82045: ओदितश्च¶
Padacheda: ओदितः | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
For the त of the निष्ठा there is substituted न after a root which has an indicatory ओ in the धातुपाठ।
Vasu English Translation¶
For the त of the निष्ठा there is substituted न after a root which has an indicatory ओ in the धातुपाठ। Thus ओलस्जी - लग्नः, लग्नवान्, ओविजी - उद्विग्नः, उद्विग्नवान् ॥ ओप्यायी वृद्धौ :- आपीनः, आ पीनवान् ॥
The roots सूङ् प्राणिप्रसवे (Divadi 24) &c. are considered as ओदित् ॥ Thus, सूनः, सूनवान्; दूङ् - दूनः, दूनवान्; दीङ् - दीनः, दीनवान्; डीङ् - डीनः, डीनवान्; धीङ् - धीनः, धीनवान् मीङ् - मीनः, मीनवान्; रीङ् - रीणः, रीणवान्, लीङ् - लीनः, लीनवान्, व्रीङ् - व्रीणः, व्रीणवान् ॥
Kashika¶
ओकारेतो धातोरुत्तरस्य निष्ठातकारस्य नकारादेशो भवति। ओलस्जी — लग्नः। लग्नवान्। ओविजी — उद्विग्नः। उद्विग्नवान्। ओप्यायी वृद्धौ — आपीनः। आपीनवान्। स्वादय ओदितः। षूङ् — सूनः। सूनवान्। दूङ् — दूनः। दूनवान्। दीङ् — दीनः। दीनवान्। डीङ् — डीनः। डीनवान्। धीङ् — धीनः। धीनवान्। मीङ् — मीनः। मीनवान्। रीङ् — रीणः। रीणवान्। लीङ् — लीनः। लीनवान्। व्रीङ् — व्रीणः। व्रीणवान्॥
Siddhanta Kaumudi¶
भुजो । भुग्नः । टुओश्वि । उच्छूनः । ओहाक् । प्रहीणः । (गणसूत्रम् -) स्वादय ओदितः इत्युक्तम् । सूनः । सूनवान् । दूनः । दूनवान् । ओदिन्मध्ये डीङ पाठमर्थ्यान्नेट् । उड्डीनः ॥
Laghu Siddhanta Kaumudi¶
भुजो भुग्नः। टुओश्वि, उच्छूनः॥
Balamanorama¶
ओदितश्च - ओदितश्च । ओकारेतो धातोः परस्य निष्ठातस्य नत्वमित्यर्थः । भुग्न इति । नत्वस्याऽसिद्धत्वाज्जस्य पूर्वं कुत्वम् । ततो नत्वम् । उच्छून इति । उत्पूर्वात् ‘टु ओ इआ’ इति धातोः क्तः, यजादित्वात्संप्रसारणम्, पूर्वरूपम्, ‘श्वीदितः’ इति नेट्, ‘हल’ इति दीर्घः, निष्ठानत्वम् । प्रहीण इति ।घुमास्थे॑तीत्त्वं, नत्वं, ‘कृत्यचः’ इति णत्वम् । स्वादय इति । ‘षूङ् प्राणिप्रसवे’ इत्याद्या नव धातव ओदित इति दिवादिगणे उक्तमित्यर्थः । सून इति । षूङः क्तः, नत्वं ।श्र्युकः किती॑तीण्निषेधः । दून इति । ‘दूङ् परितापे’ अस्मात् क्तः, स्वादित्वेन ओदित्त्वान्नत्वम् । ननु ‘डीङ् विहायसा गतौ’ इत्यस्य उड्डीन इति कथं रूपं, सेट्कत्वादुगन्तत्वाऽभावेनश्र्युकः किती॑ति निषेधस्याऽप्रवृत्तेरित्यत आह — ओदन्मध्ये डीङः पाठसामर्थ्यान्नेडिति । इटि सति निष्ठातस्य ओदितो डीङः परत्वाऽभावान्नत्वाऽप्रसक्तेस्तस्य ओदित्सु पाठो व्यर्थः स्यादित्यर्थः ।
