83036: वा शरि¶
Padacheda: वा | S | 0 | 0 |
शरि | S | 7 | 1 |
Sutrartha¶
शर्-वर्णे परे विसर्गस्य विकल्पेन विसर्गादेशः एव भवति ।
<pt> शर् = शकारः, षकारः, सकारः । <light>आहत्य 3 वर्णाः ।</light> </pt> अष्टाध्याय्याम् विसर्जनीयस्य सः (8.3.34) इत्यतः कस्कादिषु च (8.3.48) इति यावद्भिः पञ्चदशभिः सूत्रैः विसर्गस्य भिन्नाः आदेशाः प्रोक्ताः सन्ति । अस्य विसर्गादेशप्रकरणस्य इदम् तृतीयम् सूत्रम् । विसर्गात् अनन्तरम् शर्-वर्णः विद्यते चेत् विसर्गस्य विकल्पेन विसर्गादेशः एव भवति — इति प्रकृतसूत्रस्य आशयः । विकल्पाभावे विसर्गस्य सकारादेशः अपि भवति । उदाहरणानि एतानि — <listsp> 1. “हरिः सेवते → हरिःसेवते, हरिस्सेवते” । अत्र विसर्गस्य विसर्जनीयस्य सः (8.3.34) इत्यनेन सकारादेशे प्राप्ते; तद्बाधित्वा वा शरि (8.3.36) इत्यनेन विकल्पेन विसर्गस्य विसर्गादेशः एव विधीयते । पक्षे विसर्जनीयस्य सः (8.3.34) इत्यनेन अवश्यं सकारः भवति, अतः अत्र रूपद्वयं सिद्ध्यति । 2. “हरिः शेते → हरिःशेते, हरिश्शेते” । अत्र विसर्गस्य विसर्जनीयस्य सः (8.3.34) इत्यनेन सकारादेशे प्राप्ते; तद्बाधित्वा वा शरि (8.3.36) इत्यनेन विकल्पेन विसर्गस्य विसर्गादेशः एव विधीयते । पक्षे विसर्जनीयस्य सः (8.3.34) इत्यनेन अवश्यं सकारः, ततश्च तस्य स्तोः श्चुना श्चुः (8.4.40) इति श्चुत्वे शकारः विधीयते । एतादृशम् अत्र रूपद्वयं सिद्ध्यति । 3. “हरिः षष्ठः → हरिःषष्ठः, हरिष्षष्ठः” । अत्र विसर्गस्य विसर्जनीयस्य सः (8.3.34) इत्यनेन सकारादेशे प्राप्ते; तद्बाधित्वा वा शरि (8.3.36) इत्यनेन विकल्पेन विसर्गस्य विसर्गादेशः एव विधीयते । पक्षे विसर्जनीयस्य सः (8.3.34) इत्यनेन अवश्यं सकारः, ततश्च तस्य ष्टुना ष्टुः (8.4.41) इति ष्टुत्वे षकारः विधीयते । एतादृशम् अत्र रूपद्वयं सिद्ध्यति । </listsp>
वार्त्तिकद्वयम्
<!1. खर्परे शरि वा विसर्गलोपो वक्तव्यः !> — यदि शर्-वर्णात् अनन्तरम् अव्यवहितरूपेण खर्-वर्णः (वर्गप्रथमः / वर्गद्वितीयः / शकारः / षकारः / सकारः) वर्तते, तर्हि प्रक्रियायाम् विकल्पेन विसर्गलोपः अपि भवति । यथा —
“कः स्थास्यति → कस्स्थास्यति, क स्थास्यति, कःस्थास्यति” । अत्र वा शरि (8.3.36) इति विकल्पेन विसर्गः भवति । पक्षे <! खर्परे शरि वा विसर्गलोपो वक्तव्यः !> इति विकल्पेन विसर्गलोपः जायते । पक्षे विसर्जनीयस्य सः (8.3.34) इति सत्वम् अपि भवति । अनेन प्रकारेण अत्र त्रीणि रूपाणि सिद्ध्यन्ति ।
