् [**षट्चतुर्भ्यश्च** (7.1.55) इत्यनेन नुडागमः] → षड् + नाम् [**झलां जशोऽन्ते** (8.2.39) इति जश्त्वम् ] → षड् + णाम् [**ष्टुना ष्टुः** (8.4.41) इति ष्टुत्वम् ।] → षण् + णाम् [**यरोऽनुनासिकेऽनुनासिको वा** (8.4.45) इति डकारस्य विकल्पेन अनुनासिके णकारे प्राप्ते अनेन वार्त्तिकेन नित्यम् णकारादेशः] → षण्णाम् **वार्त्तिकम् - ** प्रकृतसूत्रे विद्यमानः 'अनाम्' इति निर्देशः नगरी-नवति-शब्दयोः विषये अपि ज्ञेयः — इति अस्य वार्त्तिकस्य आशयः । इत्युक्ते, **पदान्तटवर्गात् परस्य नवतिशब्दस्य नगरीशब्दस्य च नकारस्य ष्टुत्वम् अवश्यम् एव भवति ।** यथा — .. code-block:: text षड् + नगर्यः / नवतिः → षड् + णगर्यः / नवतिः [**ष्टुना ष्टुः** (8.4.40)] इति ष्टुत्वम् । **न पदान्ताट्टोरनाम्** (8.4.42) इत्यनेन उक्तः निषेधः इति वार्तिकेन न प्रवर्तते । ] → षण्णगर्यः, षड्णगर्यः / षण्णवतिः, षड्णवतिः [**यरोऽनुनासिकेऽनुनासिको वा** (8.4.45) इति डकारस्य वैकल्पिकः णकारः] Sutrartha (English) ------------------- Except when followed by the प्रत्यय नाम्, a पदान्तटवर्ग letter does not cause the ष्टुत्वम् of सकार or a तवर्ग letter that follows it. Vasu English Summary -------------------- After टु final in a पद , the change of a dental (स्तु) to a cerebral (ष्टु), does not take place, except in the case of the affix नाम्। Vasu English Translation ------------------------ After टु final in a पद , the change of a dental (स्तु) to a cerebral (ष्टु), does not take place, except in the case of the affix नाम्। Thus श्वलिट् + साये = श्वलिट्साये, मधुलिट्साये, श्वलिट्तरति, मधुलिट्तरति ॥ Why do we say पदान्तात् 'final in a *Pada*'? Observe ईड् + ते = ईड् + टे = ईट्टे ॥ Why do we say टोः 'after टु' Observe सर्पिष् + तमम् = सर्पिष्टमम् ॥ Why do we say अनाम् 'except in the case of the affix *nam*'? Observe षट् + नाम् = षण्णाम् ॥ This exception is very inadequate. Hence the following Vart:- It should be stated rather that नवति and नगरी as well as नाम् are not prevented from undergoing the cerebral change. As, षण्णाम् 'of six', षण्णवतिः ninety-six, and षण्णगरी 'six cities.' Bhashya ------- न पदान्ताट्टोरनामनामिति किमर्थम्(2)?॥ षण्णां भवति काश्यपः॥ अत्यल्पमिदमुच्यते -अनामिति॥ अनाम्नवतिनगरीणां चेति वक्तव्यम्॥ षण्णाम्। षण्णवतिः। षण्णगर्यः(3)॥ (न पदान्ताट्टोरनाम्।) Kashika ------- पदान्ताट् टवर्गादुत्तरस्य स्तोः ष्टुत्वं न भवति नामित्येतद् वर्जयित्वा। श्वलिट् साये। मधुलिट् तरति। पदान्तादिति किम्? **ईड स्तुतौ** — ईट्टे। टोरिति किम्? सर्पिष्टमम्। अनामिति किम्? षण्णाम्। अत्यल्पमिदमुच्यते॥ अनाम्नवतिनगरीणामिति वक्तव्यम्॥ षण्णाम्। षण्णवतिः। षण्णगरी॥ Siddhanta Kaumudi ----------------- अनामिति लुप्तषष्ठीकं पदम् । पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात् । षट् सन्तः । षट् ते । पदान्तात्किम् । ईट्टे । टोः किम् । सर्पिष्टमम् ॥ (वार्तिकम्) ॥ षण्णाम् । षण्णवतिः । षण्णगर्यः ॥ Laghu Siddhanta Kaumudi ----------------------- पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात्। षट् सन्तः। षट् ते। पदान्तात्किम्? ईट्टे। टोः किम्? सर्पिष्टमम्। **अनाम्नवतिनगरीणामिति वाच्यम्** (वार्त्तिकम्) । षण्णाम् । षण्णवतिः। षण्णगर्य्यः॥ Balamanorama ------------ **न पदान्ताट्टोरनाम्** - तदाह — पदान्तादित्यादिना । ईट्टे इति । 'ईडस्तुतौ' आत्मनेपदी । ईड्-ते इति स्थिते, खरि चेति डस्य चर्त्वम्, ततः परस्य तकारस्य टुत्वम् । तस्य टवर्गात्परत्वेऽपिपदान्तात्परत्वाऽभावान्न टुत्वनिंषेधः । सर्पिष्टममिति । सर्पिष्-तममितित स्थितेस्वादिष्वसर्वनामस्थाने॑ इति, अन्तर्वर्तिनीं विभक्तिमाश्रित्य वा पदत्वात्षकारस्य पदान्तत्वात्ततः परस्य तकारस्य ष्टुत्वनिषेधो न भवति, पदान्ताट्टवर्गात्परत्वाऽभावात् । नच षकारस्य 'झलाञ्जशोऽन्ते' इति जश्त्वेन डकारे सति तकारस्य टोः परत्वात्ष्टुत्वनिषेधः स्यादेवेति वाच्यं,ह्रस्वात्तादौ तद्धिते॑ इति षत्वस्याऽसिद्धत्वेन जश्त्वाऽभावात् । इह 'आदेशप्रत्यययोरिति' षत्वं तु न भवति,अपदान्तस्य मूर्धन्यः॑ इत्यधिकारात् । अनाम्नवति । ष्टुत्वप्रतिषेधे नाम एव पर्युदासो न भवति, किन्तु नवतिनगरीशब्दावयवनकारस्यापि पर्युदासो वक्तव्यः इत्यर्थः । षण्णामिति । षष्-नामिति स्थितेस्वादिष्वसर्वनामस्थाने ॑ इति पदान्तत्वात् षस्य जश्त्वेन डकारेप्रत्यये भाषायां नित्य॑मिति तस्य णकारः । अत्र टवर्गयोगान्नकारस्य ष्टुत्वम् ।न पदान्ता॑दिति निषेधस्तु न,अना॑मिति पर्युदासात् । षण्-णगर्य इति — पृथक्पदे । न तु कर्मधारयः,दिक्संख्येसंज्ञाया॑मिति नियमात् । अत्रापिन पदान्ता॑दिति नगरीशब्दे नकारस्य टुत्वनिषेधो न भवति, नगरीशब्दस्यापि पर्युदासात् । Padamanjari ----------- ठनाम्ऽ इति षष्ठीबहुवचनस्यागतनुट्कस्य प्रतिषेधः । श्वलिट्साय इति । धुडभावपक्षे सकारस्य ष्टुअत्वं प्राप्नोति । धुट्पक्षे तु चर्त्वस्यासिद्धत्वातस्यैव धकारस्येति । ईट्टे इति । ठीड् स्तुतौऽ, अदादिरनुदातेत् । षडधिका नवतिः षण्णवतिः । षण्णां नगराणां समाहारः षण्णगरी ॥ Nyaas ----- `अनाम्` इति षष्ठीबहुवचनस्यागतनुट्कस्य प्रतिषेधः। `आलिट्साये` इति। यदा **डः सि धुट्** (8.3.29) इति धुट नास्ति, तदैतदुदाहरणम्। `ईट्टे` इति। `इड स्तुतौ` (धातुपाठः-1029)। अनुदात्तेत्त्वादात्मनेपदम्, अदादित्वाच्छपो लुक्, `खरि च` (8.4.54) इति डकारस्य टः। `सर्पिष्टमम्` इति। `अतिशायने तमप्` (5.3.55) , **ह्रस्वात् तादौ तद्धिते** (8.3.101) इति सकारस्य मूर्धस्यः। `षज्णाम्` इति। `षट्चतुम्र्यश्च` (7.1.55) इति गुट्, `झलां णशोऽन्ते` (8.2.39) इति षकारस्य डकारः, **यरोऽनुनासिकेऽनुनासिको वा** (8.4.45) इति डकारस्य णकारः। `षण्णवतिः` इति। पडधिका नवतिरिति शाकपार्थिवा दित्वादुत्तरपदलोपिसमासः। षष्णां नगराणां समाहारः `षण्णगरी` **द्विगोः** (4.1.21) इति ङीप्॥ Praudhamanorama --------------- **सर्पिष्टममिति।** **ह्रस्वात्तादौ—** (8.3.101) इति षत्वम्। Prakriyasarvasvam ----------------- पदान्ताट्टवर्गात् परस्य नांवर्जितस्य स्तोः ष्टुत्वं न स्यात् । द्विट्तापः । नामिति षष्ठीबहुवचनम् । तत्र ष्टुत्वं स्यात् । षण्णाम् । (वा० ८-४-४२) । षण्णाम् । षण्णवतिः । षण्णगरी । Sarala ------ **स्तोः श्चुना श्चुः** (८.४.४०) इत्यतः "स्तोः" इति, **ष्टुना ष्टुः** (८.४.४१) इत्यतः "ष्टुः" इति चानुवर्तते, अत आह - **स्तोः ष्टुरिति** । **ईट्टे इति** । तिङन्तमेतत् । "ईड् ते" इति स्थिते ष्टुत्वे चर्त्त्वम् । पदान्ते षकारस्य जश्त्वेन टवर्ग एव भविष्यतीति "ष्टुने"त्यतः ष्टुग्रहणानुवृत्त्यैव सिद्धं किं टोर्ग्रहणेनेति पृच्छति - **टोः किमिति** । **ह्रस्वात्तादौ तद्धिते** (८.३.१०१) इति जातस्य षत्वस्य जश्त्वं प्रत्यसिद्धत्वात् पदान्ते षकारो दृश्येतेत्यभिप्रेत्योक्तं - **सर्पिष्टममिति** । **अनामिति** । भो सूत्रकार ! त्वया न्यूनमुक्तं, त्वया - "न पदान्ताट्टोरनाम्नवतिनगरीणा"मित्येव सूत्रणीयमित्यर्थः ॥ Sudha ----- **नपदान्तादिति ।** "षट्-सन्तः", "षट्-ते" इत्यत्र टवर्गस्य पदान्ते वर्तमानान्न ष्टुत्वम् । पदान्तादित्यस्यास्वीकारे "ईट्-ते" इत्यत्रापि निषेध आपद्येत । अतः सूत्रे तन्निवेशः आवश्यकः । **टोः किमिति ।** ननु "सर्पिष्-तमम्" इत्यत्र **स्वादिष्वसर्वनामस्थाने** (1.4.17) इत्यनेन पदसंज्ञायामत्र **झलां जशोऽन्ते** (8.2.39) इत्यनेन जश्त्वं स्यादिति चेन्न, **ह्रस्वात् तादौ तद्धिते** (8.3.101) इत्यनेन कृतस्य षत्वस्य जश्त्वदृष्ट्यासऽसिद्धत्वात् । टोर्ग्रहणाभावे षकारोऽप्यनुवर्तेत । तेन प्रकृतेऽपि निषेधः स्यात्तन्मा भूदिति टोर्ग्रहणम् । **षण्णामिति ।** "षष्-नाम" इत्यवस्थायां **झलां जशोऽन्ते** (8.2.39) इत्यनेन जश्त्वे "षड्-नाम" इति स्थितौ इत्यनेन पर्युदासात् (निषेधस्य निषेधात्) ष्टुत्वे "षड्-नाम" इति जाते इति वार्त्तिकेन "ड्"-इत्यस्य नित्यानुनासिके सति, "षण्णाम्" इति रूपम्बोध्यम् । **षण्णवतिरिति ।** षडधिका नवतिरिति विग्रहः । "षड्-नवतिः" इत्यत्र **न पदान्ताट्टोरनाम्** (8.4.42) इति निषेधे प्राप्ते इत्यनेन पर्युदासात् ष्टुत्वे जाते **यरोऽनुनासिकेऽनुनासिको वा** (8.4.45) इत्यनेन पूर्वस्य "ड्"-इत्यस्यानुनासिके "षण्णवतिः" इति रूपम् । एवमेव "षण्णगर्यः" इत्यत्रापि बोध्यम् ॥ Vartika ------- अनान्नवतिनगरीणामिति वक्तव्यम् ।