83064: स्थाऽऽदिष्वभ्यासेन चाभ्यासस्य ==================================== **Padacheda:** स्थाऽऽदिषु | S | 7 | 3 | अभ्यासेन | S | 3 | 1 | च | S | 0 | 0 | अभ्यासस्य | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In स्था etc. up to सित् exclusive -- उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनय सेधसिचसञ्जस्वञ्जाम् (8.3.65) to परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् (8.3.70), this substitution of ष् takes place then also, when the reduplicate intervenes and the स of the reduplicate is also changed to ष। Vasu English Translation ------------------------ In स्था etc. up to सित् exclusive -- उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनय सेधसिचसञ्जस्वञ्जाम् (8.3.65) to परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् (8.3.70), this substitution of ष् takes place then also, when the reduplicate intervenes and the स of the reduplicate is also changed to ष। The words प्राक् सितात् are understood here also. The स्यादि roots are, स्था, सेनय &c in (8.3.65) and ending with सेव् in (8.3.70). The *sutra* consists of two sentences : (1) The षत्व takes place in स्था &c. even when a reduplicate intervenes; (2) The स of the reduplicates of स्था &c. is changed to ष ॥ The first is a *vidhi* rule, and the second is a *niyama* rule. Thus परितष्ठौ where the *abhyasa* त intervenes. This applies even to roots other than those which have been taught with a ष in the *Dhatupatha*. As अभिषिषेणयिषति, परिषिषेणयिषति (सेनया अभियातुमिच्छन्ति). This applies moreover to reduplicates which end in अ, as अभितष्ठौ; here the स् would not have been changed to ष (by (8.3.59)) as it is not preceded by इ or उ ॥ Another raison d'etre of this *sutra* is that it prohibits षण् (8.3.61). As अभिषिषिक्षति, परिषिषिक्षति ॥ The word अभ्यासस्य is for the sake of *niyama*, as we have said above. स of स्था &c. and of no other roots is changed to ष ॥ As अभिसुसूषति from षू प्रेरणे with सन्, the augment is debarred by (7.2.12): the root स् is unchanged by the *niyama* prohibition of (8.3.61); the reduplicate स् remains unchanged by the restriction of the present *sutra*. Bhashya ------- स्थादिष्वभ्यासेन चाभ्यासस्य किमर्थमिदमुच्यते?॥ स्थादिष्वभ्यासवचनं(1) नियमार्थम्॥ नियमार्थोऽयमारम्भः-स्थादिष्वभ्यासस्य(2) यथा स्यादिह मा भूत्-अभिसुसूषति॥ अथ किमर्थभ्यासेन चेत्युच्यते?॥ तद्व्यवाये चाषोपदेशार्थम्॥ तद्व्यवायेऽभ्यासव्यवाये चाऽषोपदेशस्यापि यथा स्यात्। अभिषिषेणयिषति॥ अवर्णान्ताभ्यासार्थं(3) षणिप्रतिषेधार्थं च॥ अवर्णान्ताभ्यासार्थं(3) तावत्-अभितष्ठौ। षणिप्रतिषेधार्थं च ॥ अवर्णान्ता(3)भ्यासार्थं तावत्-अभितष्ठौ। षणिप्रतिषेधार्थम्-अभिषिषिक्षति॥ Kashika ------- प्राक् सितादिति वर्तते। **उपसर्गात् सुनोति०**(८.३.६५) इत्यत्र स्थासेनयसेधेति स्थादयः, तेषु स्थादिषु प्राक् सितसंशब्दनाद् अभ्यासेन व्यवाये मूर्धन्यो भवति, अभ्याससकारस्य च भवतीत्येवं वेदितव्यम्। अभ्यासेन व्यवाये अषोपदेशार्थं च — अभिषिषेणयिषति, परिषिषेणयिषति। अवर्णान्ताभ्यासार्थं च — अभितष्ठौ, परितष्ठौ। षणि प्रतिषेधार्थं च — अभिषिषिक्षति, परिषिषिक्षति। अभ्यासस्येति वचनं नियमार्थम् — स्थादिष्वेवाभ्याससकारस्य मूर्धन्यो भवति, नान्यत्र। अभिसुसूषति। अभिसिषासति॥ Siddhanta Kaumudi ----------------- प्राक् सितात् स्थादिष्वभ्यासेन व्यवायेऽपि षत्वं स्यात् । एषामेव चाभ्यासस्य न तु सुनोत्यादीनाम् । निषिषेध । निषिषिधतुः ॥ Balamanorama ------------ **स्थाऽऽदिष्वभ्यासेन चाभ्यासय** - स्थादिषु । अभ्यासेनेति तृतीयान्तम् । प्राक्सितादित्यनुवर्तते । तदाह - प्राक्सितादिति ।उपसर्गात्सुनोती॑ति सूत्रे स्थाधातुमारभ्यपरिनिविभ्यः सेवसिते॑त्यत्र सितशब्दात्प्राग्ये धातव उपात्तास्तेषु दशस्वित्यर्थः । निषिषेधेत्यादौ अभ्यासात्परस्य सस्य अभ्यासव्यवहत्वेन उपसर्गात्परत्वाऽभावादप्राप्तौ वचनम् । ननु निषिषेधेत्यादौ अभ्यासस्थसकारस्यौपसर्गादत्सुनोतीत्यनेनैव सिद्धत्वादभ्यासस्येति व्यर्थमित्याशङ्क्य नियमार्थमित्याह — एषामेवेति । अभ्यासस्थसकारस्य चेत्षत्वं तर्हि स्थादिदशानामेवेत्यर्थः । एवं चषू प्रेरणे॑, अभिसुसूषत । अत्राभ्यासस्य न षत्वम् । अभ्यासात्परस्य तु सस्य स्तौतिण्योरेवेति नियमान्न षत्वम् । Tattvabodhini ------------- **स्थाऽऽदिष्वभ्यासेन चाभ्यासय** - व्यवायेऽपि षत्वं स्यादेषामेव चेति । स्थदीनां दशानामेवभ्यासस्य षत्वमित्यर्थः । तत्फलं तुषू प्रेरणे॑ अभिसुसूषति । अत्रोक्तनियमादभ्याससकारस्य न षत्वं, द्वितीयस्य तुस्तौतिण्यो॑रिति नियमान्न भवति । अभिसिषासतीत्यत्र तु षणोऽभावादभ्यासात्परस्य षत्वं, पूर्वस्य तूक्तनियमान्नेति बोध्यम् । स्यादेतत् - निषिषेधेत्यादौ अभ्यासस्यउपसर्गात्सुनोती॑त्यनेन सिद्धम्, अभ्यासात्परस्य तुआदेश प्रत्ययो॑रित्यनेनेति किमाद्यावाक्येन । अत्राहुः — फलत्रयार्थमाद्यं वाक्यं । तथाहि अषोपदेशार्थम् — सेनया अभियातुमिच्छति अभिषिषेणयिषति । अवर्णान्ताभ्यासार्थं च — ॒अर्धासनं गोत्रभिदोऽधितष्ठौ॑ । षणि प्रतिप्रसवार्थ च — अभिषिषिक्षति ।