“कः श्च्योतति → कश्श्च्योतति, क श्च्योतति, कःश्च्योतति” । अत्र वा शरि (8.3.36) इति विकल्पेन विसर्गः भवति । पक्षे <! खर्परे शरि वा विसर्गलोपो वक्तव्यः !> इति विकल्पेन विसर्गलोपः जायते । पक्षे विसर्जनीयस्य सः (8.3.34) इति सत्वे कृते ततः स्तोः श्चुना श्चुः (8.4.40) इति श्चुत्वे शकारः जायते । अनेन प्रकारेण अत्र त्रीणि रूपाणि सिद्ध्यन्ति ।
“कः ष्ठीवति → कष्ष्ठीवति, क ष्ठीवति, कःष्ठीवति” । अत्र वा शरि (8.3.36) इति विकल्पेन विसर्गः भवति । पक्षे <! खर्परे शरि वा विसर्गलोपो वक्तव्यः !> इति विकल्पेन विसर्गलोपः जायते । पक्षे विसर्जनीयस्य सः (8.3.34) इति सत्वे कृते ततः ष्टुना ष्टुः (8.4.41) इति ष्टुत्वे षकारः जायते । अनेन प्रकारेण अत्र त्रीणि रूपाणि सिद्ध्यन्ति ।
<! 2. सम्पुंकानां सो वक्तव्यः!> — “सम्”, “पुम्” , “कान्” — एतेषाम् शब्दानां अन्तिमवर्णस्य विसर्गादेशे कृते, अग्रे विसर्गस्य नित्यमेव सकारादेशः भवति । क्रमेण उदाहरणानि एतानि — <listsp> 1. “सम्”-उपसर्गस्य मकारस्य विसर्गादेशे कृते ततः तस्य नित्यम् सकारादेशः —
सम् + कर्तृ ["सङ्करोति इति<qt> इत्यस्मिन् अर्थे सम्-उपसर्गस्य कर्तृ-शब्देन सह योजनम् ।]
→ सम् सुट् कर्तृ [**सम्परिभ्यां करोतौ भूषणे** (6.1.137) इत्यनेन सम्-उपसर्गपूर्वकस्य कर्तृ-शब्दस्य सुट्-आगमः भवति ।]
→ सरुँ स् कर्तृ [**समः सुटि** (8.3.5) इत्यनेन सम्-शब्दस्य मकारस्य सुट्-आगमे परे रुँत्वम् भवति ।]
→ सँ रुँ स् कर्तृ / सं रुँ स् कर्तृ [**अत्रानुनासिकः पूर्वस्य तु वा** (8.3.2) इत्यनेन रुँ-इत्यस्मात् पूर्वस्य वर्णस्य विकल्पेन अनुनासिकः । अनुनासिकाभावे **अनुनासिकात् परोऽनुस्वारः** (8.3.4) इति अनुस्वारादेशः]
→ सँः स्कर्तृ / संःस्कर्तृ [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति रेफस्य विसर्गः]
→ सँस्स्कर्तृ / संस्स्कर्तृ [**वा शरि** (8.3.36) इति विसर्गस्य विकल्पेन सकारे प्राप्ते <!सम्पुंकानां सो वक्तव्यः!> इति वार्त्तिकेन नित्यम् सकारादेशः भवति।]
<qt>पुम्स्”-शब्दस्य सकारलोपे कृते, मकारस्य विसर्गादेशे कृते ततः तस्य नित्यम् सकारादेशः —
पुमान् च असौ कोकिलः च [**विशेषणं विशेष्येण बहुलम्** (2.1.57) इति कर्मधारयसमासः]
→ पुम्स् कोकिल [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुँ-प्रत्यययोः लोपः]
→ पुम् कोकिल [पूर्वपदस्य पदसंज्ञायां जातायाम् **संयोगान्तस्य लोपः** (8.2.23) इति पदान्ते विद्यमानस्य संयोगस्य अन्तिमवर्णस्य लोपः]
→ पुरुँ + कोकिलः [**पुमः खय्यम्परे** (8.3.6) इति मकारस्य रुँत्वम् भवति ।]
