82044: ल्वादिभ्यः¶
Padacheda: ल्वादिभ्यः | S | 5 | 3 |
Sutrartha¶
Vasu English Summary¶
For the त of the निष्ठा there is substituted न after the roots लू and those that follow it.
Vasu English Translation¶
For the त of the निष्ठा there is substituted न after the roots लू and those that follow it. These roots belong to Kryadi class, and commence from लूञ् छेदने (IX. 13) and end with वृ वरणे (IX. 32).
Thus लूनः, लूनवान्, धूनः, धूनवान्, जीनः, जीनवान् from ज्या the vocalisation is by (6.1.16).
Vart:- After a root ending in ऋ or ॠ and after a root of Luadi class, the त of the affix क्तिन् is changed to न्, like as in Nishtha. Thus कीर्णिः, गीर्णिः, शीर्णिः, लुनिः, पूनिः ॥ These are from कॄ (IX. 26), गॄ (IX. 28), शॄ (IX. 18), लू and पूञ् ॥
Vart:- The vowel of the roots दु गतौ (Bhuadi 991) and गु (Bhuadi 997), are lengthened before the Nishtha which is changed to न ॥ As आदूनः, विगूनः ॥
Vart:- The न change takes place after पूञ् ‘to destroy’ (Bhuadi I015). As पूना यवाः = विनष्टाः ॥ But पूतं धान्यं from पूञ् ‘to purify’ (IX. 12).
Vart:- The same change takes place after the root सि बन्धने of Svadi class (2) when used in a Reflexive sense of becoming a morsel fit for swallowing. As सिनो ग्रासः स्वयमेव i.e. where a morsel by being mixed with curd, condiments &c, becomes rounded of itself, there this form is used. बध्यमानः पिण्डीक्रियमाणो ग्रासो, यदा दध्यादिव्यञ्जन वशेन तत्रानुकूल्यं प्रतिपद्यते तदाऽयम् प्रयोगः ॥ But when not used in this sense, we have सिता पाशेन सूकरी ॥ Moreover, the ग्रास must be the object and not the subject of the verb. Therefore not here: सितो ग्रासो देवदत्तेन ॥
Bhashya¶
ल्वादिभ्यः ॥ ॠकारल्वादिभ्यः(2)क्तिन्निष्ठावत्॥ ॠकारल्वादिभ्यः क्तिन्निष्ठावद्भवतीति वक्तव्यम्। कीर्णिः गीर्णिः लूनिः धूनिः॥ दुग्वोदीर्घश्च ॥ दुग्वोर्दीर्घश्चेति वक्तव्यम्। आदूनः विगूनः। ॥ पूञ्ञो विनाशे(5)॥ पूञ्ञो विनाश इति वक्तव्यम्। पूना यवाः॥ विनाश इति किमर्थम्? ॥ पूतं धान्यम्॥ सिनोतेर्ग्रासकर्मकर्तृकस्य॥ सिनोतेर्ग्रासकर्मकर्तृकस्येति वक्तव्यम्। सिनो ग्रासः स्वयमेव(4)॥ ग्रासकर्मकर्तृकस्येति किमर्थम्?॥ सिता पाशेन सूकरी॥ झ्र्ल्वादिभ्यःट॥
Kashika¶
