84038: पदव्यवायेऽपि =================== **Padacheda:** पद-व्यवाये | S | 7 | 1 | अपि | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The न् is not changed to ण् when a पद intervenes between the cause of the change and the word containing the न्। Vasu English Translation ------------------------ The न् is not changed to ण् when a पद intervenes between the cause of the change and the word containing the न्। The word पदव्यवाय is a compound meaning पदेन व्यवाय 'separated by a *Pada*'. Thus माषकुम्भवापेन, चतुरङ्गयोगेन, प्रावनद्धम्, पर्यवनद्धम्, प्रगान्नयामः, परिगान्नयामः ॥ Here the *Padas* कुम्भ, अङ्ग, अव &c, intervening, the change does not take place. Vart:- It should be stated when there is separation by a *Pada*, except in a *Taddhita*. Prohibition does not apply to words like आर्द्रगोमयेण, शुष्कगोमयेण ॥ Here गो takes the affix मयट् by (4.3.145), and the word गो is a *Pada* by (1.4.17), and it intervenes between मय and the first word. The author of *Mahabhashya* however does not approve of this *Vartika*. According to him the word पदव्यवाय means पदे व्यवाय ॥ Bhashya ------- पदव्यवायेऽपि ॥ पदव्यवायेऽतद्धिते॥ पदव्यवायेऽतद्धित इति वक्तव्यम्। इह मा भूत्-आर्द्रगोमयेण शुष्कगोमयेण॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यम्। नैवं विज्ञायते पदेन व्यवायः पदव्यवायः,(1) पदव्यवायेइति॥ कथं तर्हि?॥ पदे व्यवायः पदव्यवायः, पदव्यवाय इति॥ (पदव्यवायेऽपि)॥ Kashika ------- पदेन व्यवायः पदव्यवायः पदव्यवधानम्। पदेन व्यवायेऽपि सति निमित्तनिमित्तिनोर्नकारस्य णकारादेशो न भवति। माषकुम्भवापेन। चतुरङ्गयोगेन। प्रावनद्धम्। पर्यवनद्धम्। प्र गां नयामः। परि गां नयामः॥ पदव्यवायेऽतद्धित इति वक्तव्यम्॥ इह मा भूत् — आर्द्रगोमयेण। शुष्कगोमयेण। **गोश्च पुरीषे** (४.३.१४५) इति मयट्। स्वादौ पूर्वं पदमिति गोशब्दः पूर्वपदम्, तेन व्यवायः॥ Siddhanta Kaumudi ----------------- पदेन व्यवधानेऽपि णत्वं न स्यात् । माषकुम्भवापेन । चतुरङ्गयोगेन । (वार्तिकम्) ॥ आर्द्रगोमयेण । शुष्कगोमयेण ॥ Balamanorama ------------ **पदव्यवायेऽपि** - पदव्यवायेऽपि । पदेन व्यवधाने इति ।पदेने॑त्यनन्तरंनिमित्तकार्यिणो॑रिति शेषः । न स्यादिति ।न भाभूपूकमिगमी॑त्यस्तदनुवृत्तेरिति भावः । माषुकम्भवापेनेति । माषाणां कुम्भो माषकुम्भः, तस्य वाप इति षष्ठीसमासः । अत्र निमित्तकार्यिणोः षकारनकारयोः कुम्भपदेन व्यवधानान्न णत्वम् । चतुरङ्गयोगेनेति । चत्वारि अङ्गानि रथगजतुरगपदातिरूपाणि यस्य तत् चतुरङ्गं=सैन्यम्, तेन योग इति विग्रहः । अत्र निमित्तकार्यिणोरङ्गपदेन व्यवधानान्न णत्वम् । उभयत्रापि कुम्भशब्दस्य अङ्गशब्दस्य च प्रत्ययलक्षणेन अन्तर्वर्तिर्नी विभक्तिमाश्रित्य पदत्वं बोध्यम् ।