82066: ससजुषो रुः

Padacheda: ससजुषोः | S | 6 | 2 |

रुः | S | 1 | 1 |

Sutrartha

पदान्तसकारस्य सजुष्-शब्दस्य च रुँत्वं भवति ।

पदान्ते विद्यमानस्य सकारस्य, तथा च सजुष्-शब्दस्य (इत्युक्ते, अलोऽन्त्यस्य (1.1.52) इत्यनेन तदन्तस्य षकारस्य) प्रकृतसूत्रेण ‘रुँ’ इति आदेशः भवति । उदाहरणानि एतानि — <hlb>1. पदान्तसकारस्य रुँत्वम् </hlb>— 1. राम-शब्दस्य प्रथमैकवचनस्य रूपे प्रकृतसूत्रेण रुँत्वं भवति —

राम + सुँ [प्रथमैकवचनस्य प्रत्ययः]
→ राम + स् [उकारस्य **उपदेशेऽजनुनासिक इत्** (1.3.2) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः। अग्रे **सुप्तिङन्तम् पदम्** (1.4.14) इत्यनेन 'राम+स्' इत्यस्य पदसंज्ञा भवति ।]
→ राम + रुँ [पदान्तसकारस्य **ससजुषो रुँ** (8.2.66) इति रुँत्वम् ]
→ राम + र् [उकारस्य **उपदेशेऽजनुनासिक इत्** (1.3.2) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः]
→ रामः [अवसाने परे रेफस्य **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
  1. पयस्-शब्दस्य प्रथमा-द्वितीया-एकवचनस्य रूपे प्रकृसूत्रेण रुत्वं विधीयते —

पयस् + सुँ / अम् [प्रथमा-द्वितीया-एकवचनस्य प्रत्ययः]
→ पयस् + ० [**स्वमोर्नपुंसकात्** (7.1.23) इति सुँ-प्रत्ययस्य लुक् । प्रत्ययलोपे अपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इति प्रत्ययविशिष्टं कार्यम् अवश्यम् प्रवर्तते, अतः "पयस्" शब्दस्य **सुप्तिङन्तं पदम्** (1.4.14) इत्यनेन पदसंज्ञा भवति ।]
→ पयरुँ [पदान्ते विद्यमानस्य सकारस्य **ससजुषो रुः** (8.2.66) इति रुँत्वम्]
→ पयर्  [उकारस्य **उपदेशेऽजनुनासिक इत्** (1.3.2) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः]
→ पयः [अवसाने परे रेफस्य **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
  1. पठ्-धातोः लङ्लकारस्य मध्यमपुरुषैकवचनस्य रूपे प्रकृतसूत्रेण रुँत्वे कृते विसर्गः विधीयते —

पठँ (व्यक्तायां वाचि, भ्वादिः, (1.381))
→ पठ् + लङ् [**अनद्यतने लङ्** (3.2.111) इति लङ्]
→ अट् + पठ् + लङ् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः]
→ अ + पठ् + सिप् [**तिप्तस्झि..** (3.4.78) इति मध्यमपुरुषैकवचनस्य विवक्षायाम् सिप्-प्रत्ययः]
→ अ + पठ् + स् [**इतश्च** (3.4.100) इति इकारलोपः]
→ अ + पठ् + शप् + स् [**कर्तरि शप्** (3.1.68) इति  शप् विकरणप्रत्ययः]
→‌ अ + पठ् + अ + स् [इत्संज्ञालोपः]
→ अ + पठ् + अ + रुँ [तिङन्तस्य **सुप्तिङन्तं पदम्** (1.4.14) इति पदसंज्ञायां जातायाम्, पदान्ते विद्यमानस्य सकारस्य **ससजुषो रुः** (8.2.66) इति रुँत्वम् विधीयते ।]
→ अ + पठ् + अ + र् [उकारस्य **उपदेशेऽजनुनासिक इत्** (1.3.2) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः]
→ अपठः [अवसाने परे रेफस्य **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]

