83066: सदिरप्रतेः¶
Padacheda: सदिः | S | 1 | 1 |
अप्रतेः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The स् of सद् is changed to ष after an उपसर्ग (Preposition) having an इ or उ , but not after प्रति।
Vasu English Translation¶
The स् of सद् is changed to ष after an उपसर्ग (Preposition) having an इ or उ , but not after प्रति। The word सदिः is in the first case, but has the force of genitive. Thus निषीदति, विषीदति, न्यषीदत्, व्यषीदत् ॥ निषसाद, विषसाद ॥ The second स remains unchanged in the Perfect by (8.3.118).
Why do we say ‘but not after प्रति’? Observe प्रतिसीदति ॥ Prof. Bohtlingk points out that the sutra is सदेरप्रतेः as given by Sayanacharya in his commentary on Rig Veda VI.13. I.*Panini*, however, often uses the first case with the force of the Genitive, as in (8.3.80).
Kashika¶
सदेः सकारस्य उपसर्गस्थाद् निमित्तादप्रतेरुत्तरस्य मूर्धन्य आदेशो भवति। निषीदति। विषीदति। न्यषीदत्। व्यषीदत्। निषसाद। विषसाद। अप्रतेरिति किम्? प्रतिसीदति॥
Siddhanta Kaumudi¶
प्रतिभिन्नादुपसर्गात्सदेः सस्य षः स्यात् ॥
Balamanorama¶
सदिरप्रतेः - प्राक्सतादिति ।उपसर्गात्सुनोतीत्यादिसूत्रोपात्ता॑ इति शेषः । तेषामिति । पञ्चदशानामित्यर्थः । न्यषेधदिति । अकारेम व्यवहितत्वादिणः परत्वाऽभावादप्राप्तौ वचनम् । अभ्युषुणोदित्यप्युदाहार्यम् ।
Tattvabodhini¶
सदिरप्रतेः - सदिरप्रतेः । अप्रतेः किम् । प्रतिसीदति । षष्ठर्थे प्रथमेत्याह — सदेरिति ।
Padamanjari¶
‘सदिः’ इति षष्ठ।ल्र्थे प्रथमा । निषसादेति । सदिस्वञ्ज्योः परस्य लिटीति प्रतिषेधादभ्यासात् परस्य न भवति ॥
Nyaas¶
सात्पदाद्योः (8.3.111) इति प्रतिषेधे प्राप्ते वचनम्। सदिरिति सुब्व्यत्ययेन षष्ठ्याः स्थाने थमा। निषीदति इत। षद्लृ विशरणगत्यवसादनेषु (धातुपाठः-1427)। पाध्रादिसूत्रेण (7.3.78) सोदादेशः। निषसाद इति। सदिस्वञ्जोः परस्य लिटि (8.3.118) इति प्रतिषेधादभ्यासात्? परस्य न भवति षत्वम्॥बाल-मनोरमासदिरप्रतेः 115, 8.3.66 प्रसङ्गादाह -सदिरप्रतेः। उपसर्गादिति। उपसर्गस्थादिणः परस्येत्यर्थः। सदिरिति षष्ठर्थे प्रथमेत्यभिप्रेत्याह - सदेः सस्येति। निषीदतीत्युदाहरणम्। बाल-मनोरमाप्राक्सितादड्?व्यवायेऽपि 120, 8.3.66 प्राक्सतादिति। उपसर्गात्सुनोतीत्यादिसूत्रोपात्ता इति शेषः। तेषामिति। पञ्चदशानामित्यर्थः। न्यषेधदिति। अकारेम व्यवहितत्वादिणः परत्वाऽभावादप्राप्तौ वचनम्। अभ्युषुणोदित्यप्युदाहार्यम्।
Prakriyasarvasvam¶
प्रादिस्थादिणः परस्य सदेः सस्य षः स्यात्, न तु प्रतेः । विषीदति । प्रतेस्तु प्रतिसीदति ।
Sutra Prayogas¶
विषसाद (किरातार्जुनीयम्): सदिः अप्रतेः इति षत्वम्।
विषसादेन्द्रजिद्बुद्ध्वा (भट्टिकाव्यम्): सदिरप्रतेः इति षत्वम्।
निषद्य (भट्टिकाव्यम्): सदिरप्रतेः इति षत्वम्।