83064: स्थाऽऽदिष्वभ्यासेन चाभ्यासस्य¶
Padacheda: स्थाऽऽदिषु | S | 7 | 3 |
अभ्यासेन | S | 3 | 1 |
च | S | 0 | 0 |
अभ्यासस्य | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
In स्था etc. up to सित् exclusive – उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनय सेधसिचसञ्जस्वञ्जाम् (8.3.65) to परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् (8.3.70), this substitution of ष् takes place then also, when the reduplicate intervenes and the स of the reduplicate is also changed to ष।
Vasu English Translation¶
In स्था etc. up to सित् exclusive – उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनय सेधसिचसञ्जस्वञ्जाम् (8.3.65) to परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् (8.3.70), this substitution of ष् takes place then also, when the reduplicate intervenes and the स of the reduplicate is also changed to ष। The words प्राक् सितात् are understood here also. The स्यादि roots are, स्था, सेनय &c in (8.3.65) and ending with सेव् in (8.3.70). The sutra consists of two sentences : (1) The षत्व takes place in स्था &c. even when a reduplicate intervenes; (2) The स of the reduplicates of स्था &c. is changed to ष ॥ The first is a vidhi rule, and the second is a niyama rule.
Thus परितष्ठौ where the abhyasa त intervenes. This applies even to roots other than those which have been taught with a ष in the Dhatupatha. As अभिषिषेणयिषति, परिषिषेणयिषति (सेनया अभियातुमिच्छन्ति). This applies moreover to reduplicates which end in अ, as अभितष्ठौ; here the स् would not have been changed to ष (by (8.3.59)) as it is not preceded by इ or उ ॥ Another raison d’etre of this sutra is that it prohibits षण् (8.3.61). As अभिषिषिक्षति, परिषिषिक्षति ॥
The word अभ्यासस्य is for the sake of niyama, as we have said above. स of स्था &c. and of no other roots is changed to ष ॥ As अभिसुसूषति from षू प्रेरणे with सन्, the augment is debarred by (7.2.12): the root स् is unchanged by the niyama prohibition of (8.3.61); the reduplicate स् remains unchanged by the restriction of the present sutra.
Bhashya¶