<hlb>2. सजुष्-शब्दस्य षकारस्य रुँत्वम् </hlb>— सजुष् ( = सहयोगी / companion) इति षकारान्तशब्दः । जुषीँ (प्रीतिसेवनयोः, तुदादिः, (6.8)) अस्मात् धातोः “सह”इति उपपदस्य उपस्थितौ क्विप् च (3.2.76) इत्यनेन क्विप्-प्रत्यये कृते, प्रक्रियायाम् सहस्य सः संज्ञायाम् (6.3.78) अनेन सूत्रेण सह-इत्यस्य सकारादेशे कृते “सजुष्” शब्दः सिद्ध्यति । सह जुषते (the one who accompanies along) इति सजूः — इति अस्य शब्दस्य अर्थः । अस्यैव “सजुष्” इति प्रथमैकवचनस्य रूपस्य सिद्धौ जुष्-धातोः षकारस्य प्रकृतसूत्रेण रुँत्वम् विधीयते —

सजुष् + सुँ [प्रथमैकवचनस्य प्रत्ययः]
→ सजुष्  + स् [उकारस्य **उपदेशेऽजनुनासिक इत्** (1.3.2) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः। ]
→ सजुष् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सकारस्य लोपः । लोपे सत्यपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन प्रत्ययविशिष्टं कार्यम् अवश्यं क्रियते, अतः **सुप्तिङन्तं पदम्** (1.4.14) इत्यनेन सजुष्-शब्दस्य पदसंज्ञा भवति ।]
→ सजुरुँ [**ससजुषो रुँ** (8.2.66) इति षकारस्य रुँत्वम् ]
→ सजुर् [उकारस्य **उपदेशेऽजनुनासिक इत्** (1.3.2) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः]
→ सजूर् [**र्वोरुपधाया दीर्घ इकः** (8.2.76) इति उकारस्य दीर्घः]
→ सजूः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]

षत्वस्य असिद्धत्वम्

आदेशप्रत्यययोः (8.3.59) इत्यस्मिन् अधिकारे विहितम् षत्वम् प्रकृतसूत्रस्य कृते असिद्धम् अस्ति । अतएव, “आशीष्”, “धनुष्” इत्यादिषु शब्देषु अन्ते षकारस्य स्थाने मूलरूपेण सकारम् दृष्ट्वा प्रकृतसूत्रेण तस्य विसर्गादेशः सम्भवति । यथा, “धनुष्” शब्दस्य प्रथमैकवचनस्य रूपम् एतादृशम् सिद्ध्यति —

धनँ (धान्ये, जुहोत्यादिः, (3.24))
→ धन् + उस् (**अर्तिपॄवपियजितनिधनितपिभ्यो नित्** (2.117) इति उणादिसूत्रेण उस्-प्रत्ययः]
→ धनुस् [व्युत्पत्तिपक्षे उणादिप्रत्ययानाम् कृदन्तेषु ग्रहणं कृत्वा **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा भवति । अव्युप्तत्तिपक्षे तु **अर्थवदधातुरप्रत्ययः प्रातिपदिकम्** (1.2.45) इति प्रातिपदिकसंज्ञा विधीयते ।]
→ धनुस् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]
→ धनुस् + ०  [**स्वमोर्नपुंसकात्** (7.1.23) इति सुँ-प्रत्ययस्य लुक् । प्रत्ययलोपे अपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इति प्रत्ययविशिष्टं कार्यम् अवश्यम् प्रवर्तते, अतः "धनुस्" शब्दस्य **सुप्तिङन्तं पदम्** (1.4.14) इत्यनेन पदसंज्ञा भवति ।]
→ धनुरुँ [**ससजुषो रुः** (8.2.66) इति रुँत्वम् ]
→ धनुर् [उकारस्य **उपदेशेऽजनुनासिक इत्** (1.3.2) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः]
→ धनुः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]

