82040: झषस्तथोर्धोऽधः

Padacheda: झषः | S | 5 | 1 |

तथोः | S | 6 | 2 |

धः | S | 1 | 1 |

अधः | S | 5 | 1 |

Sutrartha

धा-धातुं विहाय अन्येषाम् धातूनाम् विषये झष्-वर्णात् परस्य तकारस्य थकारस्य च धकारः भवति ।

झष्-प्रत्याहारे सर्वे वर्गचतुर्थाः आगच्छन्ति । एतेषाम् परस्य तकारस्य थकारस्य च अनेन सूत्रेण धकारः भवति । परन्तु धा-धातोः विषये अयमादेशः न विधीयते । उदाहरणानि एतानि - 1. लभ्-धातोः क्त-प्रत्ययान्तरूपम् एतादृशम् सिद्ध्यति - लभ् + क्त [निष्ठा (3.2.102) इति क्त-प्रत्ययः] → लभ् + ध [झषस्तथोर्धोऽधः (8.2.40) इति भकारात् परस्य तकारस्य धकारः] → लब्ध [झलां जश् झशि (8.4.53) इति भकारस्य बकारः] 2. ‘लिहँ’ (आस्वादने) इति अदादिगणस्य धातुः । अस्य धातोः आत्मनेपदस्य लङ्लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया इयम् - लिह् + लङ् [अनद्यतने लङ् (3.2.111) इति लङ् ] → अट् लिह् लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अडागमः] → अ + लिह् थास् [तिप्तस्… (3.4.78) इति आत्मनेपदस्य मध्यमपुरुषैकवचनस्य थास्-प्रत्ययः] → अ लिह् शप् थास् [कर्तरि शप् (3.1.68) इति औत्सर्गिकं विकरणम् शप् ] → अ लिह् थास् [अदिप्रभृतिभ्यः शपः (2.4.72) इति शप्-विकरणस्य लुक्] → अ लिढ् थास् [हो ढः (8.2.31) इति हकारस्य झलि परे ढकारः] → अ लिढ् धास् [झषस्तथोर्धोऽधः (8.2.40) इति ढकारात् परस्य थकारस्य धकारः] → अ लिढ् धारुँ [ससजुषो रुँः (8.2.66) इति सकारस्य रुँत्वम्] → अ लिढ् धाः [खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] → अ लिढ् ढाः [ष्टुना ष्टुः (8.4.41) इति ष्टुत्वम्] → अ लिढाः [ढो ढे लोपः (8.3.13) इति ढकारस्य ढकारे परे लोपः । एतस्य कृत्वे ष्टुत्वम् सिद्धमस्ति ।] → अ लीढाः [ढ्रलोपे पूर्वस्य दीर्घोऽणः (6.3.111) इति ढकारलोपे पूर्वस्य इकारस्य दीर्घः । एतस्य कृते ढलोपः सिद्धः अस्ति ।] → अलीढाः 3. धा-धातोः विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, धा-धातोः लट्-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रियायाम् - धा + लट् [वर्तमाने लट् (3.2.123) इति लट्] → धा + तस् [तिप्तस्… (3.4.78) इति प्रथमपुरुषद्विवचनस्य तस्-प्रत्ययः] → धा + शप् + तस् [कर्तरि शप् (3.1.68) इति औत्सर्गिकं विकरणम् शप् ] → धा धा + तस् [जुहोत्यादिभ्यः श्लुः (2.4.75) इति विकरणस्य श्लुः (इत्युक्ते लोपः) । श्लौ (6.1.10) इति धातोः एकाचः अङ्गस्य द्वित्वम्] → ध धा तस् [ह्रस्वः (7.4.59) इति अभ्यासस्य ह्रस्वः] → ध ध् तस् [श्नाभ्यस्तयोरातः (6.4.112) इति आकारलोपः] → द ध् तस् [अभ्यासे चर्च्च (8.4.54) इति अभ्यासस्य जश्त्वम्] → धध् तस् [दधस्तथोश्च (8.2.38) इति दकारस्य धकारः] → ध त् तः [अत्र ‘धध्’ इत्यत्र धकारः झष्-वर्णः अस्ति, परन्तु तस्मात् परस्य तकारस्य झषस्तथोर्धोऽधः (8.2.40) इति धकारादेशः न भवति, यतः तस्मिन् सूत्रे ‘अधः’ इति निर्दिष्टः अस्ति । अतः विसर्गं कृत्वा अग्रे खरि च (8.4.55) इत्यनेन धकारस्य तकारः भवति] → धत्तः

Sutrartha (English)

The तकार and थकार that follows a झष् letter is converted to धकार. But this conversion does not happen for the verb root ‘धा’.