→ पुँरुँ + कोकिलः / पुंरुँ + कोकिलः [**अत्रानुनासिकः पूर्वस्य तु वा** (8.3.2) इति विकल्पेन अनुनासिकः । अनुनासिकाभावे **अनुनासिकात् परोऽनुस्वारः** (8.3.4) इति अनुस्वारः]
→ पुँः + कोकिलः / पुंः + कोकिलः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति रेफस्य विसर्गः]
→ पुँस् + कोकिलः / पुंस् + कोकिलः [विसर्गस्य **कुप्वोः ≍क ≍पौ च** (8.3.37) इति विकल्पेन जिह्वामूलीये प्राप्ते <!सम्पुंकानां सो वक्तव्यः!> इति वार्त्तिकेन नित्यम् सकारादेशः भवति ।]
→ पुँस्कोकिलः / पुंस्कोकिलः
“कान्”-शब्दस्य मकारस्य विसर्गादेशे कृते ततः तस्य नित्यम् सकारादेशः —
कान्
→ कान् कान् [पौनःपुन्ये गम्यमाने **नित्यवीप्सयोः** (8.1.4) इति द्वित्वम्]
→ कारुँ + कान् [**कानाम्रेडिते** (8.3.12) इति रुँत्वम् ]
→ काँरुँ कान् / कांरुँ कान् [**अत्रानुनासिकः पूर्वस्य तु वा** (8.3.2) इत्यनेन रुँ-इत्यस्मात् पूर्वस्य विकल्पेन अनुनासिकः । अनुनासिकाभावे **अनुनासिकात् परोऽनुस्वारः** (8.3.4) इति अनुस्वारः]
→ काँः कान् / कांः कान् [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति सकारस्य विसर्गः ।]
→ काँस् कान् / कांस् कान् [**कुप्वोः ≍क ≍पौ च** (8.3.37) इति जिह्वामूलीये प्राप्ते अनेन वार्त्तिकेन विसर्गस्य नित्यम् सकारादेशः भवति ।]
→ काँस्कान्, कांस्कान्
</listsp>
Sutrartha (English)¶
When a विसर्ग is followed by a letter from the शर्प्रत्याहार, the विसर्ग optionally remains as विसर्ग.
Vasu English Summary¶
The विसर्ग is optionally the substitute of विसर्ग when followed by a sibilant (शर्).
Vasu English Translation¶
The विसर्ग is optionally the substitute of विसर्ग when followed by a sibilant (शर्). As वृक्षः शेते or वृक्षश्शेते, प्लक्षः शेते or प्लक्षश्शेते, वृक्षः षण्डे or वृक्षषण्डे, वृक्षः साये or वृक्षस्साये ॥ Cf. (8.4.40), (8.4.41), for श् and ष् ॥
Vart:- When the sibilant is followed by a hard consonant, there is optionally the elision of the preceding visarga. As वृक्षा स्थातारः or वृक्षाः स्थातारः or वृक्षास्स्थातारः ॥
Bhashya¶
वा शरि ॥ वा(2) शर्प्रकरणे खर्परेलोपः॥ वा शर्प्रकरणे खर्परे लोपो वक्तव्यः। वृक्षा स्थातारः। वृक्षाः स्थातारः॥ वा शरि।
Kashika¶
विसर्जनीयस्य विसर्जनीयादेशो वा भवति शरि परे। वृक्षः शेते, वृक्षश्शेते। प्लक्षः शेते, प्लक्षश्शेते। वृक्षः षण्डे, वृक्षष्षण्डे। वृक्षः साये, वृक्षस्साये॥ खर्परे शरि वा लोपो वक्तव्यः॥ वृक्षा स्थातारः, वृक्षाः स्थातारः, वृक्षास्स्थातारः॥