षिच क्षरणे॑ ।स्तोतिण्योरेवे॑ति नियमात्षभूते सनि निवर्तितमपि सत्वमुपसर्गमाश्रित्याऽत्र भवतीति । Padamanjari ----------- द्वे एते वाक्ये - स्थादिष्वभ्यासेन व्यवाये त्वं भवति; अभ्यासस्य च षत्वं भवति तेष्वेव स्थादिष्विति । तत्राद्यं विध्यर्थम्, द्वितीयं नियमार्थम् । अषोपदेशार्थमिति । षोपदेशे तु परितिष्ठासतीत्यादौ सामान्यलक्षणेनैव सिद्धम् । अभिषिषेणयिषतीति । सेनयाऽभियातुमिच्छतीति विगृह्य'सत्यापपाश' इत्यादिना णिच्, टिलोपः, ततः सन्, द्विर्वचनम्, ह्रस्वः, एच ठिग्घ्रस्वादेशेऽ अव्युत्पन्नः सेनाशब्दः । यद्वा सहेनेन वतत इति सेना,'सहस्य सः संज्ञायाम्' इति सादेशः । यदा तु सिनोतेर्नप्रत्यये सेनेति व्युत्पाद्यते, तदास्त्येवा भिः षोषदेशत्वमेति । अभितष्ठाविति । आदेशसकारस्याप्यस्य षत्वं न सिद्ध्यति; इणाकोरभावात् । अभिषिषिक्षतीति । यद्यप्ययमादेशसकार इणश्च परः, तथाप्यभ्यासमपेक्ष षत्वं न सिद्ध्यति; स्तौतिण्योरेव षणीति नियमात् । अतः षणि यत्प्रतिषिद्धं षत्वं नियमेन व्यावर्तितं तदप्युपसर्गमाश्रित्य भवति । अथाभ्यासस्येति किमर्थम्, यावताभ्यासेनेत्यत्र क्रियापेक्षायां प्रकरणाद्व्यवाय इति सम्बध्यते, तच्चापिशब्दसन्निहितमेव प्रकृतमिति अव्यवायेऽपि षत्वं भविष्यति पूर्वसूत्रवत्, नार्थः ठभ्यासस्यऽ इत्यनेन ? अत आह - अभ्यासस्येति वचनं नियमार्थमिति । नियमस्य स्वरूपं दर्शयति - स्थादिष्वेवेति । विपरीतस्तु नियमो न भवति - स्थादिष्वभ्यासस्यैवेति । यदि स्यात्, अभ्यासेन व्यवाये षत्वविधानमनुपपन्नं स्यात् । अभिसुसूषतीति ।'षू प्रेरणे' , सन्,'सनि ग्रहगुहोश्च' इतीड्निषेधः । अत्र धातुसकारस्य स्तौतिण्योरेवेति नियमादषत्वम् । अभ्याससकारस्य त्वस्मान्नियमात् षत्वाभावः ॥ Nyaas ----- `प्राक्सितादिति वर्तते` इति। `स्थासेनयसेधसिच` (8.3.65) इत्यत्र यः स्थाशब्दः, तमादाप प्राक्? (8.3.70) सितसंशब्दनात्? ये धातवः सूत्रे निर्दिष्टास्ते स्थादयो वेदितव्याः। अथ किमर्थमभ्यासव्यवाये षत्वभुच्यते, यावता परितिष्ठासतीत्यादौ `इण्कोः` (8.3.57) , **आदेशप्रत्यययोः** (8.3.59) इत्येवं सामान्यलक्षणेन सिद्धं णत्वम्? इत्याह -`अभ्यासेन व्यवार्ये इत्यादि। अषोपदेशो यस्तस्य सकारः पूर्वेण न सिध्यतीति तदर्थमभ्यासेन व्यवाये षत्वमुच्यते।`अभिषिषेणयिषति` इति। सेनयाऽभियातीति `सत्यापपाश` (3.1.25) इत्यादिना णिच्, इष्ठवद्भावाट्टिलोपः, सन्, पूर्ववदिडागमः। `अवर्णान्ताभ्यासार्थं च` इति। षोपदेशमधिकृत्य तदुक्तम्। यद्यपि तस्य सकार आदेशो भवति, तथापि नैद सामान्यलक्षणेन सिध्यति; अनिणन्तत्वादभ्यासस्य, तेन व्यवधानाच्च। `अभितष्ठौ` इति। **आत औ णलः** (7.1.34) इत्यौत्वम्, पूर्ववत्? खयः शेषः।