82105: अनन्त्यस्यापि प्रश्नाख्यानयोः¶
Padacheda: अनन्त्यस्य | S | 6 | 1 |
अपि | S | 0 | 0 |
प्रश्नाख्यानयोः | S | 7 | 2 |
Sutrartha¶
Vasu English Summary¶
In a question or narration, the end vowel of a word, though not final in a sentence, becomes प्लुत and स्वरित , as well as the word which is final in a sentence.
Vasu English Translation¶
In a question or narration, the end vowel of a word, though not final in a sentence, becomes प्लुत and स्वरित , as well as the word which is final in a sentence. The word ‘padasya’ is understood here: and so also the word ‘svarita’. The end-vowel of a word which is not the last word in a sentence, as well as of the last word, becomes svarita and pluta, when a question is asked, or a fact is narrated. In fact, all the words of a sentence become svarita and pluta hereby.
Thus in questioning we have:- आगमा॑३: पूर्वा॑३न् ग्रामा॑३न् अग्नि भूतां॑३इ or पटा३उ ॥ Thus all words have become svarita and pluta. The final word would, in one alternative, become anudatta also, by (8.2.100), as shown under that sutra. The force of the word अपि in the sutra, is to make the final word also svarita, and thus this sutra makes (8.2.100) an optional sutra with regard to question.
In akhyana or narration, there is no other rule, which is debarred by this. Therefore there, all words become svarita and pluta necessarily, by the force of this sutra. Thus अगमा॑३न् पुर्वा॑३न् ग्रामा॑३न् भोः॑३ ॥
Another view of this sutra is that the word अपि applies only to akhyana, so that in akhyana all words become svarita. But in prasna, the final word will not become svarita, but anudatta necessarily by (8.2.100). According to this view, this sutra does not ordain option. This view is not adopted by Kasika, or Padamanjari or Siddhanta Kaumudi.
Kashika¶
पदस्येति वर्तते, स्वरितमिति च। अनन्त्यस्यापि अन्त्यस्यापि पदस्य टेः प्लुतो भवति प्रश्न आख्याने च। अगम॑३ः पूर्वा॑३न् ग्रामा॑३न् अग्निभूता॑३इ, पटा॑३उ। सर्वेषामेव पदानामेष स्वरितः प्लतुः। अन्त्यस्य अनुदात्तं प्रश्नान्ताभिपूजितयोः (८.२.१००) इति अनुदात्तोऽपि पक्षे भवति। आख्याने — अगम॑३म् पूर्वा॑३न् ग्रामा॑३न् भोः॑३॥
Siddhanta Kaumudi¶
अनन्त्यस्यान्त्यस्यापि पदस्य टेः स्वरितः प्लुतः एतयोः । अगमः 3पूर्वा 3 न् ग्रामा 3 न् । सर्वपदानामयम् । आख्याने । अगम3 म् पूर्वा 3 न् ग्रामा 3 न् ॥
Padamanjari¶
अनन्त्यस्यापि प्रश्नाख्यानयोः॥ सर्वेषामेव पदानामिति। नन्वन्त्यस्यानुदातम्,’प्रश्नान्ताभिपूजितयोः’ इत्यनुदातप्लुतेन भवितव्यम्, तत्कथमेष स्वरितः प्लुतो भवति? अत आह - अनन्त्यस्येति। यद्यप्यत्र विकल्पो न श्रुतः, तथाप्यतेनापिशब्देनान्त्यस्याप्ययं स्वरितः प्लुतो भवति, ततश्चानुदातप्लुतः पाक्षिकः सम्पद्यते इति भावः। ननु चापिशब्द आख्यानेऽन्त्यसमुच्चयेन चरितार्थः, ततः किम्? प्रश्नेऽन्त्यस्यानुदातस्य नित्यं प्लुतः प्राप्नोति, तत्र विकल्पाभावान्नैष दोषः। प्रश्नेऽप्यपिशब्दस्य तात्पर्यं गम्यते; सहनिर्दिष्टत्वात्, ततश्च प्रश्नान्ते स्वरितानुदातयोः प्लुतयोर्विकल्पो भविष्यति॥
Nyaas¶
अन्त्यस्य तु इत्यादि। तुशब्दः पदान्तरेभ्यो विशेषं दर्शयति। अन्त्यस्येत्यनेनापि स्वरितः, अनुदात्तं प्रश्नान्ताभिपूजितयोः (8.2.100) इत्यनेनाप्यनुदात्तः; तयोश्चैकत्र यौगपद्यं न सम्भवति। तत्र वचनप्रामाण्यादनुदात्तोऽपि पक्षे न भवति, स्वरितोऽपि॥
Prakriyasarvasvam¶
अनयोः सर्वस्य टेः स्वरितः प्लुतः स्यात् । प्रश्ने—कदा ३ इह ३ आगमः ३ । आख्याने—अद्य ३ एव ३ आगमः ३ इति ।