स्थादिष्वभ्यासेन चाभ्यासस्य किमर्थमिदमुच्यते?॥ स्थादिष्वभ्यासवचनं(1) नियमार्थम्॥ नियमार्थोऽयमारम्भः-स्थादिष्वभ्यासस्य(2) यथा स्यादिह मा भूत्-अभिसुसूषति॥ अथ किमर्थभ्यासेन चेत्युच्यते?॥ तद्व्यवाये चाषोपदेशार्थम्॥ तद्व्यवायेऽभ्यासव्यवाये चाऽषोपदेशस्यापि यथा स्यात्। अभिषिषेणयिषति॥ अवर्णान्ताभ्यासार्थं(3) षणिप्रतिषेधार्थं च॥ अवर्णान्ताभ्यासार्थं(3) तावत्-अभितष्ठौ। षणिप्रतिषेधार्थं च ॥ अवर्णान्ता(3)भ्यासार्थं तावत्-अभितष्ठौ। षणिप्रतिषेधार्थम्-अभिषिषिक्षति॥
Kashika¶
प्राक् सितादिति वर्तते। **उपसर्गात् सुनोति०**(८.३.६५) इत्यत्र स्थासेनयसेधेति स्थादयः, तेषु स्थादिषु प्राक् सितसंशब्दनाद् अभ्यासेन व्यवाये मूर्धन्यो भवति, अभ्याससकारस्य च भवतीत्येवं वेदितव्यम्। अभ्यासेन व्यवाये अषोपदेशार्थं च — अभिषिषेणयिषति, परिषिषेणयिषति। अवर्णान्ताभ्यासार्थं च — अभितष्ठौ, परितष्ठौ। षणि प्रतिषेधार्थं च — अभिषिषिक्षति, परिषिषिक्षति। अभ्यासस्येति वचनं नियमार्थम् — स्थादिष्वेवाभ्याससकारस्य मूर्धन्यो भवति, नान्यत्र। अभिसुसूषति। अभिसिषासति॥
Siddhanta Kaumudi¶
प्राक् सितात् स्थादिष्वभ्यासेन व्यवायेऽपि षत्वं स्यात् । एषामेव चाभ्यासस्य न तु सुनोत्यादीनाम् । निषिषेध । निषिषिधतुः ॥
Balamanorama¶
स्थाऽऽदिष्वभ्यासेन चाभ्यासय - स्थादिषु । अभ्यासेनेति तृतीयान्तम् । प्राक्सितादित्यनुवर्तते । तदाह - प्राक्सितादिति ।उपसर्गात्सुनोती॑ति सूत्रे स्थाधातुमारभ्यपरिनिविभ्यः सेवसिते॑त्यत्र सितशब्दात्प्राग्ये धातव उपात्तास्तेषु दशस्वित्यर्थः । निषिषेधेत्यादौ अभ्यासात्परस्य सस्य अभ्यासव्यवहत्वेन उपसर्गात्परत्वाऽभावादप्राप्तौ वचनम् । ननु निषिषेधेत्यादौ अभ्यासस्थसकारस्यौपसर्गादत्सुनोतीत्यनेनैव सिद्धत्वादभ्यासस्येति व्यर्थमित्याशङ्क्य नियमार्थमित्याह — एषामेवेति । अभ्यासस्थसकारस्य चेत्षत्वं तर्हि स्थादिदशानामेवेत्यर्थः । एवं चषू प्रेरणे॑, अभिसुसूषत । अत्राभ्यासस्य न षत्वम् । अभ्यासात्परस्य तु सस्य स्तौतिण्योरेवेति नियमान्न षत्वम् ।
Tattvabodhini¶
स्थाऽऽदिष्वभ्यासेन चाभ्यासय - व्यवायेऽपि षत्वं स्यादेषामेव चेति । स्थदीनां दशानामेवभ्यासस्य षत्वमित्यर्थः । तत्फलं तुषू प्रेरणे॑ अभिसुसूषति । अत्रोक्तनियमादभ्याससकारस्य न षत्वं, द्वितीयस्य तुस्तौतिण्यो॑रिति नियमान्न भवति । अभिसिषासतीत्यत्र तु षणोऽभावादभ्यासात्परस्य षत्वं, पूर्वस्य तूक्तनियमान्नेति बोध्यम् । स्यादेतत् - निषिषेधेत्यादौ अभ्यासस्यउपसर्गात्सुनोती॑त्यनेन सिद्धम्, अभ्यासात्परस्य तुआदेश प्रत्ययो॑रित्यनेनेति किमाद्यावाक्येन । अत्राहुः — फलत्रयार्थमाद्यं वाक्यं । तथाहि अषोपदेशार्थम् — सेनया अभियातुमिच्छति अभिषिषेणयिषति । अवर्णान्ताभ्यासार्थं च — ॒अर्धासनं गोत्रभिदोऽधितष्ठौ॑ । षणि प्रतिप्रसवार्थ च — अभिषिषिक्षति ।षिच क्षरणे॑ ।स्तोतिण्योरेवे॑ति नियमात्षभूते सनि निवर्तितमपि सत्वमुपसर्गमाश्रित्याऽत्र भवतीति ।
