83111: सात्पदाद्योः¶
Padacheda: सात्-पदाद्योः | S | 6 | 2 |
Sutrartha¶
Vasu English Summary¶
The ष् substitution does not take place in the affix सात् and for that स् which stands at the beginning of a word.
Vasu English Translation¶
The ष् substitution does not take place in the affix सात् and for that स् which stands at the beginning of a word. Thus सात् here is the affix ordained by (5.4.52), and it would have been changed to ष by (8.3.59). The present sutra prevents that. The Padadi स refers to those verbs which in the Dhatupatha are taught with a ष, and for which a स is substituted. This also is an exception to (8.3.59). Thus अग्निसात् । दधिसात् । मधुसात् ॥ So also with Padadi स as दधि सिञ्चति, मधु सिञ्चति ॥
Kashika¶
सादित्येतस्य पदादेश्च मूर्धन्यादेशो न भवति। विभाषा साति कार्त्स्न्ये (५.४.५२)। प्रत्ययसकारत्वात् प्राप्तिः, पदादेश्चादेशसकारत्वात्। सात् — अग्निसात्। दधिसात्। मधुसात्। पदादेः — दधि सिञ्चति। मधु सिञ्चति॥
Siddhanta Kaumudi¶
सस्य षत्वं न स्यात् । दधि सिञ्चति । कृत्स्नं शस्त्रमग्निः संपद्यतेऽग्निसाद्भवति । अग्नीभवति । महाविभाषया वाक्यमपि । कार्त्स्ये किम् । एकदेशेन शुक्लीभवति पटः ॥
Laghu Siddhanta Kaumudi¶
सस्य षत्वं न स्यात्। कृत्स्नं शस्त्रमग्निः संपद्यतेऽग्निसाद्भवति। दधि सिञ्चति॥
Padamanjari¶
ठुपसर्गात्ऽ इति प्राप्तिः प्रतिषिध्यते ॥
Nyaas¶
आदेशप्रत्यययोः (8.3.59) इति षत्वे प्राप्तेऽयं प्रतिषेध-॥
Sutra Prayogas¶
विषह्य (भट्टिकाव्यम्): सात्पदाद्योः इति प्रतिषेधे प्राप्ते।
ज्योतिःसात्-कुर्वतीं (भट्टिकाव्यम्): सात्-पदाद्योः इति प्रतिषेधः ।