84038: पदव्यवायेऽपि

Padacheda: पद-व्यवाये | S | 7 | 1 |

अपि | S | 0 | 0 |

Sutrartha


Vasu English Summary

The न् is not changed to ण् when a पद intervenes between the cause of the change and the word containing the न्।

Vasu English Translation

The न् is not changed to ण् when a पद intervenes between the cause of the change and the word containing the न्। The word पदव्यवाय is a compound meaning पदेन व्यवाय ‘separated by a Pada’. Thus माषकुम्भवापेन, चतुरङ्गयोगेन, प्रावनद्धम्, पर्यवनद्धम्, प्रगान्नयामः, परिगान्नयामः ॥ Here the Padas कुम्भ, अङ्ग, अव &c, intervening, the change does not take place.

Vart:- It should be stated when there is separation by a Pada, except in a Taddhita. Prohibition does not apply to words like आर्द्रगोमयेण, शुष्कगोमयेण ॥ Here गो takes the affix मयट् by (4.3.145), and the word गो is a Pada by (1.4.17), and it intervenes between मय and the first word. The author of Mahabhashya however does not approve of this Vartika. According to him the word पदव्यवाय means पदे व्यवाय ॥

Bhashya

पदव्यवायेऽपि ॥ पदव्यवायेऽतद्धिते॥ पदव्यवायेऽतद्धित इति वक्तव्यम्। इह मा भूत्-आर्द्रगोमयेण शुष्कगोमयेण॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यम्। नैवं विज्ञायते पदेन व्यवायः पदव्यवायः,(1) पदव्यवायेइति॥ कथं तर्हि?॥ पदे व्यवायः पदव्यवायः, पदव्यवाय इति॥ (पदव्यवायेऽपि)॥

Kashika

पदेन व्यवायः पदव्यवायः पदव्यवधानम्। पदेन व्यवायेऽपि सति निमित्तनिमित्तिनोर्नकारस्य णकारादेशो न भवति। माषकुम्भवापेन। चतुरङ्गयोगेन। प्रावनद्धम्। पर्यवनद्धम्। प्र गां नयामः। परि गां नयामः॥ पदव्यवायेऽतद्धित इति वक्तव्यम्॥ इह मा भूत् — आर्द्रगोमयेण। शुष्कगोमयेण। गोश्च पुरीषे (४.३.१४५) इति मयट्। स्वादौ पूर्वं पदमिति गोशब्दः पूर्वपदम्, तेन व्यवायः॥

Siddhanta Kaumudi

पदेन व्यवधानेऽपि णत्वं न स्यात् । माषकुम्भवापेन । चतुरङ्गयोगेन ।<!अतद्धित इति वाच्यम् !> (वार्तिकम्) ॥ आर्द्रगोमयेण । शुष्कगोमयेण ॥

Balamanorama

पदव्यवायेऽपि - पदव्यवायेऽपि । पदेन व्यवधाने इति ।पदेने॑त्यनन्तरंनिमित्तकार्यिणो॑रिति शेषः । न स्यादिति ।न भाभूपूकमिगमी॑त्यस्तदनुवृत्तेरिति भावः । माषुकम्भवापेनेति । माषाणां कुम्भो माषकुम्भः, तस्य वाप इति षष्ठीसमासः । अत्र निमित्तकार्यिणोः षकारनकारयोः कुम्भपदेन व्यवधानान्न णत्वम् । चतुरङ्गयोगेनेति । चत्वारि अङ्गानि रथगजतुरगपदातिरूपाणि यस्य तत् चतुरङ्गं=सैन्यम्, तेन योग इति विग्रहः । अत्र निमित्तकार्यिणोरङ्गपदेन व्यवधानान्न णत्वम् । उभयत्रापि कुम्भशब्दस्य अङ्गशब्दस्य च प्रत्ययलक्षणेन अन्तर्वर्तिर्नी विभक्तिमाश्रित्य पदत्वं बोध्यम् ।उत्तरपदे चाऽपदादिविधौ प्रतिषेधः॑ इति निषेधस्तु नात्र प्रवर्तते, उत्तरखण्डस्य कार्यभाक्त्वे सत्येव तत्प्रवृत्तेः । अत एवन लुमताङ्गस्ये॑त्यत्र परमवाचेत्येव तस्याः परिभाषाया उदाहरणमुक्तं भाष्ये । अत्र हि वाक्छब्दस्य उत्तरपदस्य कुत्वरूपकार्यभाक्त्त्वामस्तीति तस्य अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वाऽभावात्कुत्वं न भवति । अत एव चकुमति चे॑ति सूत्रे भाष्ये माषाणां कुम्भो माषकुम्भः, बाषकुम्भस्य वापो माषकुम्भवापः । तेन माषकुम्भवापेनेत्यत्रपदव्यवायेऽपीति निषेधप्रवृत्तयेप्रातिपदिकान्ते॑ति णत्वप्रवृत्तिरुपन्यस्ता सङ्गच्छते । नचैवं सति रम्यविणेत्यत्र ‘वि’ इत्युत्तरखण्डस्य कार्यभाक्त्वाऽभावात्उत्तरपदत्वे चाऽपदादिविधौ॑ इति प्रत्ययलक्षणनिषेधस्याऽप्रवृत्तौ अन्तर्वर्तिविभक्त्याश्रयणेनपदव्यवायेऽपी॑ति णत्वनिषेधः । एतेन पुनर्भूणामित्यत्रापि णत्वं निर्बाधम् ।अतद्धिते इति । अतद्धिते परे यत्पदं तेन व्यवधानेऽयं निषेधो, नतु तद्धितपरकपदेनेत्यर्थः । आद्र्रगोमयेणेति । गोः पुरीषं गोमयं । ‘गोश्च पुरीषे’ इति गोशब्दात् षष्ठन्तात् मयट् तद्धितः, तद्धितान्तप्रातिपदिकावयवत्वात् सुपो लुक् । आद्र्रं गोमयमिति कर्मधारयः । यद्यपि प्रत्ययलक्षणेन अन्तर्वर्तिनीं विभक्तिमाश्रित्य गोशब्दो मयटि पदन्तथापि तस्य तद्धितपरकतया तेन व्यवधानेऽपि रेफात्परस्य णत्वं भवत्येव, अस्मिन् प्रकरणे अटकुप्वाङ्नुम्व्यवायस्य अबाधकत्वात् । शुष्कगोमयेणेति । षात्परस्योदाहरणम् । भाष्ये तुपदान्तस्ये॑ति पूर्वसूत्रात्पदग्रहणानुवृत्तिमभिप्रेत्य पदे परतः पदेन व्यवाये णत्वं नेत्याश्रित्य वार्तिकमिदं प्रत्याख्यातम् ।