Padamanjari¶
द्वे एते वाक्ये - स्थादिष्वभ्यासेन व्यवाये त्वं भवति; अभ्यासस्य च षत्वं भवति तेष्वेव स्थादिष्विति । तत्राद्यं विध्यर्थम्, द्वितीयं नियमार्थम् । अषोपदेशार्थमिति । षोपदेशे तु परितिष्ठासतीत्यादौ सामान्यलक्षणेनैव सिद्धम् । अभिषिषेणयिषतीति । सेनयाऽभियातुमिच्छतीति विगृह्य’सत्यापपाश’ इत्यादिना णिच्, टिलोपः, ततः सन्, द्विर्वचनम्, ह्रस्वः, एच ठिग्घ्रस्वादेशेऽ अव्युत्पन्नः सेनाशब्दः । यद्वा सहेनेन वतत इति सेना,’सहस्य सः संज्ञायाम्’ इति सादेशः । यदा तु सिनोतेर्नप्रत्यये सेनेति व्युत्पाद्यते, तदास्त्येवा भिः षोषदेशत्वमेति । अभितष्ठाविति । आदेशसकारस्याप्यस्य षत्वं न सिद्ध्यति; इणाकोरभावात् । अभिषिषिक्षतीति । यद्यप्ययमादेशसकार इणश्च परः, तथाप्यभ्यासमपेक्ष षत्वं न सिद्ध्यति; स्तौतिण्योरेव षणीति नियमात् । अतः षणि यत्प्रतिषिद्धं षत्वं नियमेन व्यावर्तितं तदप्युपसर्गमाश्रित्य भवति । अथाभ्यासस्येति किमर्थम्, यावताभ्यासेनेत्यत्र क्रियापेक्षायां प्रकरणाद्व्यवाय इति सम्बध्यते, तच्चापिशब्दसन्निहितमेव प्रकृतमिति अव्यवायेऽपि षत्वं भविष्यति पूर्वसूत्रवत्, नार्थः ठभ्यासस्यऽ इत्यनेन ? अत आह - अभ्यासस्येति वचनं नियमार्थमिति । नियमस्य स्वरूपं दर्शयति - स्थादिष्वेवेति । विपरीतस्तु नियमो न भवति - स्थादिष्वभ्यासस्यैवेति । यदि स्यात्, अभ्यासेन व्यवाये षत्वविधानमनुपपन्नं स्यात् । अभिसुसूषतीति ।’षू प्रेरणे’ , सन्,’सनि ग्रहगुहोश्च’ इतीड्निषेधः । अत्र धातुसकारस्य स्तौतिण्योरेवेति नियमादषत्वम् । अभ्याससकारस्य त्वस्मान्नियमात् षत्वाभावः ॥
Nyaas¶
प्राक्सितादिति वर्तते इति। स्थासेनयसेधसिच (8.3.65) इत्यत्र यः स्थाशब्दः, तमादाप प्राक्? (8.3.70) सितसंशब्दनात्? ये धातवः सूत्रे निर्दिष्टास्ते स्थादयो वेदितव्याः। अथ किमर्थमभ्यासव्यवाये षत्वभुच्यते, यावता परितिष्ठासतीत्यादौ इण्कोः (8.3.57) , आदेशप्रत्यययोः (8.3.59) इत्येवं सामान्यलक्षणेन सिद्धं णत्वम्? इत्याह -अभ्यासेन व्यवार्ये इत्यादि। अषोपदेशो यस्तस्य सकारः पूर्वेण न सिध्यतीति तदर्थमभ्यासेन व्यवाये षत्वमुच्यते।`अभिषिषेणयिषति इति। सेनयाऽभियातीति सत्यापपाश (3.1.25) इत्यादिना णिच्, इष्ठवद्भावाट्टिलोपः, सन्, पूर्ववदिडागमः। अवर्णान्ताभ्यासार्थं च इति। षोपदेशमधिकृत्य तदुक्तम्। यद्यपि तस्य सकार आदेशो भवति, तथापि नैद सामान्यलक्षणेन सिध्यति; अनिणन्तत्वादभ्यासस्य, तेन व्यवधानाच्च। अभितष्ठौ इति। आत औ णलः (7.1.34) इत्यौत्वम्, पूर्ववत्? खयः शेषः।