82105: अनन्त्यस्यापि प्रश्नाख्यानयोः ==================================== **Padacheda:** अनन्त्यस्य | S | 6 | 1 | अपि | S | 0 | 0 | प्रश्नाख्यानयोः | S | 7 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- In a question or narration, the end vowel of a word, though not final in a sentence, becomes प्लुत and स्वरित , as well as the word which is final in a sentence. Vasu English Translation ------------------------ In a question or narration, the end vowel of a word, though not final in a sentence, becomes प्लुत and स्वरित , as well as the word which is final in a sentence. The word '*padasya*' is understood here: and so also the word '*svarita*'. The end-vowel of a word which is not the last word in a sentence, as well as of the last word, becomes *svarita* and *pluta*, when a question is asked, or a fact is narrated. In fact, all the words of a sentence become *svarita* and *pluta* hereby. Thus in questioning we have:- आगमा॑३: पूर्वा॑३न् ग्रामा॑३न् अग्नि भूतां॑३इ or पटा३उ ॥ Thus all words have become *svarita* and *pluta*. The final word would, in one alternative, become *anudatta* also, by (8.2.100), as shown under that *sutra*. The force of the word अपि in the *sutra*, is to make the final word also *svarita*, and thus this *sutra* makes (8.2.100) an optional *sutra* with regard to question. In *akhyana* or narration, there is no other rule, which is debarred by this. Therefore there, all words become *svarita* and *pluta* necessarily, by the force of this *sutra*. Thus अगमा॑३न् पुर्वा॑३न् ग्रामा॑३न् भोः॑३ ॥ Another view of this *sutra* is that the word अपि applies only to *akhyana*, so that in *akhyana* all words become *svarita*. But in *prasna*, the final word will not become *svarita*, but *anudatta* necessarily by (8.2.100). According to this view, this *sutra* does not ordain option. This view is not adopted by *Kasika*, or *Padamanjari* or *Siddhanta* *Kaumudi*. Kashika ------- पदस्येति वर्तते, स्वरितमिति च। अनन्त्यस्यापि अन्त्यस्यापि पदस्य टेः प्लुतो भवति प्रश्न आख्याने च। अगम॑३ः पूर्वा॑३न् ग्रामा॑३न् अग्निभूता॑३इ, पटा॑३उ। सर्वेषामेव पदानामेष स्वरितः प्लतुः। अन्त्यस्य **अनुदात्तं प्रश्नान्ताभिपूजितयोः** (८.२.१००) इति अनुदात्तोऽपि पक्षे भवति। आख्याने — अगम॑३म् पूर्वा॑३न् ग्रामा॑३न् भोः॑३॥ Siddhanta Kaumudi ----------------- अनन्त्यस्यान्त्यस्यापि पदस्य टेः स्वरितः प्लुतः एतयोः । अगमः 3पूर्वा 3 न् ग्रामा 3 न् । सर्वपदानामयम् । आख्याने । अगम3 म् पूर्वा 3 न् ग्रामा 3 न् ॥ Padamanjari ----------- अनन्त्यस्यापि प्रश्नाख्यानयोः॥ सर्वेषामेव पदानामिति। नन्वन्त्यस्यानुदातम्,'प्रश्नान्ताभिपूजितयोः' इत्यनुदातप्लुतेन भवितव्यम्, तत्कथमेष स्वरितः प्लुतो भवति? अत आह - अनन्त्यस्येति। यद्यप्यत्र विकल्पो न श्रुतः, तथाप्यतेनापिशब्देनान्त्यस्याप्ययं स्वरितः प्लुतो भवति, ततश्चानुदातप्लुतः पाक्षिकः सम्पद्यते इति भावः। ननु चापिशब्द आख्यानेऽन्त्यसमुच्चयेन चरितार्थः, ततः किम्? प्रश्नेऽन्त्यस्यानुदातस्य नित्यं प्लुतः प्राप्नोति, तत्र विकल्पाभावान्नैष दोषः। प्रश्नेऽप्यपिशब्दस्य तात्पर्यं गम्यते; सहनिर्दिष्टत्वात्, ततश्च प्रश्नान्ते स्वरितानुदातयोः प्लुतयोर्विकल्पो भविष्यति॥ Nyaas ----- `अन्त्यस्य तु` इत्यादि। तुशब्दः पदान्तरेभ्यो विशेषं दर्शयति। अन्त्यस्येत्यनेनापि स्वरितः, **अनुदात्तं प्रश्नान्ताभिपूजितयोः** (8.2.100) इत्यनेनाप्यनुदात्तः; तयोश्चैकत्र यौगपद्यं न सम्भवति। तत्र वचनप्रामाण्यादनुदात्तोऽपि पक्षे न भवति, स्वरितोऽपि॥ Prakriyasarvasvam ----------------- अनयोः सर्वस्य टेः स्वरितः प्लुतः स्यात् । प्रश्ने—कदा ३ इह ३ आगमः ३ । आख्याने—अद्य ३ एव ३ आगमः ३ इति ।