एवमेव, आशिष्-शब्दस्य प्रथमैकवचने सकारस्य प्रकृतसूत्रेण रुँत्वम् भवति —

शासुँ (इच्छायाम्)
→ आङ् + शास् + क्विप् [**क्विप् च** (3.2.76) इति क्विप्-प्रत्ययः]
→ आ + शास् + ० [ङकारस्य, ककारपकारयोः च इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते । अवशिष्टस्य अपृक्त-वकारस्य **वेरपृक्तस्य** (6.1.67) इति लोपः भवति ।]
→ आ + शिस् + ० [**शास इदङ्हलोः** (6.4.34) इति इत्वम्]
→ आ + शिस् + सुँ [क्विबन्तस्य **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञायां सत्याम् प्रथमैकवचनस्य विवक्षायाम् सुँ-प्रत्ययः विधीयते ।]
→ आ + शिस् + स् [उकारस्य **उपदेशेऽजनुनासिक इत्** (1.3.2) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः]
→ आ + शिस् + ० [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति अपृक्त-सकारस्य लोपः । लोपे कृते अपि **सुप्तिङन्तं पदम्** (1.4.14) इति पदसंज्ञा ]
→ आ + शि रुँ [**ससजुषो रुः** (8.2.66) इति रुँत्वम्]
→ आशिर् [उकारस्य **उपदेशेऽजनुनासिक इत्** (1.3.2) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः]
→ आशीर् [**र्वोरुपधाया दीर्घ इकः** (8.2.76) इति उपधा-इकारस्य दीर्घः]
→ आशीः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति रेफस्य विसर्गः]

एवमेव अन्यान् अपि सर्वान् षकारान्तशब्दान् मूलरूपेण सकारान्तरूपेण एव गृहीत्वा तेषाम् प्रक्रियायाम् प्रकृतसूत्रेण रुत्वे कृते अग्रे विसर्गादेशः सम्भवति ।

बाध्यबाधकभावः

प्रकृतसूत्रम् **झलां जशोऽन्ते (8.2.39) इत्यस्य अपवादरूपेण प्रवर्तते** । झलां जशोऽन्ते (8.2.39) इत्यनेन पदान्त सकारषकारयोः जश्त्वे (यथासङ्ख्यम्) दकारडकारौ आदेशौ प्राप्नुतः । तौ बाधित्वा प्रकृतसूत्रेण सकारान्तस्य सजुष्-शब्दस्य च विषये रुँ-आदेशः विधीयते ।

आश्रयात् सिद्धत्वम्

प्रकृतसूत्रम् यद्यपि त्रिपाद्यां विद्यते, तथापि इदं सूत्रम् अतो रोरप्लुतादप्लुते (6.1.113) तथा च हशि ** (6.1.114) इत्येतयोः कृते **आश्रयात् सिद्धम् अस्ति । इत्युक्ते, प्रकृतसूत्रेण सिद्धस्य रुँत्वस्य एतयोः द्वयोः सूत्रयोः उकारादेशः अवश्यम् सम्भवति —

**[1] प्रकृतसूत्रस्य प्रयोगात् अनन्तरम् **अतो रोरप्लुतादप्लुते** (6.1.113) इत्यस्य प्रयोगः —**
राम सुँ अस्ति
→ राम रुँ अस्ति [**ससजुषोः रुः** (8.2.66) इति रुत्वम् ]
→ राम उ अस्ति [**अतो रोरप्लुतादप्लुते** (6.1.113) इति रुँ-इत्यस्य उत्वम्]
→ रामो अस्ति [**आद्गुणः** (6.1.87) इति गुण-एकादेशः]
→ रामोस्ति [**एङः पदान्तादति** (6.1.109) इति पूर्वपरयोः एकः ओकारादेशः]
<br/>
**[2] प्रकृतसूत्रस्य प्रयोगात् अनन्तरम् **हशि च** (6.1.114) इत्यस्य प्रयोगः —**
राम सुँ गच्छति
→ राम रुँ गच्छति [**ससजुषोः रुः** (8.2.66) इति रुत्वम् ]
→ राम उ गच्छति [**हशि च** (6.1.114) इति रुँ-इत्यस्य उत्वम्]
→ रामो गच्छति [**आद्गुणः** (6.1.87) इति गुण-एकादेशः]

Sutrartha (English)

The सकार at end of a पद, and the षकार at end of the सजुष् पद get a रुँ-आदेश ।

Vasu English Summary

For the final स् and for the ष् of ससजुष् is substituted रु , at the end of a word.

