83113: सेधतेर्गतौ¶
Padacheda: सेधतेः | S | 6 | 1 |
गतौ | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The ष् substitution does not take place in the स् of the verb सेध when the meaning is that of moving.
Vasu English Translation¶
The ष् substitution does not take place in the स् of the verb सेध when the meaning is that of moving. Thus अभिसेधयति गाः, परिसेधयति गाः ॥ This is an exception to (8.3.65).
Why do we say ‘when meaning to drive’? Observe शिष्यमकार्यात्प्रतिषेधयति ॥ Here the sense is that of preventing or prohibiting.
Bhashya¶
सिचो यङि अथोपसर्गादिति(1) या प्राप्तिः-भवितव्यं तस्याः प्रतिषेधेनोताहो न?॥ न भवितव्यम्॥ किं कारणम्?॥ उपसर्गात् षत्वं प्रतिषेधविषये आरभ्यते, तद्यथैव पदादिलक्षणं(3) प्रतिषेधं बाधते एवं सिचो यङीत्येतमपि बाधते(4)॥ न बाधते(4)॥ किं कारणम्?॥ येन नाऽप्राप्ते तस्य बाधनं भवति। न चाऽप्राप्ते पदादिलक्षणे(1) प्रतिषेधे उपसर्गात् षत्वमारभ्यते, सिचो यङीत्येतस्मिन् पुनः प्राप्ते चाऽप्राप्ते च॥ अथ वा पुरस्तादपवादा अनन्तरान्विधीन् बाधन्तःइत्येवमुपसर्गात्षत्वं पदादिलक्षणं प्रतिषेधं बाधिष्यते। सिचो यङीत्येतन्न बाधिष्यते। तस्मादभिसेसिच्यते इति भवितव्यम्॥
Kashika¶
गतौ वर्तमानस्य सेधतेः सकारस्य मूर्धन्यादेशो न भवति। अभिसेधयति गाः। परिसेधयति गाः। गताविति किम्? शिष्यमकार्यात् प्रतिषेधयति॥
Siddhanta Kaumudi¶
गत्यर्थस्य सेधतेः षत्वं न स्यात् । गङ्गां विसेधति ।{$ {!48 षिधू!} शास्त्रे माङ्गल्ये च$} । शास्त्रं शासनम् ॥
Balamanorama¶
सेधतेर्गतौ - सात्पदाद्योः । शेषपूरणेन सूत्रं व्याचष्टे — सस्य षत्वं न स्यादिति । सातेरवयवस्य, पदादेश्च सस्य षत्वं न स्यादित्यर्थः ।न रपरसृपी॑त्यतो नेति,अपदान्तस्ये॑त्यतो ‘मूर्धन्य’ इति चानुवर्तत इति भावः । पदादेरुदाहरति — दधि सिञ्चतीति । षिचिधातोः ‘धात्वादेः षः सः’ इति षस्य सः । तस्यआदेशप्रत्यययो॑रिति षत्वे प्राप्ते ।ञनेन निषेधः । कृत्स्नमिति । सर्वावयवोपेतमित्यर्थः ।अग्निसा॑दित्यत्र प्रत्ययावयवसकारत्वात् षत्वे प्राप्तेऽनेन निषेधः । अग्नीभवतीति । च्विप्रत्ययेच्वौ चे ति दीर्घः । महाविभाषयेति ।समर्थाना॑मित्यतो वाग्रहणानुवृत्तेरित्यर्थः । माहाविभाषया सिद्धे इह विभाषाग्रहणं तु अपवादेन मुक्ते औत्सर्गिकच्वेः समावेशार्थम् ।
Tattvabodhini¶
सेधतेर्गतौ। श्तिपा निर्देशाद्गत्यर्थादस्माद्यङ्लुकि न निषेधः,तेनोपसर्गमाश्रित्य षत्वं भवत्येव - विषेषिधीति। न च सेदेति शपा निर्देशाद्यङलुकि `उपसर्गात्सुनोती`ति षत्वं न भवेदिति शङ्क्यं,दैवादिकनिवृत्त्यर्थतया शपा निर्देशस्य चरितार्थतत्वात्। अन्यथा सेधतेरिति श्तिपा निर्देशस्य वैयर्थ्यापत्तेरिति दिक्। षिधू शास्त्रे। माङ्गस्यं- मङ्गलक्रिया। स्वार्थे ष्यञ।
Padamanjari¶
सोड्भूतो गृह्यते इति । निष्ठान्तस्य प्रथमया निर्देशशङ्कामपाकरोति । परिसोञेति ।’परिनिविभ्यः’ इति प्राप्ते प्रतिषेधः ॥
Nyaas¶
उपसर्गात् सुनोति` (8.3.64) इति प्राप्तस्य षत्वस्य प्रतिषेधः। प्रतिषेधस्याकार्यादिति निवारणे सेधतिर्थर्तते॥
Prakriyasarvasvam¶
गत्यर्थस्य सेधतेः षत्वं न । गङ्गां विसेधति ।