83053: षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु ============================================ **Padacheda:** षष्ठ्याः | S | 6 | 1 | पति-पुत्र-पृष्ठ-पार-पद-पयस्-पोषेषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- For the विसर्ग of the Genitive 6th-Case there is substituted स् in the छन्दस् (Vedas) before 1. पति 2. पुत्र 3. पृष्ठ 4. पार 5. पद 6. पयस् and 7. पोष। Vasu English Translation ------------------------ For the विसर्ग of the Genitive 6th-Case there is substituted स् in the छन्दस् (Vedas) before 1. पति 2. पुत्र 3. पृष्ठ 4. पार 5. पद 6. पयस् and 7. पोष। Thus वाचस्पतिं विश्वकर्माणमूतये, (*Rig*. X. 81.7), दिवस्पुत्राय सूर्याय, दिवस्पृष्ठे धावमानं सुपर्णम्, अगन्म, तमसस्पारम्, इडस्पदे समिध्यसे, सूर्यं चक्षु र्दिवस्पयः, रायस्पोषं यजमानेषु धत्तम् ॥ Why do we say 'after a genitive case'? See मनुः पुत्रेभ्यो दायं व्यमजत् ॥ Kashika ------- षष्ठीविसर्जनीयस्य सकारादेशो भवति पति पुत्र पृष्ठ पार पद पयस् पोष इत्येतेषु परतः छन्दसि विषये। वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ (ऋ० १०.८१.७)। पुत्र — दि॒वस्पु॒त्राय॒ सूर्या॑य (ऋ० १०.३७.१)। पृष्ठ — दि॒वस्पृ॒ष्ठे धाव॑मानं सुप॒र्णम् (शौ०सं० १३.२.३७)। पार — अग॑न्म॒ तम॑सस्पा॒रम् (मा०सं० १२.७३)। पद — इडस्प॒दे समि॑ध्यसे॒ (ऋ० १०.१९१.१)। पयस् — सूर्यं चक्षुर्दिवस्पयः। पोष — रा॒यस्पोषं॒ यज॑मानेषु धारय्र (ऋ०१०.१२२.८)। षष्ठ्या इति किम् ? मनुः॑ पु॒त्रेभ्यो॑ दा॒यं व्य॑भज॒त् (तै०सं० ३.१.९.४)॥ Siddhanta Kaumudi ----------------- वाचस्पतिं विश्वकर्माणम् (वा॒चस्पतिं॑ वि॒श्वक॑र्माणम्) । दिवस्पुत्राय सूर्याय (दि॒वस्पु॑त्राय सूर्या॑य) । दिवस्पृष्ठं भनभन्दमानः (दि॒वस्पृ॒ष्ठं भन्द॑मानः) । तमसस्पारमस्य (तम॑सस्पा॒रम॒स्य) । परिवीत इळस्पदे (परि॑वीत इ॒ळस्प॒दे) । दिवस्पयो दिधिषाणाः (दि॒वस्पयो॒ दिधि॑षाणाः) । रायस्पोषं यजमानेषु (रा॒यस्पोषं॒ यज॑मानेषु) ॥ Nyaas ----- `वाचस्पतिम्` इति। **तत्पुरुषे कृति बहुलम्** (6.3.14) इति बहुलवचनादकृत्यपयलुक्॥ Sutra Prayogas -------------- * **वाचस्पतिः** (कुमारसम्भवम्): `षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु` इति सत्वम्। * **वाचस्पतेः** (किरातार्जुनीयम्): `षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु` इति सकारः। * **वाचस्पत्यं** (शिशुपालवधम्): `षष्ट्याः पतिपुत्र-` इत्यादिना सत्वम्।