Vasu English Translation

For the final स् and for the ष् of ससजुष् is substituted रु , at the end of a word. Thus अग्निरत्र, वायुरत्र ॥ So also सजूर्ऋषिभिः, सजूर्देवेभिः ॥ सजुष् is derived from जुष् with the affix क्विप् and the preposition सह, which is changed to स in Bahuvrihi. The lengthening takes place by (8.2.76). and the word means सप्रीतिः ॥ The रु is र्, but it should be distinguished from it. This secondary र् (or रु) undergoes a distinct and separate Sandhi change from that of the primary र् ॥

Kashika

सकारान्तस्य पदस्य सजुष् इत्येतस्य च रुर्भवति। सकारान्तस्य — अग्निरत्र। वायुरत्र। सजुषः — स॒जू॑र्ऋ॒तु॑भिः॒ (मै०सं० २.८.१.)। स॒जूर्दे॒वेभिः॑ (ऋ०७.३४.१५)। जुषेः क्विपि सपूर्वस्य रूपमेतत्॥

Siddhanta Kaumudi

पदान्तस्य सस्य सजुष्शब्दस्य च रुः स्यात् । जश्त्वापवादः ॥

Laghu Siddhanta Kaumudi

पदान्तस्य सस्य सजुषश्च रुः स्यात्॥

Balamanorama

ससजुषो रुः - ससजुषो रुः । ससजुषो रु रिति छेदः ।रो रि॑इति रेफलोपः । सश्च सजूश्च ससजुषौ, तयोरिति विग्रहः । रुविधौ उकार इत् । तत्फलं त्वनुपदमेव वक्ष्यते । ‘स’ इति सकारो विविक्षितः । अकार उच्चारणार्थः । पदस्येत्यधिकृतं सकारेण सजुष्शह्देन च विशेष्यते । ततस्त दन्तविधिः । सकारान्तं सजुष्शब्दान्तं च यत् पदं तस्य रुः स्यादित्यर्थः । सचअलोऽन्त्ये॑त्यन्त्यस्य भवति । तत्फलितमाह-पदान्तस्य सस्येति । सजुष्शब्दस्य चेति । सजुष्शब्दान्तं यत् पदं तदन्तस्य षकारस्येत्यर्थः । ततश्च सजुषौ सजुष इत्यत्र षकारस्य न रुत्वम्, पदान्तत्वाभावात् ।सजुष्शब्दान्तं यत् पदं तदन्तस्य षकारस्येत्यर्थः । ततस्च सजुषौ सजुष इत्यत्र षकारस्य न रुत्वम्, पदान्तत्वाभावात् ।सजुष्शब्दान्तं यत्पद॑मिति तदन्तविधिना परमसजूरित्यत्र नाव्याप्तिः । न च सजूरित्यत्राव्याप्तिः शङ्क्या, व्यपदेशिवद्भावेन तदन्तत्वात् ।व्यपदेशिवद्भावो ।ञप्रातिपदिकेन॑ इतिग्रहणवता प्रातिपदिकेन तदन्तविधिर्न॑ इति च पारिभाषाद्वयंप्रत्ययग्रहणे यस्मा॑दितिविषयं, नतु येन विधिरितिविषयमितिअसमासे निष्कादिभ्यः॑ इति सूत्रे भाष्ये स्पष्टम् । ननु शिवसिति सकारस्य ‘झलाञ्जशोन्ते’ इति जश्त्वेन दकारः स्यात्, जश्त्वं प्रति रुत्वस्य परत्वेऽपि असिद्धत्वादित्यत आह — जश्त्वापवाद इति । तथा च रुत्वस्य निरवकाशत्वान्नासिदधत्वमिति भावः । तदुक्तं भाष्येपूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्ये॑ति ,अपवादो वचनप्रामाण्यादि॑ति च ।