`षणि तषेधार्थं च` इति। स्तौतिण्योरेवेति (8.3.61) नियमेन यत्? प्रतिषिद्धं व्यावर्त्तितं तत्? षणि यथा स्यादित्येवमर्थं चेत्यर्थः। किं पुनस्तत्? प्रतिषिद्धम्? षत्वम्। अथ वा प्रतिषेधा प्रतिषिद्धम्, भावे निष्ठा। अर्थशब्दो निवृत्तौ वर्तते, यता -मशकार्थो धूभ इति। तदेतदुक्तम् -यः षणि प्रतिषेधः स्तोतिणिभ्यामन्यस्य धातोः षत्वप्रतिषेधः कृतस्तन्निवृत्त्यर्थ चेति। `अभिषिषिक्षति` इति। अत्र यद्यभ्यासेन व्यवाये नोच्येत तदा षत्वं न स्यात्, यथा -सिसिक्षतीत्यत्र। अभ्यासस्येति किमर्थमुच्यते, यावता चशब्दोऽत्र क्रियते, स चापिशब्दस्यानुकर्षणार्थः, तेनायमर्थो भवति -अव्यवाये व्यवायेऽपीति, एवमन्तरेणाब्यासस्येति वचनमुपसर्गस्थान्निमित्तादुत्तरस्याभ्यासस्य भविष्यति? **सात्पदाद्योः** (8.3.111) इति प्रतिषेधान्न भविष्यतीति चेत्? न; `उपसर्गात्? सुनोति` (8.3.65) इत्यस्य षत्वविधानार्थस्य प्रतिषेधार्थत्वात्, तस्मिन्नेव हि प्रतिषेधे प्राप्ते तद्बाधनार्थ `उपसर्गात्? सुनोति` (8.3.65) इत्यस्यारम्भः, तत्कुतः प्रतिषेधस्य प्राप्तिः? इत्याह -`अभ्यासस्य तु` इत्यादि। स्थादिष्वभ्यासस्यैवेति विपरीतनियमो नाशङ्कनीयः; विपरीतनियमे सत्यभ्यासध्वयाये स्थादीनां यन्मूर्धन्यविधानं तदपार्थकमेव स्यात्। `अभिसुसूषति` इति। `षू प्रेरणे` (धातुपाठः-1408)। `अभिसिषासति` इति। `षो अन्तकर्मणि` (धातुपाठः-1147)॥`षुञ्? अभिषवे` (धातुपाठः-1247), `षू प्रेरणे` (धातुपाठः-1408)। सुवतीति शबिकरणनिर्देशात्? `निरनुबन्धकग्रहणे न सानुबान्धकस्य` (व्या।प।53) इति च `षूङ प्राणिगर्भविमोचने` (धापा।1031), `षूङ प्रसवे` (धातुपाठः-1132) -इत्येतयोरादादिकदैवादिकयोग्र्रहणं न भवति। `षो अन्तकर्मणि` (धातुपाठः-1147) `ष्टुञ् स्तुतौ` (धातुपाठः-1043), `ष्टुभु स्तम्भे` [`ष्टुम स्तम्भे` -का।प्रांउ।पाठौ] (धातुपाठः-394) `ष्ठा गतिनिवृत्तौ` (धातुपाठः-928) सेनयतिण्र्यन्तः पूर्वमेव दर्शितः। `- गत्याम्` (धातुपाठः-47), `षिधू शास्त्रे माङ्गस्ये च` (धातुपाठः-48) -द्वयोरपि ग्रहणम्। एतयोस्तु **सेधतेर्गतौ** (8.3.113) इति प्रतिषेधाद्गतेरन्यत्र षत्वं भवतीति वेदितव्यम्। शपा निर्देशः `षिधु संराद्धौ` (धातुपाठः-1192) इत्यस्य दैवादिकस्य निवृत्तये। `विचिर्? क्षरणे` (धातुपाठः-1434) `सन्ज सङ्गे` (धातुपाठः-987)। योऽत्र षोपदेशस्तस्य **आदेशप्रत्यययोः** (8.3.59) इति प्राप्तस्य षत्वस्य **सात्पदाद्योः** (8.3.111) इति प्रतिषेधे प्राप्ते[नास्ति -कांउ।