षणि तषेधार्थं च इति। स्तौतिण्योरेवेति (8.3.61) नियमेन यत्? प्रतिषिद्धं व्यावर्त्तितं तत्? षणि यथा स्यादित्येवमर्थं चेत्यर्थः। किं पुनस्तत्? प्रतिषिद्धम्? षत्वम्। अथ वा प्रतिषेधा प्रतिषिद्धम्, भावे निष्ठा। अर्थशब्दो निवृत्तौ वर्तते, यता -मशकार्थो धूभ इति। तदेतदुक्तम् -यः षणि प्रतिषेधः स्तोतिणिभ्यामन्यस्य धातोः षत्वप्रतिषेधः कृतस्तन्निवृत्त्यर्थ चेति। अभिषिषिक्षति इति। अत्र यद्यभ्यासेन व्यवाये नोच्येत तदा षत्वं न स्यात्, यथा -सिसिक्षतीत्यत्र। अभ्यासस्येति किमर्थमुच्यते, यावता चशब्दोऽत्र क्रियते, स चापिशब्दस्यानुकर्षणार्थः, तेनायमर्थो भवति -अव्यवाये व्यवायेऽपीति, एवमन्तरेणाब्यासस्येति वचनमुपसर्गस्थान्निमित्तादुत्तरस्याभ्यासस्य भविष्यति? सात्पदाद्योः (8.3.111) इति प्रतिषेधान्न भविष्यतीति चेत्? न; उपसर्गात्? सुनोति (8.3.65) इत्यस्य षत्वविधानार्थस्य प्रतिषेधार्थत्वात्, तस्मिन्नेव हि प्रतिषेधे प्राप्ते तद्बाधनार्थ उपसर्गात्? सुनोति (8.3.65) इत्यस्यारम्भः, तत्कुतः प्रतिषेधस्य प्राप्तिः? इत्याह -अभ्यासस्य तु इत्यादि। स्थादिष्वभ्यासस्यैवेति विपरीतनियमो नाशङ्कनीयः; विपरीतनियमे सत्यभ्यासध्वयाये स्थादीनां यन्मूर्धन्यविधानं तदपार्थकमेव स्यात्। अभिसुसूषति इति। षू प्रेरणे (धातुपाठः-1408)। अभिसिषासति इति। षो अन्तकर्मणि (धातुपाठः-1147)॥षुञ्? अभिषवे (धातुपाठः-1247), षू प्रेरणे (धातुपाठः-1408)। सुवतीति शबिकरणनिर्देशात्? निरनुबन्धकग्रहणे न सानुबान्धकस्य (व्या।प।53) इति च षूङ प्राणिगर्भविमोचने (धापा।1031), षूङ प्रसवे (धातुपाठः-1132) -इत्येतयोरादादिकदैवादिकयोग्र्रहणं न भवति। षो अन्तकर्मणि (धातुपाठः-1147) ष्टुञ् स्तुतौ (धातुपाठः-1043), ष्टुभु स्तम्भे [ष्टुम स्तम्भे -का।प्रांउ।पाठौ] (धातुपाठः-394) ष्ठा गतिनिवृत्तौ (धातुपाठः-928) सेनयतिण्र्यन्तः पूर्वमेव दर्शितः। - गत्याम् (धातुपाठः-47), षिधू शास्त्रे माङ्गस्ये च (धातुपाठः-48) -द्वयोरपि ग्रहणम्। एतयोस्तु सेधतेर्गतौ (8.3.113) इति प्रतिषेधाद्गतेरन्यत्र षत्वं भवतीति वेदितव्यम्। शपा निर्देशः षिधु संराद्धौ (धातुपाठः-1192) इत्यस्य दैवादिकस्य निवृत्तये। विचिर्? क्षरणे (धातुपाठः-1434) सन्ज सङ्गे (धातुपाठः-987)। योऽत्र षोपदेशस्तस्य आदेशप्रत्यययोः (8.3.59) इति प्राप्तस्य षत्वस्य सात्पदाद्योः (8.3.111) इति प्रतिषेधे प्राप्ते[नास्ति -कांउ।