Vasu English Summary

ध is substituted for त or थ coming after झष् (झ, भ, घ, ढ, ध) but not after the root धा (दध).

Vasu English Translation

ध is substituted for त or थ coming after झष् (झ, भ, घ, ढ, ध) but not after the root धा (दध). Thus from लभ् we have लब्धा, लब्धुम्, लब्धव्यम्, अलब्ध, अलब्धाः ॥

The भ् of लभ् is changed to ब by (8.4.53). From द्य्ह् — दोग्धा, दोग्धुम्, दोग्धव्यम्, अदुग्ध, अदुग्धाः ॥ The ह is changed to घ by (8.2.32), and then it is changed to ग by (8.4.53).

From लिह :- लेढा, लेढुम्, लेढव्यम्, अलीढ, अलीढाः ॥ In लेढ्धृ &c, the ह्, is changed to ढ by (8.2.31), and ध changed to ढ by (8.4.41), before which the preceding ढ is elided by (8.3.13).

From बुध् :- बोद्धा, बोद्धुम्, बोद्धव्यम्, अबुद्ध, अबुद्धाः ॥ For the ध of बुध् there is substituted द by (8.4.53).

Why do we say “but not after the root धा”? Observe धत्तः धत्थः ॥

Bhashya

झषस्तथोर्धोऽधः अथ इति किमर्थम्?॥ धत्तः। धत्थः॥ अध इति शक्यमवक्तुम्(1)॥ कस्मान्न भवति-धत्तः धत्थ इति?॥ ॥ जश्त्वे योगविभागः(2)॥ झ्र्जश्त्वे(3) योगविभागःट करिष्यते। इदमस्ति दधस्तथोश्चेति। ततो वक्ष्यामि-झलां जशः(4)। झलां जशो भवन्ति दधस्तथोः। ततः अन्ते। अन्ते च झलां जशो भवन्तीति। तत्र जश्त्वे कृतेऽझषन्तत्वान्न भविष्यति॥

Kashika

झष उत्तरयोस्तकारथकारयोः स्थाने धकार आदेशो भवति, दधातिं वर्जयित्वा। लब्धा। लब्धुम्। लब्धव्यम्। अलब्ध। अलब्धाः। दुह — दोग्धा। दोग्धुम्। दोग्धव्यम्। अदुग्ध। अदुग्धाः। लिह — लेढा। लेढुम्। लेढव्यम्। अलीढ। अलीढाः। बुध — बोद्धा। बोद्धुम्। बोद्धव्यम्। अबुद्ध। अबुद्धाः। अध इति किम्? धत्तः। धत्थः॥

Siddhanta Kaumudi

झषः परयोस्तथयोर्धः स्यान्न तु दधातेः । जश्त्वम् । सिषेद्ध । सिषेधिथ । सेद्धा । सेधिता । सेत्स्यति । सेधिष्यति । असैत्सीत् ॥

Laghu Siddhanta Kaumudi

झषः परस्योस्तथोर्धः स्यान्न तु दधातेः॥

Balamanorama

झषस्तथोर्धोऽधः - झषस्तथोः । झष इति पञ्चमी । तश्च थ् चेति द्वन्द्वः । तकारादकार उच्चारणार्थः । तकारथकायोरिति लभ्यते । ‘धः’ इति प्रथमैकवचनम् । अकार उच्चारणार्थः । धकार इति लभ्यते । ‘अध’ इति षष्ठन्तम् । धाधातुभिन्नस्येति लभ्यते । तदाह — झषः परयोरिति । जश्त्वमिति । सिसेध् ध इति स्थितेझलां जस् झशी॑ति प्रथमधकारस्य दकारे सिषेद्धेति रूपमित्यर्थः । सिषिदिव — सिषिध्व । सिषिधिम — सिषिध्म । क्रादिनियमस्तु नेड्वशीति प्रक्रमाननञ्प्रापितस्यैवाऽभावस्य निवर्तको, नतु विभाषादप्रापितस्यापि, अनन्तरस्येति न्यायात् । इट्पक्षे आह — सिषेधिथेति । सेद्धेति । लृट् तास् इडभावः । डा टिलोपः गुणः । धत्वं जश्त्वम् । सेद्धार इत्यादि । सेधितेति । इट्पक्षे रूपम् । सेत्स्यति सेधिष्यतीति । लृटि स्यः । इड्विकल्पः । असैत्सीदिति । लुङस्तिप् । इकारलोपः । च्लिः । सिच् । इडभावः । ‘अस्तिसिचः’ इति ईट् । वदव्रजेति वृद्धिः । धकारस्य चर्त्वम् ।

