83035: शर्परे विसर्जनीयः¶
Padacheda: शर्परे | S | 7 | 1 |
विसर्जनीयः | S | 1 | 1 |
Sutrartha¶
पदान्ते विद्यमानात् विसर्गात् अनन्तरम् खर्-वर्णः, तस्मात् अनन्तरम् च शर्-वर्णः विद्यते चेत् विसर्गस्य विसर्गादेशः भवति ।
<pt> खर् = सर्वाणि कर्कशव्यञ्जनानि = वर्गप्रथमाः, वर्गद्वितीयाः, शकारः, षकारः, सकारः । <light>आहत्य 13 वर्णाः ।</light> शर् = शकारः, षकारः, सकारः । <light>आहत्य 3 वर्णाः ।</light> </pt> अष्टाध्याय्याम् विसर्जनीयस्य सः (8.3.34) इत्यतः कस्कादिषु च (8.3.48) इति यावद्भिः पञ्चदशभिः सूत्रैः विसर्गस्य भिन्नाः आदेशाः प्रोक्ताः सन्ति । अस्य विसर्गादेशप्रकरणस्य इदम् द्वितीयम् सूत्रम् । विसर्गात् अनन्तरम् खर्-वर्णः, तस्माद् अनन्तरम् च शर्-वर्णः विद्यते चेत् विसर्गस्य अन्यान् आदेशान् बाधित्वा पुनः विसर्गादेशः एव भवति — इति अस्य सूत्रस्य आशयः । कानिचन उदाहरणानि एतानि —
कः त्सरुः → कः त्सरुः । अत्र तकारात् परः अव्यवहितरूपेण सकारः वर्तते, अतः तकारात् पूर्वस्य विसर्गस्य विसर्जनीयस्य सः (8.3.34) इत्यनेन सकारादेशे प्राप्ते तं बाधित्वा प्रकृतसूत्रेण विसर्गस्य विसर्गादेशः एव भवति ।
रामः क्षत्रियः → रामः क्षत्रियः । अत्र ककारात् परः अव्यवहितरूपेण षकारः विद्यते, अतः ककारात् पूर्वस्य विसर्गस्य कुप्वोः ≍क≍पौ च (8.3.37) इत्यनेन पाक्षिके जिह्वामूलीये प्राप्ते तद्बाधित्वा प्रकृतसूत्रेण विसर्गस्य विसर्गादेशः एव भवति ।
अद्भिः प्सातम् → अद्भिः प्सातम् । अत्र पकारात् परः अव्यवहितरूपेण सकारः विद्यते, अतः पकारात् पूर्वस्य विसर्गस्य कुप्वोः ≍क≍पौ च (8.3.37) इत्यनेन पाक्षिके उपध्मानीये प्राप्ते तद्बाधित्वा प्रकृतसूत्रेण विसर्गस्य विसर्गादेशः एव भवति ।
बाध्यबाधकभावः
शर्परे विसर्जनीयः (8.3.35) इति प्रकृतसूत्रम् विसर्जनीयस्य सः (8.3.34) तथा च कुप्वोः ≍क≍पौ च (8.3.37) इत्यनयोः बाधकरूपेण प्रवर्तते । विसर्जनीयस्य सः (8.3.34) इत्यनेन प्राप्तं सकारादेशम्, तथा च कुप्वोः ≍क≍पौ च (8.3.37) इत्यनेन प्राप्तौ जिह्वामूलीय-उपध्मानीयौ बाधित्वा अनेन सूत्रेण विसर्गस्य विसर्गादेशः एव भवति ।
सूत्रे “न” इत्यस्य स्थाने “विसर्जनीयः” इत्यस्य ग्रहणम्
यदि अस्मिन् सूत्रे शर्परे विसर्जनीयः इत्यस्य स्थाने शर्परे न इति उच्यते, तर्हि पूर्वसूत्रस्य सन्दर्भेण अस्य अर्थः “विसर्जनीयस्य सः ; शर्परे न” इति भवेत् । अस्यां स्थितौ केवलं सकारादेशस्य एव अत्र बाधः अभविष्यत्, अन्येषाम् आदेशानां (इत्युक्ते, जिह्वामूलीय-उपध्मानीयययोः) न । तादृशं मा भूत् अतः अस्मिन् सूत्रे विसर्गस्य पुनः विसर्गादेशः एव उक्तः अस्ति । शर्परे खरि विसर्गस्य अन्यः कोऽपि आदेशः न भवेत् अपितु विसर्गः एव तत्र तिष्ठेत् — इति ज्ञापयितुम् एव विसर्गस्य पुनः विसर्गादेशः उक्तः अस्ति — इति अस्य आशयः ।
Sutrartha (English)¶
A विसर्ग is converted to विसर्ग if it is followed by a खर् letter after which a शर् letter is present.
Vasu English Summary¶
The विसर्ग is the substitute when it is followed by a hard consonant (खर्) which itself is followed by a sibilant (शर्).
