83113: सेधतेर्गतौ ================= **Padacheda:** सेधतेः | S | 6 | 1 | गतौ | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The ष् substitution does not take place in the स् of the verb सेध when the meaning is that of moving. Vasu English Translation ------------------------ The ष् substitution does not take place in the स् of the verb सेध when the meaning is that of moving. Thus अभिसेधयति गाः, परिसेधयति गाः ॥ This is an exception to (8.3.65). Why do we say 'when meaning to drive'? Observe शिष्यमकार्यात्प्रतिषेधयति ॥ Here the sense is that of preventing or prohibiting. Bhashya ------- सिचो यङि अथोपसर्गादिति(1) या प्राप्तिः-भवितव्यं तस्याः प्रतिषेधेनोताहो न?॥ न भवितव्यम्॥ किं कारणम्?॥ उपसर्गात् षत्वं प्रतिषेधविषये आरभ्यते, तद्यथैव पदादिलक्षणं(3) प्रतिषेधं बाधते एवं सिचो यङीत्येतमपि बाधते(4)॥ न बाधते(4)॥ किं कारणम्?॥ येन नाऽप्राप्ते तस्य बाधनं भवति। न चाऽप्राप्ते पदादिलक्षणे(1) प्रतिषेधे उपसर्गात् षत्वमारभ्यते, सिचो यङीत्येतस्मिन् पुनः प्राप्ते चाऽप्राप्ते च॥ अथ वा पुरस्तादपवादा अनन्तरान्विधीन् बाधन्तःइत्येवमुपसर्गात्षत्वं पदादिलक्षणं प्रतिषेधं बाधिष्यते। सिचो यङीत्येतन्न बाधिष्यते। तस्मादभिसेसिच्यते इति भवितव्यम्॥ Kashika ------- गतौ वर्तमानस्य सेधतेः सकारस्य मूर्धन्यादेशो न भवति। अभिसेधयति गाः। परिसेधयति गाः। गताविति किम्? शिष्यमकार्यात् प्रतिषेधयति॥ Siddhanta Kaumudi ----------------- गत्यर्थस्य सेधतेः षत्वं न स्यात् । गङ्गां विसेधति ।{$ {!48 षिधू!} शास्त्रे माङ्गल्ये च$} । शास्त्रं शासनम् ॥ Balamanorama ------------ **सेधतेर्गतौ** - सात्पदाद्योः । शेषपूरणेन सूत्रं व्याचष्टे — सस्य षत्वं न स्यादिति । सातेरवयवस्य, पदादेश्च सस्य षत्वं न स्यादित्यर्थः ।न रपरसृपी॑त्यतो नेति,अपदान्तस्ये॑त्यतो 'मूर्धन्य' इति चानुवर्तत इति भावः । पदादेरुदाहरति — दधि सिञ्चतीति । षिचिधातोः 'धात्वादेः षः सः' इति षस्य सः । तस्यआदेशप्रत्यययो॑रिति षत्वे प्राप्ते ।ञनेन निषेधः । कृत्स्नमिति । सर्वावयवोपेतमित्यर्थः ।अग्निसा॑दित्यत्र प्रत्ययावयवसकारत्वात् षत्वे प्राप्तेऽनेन निषेधः । अग्नीभवतीति । च्विप्रत्ययेच्वौ चे ति दीर्घः । महाविभाषयेति ।समर्थाना॑मित्यतो वाग्रहणानुवृत्तेरित्यर्थः । माहाविभाषया सिद्धे इह विभाषाग्रहणं तु अपवादेन मुक्ते औत्सर्गिकच्वेः समावेशार्थम् । Tattvabodhini ------------- सेधतेर्गतौ। श्तिपा निर्देशाद्गत्यर्थादस्माद्यङ्लुकि न निषेधः,तेनोपसर्गमाश्रित्य षत्वं भवत्येव - `विषेषिधीति`। न च सेदेति शपा निर्देशाद्यङलुकि `उपसर्गात्सुनोती`ति षत्वं न भवेदिति शङ्क्यं,दैवादिकनिवृत्त्यर्थतया शपा निर्देशस्य चरितार्थतत्वात्। अन्यथा सेधतेरिति श्तिपा निर्देशस्य वैयर्थ्यापत्तेरिति दिक्। षिधू शास्त्रे। माङ्गस्यं- मङ्गलक्रिया। स्वार्थे ष्यञ। Padamanjari ----------- सोड्भूतो गृह्यते इति । निष्ठान्तस्य प्रथमया निर्देशशङ्कामपाकरोति । परिसोञेति ।'परिनिविभ्यः' इति प्राप्ते प्रतिषेधः ॥ Nyaas ----- `उपसर्गात्` सुनोति` (8.3.64) इति प्राप्तस्य षत्वस्य प्रतिषेधः। प्रतिषेधस्याकार्यादिति निवारणे सेधतिर्थर्तते॥ Prakriyasarvasvam ----------------- गत्यर्थस्य सेधतेः षत्वं न । गङ्गां विसेधति ।