Tattvabodhini

पदव्यवायेऽपि - पदेन व्यवधान इति । निमित्तनिमित्तिनोर्मध्ये पदे सति णत्वं नेत्यर्थः । माषकुम्भवापेनेति । माषकुम्भं वपतीतिकर्मण्यण् । उपपदसमासः । चतुरङ्गयोगेनेति ।चत्वार्यङ्गान्यस्य॑तेन योगः॑ इति मनोरमायां विगृहितम् । तदयुक्तम् ।उत्तरपदत्वे चाऽपदादिविधौ॑इति प्रत्ययलक्षणप्रतिषेधादङ्गशब्दस्याऽपदत्वात् । तस्मात्अङ्गानां योगोऽङ्गयोगश्चतुर्णामङ्गयोगः॑ इत्येव विग्रहीतव्यम् । न चचतुरङ्गेन योगः इति विग्रहेऽप्यङ्गशब्द उत्तरपदं नेति प्रत्ययलक्षणप्रतिषेधो न प्रवर्तत इति शङ्क्यं, तस्य पूर्वसमासस्योत्तरपदत्वात्, उत्तरपदत्वे चे॑ति प्रतिषेधवचनस्यापिउत्तरस्य=समासचरमावयवस्य पदत्वे कर्तव्ये पदादिविधिभिन्ने प्रत्ययलक्षणं न प्रवर्तते॑इत्यर्था ब्युपगमाच्च ।शाकपार्थिवादीनामुत्तरपदलोपः॑, प्रादिभ्यो धातुजस्ये॑त्यादौ तूत्तरपदशब्देन समासचरमावयवमात्रं गृह्रते इति तत्र प्रत्ययलक्षणप्रवृत्त्यभावेऽपि न क्षतिः । इह तु पदत्वलाभाय प्रत्ययलक्षणप्रवृत्तिरपेक्षिता । एवं चमाषकुम्भवापेने॑त्यात्रापि कुम्भस्य वापः — कुम्भवापः । कुम्भशब्दः कुम्भपरिमितधान्ये भाक्तः ।माषाणां कुम्भवापः॑ इथि विग्रहीतव्यमिति नव्याः । केचुत्तु -॒अपदादिविधौ॑इत्यत्रपदान्तविधौ॑इत्यर्थं परिकल्प्यपदव्यवायेऽपी॑ त्यस्य पदान्तविधित्वाऽभावान्नास्त्यत्र प्रत्ययलक्षणनिषेध इत्याहुः । तदपरे न क्षमन्ते । तथा हि सति लाघवात्पदन्तविधौ॑इत्येव ब्राऊयात्, न तुअपदादिविधौ॑इति दिक् । [किंचोत्तरपदत्वे इति वचनस्य पदान्तविधौ कर्तव्ये प्रतिषेध इत्यर्थाभ्युपगमे पदमदण्डिनावितिङमो ह्रस्वदची॑ति सूत्रस्थमनोरमाग्रन्थेनैव विरोध इत्यलमियता] ।अतद्धित इति वाच्यम् । अतद्धित इथि ।व्यवधायकपदस्य तद्धितश्चेत्परो न भवति, तदा निषेधः॑इत्यर्थः । आद्र्रगोमयेणेति । इह गोशब्दः पदम् ।उत्तरपदत्वे चे॑ति निषेधोऽत्र न शङ्क्यः, गोमयशब्दस्योत्तरपदत्वात्, गोशब्दस्य चस्वादिषु॑इति पदत्वात् ।