Vasu English Translation¶
The विसर्ग is the substitute when it is followed by a hard consonant (खर्) which itself is followed by a sibilant (शर्). The word शर्परे is a Bahuvrihi, meaning that which is followed by शर् ॥ In other words, when a sibilant follows a hard consonant, the preceding visarga remains unchanged. Thus शशाः क्षुरम्, पुरुषः क्षुरम्, अद्भिः प्साताम्, वासः क्षौमम्, पुरुषः त्सरुः, घनाघनः क्षोभणश्चर्षणीनाम् ॥
Though the sutra could have been shortened by saying शर्परे न; yet the longer form is used, in order to indicate that the jihvamuliya and upadhmaniya changes also do not take place, in cases like अद्भिः प्साताम्, वासः क्षौमम् ॥
Kashika¶
शर्परे खरि परतो विसर्जनीयस्य विसर्जनीयादेशो भवति। शशः क्षुरम्। पुरुषः क्षुरम्। अद्भिः प्सातम्। वासः क्षौमम्। पुरुषःत्सरुः। घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् (ऋ० १०.१०३.१)। नेति वक्तव्ये विसर्जनीयस्य विसर्जनीयादेशविधानं विकारनिवृत्त्यर्थम्। तेन जिह्वामूलीयोपध्मानीयौ न भवतः॥
Siddhanta Kaumudi¶
शर्परे खरि विसर्जनीयस्य विसर्जनीयः न त्वन्यत् । कः त्सरुः । घनाघनः क्षोभणः । इह यथायथं सत्वं जिह्वामूलीयश्च न ॥
Tattvabodhini¶
शर्परे विसर्जनीयः - शर्परे विसर्जनीयः ।शर्परे॑ इति बहुव्रीहिः । अनुवर्तमानश्च खरन्यपदार्थः । सत्वादेरयमपवादः । यदि तुशर्परे ने॑त्यवोच्येत तर्हि प्रकृते सत्वे निषिद्धेऽपि कुप्वोः क पौ स्याताम्वासः क्षौममद्भिः प्सात॑-मित्यादौ । विसर्जनीयवचनात्तु विकारमात्रं बाध्यते इत्याशयेनाह -न त्वन्यदिति । तदेव स्फुटयति-इहेति ।
Padamanjari¶
शर्परो यस्मादिति बहुव्रीहिः, परग्रहणेऽक्रियमाणे शरएव केवलस्य निमितता विज्ञायेत, न खरीत्यनुवृतेः,’वा शरि’ इत्यभिधानाच्च । विपर्ययस्तर्हि विज्ञायेत - खर्परे शरीति, नित्यः स्फोटः, पुरुषः स्थातेति । तस्मात्परग्रहणम् । अथ किमर्थण्,’विसर्जनीयः’ इत्युच्यते, न’न’ इत्येवोच्येत, सत्वे हि प्रतिषिद्धे विसर्जनीयः स्वेनैव रूपेणावस्थास्यते ? अथ आह - विसर्जनीयस्येति । सत्यम्; पुरुषः त्सरुक इत्यादौ सत्वनिषेधेनापि सिद्धम्, यत्र तु कुपू शर्परौ - वासः क्षौमम्, अद्धिः प्सातमिति, तस्य विसर्जनीयस्य यो विकारो जिह्वामूलीयादिः स एव स्यात् । विसर्जनीयग्रहणे तु सति विसर्जनीय एव भवति । जिह्वामूलीयोपध्मानीयावपि न भवत इति । केवलं सकार एवेत्यपि शब्दार्थः ॥
Nyaas¶
शर्? परो यस्मादिति वहुव्रीहिः। अथ परग्रहणं किमर्थम्, न शरीत्येवोच्येत अशक्यमेवं वक्तुम्, एवं ह्रुच्यमाने शर एव केवलं निमित्तभावो विज्ञायेत, न खरीत्यनुवृत्तेः वा शरि (8.3.36) इति विधानाच्च। विपर्ययस्तर्हि विज्ञार्येत -शरीति, तथा च नित्यः स्फोटः, पुरुषः स्थूल इत्यादादेव स्यात्, वासः क्षीममित्यादौ तु न स्यात्? तस्माद्विपर्ययो मा विज्ञायीत्येवमर्थं परग्रहणम्। अथ किमर्थं विसर्जनीय इत्युच्यते, नेत्येवोच्येत, सकारस हि प्रतिषेधे कृते विसर्जनीयः स्वेनैव रूपेणावस्थास्यते? इत्याह -विमर्जनीयस्य इत्यादि। तस्य विसर्जनीयस्य विकारो जिह्वामूलीयादिः, तन्निवृत्त्यर्थ विसर्जनीयग्रहणम्; अन्यथा यदि नेत्येवोच्येत, ततः अनन्तरस्य विधिर्वा भवति प्रतिषेदो वा (व्या।प।29) इति सकारस्यैव विज्ञायेत। ततश्च जिह्वामूलीयादिर्विसर्जनीयस्य विकारः स्यादेव। विसर्जनीयग्रहणे तु तत्सामर्थ्यादेव न भवति॥
Praudhamanorama¶
॥ अथ विसर्गसन्धिः॥ </big> सत्वादेरयमपवादः। यदि तु शर्परे नेत्येवोच्येत तर्हि प्रकृते सत्वे निषिद्धेऽपि कुप्वोः क पौ स्याताम्। वासः क्षौमम्, अद्भिः प्सातमिति। विसर्जनीयवचनात्तु विकारमात्रं बाध्यते इत्याशयेनाह— न त्वन्यदिति। तदेव स्फुटयति—
Prakriyasarvasvam¶
शर्परे खरि परे विसर्गस्य विसर्ग एव स्यात्, नान्यत् । शूरः त्सरुकः । शरैः क्षतः । खयः परस्य द्वे स्त इति मतेऽत्र सपयोर्वा द्वित्वं ज्ञेयम् विसर्ग ‿ क ‿ पां व्यञ्जनत्वावचः परत्वाभावात् तकयोस्तु न द्वित्वम् ।