Tattvabodhini

ससजुषो रुः - ससजुषो रुः ।पदस्ये॑त्यनुवृतं ससजूभ्र्यां विशेष्यते, विशेषणेन तदन्तविधिः । न च सजूःशब्दांशेग्रहणवता प्रतिपदिकेन तदन्तविधिर्ने॑ति निषेधः शङ्क्यः, तस्य प्रत्ययविधिविषयकत्वात् । सान्तं सजुष्शब्दान्तं च यत्पदं तस्य रुः स्यात्स चाऽलोन्त्यस्य । एवं स्थिते फलितमाह-पदान्तस्य सस्येति । सजुष्शब्दस्येति । तदन्तस्य पदस्येत्यर्थः । तेनसुजुषौ॑सजुष॑ इत्यत्रापि नातिव्याप्तिः । नचसजू॑रित्यत्राऽव्याप्तिः,व्यपदेशिवद्भावोऽप्रातिदिकेने॑ति निषेधादिति वाच्यं, तस्यापि प्रत्ययविधिविषयकत्वात् । अतएवव्यपदेशिवद्भावोऽप्रातिपदिकेने॑तिग्रहणवते॑ति च परिभाषाद्वयमपि प्रत्ययविधिविषयकमितिदिव उ॑त्सूत्रे हरदत्तेनोक्तम् । कैयटहरदत्ताभ्यामिति तु मनोरमायां स्थितम् । तत्र कैयटेनानुक्तत्वात्कैयटग्रहणं प्रमादपतिततमिति नव्याः । केचित्तुदिव उ॑त्सूत्रं यस्मिन्निति बहुव्रीहिरयं, सूत्रसमुदायश्चान्यपदार्थः । तथाचदिव उ॑त्सूत्रशब्देनद्वन्द्वे चे॑ति सूत्रस्यापि क्रोटीकारात्तत्र च कैयटेनोक्तत्वान्नोक्तदोष इति कुकविकृतिवत्क्लेशेन मनोरमां समर्थयन्ते ।

Padamanjari

सजूरिति । पूर्ववद्भावे क्विप्, रुत्वे कृते र्ठ्वोरुपधायाःऽ इति दीर्घत्वम्, बहुव्रीहौ सहस्य सभावः । सप्रीतिरित्यर्थः ॥

Nyaas

सजूः इति। जुषी प्रीतिसेवनयोः (धातुपाठः-1288), सह जषत इति क्विप्, उपपदसमासः, सहस्य सः संज्ञायाम् (6.3.78) इति सभावः। रुत्वे कृते र्वोरुपधायाः (8.2.76) इति दीर्घः। सजुवो ग्रहणमसकारान्तार्थम्। योगश्चायं जश्त्वापवादः॥

Praudhamanorama

पदस्येत्यनुवृत्तं ससजूर्भ्यां विशेष्यते, विशेषणेन तदन्तविधिः। न च सजूःशब्दांशे ‘ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति’ इति निषेधः शङ्क्यः। तस्य प्रत्ययविधिविषयत्वात्। सान्तं सजुष्शब्दान्तं च यत्पदं तस्य रुः स्यात्, स चालोऽन्त्यस्य। एवं स्थिते फलितमाह— पदान्तस्येति। सजुष्शब्दस्येति। तदन्तस्य पदस्येत्यर्थः, तेन सजुष इत्यादौ नातिप्रसङ्गः। न च सजूरित्यत्राव्याप्तिः ‘व्यपदेशिवद्भावोऽप्रातिपदिकेन’ इति निषेधादिति वाच्यम्। ‘येन विधिः’ इति सूत्रे शब्दकौस्तुभेऽस्य प्रत्याख्यातत्वात्। ‘व्यपदेशिवपद्भावोऽप्रातिपदिकेन’ इति, ‘ग्रहणवता-’ इति च परिभाषाद्वयमपि प्रत्ययविधिविषयकमिति दिव उत्सूत्रे कैयटहरदत्ताभ्यामुक्तत्वाच्च। एवं च परमसजूर्भ्यामित्याद्यपि निर्बाधम्। एवं स्थिते इह सजुष्शब्देन तदन्तविधिर्नेति प्राचामुक्तिरापातत इत्यवधेयम्॥

Sarala

पदस्य (८.१.१६) इत्यनुवर्त्तते । तदन्तविध्यलोन्त्यविधिभ्यां लब्धमर्थमाह - पदान्तस्येति

Sudha

ससजुष इति । पदस्येत्यधिकृत्य सकारेेण सजुष्-शब्देन च विशेष्यते । अतस्तदन्तविधिः । सकारान्तं सजुष्-शब्दान्तं च यत्पदं तस्य रुः स्यादिति । स च अलोऽन्त्यस्य (1.1.52) इति परिभाषया अन्त्यस्य भवति । ततश्च फलितमाह — पदान्तस्य सत्येत्यादिना ।