लूञ् छेदने इत्येतत्प्रभृति व्री वरणे इति यावत् वृत्करणेन समापिता ल्वादयो गृह्यन्ते। तेभ्य उत्तरस्य निष्ठातकारस्य नकारादेशो भवति। लूनः। लूनवान्। धूनः। धूनवान्। जीनः। जीनवान्॥ ॠकारल्वादिभ्यः क्तिन्निष्ठावद् भवतीति वक्तव्यम्॥ कीर्णिः। गीर्णिः। शीर्णिः। लूनिः। धूनिः॥ दुग्वोर्दीर्घश्चेति वक्तव्यम्॥ दु — आदूनः। गु — विगूनः॥ पूञो विनाश इति वक्तव्यम्॥ पूना यवाः। विनष्टा इत्यर्थः। विनाश इति किम्? पूतं धान्यम्॥ सिनोतेर्ग्रासकर्मकर्तृकस्येति वक्तव्यम्॥ सिनो ग्रासः स्वयमेव। ग्रासकर्मकर्तृकस्येति किम्? सिता पाशेन सूकरी। ग्रासोऽपि यदा कर्मैव भवति न कर्मकर्ता, तदा न भवति — सितो ग्रासो देवदत्तेनेति॥
Siddhanta Kaumudi¶
एकविंशतेर्लूञादिभ्यः प्राग्वत् । लूनः । ज्या । ग्रहिज्या -(SK2412) । जीनः ॥<!दुग्वोर्दीर्घश्च !> (वार्तिकम्) ॥ दु गतौ दूनः । टुदु उपताप इत्ययं तु न गृह्यते सानुबन्धकत्वात् । मृदुतया दुतयेति माघः । गूनः ।<!पूञो विनाशे !> (वार्तिकम्) ॥ पूना यवाः । विनष्टा इत्यर्थः । पूतमन्यत् ।<!सिनोतेर्ग्रासकर्मकर्तृकस्य !> (वार्तिकम्) ॥ सिनो ग्रासः । ग्रासेति किम् । सिता पाशेन सूकरी । कर्मकर्तृकेति किम् । सितो ग्रासो देवदत्तेन ॥
Laghu Siddhanta Kaumudi¶
एकविंशतेर्लूञादिभ्यः प्राग्वत्। लूनः॥ ज्या धातुः॥ ग्रहिज्येति संप्रसारणम्॥
Tattvabodhini¶
ल्वादिभ्यः - एकविंशतेरिति । क्र्यादिषु प्वादयो द्वाविंशतिः पठते,तत्र पूञं विहाय ल्वादयो ज्ञेयाः । जीन इति ।हल॑ इति दीर्घः । सिद्धत्वान्नित्यत्वाच्चग्रहिज्ये॑ ति संप्रसारणे कृतेसंयोगादेरातःर॑ इत्यस्याऽप्राप्तिः । *दुग्वोदीर्घश्च । गून इति । गु परीषोत्सर्गे । *पूञो विनाशे । विनष्टा इति । धातूनामनेकार्थत्वात्पूञ पवन इत्यस्य विनाशेऽपि वृत्तिः । * सिनोतेग्र्रासकर्मकर्तृकस्य । सिनोतेरिति । षिञ् बन्धने । ग्रासरूपं कर्म ग्रासकर्म,तत्कर्तृ यस्य सिनोतेस्ततः परस्य निष्ठातस्य नः स्यादित्यर्थः । सिनो ग्रास इति । पिण्डीक्रियमाणो ग्रासो यदा दध्यादिव्यञ्जनवशाद्बन्धनेऽनुकूलो भवति तदा कर्मण्येव कर्तृत्वमिति बोध्यम् । ग्रासेति किमिति ।ग्रास कर्मकर्तृकस्ये॑ति किमर्थमित्यर्थः । कर्मकर्तृकेति किमिति ।ग्रासकर्मकस्ये॑त्येवास्तु कर्तृपदं किमर्थमित्यर्थः । कर्मपदं विहायग्रासकर्तृकस्ये॑त्युक्तौ तुग्रासेन कण्ठः सित॑ इत्यत्रापि स्यादिति बोध्यम् ।
Nyaas¶