पाठे] वचनम्। यस्त्वषोपदेशस्तस्यादित एवाप्राप्तेः। सुनोतीत्येव मादीनां श्तिपा निर्देशो यङ्लुग्निवृत्त्यर्थः। `उपसर्गस्थान्निमित्तादुत्तरस्य` इत्यादि। एतेनोपसर्गस्थे मूर्धन्यनिमित्ते तात्स्थादुपचारेणोपसर्गशब्दोऽत्र वर्तत इति दर्शयति। भवति हि तात्स्थ्यात्? ताच्छब्द्यम्, यथा -मञ्चाः क्रोशन्तीत्यत्र। `अभ्यषुणोत्` इति। लङ्, प्राक्तितादङ्व्यवायेऽपि` (8.3.63) इति षत्वम्। `अभिषुवति` इति। `अचि श्नुधातुभ्रुवाम्` (6.4.77) इत्यादिनोवङ्। `अभिष्यति` इति। **ओतः श्यनि** (7.3.71) इत्योकारलोपः। `अभिष्टौति` इति। अदादित्वाच्छपो लुक्, **उतो वृद्धिर्लुकि हलि** (7.3.89) इति वृद्धिः। `अभिष्टोभते` इति। अनुदात्तेत्त्वादात्मनेपदम्। `अभिषिञ्चति` इति। **शे मुचादीनाम्** (7.1.59) इति नुम्। `अभिषजति` इति। `दंशसञ्जस्वञ्जां शपि` (6.4.25) इति नकारलोपः। एवमभिष्वजत इत्यत्रापि। पूर्ववदात्मनेपदम्। `अभिषिष्वङ्क्षते` इति। अत्रापि `पूर्ववत्सनः` (1.3.62) इत्यात्मनेपदम्। `दधि सिञ्चिति` इति। **सात्पदाद्योः** (8.3.111) इति प्रतिषेधः। `निःसेचको देशः` इति। अत्र गमिक्रियया निसो योगः, न सिचिक्रिययेति गमिमेव प्रति तस्योपसर्गसंज्ञा, न सिचिं प्रति। `यं प्रति क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्ति` (जै।प।वृ।99) इति वचनात। `अभिसावकीयति` इति। सुनोतेर्ष्वुल्। सावकमिच्छतीति **सुप आत्मनः क्यच्** (3.1.8) , **क्यचि च** (7.4.33) इतीत्वम्; सावकीय इति स्थितेऽभिना योगः, ततो लट्। अत्रापि सावक्रीयतिं प्रन्यभेरूपसर्गसंज्ञा; तं प्रति क्रियायोगात्, न सुनोतिं प्रति; विपर्ययात्। तेन षत्वं न भवति। यद्येवम्, अभिषावयतीत्यत्रापि न स्यात्, इहापि सावयतिं प्रति विपर्ययात्? इत्यत आह -`अभिषावयतीत्यत्र तु` इत्यादि। अत्र हि प्रागेव सुनोतिरुपसगण योगमनुभूय पश्चात्? प्रेथणाध्येषणाद्यर्थेन योगमनुभवन्? णिचमुत्पादयति। तस्मादुपसर्गविशिष्टायामेव क्रियायां प्रेष्यते, अध्येष्यते वा। ततः सुनोतिमेव प्रत्यभेरुपसर्गसज्ञेति भवत्येव षत्वम्॥ Prakriyasarvasvam ----------------- प्राक् सिताद् ये स्थादयस्तेषामभ्यासव्यवायेऽपि षः स्यात्, अभ्यासस्य च स्यात् । अनुषषञ्ज । अनुषषञ्जतुः । के पुनः प्राक् सितात् ! सुनोत्यादयः स्थादयश्च ? तत्र 'उपसर्गात् सुनोति' इति सूत्रमुक्तम् । अभिषुणोति । अड्व्यवायेऽपि अभ्यषुणो- दित्यादि । परिषुवति । अभिष्यति । अभिष्टौति । परिष्टोभते । प्रतिष्ठाता । स्थादीनामटा व्यवायेऽभ्यासेनव्यवायेऽपि । प्रत्यष्ठात् अवितष्ठौ इत्यादि । अभिषेणयति । निषेधति । सेधत्युक्तेः सिध्यतेर्न । अभिषिञ्चति । सञ्जेरुक्तम् । अभिष्वजते । Sutra Prayogas -------------- * **अबिषिषेणयिषुं** (शिशुपालवधम्): `स्थादिष्वभ्यासेन-` इति धात्वभ्याससकारयोः षत्वम्।