पाठे] वचनम्। यस्त्वषोपदेशस्तस्यादित एवाप्राप्तेः। सुनोतीत्येव मादीनां श्तिपा निर्देशो यङ्लुग्निवृत्त्यर्थः। उपसर्गस्थान्निमित्तादुत्तरस्य इत्यादि। एतेनोपसर्गस्थे मूर्धन्यनिमित्ते तात्स्थादुपचारेणोपसर्गशब्दोऽत्र वर्तत इति दर्शयति। भवति हि तात्स्थ्यात्? ताच्छब्द्यम्, यथा -मञ्चाः क्रोशन्तीत्यत्र। अभ्यषुणोत् इति। लङ्, प्राक्तितादङ्व्यवायेऽपि` (8.3.63) इति षत्वम्। अभिषुवति इति। अचि श्नुधातुभ्रुवाम् (6.4.77) इत्यादिनोवङ्। अभिष्यति इति। ओतः श्यनि (7.3.71) इत्योकारलोपः। अभिष्टौति इति। अदादित्वाच्छपो लुक्, उतो वृद्धिर्लुकि हलि (7.3.89) इति वृद्धिः। अभिष्टोभते इति। अनुदात्तेत्त्वादात्मनेपदम्। अभिषिञ्चति इति। शे मुचादीनाम् (7.1.59) इति नुम्। अभिषजति इति। दंशसञ्जस्वञ्जां शपि (6.4.25) इति नकारलोपः। एवमभिष्वजत इत्यत्रापि। पूर्ववदात्मनेपदम्। अभिषिष्वङ्क्षते इति। अत्रापि पूर्ववत्सनः (1.3.62) इत्यात्मनेपदम्। दधि सिञ्चिति इति। सात्पदाद्योः (8.3.111) इति प्रतिषेधः। निःसेचको देशः इति। अत्र गमिक्रियया निसो योगः, न सिचिक्रिययेति गमिमेव प्रति तस्योपसर्गसंज्ञा, न सिचिं प्रति। यं प्रति क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्ति (जै।प।वृ।99) इति वचनात। अभिसावकीयति इति। सुनोतेर्ष्वुल्। सावकमिच्छतीति सुप आत्मनः क्यच् (3.1.8) , क्यचि च (7.4.33) इतीत्वम्; सावकीय इति स्थितेऽभिना योगः, ततो लट्। अत्रापि सावक्रीयतिं प्रन्यभेरूपसर्गसंज्ञा; तं प्रति क्रियायोगात्, न सुनोतिं प्रति; विपर्ययात्। तेन षत्वं न भवति। यद्येवम्, अभिषावयतीत्यत्रापि न स्यात्, इहापि सावयतिं प्रति विपर्ययात्? इत्यत आह -अभिषावयतीत्यत्र तु इत्यादि। अत्र हि प्रागेव सुनोतिरुपसगण योगमनुभूय पश्चात्? प्रेथणाध्येषणाद्यर्थेन योगमनुभवन्? णिचमुत्पादयति। तस्मादुपसर्गविशिष्टायामेव क्रियायां प्रेष्यते, अध्येष्यते वा। ततः सुनोतिमेव प्रत्यभेरुपसर्गसज्ञेति भवत्येव षत्वम्॥
Prakriyasarvasvam¶
प्राक् सिताद् ये स्थादयस्तेषामभ्यासव्यवायेऽपि षः स्यात्, अभ्यासस्य च स्यात् । अनुषषञ्ज । अनुषषञ्जतुः । के पुनः प्राक् सितात् ! सुनोत्यादयः स्थादयश्च ? तत्र ‘उपसर्गात् सुनोति’ इति सूत्रमुक्तम् । अभिषुणोति । अड्व्यवायेऽपि अभ्यषुणो- दित्यादि । परिषुवति । अभिष्यति । अभिष्टौति । परिष्टोभते । प्रतिष्ठाता । स्थादीनामटा व्यवायेऽभ्यासेनव्यवायेऽपि । प्रत्यष्ठात् अवितष्ठौ इत्यादि । अभिषेणयति । निषेधति । सेधत्युक्तेः सिध्यतेर्न । अभिषिञ्चति । सञ्जेरुक्तम् । अभिष्वजते ।
Sutra Prayogas¶
अबिषिषेणयिषुं (शिशुपालवधम्): स्थादिष्वभ्यासेन- इति धात्वभ्याससकारयोः षत्वम्।