82065: म्वोश्च¶
Padacheda: म्वोः | S | 7 | 2 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
न is substituted for the म of a root before the affixes beginning with म and व।
Vasu English Translation¶
न is substituted for the म of a root before the affixes beginning with म and व। As अगन्म, अगन्व the Imperfect of गम्, as in the sentence अगन्म तमसः पारम् ॥ The शप् is elided as a Vedic diversity. So also जगन्वान् with क्वसु, the augment इट् is not added by the option allowed, owing to (7.1.68). This sutra applies to those cases where the म is not at the end of a word, as it was in the last sutra.
Kashika¶
मकारवकारयोश्च परतः मकारान्तस्य धातोर्नकारादेशो भवति। अग॑न्म॒ तम॑सस्पा॒रम् (मा०सं० १२.७३)। अगन्व। गमेर्लङि बहुलं छन्दसि (२.४.७३) इति शपो लुक् । जगन्वान्। विभाषा गमहनविदविशाम् (७.२.६८) इति क्वसाविडागमस्याभावः। अपदान्तार्थ आरम्भः॥
Siddhanta Kaumudi¶
मान्तस्य धातोर्मस्य नकारादेशः स्यान्मकारे वकारे च परे णत्वम् । चक्षण्वहे । चक्षमिमहे । चक्षण्महे । क्षमिष्यते । क्षंस्यते । क्षमेत । आशिषि, क्षमिषीष्ट । क्षंसीष्ट । अक्षमिष्ट । अक्षंस्त ।{$ {!443 कमु!} कान्तौ$} । कान्तिरिच्छा ॥
Laghu Siddhanta Kaumudi¶
मान्तस्य धातोर्नत्वं म्वोः परतः। जगन्वान्॥
Tattvabodhini¶
म्वोश्च - कमु कान्तौ । अस्य णिङभावेउदितो वे॑ति क्त्वायामिड्विकल्पः । कमित्वा । कान्त्वा । निष्ठायां तुयस्य विभाषे॑ति निषेधात्कान्तः ।
Nyaas¶
अगन्म इति। स उत्तमस्य (3.4.98) इति सकारलोपः। जगन्वान् इति। गमेर्लिट्, क्वसुः, हल्ङ्यादि (6.1.66) संयोगान्तलौपौ (8.2.23) , सान्तमहतः (6.4.10) इति दीर्घः, गमहन (6.4.98) इत्यादिनोपधालोपः। छन्दस्युभयथा (6.4.86) इति सार्वधातुकत्वं न भवति। चकारः धातौः इत्यनुकर्षणार्थः॥
Prakriyasarvasvam¶
मकारवकारयोः परयोर्मान्तस्य धातोर्नत्वं स्यात् । सुगन्मा । क्वनिप्यगुणः । तुक्, कंसजित्वा । ईशेः ईश्वा । वनिप् । ओण् अपनये ।