Siddhanta Kaumudi¶
शरि परे विसर्जनीयस्य विसर्जनीय एव वा स्यात् । हरिः शेते । हरिश्शेते ।<!खर्परे शरि वा विसर्गलोपो वक्तव्यः !> (वार्तिकम्) ॥ रामस्थाता । हरिस्फुरति । पक्षे विसर्गे सत्वे च त्रैरूप्यम् ॥ कुप्वोः क पौ च (SK142) ॥ क करोति । कः करोति । क खनति । कः खनति । क पचति । कः पचति । क फलति । कः फलति ॥
Laghu Siddhanta Kaumudi¶
शरि विसर्गस्य विसर्गो वा। हरिः शेते, हरिश्शेते॥
Tattvabodhini¶
वा शरि - अयःसहितेति । न त्वयसो विकारः,जानपदे॑तिङीष्वप्रसङ्गात् । अयस्कर्णीति । अय इव कर्णौ यस्याः ।नासिकोदर॑ इति ङीष् । अधःशिरसी । एतयोरिति । सूत्रे तु षष्ठ्याः स्थाने प्रथमा बोध्या । अधस्पदमिति । पदस्याध इति विग्रहः । मयूरव्यंसकादित्वात्समासः । शिरस्पदमिति । षष्ठीसमासः । * इति तत्वबोधिन्यां विसर्गसन्धिः *अथ यङन्तप्रक्रिया ।धातोरेकाचो हलादेः क्रियासमभिहारे यङ् ।३.१.२२ ।धातोरेकाचो । क्रियासमभिहार इत्युक्तत्वाद्धातोरेव स्यान्न तु प्रातिपदिकादिति पृच्छति धातो धातोः किमिति ।
Padamanjari¶
वृक्षा स्थातार इति । लोपाभावपक्षे विसर्जनीयः, सत्वं वा ॥
Prakriyasarvasvam¶
शरि परे विसर्गस्य विसर्गो वा स्यात् । पक्षे सत्वम् । पक्षे श्चुत्वष्टुत्वे । द्विषस्सैन्ये । युतश्शक्त्या । गतष्षण्मुखः । विसर्गे द्विषः सैन्ये इत्यादि । ‘खर्परे शरि विसर्जनीयस्य वा लोपो वाच्यः’ (वा० ८-३-३६) । शाकल्यमतेन द्वित्वाभावे सत्येकसकारार्थ लोपोक्तिः । हरि स्फुरति । लोपाभावे वा शरीति सत्वविसर्गौ । हरिस्स्फुरति । हरिः स्फुरति ।
Sarala¶
विसर्जनीयस्य सः (८.३.३४) इत्यतः “विसर्जनीयस्य” इति, शर्परे विसर्जनीयः (८.३.३५) इत्यतो “विसर्जनीय” इति चानुवर्त्त्योक्तं - विसर्गस्य विसर्ग इति ॥
Sudha¶
वा शरीति । ** विसर्जनीयस्येति, विसर्जनीय इति चानुवर्तते । विसर्गस्य विसर्गविधानञ्च तस्य सत्वपरिसंख्यानार्थम् । वाग्रहणाच्च सत्वपरिसंख्यानं पाक्षिकम् । तदाह — **शरि परे इत्यादिना । हरिः शेते इति । “हरिः शेते” इत्यत्र वा शरि (8.3.36) इति सूत्रेण शर्-प्रत्याहारान्तःपातिनि शकारे परे सति विसर्गस्य विसर्गे विहिते “हरिःशेते” इति रूपम् । पक्षे विसर्जनीयस्य सः (8.3.34) इत्यनेन विसर्गस्य सत्वे विहिते “हरिस् शेते” इति जाते, तत्र स्तोः श्चुना श्चुः (8.4.40) इत्यनेन सकारस्य शकारे च कृते “हरिश्शेते” इति रूपम् ॥
Vartika¶
खर्परे शरि वा विसर्गलोपो वक्तव्यः ।
Sutra Prayogas¶
मायाभिः शतशः (भट्टिकाव्यम्): वा शरि इति विकल्पः विसर्जनीयः सकारो वा।