उत्तरपदे चाऽपदादिविधौ प्रतिषेधः॑ इति निषेधस्तु नात्र प्रवर्तते, उत्तरखण्डस्य कार्यभाक्त्वे सत्येव तत्प्रवृत्तेः । अत एवन लुमताङ्गस्ये॑त्यत्र परमवाचेत्येव तस्याः परिभाषाया उदाहरणमुक्तं भाष्ये । अत्र हि वाक्छब्दस्य उत्तरपदस्य कुत्वरूपकार्यभाक्त्त्वामस्तीति तस्य अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वाऽभावात्कुत्वं न भवति । अत एव चकुमति चे॑ति सूत्रे भाष्ये माषाणां कुम्भो माषकुम्भः, बाषकुम्भस्य वापो माषकुम्भवापः । तेन माषकुम्भवापेनेत्यत्रपदव्यवायेऽपीति निषेधप्रवृत्तयेप्रातिपदिकान्ते॑ति णत्वप्रवृत्तिरुपन्यस्ता सङ्गच्छते । नचैवं सति रम्यविणेत्यत्र 'वि' इत्युत्तरखण्डस्य कार्यभाक्त्वाऽभावात्उत्तरपदत्वे चाऽपदादिविधौ॑ इति प्रत्ययलक्षणनिषेधस्याऽप्रवृत्तौ अन्तर्वर्तिविभक्त्याश्रयणेनपदव्यवायेऽपी॑ति णत्वनिषेधः । एतेन पुनर्भूणामित्यत्रापि णत्वं निर्बाधम् ।अतद्धिते इति । अतद्धिते परे यत्पदं तेन व्यवधानेऽयं निषेधो, नतु तद्धितपरकपदेनेत्यर्थः । आद्र्रगोमयेणेति । गोः पुरीषं गोमयं । 'गोश्च पुरीषे' इति गोशब्दात् षष्ठन्तात् मयट् तद्धितः, तद्धितान्तप्रातिपदिकावयवत्वात् सुपो लुक् । आद्र्रं गोमयमिति कर्मधारयः । यद्यपि प्रत्ययलक्षणेन अन्तर्वर्तिनीं विभक्तिमाश्रित्य गोशब्दो मयटि पदन्तथापि तस्य तद्धितपरकतया तेन व्यवधानेऽपि रेफात्परस्य णत्वं भवत्येव, अस्मिन् प्रकरणे अटकुप्वाङ्नुम्व्यवायस्य अबाधकत्वात् । शुष्कगोमयेणेति । षात्परस्योदाहरणम् । भाष्ये तुपदान्तस्ये॑ति पूर्वसूत्रात्पदग्रहणानुवृत्तिमभिप्रेत्य पदे परतः पदेन व्यवाये णत्वं नेत्याश्रित्य वार्तिकमिदं प्रत्याख्यातम् । Tattvabodhini ------------- **पदव्यवायेऽपि** - पदेन व्यवधान इति । निमित्तनिमित्तिनोर्मध्ये पदे सति णत्वं नेत्यर्थः । माषकुम्भवापेनेति । माषकुम्भं वपतीतिकर्मण्यण् । उपपदसमासः । चतुरङ्गयोगेनेति ।चत्वार्यङ्गान्यस्य॑तेन योगः॑ इति मनोरमायां विगृहितम् । तदयुक्तम् ।उत्तरपदत्वे चाऽपदादिविधौ॑इति प्रत्ययलक्षणप्रतिषेधादङ्गशब्दस्याऽपदत्वात् । तस्मात्अङ्गानां योगोऽङ्गयोगश्चतुर्णामङ्गयोगः॑ इत्येव विग्रहीतव्यम् । न चचतुरङ्गेन योगः इति विग्रहेऽप्यङ्गशब्द उत्तरपदं नेति प्रत्ययलक्षणप्रतिषेधो न प्रवर्तत इति शङ्क्यं, तस्य पूर्वसमासस्योत्तरपदत्वात्, उत्तरपदत्वे चे॑ति प्रतिषेधवचनस्यापिउत्तरस्य=समासचरमावयवस्य पदत्वे कर्तव्ये पदादिविधिभिन्ने प्रत्ययलक्षणं न प्रवर्तते॑इत्यर्था ब्युपगमाच्च ।शाकपार्थिवादीनामुत्तरपदलोपः॑, प्रादिभ्यो धातुजस्ये॑त्यादौ तूत्तरपदशब्देन समासचरमावयवमात्रं गृह्रते इति तत्र प्रत्ययलक्षणप्रवृत्त्यभावेऽपि न क्षतिः । इह तु पदत्वलाभाय प्रत्ययलक्षणप्रवृत्तिरपेक्षिता । एवं चमाषकुम्भवापेने॑त्यात्रापि कुम्भस्य वापः — कुम्भवापः । कुम्भशब्दः कुम्भपरिमितधान्ये भाक्तः ।माषाणां कुम्भवापः॑ इथि विग्रहीतव्यमिति नव्याः । केचुत्तु -॒अपदादिविधौ॑इत्यत्रपदान्तविधौ॑इत्यर्थं परिकल्प्यपदव्यवायेऽपी॑ त्यस्य पदान्तविधित्वाऽभावान्नास्त्यत्र प्रत्ययलक्षणनिषेध इत्याहुः । तदपरे न क्षमन्ते । तथा हि सति लाघवात्पदन्तविधौ॑इत्येव ब्राऊयात्, न तुअपदादिविधौ॑इति दिक् । [किंचोत्तरपदत्वे इति वचनस्य पदान्तविधौ कर्तव्ये प्रतिषेध इत्यर्थाभ्युपगमे पदमदण्डिनावितिङमो ह्रस्वदची॑ति सूत्रस्थमनोरमाग्रन्थेनैव विरोध इत्यलमियता] ।अतद्धित इति वाच्यम् । अतद्धित इथि ।व्यवधायकपदस्य तद्धितश्चेत्परो न भवति, तदा निषेधः॑इत्यर्थः । आद्र्रगोमयेणेति । इह गोशब्दः पदम् ।