Tattvabodhini

झषस्तथोर्धोऽधः - ॒अध॑ इति किम् । धत्तः । असैत्सीदिति ।अस्तिसिचः॑इति ईडागमः ।वदव्जे॑ति वृद्धि । ततश्चर्त्वम् ।

Padamanjari

दधातिं वर्जयित्वेति । अनेनाध इति धातुप्रतिषेधं दर्शयति । यदि धकारप्रतिषेधः स्यात् - धकारात्परयोर्नेति, ततः’गतिबुद्धि’ इत्यादयो निर्देशा नोपपद्येरन् । अलब्धष अलब्धा इति । लुङि त-थासौ । एवमलीढ, अलीढा इति । धतः, धत्थ इति । धत्वे प्रतिषिद्धे धकारस्य चर्त्वम् । ठधःऽ इति शक्यमवक्तुम् । इह कस्मान्न - धतः, धत्थ इति ? जश्त्वे योगविभागः करिष्यते,’दधस्तथोश्च’ ,’झलां जशः’ - झलां जशो भवन्ति दधस्तथोः, ततः ठन्तेऽ - अन्ते च झलां जशो भवन्ति, तत्र’पूर्वत्रासिद्धम्’ इति भष्भावे जश्त्वस्यासिद्धत्वाज्झषन्तत्वम् । धत्वे परस्मिन् सिद्धं जश्त्वमित्यझषन्तत्वाद्धत्वाभाव इति सिद्धमिष्टम् ॥

Nyaas

अथः इति। अनेन धातुप्रतिषेधोऽयं न धकारप्रतिषेध इति दर्शयति। यदि हि धकारप्रतिषेधः स्यात्, धकारात्? परयोस्तथोर्धकारो न भवतीति। ततः मतिबुद्धिपूनार्थेभ्यश्च (3.2.188) , वृद्धिर्यस्याचामादिस्तद् वृद्धम् (1.1.73) इत्येवमादयो निर्देशा नोपपद्येरन्। अलब्ध, अलब्धाः इति। लुङ्, तस्य तथासौ, झलो झलि (8.2.26) इति सकारलोपः। अलीढ, अलीढाः इति। ढत्वष्टुत्वढलोपदीर्घत्वानि कर्तव्यानि॥

Prakriyasarvasvam

झषः परयोस्तकारथकारयोर्धत्वं स्यात् । धाञस्तु न । सेद्धा । एवं बोद्धा । धाञस्तु धध् तस् इति स्थिते चत्वेन तः धत्त इत्येव । स्विदि स्वेत्ता । मन्ता । श्यनामित्युक्तेः श्लिष्यतिपुष्णात्यादीनां श्लेषितेत्यादीङेव । ‘हन्घस्वसप्रच्छः ॥’ एषामिण् न । हन्ता । घस्ता । वस्ता । वस इति शपा निर्देशालुग्गतस्य ‘वस आच्छादने’ इत्यस्येडेव । प्रच्छ् तृ,

Sutra Prayogas

  • दिग्धः (भट्टिकाव्यम्): झपस्तथोर्धो धः इति धः।

  • माऽऽरब्धा (भट्टिकाव्यम्): झषस्तथोर्धोऽधः इति धत्वम्।

  • उपालब्ध (भट्टिकाव्यम्): झषस्तथोर्धोऽधः इति धत्वम्।

  • समरुद्धेव (भट्टिकाव्यम्): झषस्तथोर्धोऽधः इति धत्वम्।

  • मोपालब्धाह्कृतैर्दोषैर्मा (भट्टिकाव्यम्): झषस्तथोर्धोऽधः इति धत्वम् ।

  • समाधत्ता (भट्टिकाव्यम्): झषस्तथोर्धोऽधः इति प्रतिषेधात् तकारस्य धत्वं न भवति।