83066: सदिरप्रतेः ================= **Padacheda:** सदिः | S | 1 | 1 | अप्रतेः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The स् of सद् is changed to ष after an उपसर्ग (Preposition) having an इ or उ , but not after प्रति। Vasu English Translation ------------------------ The स् of सद् is changed to ष after an उपसर्ग (Preposition) having an इ or उ , but not after प्रति। The word सदिः is in the first case, but has the force of genitive. Thus निषीदति, विषीदति, न्यषीदत्, व्यषीदत् ॥ निषसाद, विषसाद ॥ The second स remains unchanged in the Perfect by (8.3.118). Why do we say 'but not after प्रति'? Observe प्रतिसीदति ॥ Prof. Bohtlingk points out that the *sutra* is सदेरप्रतेः as given by *Sayanacharya* in his commentary on *Rig* *Veda* VI.13. I.*Panini*, however, often uses the first case with the force of the Genitive, as in (8.3.80). Kashika ------- सदेः सकारस्य उपसर्गस्थाद् निमित्तादप्रतेरुत्तरस्य मूर्धन्य आदेशो भवति। निषीदति। विषीदति। न्यषीदत्। व्यषीदत्। निषसाद। विषसाद। अप्रतेरिति किम्? प्रतिसीदति॥ Siddhanta Kaumudi ----------------- प्रतिभिन्नादुपसर्गात्सदेः सस्य षः स्यात् ॥ Balamanorama ------------ **सदिरप्रतेः** - प्राक्सतादिति ।उपसर्गात्सुनोतीत्यादिसूत्रोपात्ता॑ इति शेषः । तेषामिति । पञ्चदशानामित्यर्थः । न्यषेधदिति । अकारेम व्यवहितत्वादिणः परत्वाऽभावादप्राप्तौ वचनम् । अभ्युषुणोदित्यप्युदाहार्यम् । Tattvabodhini ------------- **सदिरप्रतेः** - सदिरप्रतेः । अप्रतेः किम् । प्रतिसीदति । षष्ठर्थे प्रथमेत्याह — सदेरिति । Padamanjari ----------- 'सदिः' इति षष्ठ।ल्र्थे प्रथमा । निषसादेति । सदिस्वञ्ज्योः परस्य लिटीति प्रतिषेधादभ्यासात् परस्य न भवति ॥ Nyaas ----- **सात्पदाद्योः** (8.3.111) इति प्रतिषेधे प्राप्ते वचनम्। सदिरिति सुब्व्यत्ययेन षष्ठ्याः स्थाने थमा। `निषीदति` इत। `षद्लृ विशरणगत्यवसादनेषु` (धातुपाठः-1427)। पाध्रादिसूत्रेण (7.3.78) सोदादेशः। `निषसाद` इति। `सदिस्वञ्जोः परस्य लिटि` (8.3.118) इति प्रतिषेधादभ्यासात्? परस्य न भवति षत्वम्॥बाल-मनोरमासदिरप्रतेः 115, 8.3.66 प्रसङ्गादाह -सदिरप्रतेः। उपसर्गादिति। उपसर्गस्थादिणः परस्येत्यर्थः। सदिरिति षष्ठर्थे प्रथमेत्यभिप्रेत्याह - सदेः सस्येति। निषीदतीत्युदाहरणम्। बाल-मनोरमाप्राक्सितादड्?व्यवायेऽपि 120, 8.3.66 प्राक्सतादिति। `उपसर्गात्सुनोतीत्यादिसूत्रोपात्ता` इति शेषः। तेषामिति। पञ्चदशानामित्यर्थः। न्यषेधदिति। अकारेम व्यवहितत्वादिणः परत्वाऽभावादप्राप्तौ वचनम्। अभ्युषुणोदित्यप्युदाहार्यम्। Prakriyasarvasvam ----------------- प्रादिस्थादिणः परस्य सदेः सस्य षः स्यात्, न तु प्रतेः । विषीदति । प्रतेस्तु प्रतिसीदति । Sutra Prayogas -------------- * **विषसाद** (किरातार्जुनीयम्): `सदिः अप्रतेः` इति षत्वम्। * **विषसादेन्द्रजिद्बुद्ध्वा** (भट्टिकाव्यम्): `सदिरप्रतेः` इति षत्वम्। * **निषद्य** (भट्टिकाव्यम्): `सदिरप्रतेः` इति षत्वम्।