उत्तरपदत्वे चे॑ति निषेधोऽत्र न शङ्क्यः, गोमयशब्दस्योत्तरपदत्वात्, गोशब्दस्य चस्वादिषु॑इति पदत्वात् । Padamanjari ----------- माषकुम्भवापेनेति । अत्र केचिदाहुः - यदा माषाणां कुम्भो माषकुम्भः, तस्य वाप इति पक्रिया, तदा ठुतरपदत्वे चापदादिविधौऽ इति प्रत्ययलक्षणप्रतिषेधात् पदत्वाभावान्निषेधाप्रवृतेर्भवितव्यमेव णत्वेन, तस्मात् कुम्भस्य वापः कुम्भवापः, माषाणां कुम्भवापो माषकुम्भवाप इति प्रक्रियाश्रयेणोदाहरणमिति । अत्र'कुमति च' इति प्राप्तिः । प्रावनद्धमिति । ठुपसर्गादसमासेऽपिऽ इत्यवशब्दव्यवायेऽपि ठड्व्यवायेऽ इति प्राप्तिः । प्रगान्नयाम इति । च्छन्दस्ययं व्यवहितः प्रयोगः । गामिति द्वितीयान्तेन पदेन व्यवायः । पदव्यवायेऽतद्धित इति । योऽयं पदव्यवाये प्रतिषेधः, स तद्धिते यत्पदं तत्र न भवतीति वक्तव्यमित्यर्थः । आद्रगोमयेणेति ।'गोश्च पुरुषे' इति मयट्, तत्र परतो गोशब्दः'स्वादिषु' इति पदम् ॥ Nyaas ----- निमित्तनिमित्तिनोः परकृतत्वादुभयोरेव व्यवायो विज्ञायते, इत्यत आह -`पदेन व्यवाये सति निमित्तनिमित्तिनोः` इत्यादि। `माषकुम्भषापेन` इति। माषाणां कुम्भः माधकुम्भः, तं वपतीति **कर्मण्यण्** (3.2.1) , तदन्तात्? तृतीयैकवचनम्। अत्र **प्रातिपदिकान्तनुम्विभक्तिषु च** (8.4.11) इति प्राप्तिः। `चतुरङ्गयोगेन` इति। अत्र **कुमति च** (8.4.13) इति प्राप्तिः। चत्वार्यङ्गान्यस्येति बहुव्रीहिः; तेन योगश्चतुरङ्गयोगः, **कर्तृकरणे कृता बहुलम्** (2.1.32) इति तृतीयासमासः। पूर्वत्र कुम्भशब्देन व्यवायः, उत्तरत्र त्वङ्गशब्देन। `प्रावनद्धम` इति। `णह बन्धने` (धातुपाठः-1166), निष्ठा, `नहो धः` (8.2.34) , **झषस्तथोर्धोऽधः** (8.2.40) , **झलां जश् झशि** (8.4.53) इत्येते विधयः कर्तव्याः, गतिसमासः। अत्रावशब्देन व्यवायः। णत्वप्राप्तिस्तु `उपसर्गादसमासेऽपि` (8.4.14) इत्यादिना। एवं `प्रगान्नयामः` इत्यत्रापि। व्यवधानं तु गामित्यनेन। इदं तु च्छान्दसमुदाहणम्। न हि भाषायां व्यवहितादामृपसर्गाणां धातोः प्राक्? प्रयोगोऽस्ति, किं तर्हि? **छन्दसि परेऽपि** (1.4.81) इत्यतः `छन्दसि` इत्यनुवर्तमाने **व्यवहिताश्च** (1.4.82) इत्यनेन छन्दसि व्यवहितो भवति। गोशब्दस्यौकारस्य **औतोऽम्शसोः** (6.1.93) इत्यात्त्वम्। `पदव्यवाये` इत्यादि। योऽयं पदव्यवाये प्रतिषेध उच्यते सोऽतद्धिते भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानमित्यर्थः। तत्रेदं व्याख्यानमित्यर्थः। तत्रेदं व्याख्यानम् -**वा निंसनिक्षनिन्दाम्** (8.4.33) इत्यतो मण्डूकप्लुतिन्यायेन वाग्रहणमनुवर्तते; सा च व्यवस्थितविभाषा, तेन तद्धिते प्रतिषेधो न भविष्यतीति। `आद्र्रगोमर्येण` इति। गोरिदं गोमयम्, **गोश्च पुरीषे** (4.3.145) इति मयट्। आद्र्र च तत्? गोमयञ्चेति कर्मधारयः। गोशब्देन पदेन ध्यवधानम्। पदसंज्ञा चास्य **स्वादिष्वसर्वनामस्थाने** (1.4.17) इत्यनेन॥ Prakriyasarvasvam ----------------- मध्ये पदेन व्यवधानेऽपि सति नस्य णत्वं न स्यात् । माषकुम्भवापेन । चतुरङ्गयोगेन । तद्धिते पदव्यवायेऽपीष्टम् । आर्द्रगोमयेण । गोशब्दस्य 'स्वादिषु' (१-४-१७) इति पदत्वात् । Vartika ------- अतद्धित इति वाच्यम् । Sutra Prayogas -------------- * **रोष-भीम-मुखेनैवं** (भट्टिकाव्यम्): `पदव्यवाये ऽपि` इति णत्वप्रतिषेधः।