जीनः इति। ज्या वयोहानौ (धातुपाठः-1499), ग्रहिज्या (6.1.16) इत्यादिसूत्रेण सम्प्रसारणम्, हलः (6.4.2) इति दीर्घः। ऋकारल्पादिभ्यः इत्यादि। ऋकारान्तेभ्यो ल्वादिभ्यश्च परो यः क्तिन्? स निष्ठा भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं नु ओदितश्च (8.2.45) इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वात्। यथा ऋकारल्पादिभ्यो निष्ठातकारस्य नत्वं भवति, तथा क्तिनोऽपि तकारस्य नत्वं भवतीति।दुग्वोः इति। दु उपतापे [टु टु उपतापे -धातुपाठः, पदमञ्जर्यां तु-दु गतौ(944)इत्ययं धातुरुपात्तः, न `टु टु उपतापे इति] (धातुपाठः-1256)। गु पुरीषोत्सर्गे (धातुपाठः-1399)। पूनाः इति विनष्टा इत्यर्थः। पूतं धान्यम् इति। विधूतमित्यर्थः। सिनोतेः इति। विञ्? बन्धने (धातुपाठः-1248) इत्येतस्य। ग्रासकर्मकर्त्तृकस्य इति। ग्रासः कर्मकर्ता यस्य स तथोक्तः। अर्थद्वारकञ्चेदम्। तस्य ग्रासकर्मकर्त्तृकत्वं विशेषणं वेदितव्यम्। यथा सिनो ग्रासो बन्धनक्रियायां व्यञ्जनविशेषयोगादानुकूल्यं प्रतिपद्यते, तथा कर्मणोऽपि सतस्तस्य कर्त्तृत्वं विवक्षितमिति कर्मकर्तासौ भवति। सिनो ग्रासः ति। स्वयमेव बद्ध इत्यर्थः। सिता पाशेन सूकरी इति। समुदायप्रत्युदाहरणमेतत्। अवयवप्रत्युदाहरणं दर्शयितुमाह -ग्रासोऽपि इत्यादि। ग्रासोऽपि यदि कर्मैव भवति न कर्मकर्ता, तदापि न भवति; ग्रासकर्मकर्त्तृकत्वमस्य तदाभावात्। ग्रासकर्मतो हि स तदानीं भवति ग्रासकर्मकर्त्तृकः॥
Prakriyasarvasvam¶
ल्वादिभ्यो द्वाविंशतेर्निष्ठानत्वं स्यात् । लून इत्यादि । ‘दुग्वोर्दीर्घश्चेति वाच्यम् ।’ (वा० ८-२-४४) <karika>गत्यर्थाद् दोरसौ दूनो दुनोतेर्दुत एव हि । तदर्थे दूनसिद्धिस्तु पीडार्थाद् दू (ञ? ङ्) ओदितः ॥ १०८ ॥</karika> ‘गु पुरीषोत्सर्गे’ । गूनः ।<!पूञो विनाशे!> (वा० ८-२-४४) । पूना यवाः । अन्यत्र पूतम् । <karika>ग्रासस्य कर्मकर्तृत्वे निष्ठानत्वं भवेत् ष्विञः । स्वयमेव सिनो ग्रासः सुखबद्धस्तथोच्यते ॥ १०९ ॥ दध्यादियोगाद् ग्रासो हि सुसंश्लिष्टो भवेन्मिथः । नानार्थत्वात् तु धातूनां सुखभुक्त इतीतरे ॥ ११० ॥</karika> अन्यत्र तु सितः पाशेन ॥
Vartika¶
ऋल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः ।
Sutra Prayogas¶
दूनाः (किरातार्जुनीयम्): ल्वादिभ्यः इति निष्ठानत्वम्।
लीनां (शिशुपालवधम्): ल्वादिभ्यः इति निष्ठानत्वम्।
नखलूनं (शिशुपालवधम्): ल्वादिभ्यः इति निष्ठानत्वम्।
विदून (शिशुपालवधम्): ल्वादिभ्यः इति निष्ठानत्वम्।
सन्ततस्मरणरीणकल्मषाः (शिशुपालवधम्): ल्वादिभ्यः इति निष्ठानत्वम्।
दूनो (शिशुपालवधम्): ल्वादिभ्यः इति निष्ठानत्वम्।