Padamanjari

माषकुम्भवापेनेति । अत्र केचिदाहुः - यदा माषाणां कुम्भो माषकुम्भः, तस्य वाप इति पक्रिया, तदा ठुतरपदत्वे चापदादिविधौऽ इति प्रत्ययलक्षणप्रतिषेधात् पदत्वाभावान्निषेधाप्रवृतेर्भवितव्यमेव णत्वेन, तस्मात् कुम्भस्य वापः कुम्भवापः, माषाणां कुम्भवापो माषकुम्भवाप इति प्रक्रियाश्रयेणोदाहरणमिति । अत्र’कुमति च’ इति प्राप्तिः । प्रावनद्धमिति । ठुपसर्गादसमासेऽपिऽ इत्यवशब्दव्यवायेऽपि ठड्व्यवायेऽ इति प्राप्तिः । प्रगान्नयाम इति । च्छन्दस्ययं व्यवहितः प्रयोगः । गामिति द्वितीयान्तेन पदेन व्यवायः । पदव्यवायेऽतद्धित इति । योऽयं पदव्यवाये प्रतिषेधः, स तद्धिते यत्पदं तत्र न भवतीति वक्तव्यमित्यर्थः । आद्रगोमयेणेति ।’गोश्च पुरुषे’ इति मयट्, तत्र परतो गोशब्दः’स्वादिषु’ इति पदम् ॥

Nyaas

निमित्तनिमित्तिनोः परकृतत्वादुभयोरेव व्यवायो विज्ञायते, इत्यत आह -पदेन व्यवाये सति निमित्तनिमित्तिनोः इत्यादि। माषकुम्भषापेन इति। माषाणां कुम्भः माधकुम्भः, तं वपतीति कर्मण्यण् (3.2.1) , तदन्तात्? तृतीयैकवचनम्। अत्र प्रातिपदिकान्तनुम्विभक्तिषु च (8.4.11) इति प्राप्तिः। चतुरङ्गयोगेन इति। अत्र कुमति च (8.4.13) इति प्राप्तिः। चत्वार्यङ्गान्यस्येति बहुव्रीहिः; तेन योगश्चतुरङ्गयोगः, कर्तृकरणे कृता बहुलम् (2.1.32) इति तृतीयासमासः। पूर्वत्र कुम्भशब्देन व्यवायः, उत्तरत्र त्वङ्गशब्देन। प्रावनद्धम इति। णह बन्धने (धातुपाठः-1166), निष्ठा, नहो धः (8.2.34) , झषस्तथोर्धोऽधः (8.2.40) , झलां जश् झशि (8.4.53) इत्येते विधयः कर्तव्याः, गतिसमासः। अत्रावशब्देन व्यवायः। णत्वप्राप्तिस्तु उपसर्गादसमासेऽपि (8.4.14) इत्यादिना। एवं प्रगान्नयामः इत्यत्रापि। व्यवधानं तु गामित्यनेन। इदं तु च्छान्दसमुदाहणम्। न हि भाषायां व्यवहितादामृपसर्गाणां धातोः प्राक्? प्रयोगोऽस्ति, किं तर्हि? छन्दसि परेऽपि (1.4.81) इत्यतः छन्दसि इत्यनुवर्तमाने व्यवहिताश्च (1.4.82) इत्यनेन छन्दसि व्यवहितो भवति। गोशब्दस्यौकारस्य औतोऽम्शसोः (6.1.93) इत्यात्त्वम्। पदव्यवाये इत्यादि। योऽयं पदव्यवाये प्रतिषेध उच्यते सोऽतद्धिते भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानमित्यर्थः। तत्रेदं व्याख्यानमित्यर्थः। तत्रेदं व्याख्यानम् -वा निंसनिक्षनिन्दाम् (8.4.33) इत्यतो मण्डूकप्लुतिन्यायेन वाग्रहणमनुवर्तते; सा च व्यवस्थितविभाषा, तेन तद्धिते प्रतिषेधो न भविष्यतीति। आद्र्रगोमर्येण इति। गोरिदं गोमयम्, गोश्च पुरीषे (4.3.145) इति मयट्। आद्र्र च तत्? गोमयञ्चेति कर्मधारयः। गोशब्देन पदेन ध्यवधानम्। पदसंज्ञा चास्य स्वादिष्वसर्वनामस्थाने (1.4.17) इत्यनेन॥

Prakriyasarvasvam

मध्ये पदेन व्यवधानेऽपि सति नस्य णत्वं न स्यात् । माषकुम्भवापेन । चतुरङ्गयोगेन । तद्धिते पदव्यवायेऽपीष्टम् । आर्द्रगोमयेण । गोशब्दस्य ‘स्वादिषु’ (१-४-१७) इति पदत्वात् ।

Vartika

अतद्धित इति वाच्यम् ।

Sutra Prayogas

  • रोष-भीम-मुखेनैवं (भट्टिकाव्यम्): पदव्यवाये ऽपि इति णत्वप्रतिषेधः।