83053: षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु¶
Padacheda: षष्ठ्याः | S | 6 | 1 |
पति-पुत्र-पृष्ठ-पार-पद-पयस्-पोषेषु | S | 7 | 3 |
Sutrartha¶
Vasu English Summary¶
For the विसर्ग of the Genitive 6th-Case there is substituted स् in the छन्दस् (Vedas) before 1. पति 2. पुत्र 3. पृष्ठ 4. पार 5. पद 6. पयस् and 7. पोष।
Vasu English Translation¶
For the विसर्ग of the Genitive 6th-Case there is substituted स् in the छन्दस् (Vedas) before 1. पति 2. पुत्र 3. पृष्ठ 4. पार 5. पद 6. पयस् and 7. पोष। Thus वाचस्पतिं विश्वकर्माणमूतये, (Rig. X. 81.7), दिवस्पुत्राय सूर्याय, दिवस्पृष्ठे धावमानं सुपर्णम्, अगन्म, तमसस्पारम्, इडस्पदे समिध्यसे, सूर्यं चक्षु र्दिवस्पयः, रायस्पोषं यजमानेषु धत्तम् ॥
Why do we say ‘after a genitive case’? See मनुः पुत्रेभ्यो दायं व्यमजत् ॥
Kashika¶
षष्ठीविसर्जनीयस्य सकारादेशो भवति पति पुत्र पृष्ठ पार पद पयस् पोष इत्येतेषु परतः छन्दसि विषये। वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ (ऋ० १०.८१.७)। पुत्र — दि॒वस्पु॒त्राय॒ सूर्या॑य (ऋ० १०.३७.१)। पृष्ठ — दि॒वस्पृ॒ष्ठे धाव॑मानं सुप॒र्णम् (शौ०सं० १३.२.३७)। पार — अग॑न्म॒ तम॑सस्पा॒रम् (मा०सं० १२.७३)। पद — इडस्प॒दे समि॑ध्यसे॒ (ऋ० १०.१९१.१)। पयस् — सूर्यं चक्षुर्दिवस्पयः। पोष — रा॒यस्पोषं॒ यज॑मानेषु धारय्र (ऋ०१०.१२२.८)। षष्ठ्या इति किम् ? मनुः॑ पु॒त्रेभ्यो॑ दा॒यं व्य॑भज॒त् (तै०सं० ३.१.९.४)॥
Siddhanta Kaumudi¶
वाचस्पतिं विश्वकर्माणम् (वा॒चस्पतिं॑ वि॒श्वक॑र्माणम्) । दिवस्पुत्राय सूर्याय (दि॒वस्पु॑त्राय सूर्या॑य) । दिवस्पृष्ठं भनभन्दमानः (दि॒वस्पृ॒ष्ठं भन्द॑मानः) । तमसस्पारमस्य (तम॑सस्पा॒रम॒स्य) । परिवीत इळस्पदे (परि॑वीत इ॒ळस्प॒दे) । दिवस्पयो दिधिषाणाः (दि॒वस्पयो॒ दिधि॑षाणाः) । रायस्पोषं यजमानेषु (रा॒यस्पोषं॒ यज॑मानेषु) ॥
Nyaas¶
वाचस्पतिम् इति। तत्पुरुषे कृति बहुलम् (6.3.14) इति बहुलवचनादकृत्यपयलुक्॥
Sutra Prayogas¶
वाचस्पतिः (कुमारसम्भवम्): षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु इति सत्वम्।
वाचस्पतेः (किरातार्जुनीयम्): षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु इति सकारः।
वाचस्पत्यं (शिशुपालवधम्): षष्ट्याः पतिपुत्र- इत्यादिना सत्वम्।