Tattvabodhini¶
ओदितश्च - भुग्न इति । भुजो कौटिल्ये । नत्वस्याऽसिद्धत्वाज्झलि परतः कुत्वम् । उच्छून इति । आयतेर्यजादित्वात्संप्रसारणे पूर्वरूपे चहलः॑ इति दीर्घः । प्रहीण इति ।घुमास्थे॑ति ईत्वम् । सून इति । षूङ् प्राणिप्रसवे । दून इति । दूङ् परितापे । ओदिन्मध्ये इति । यदि डीङ इट् स्यात्तर्हि धातोः परो निष्ठातकारो न संभवतीति नत्वार्थः पाठोऽनर्थकः स्यादिति भावः । न च ओदिन्मध्ये पाठसामर्थ्यादिटा व्यवधाने नत्वं बवेदिति वैपरीत्यं किं न स्यादिति शङ्क्यम्, लक्ष्यानुरोधेन इडभावकल्पनाया एव न्याय्यत्वात् । अन्ये तु सत्यपि इडागमे सवर्णदीर्घे चैकादेशस्य पूर्वान्तत्वेन ग्रहणादिटा व्यववधानं नास्त्येवेतीष्टं सिध्यतीत्याहुः ।
Padamanjari¶
आपीन इति ।’प्यायः पी’ इति पीभावः । स्वादयः’षूङ् माणिप्रसवे’ इत्यादयः’ब्रीङ् वृणोत्यर्थे’ इत्येवमन्ता दिवादौ पठ।ल्न्ते ॥
Nyaas¶
आपीनः इति। प्यायः पी (6.1.28) इति पीभावः। स्वादय ओदितः इति। ते पुनः षूङ प्राणिप्रसवे (धातुपाठः-1132) इत्यादयः व्रीङ्? प्रीणात्यर्थे [वृणोत्यर्थे-धातुपाठः] (धातुपाठः-1140) इत्येवमन्ता दिवादिषु पठन्ते॥
Prakriyasarvasvam¶
ओदितो धातोर्निष्ठानत्वं स्यात् । ‘भुजो कौटिल्ये’ । भुज् न । नत्वस्या- सिद्धतया झलादित्वात् चोः कुः । भुग्नः । ‘ओहाक् त्यागे’ । ‘घुमास्था (६-४-६६) इतीत्वम् । हीनः । ‘ओहाङ् गतावि’त्यस्य त्वीत्वं न । हानः । ‘टुमस्जो शुद्धौ’ । अन्त्यात् पूर्वं नुम् । तस्य ‘अनिदितां—’ (६-४-२४) इति नलोपः । ‘स्कोः—’ (८-२-२९) इति सलोपः । चोः कुः । मग्नः । स्वादय ओदितः । ते च ‘षूङ् प्राणिप्रसव’ इत्यादयः श्यनि । <karika>सूनो डीनो दीनदूनौ लीनो धीनस्त्विहाश्रितः । व्रीणो वृतो मृतो मीनः (सृ? श्रु)तो रीणो नवैव ते ॥ १११ ॥</karika> एभ्यः परस्य तस्य नत्वोक्त्यास्य डीङः इहेण् न । प्रसूत इति सूतेः सिद्धम् । क्षी त ॥
Sutra Prayogas¶
करिरुग्णचन्दनरसारुणं (किरातार्जुनीयम्): ओदितश्च इति निष्ठानत्वम्।
रुग्णे (किरातार्जुनीयम्): ओदितश्च इति निष्ठातकारस्य नत्वम्।
निलीन (भट्टिकाव्यम्): स्वादय ओदितः इति निष्ठानत्वं।
सम्भुग्न (भट्टिकाव्यम्): आदितश्च इति ।
दीनैश्च (भट्टिकाव्यम्): ओदितश्च इति नत्वम् ।
विरुग्णोद्यान-शाखिनः (भट्टिकाव्यम्): ओदितश्च इति निष्ठानत्वम्।
प्रहीण (भट्टिकाव्यम्): जहातेः ओदितश्च इति निष्ठादेशनकारस्य पूर्ववण्णत्वम् ।
आप्यानो (भट्टिकाव्यम्): ओदितश्च इति निष्ठानत्वम् ।