82039: झलां जशोऽन्ते¶
Padacheda: झलाम् | S | 6 | 3 |
जशः | S | 1 | 3 |
अन्ते | S | 7 | 1 |
Sutrartha¶
पदान्ते विद्यमानस्य झल्-वर्णस्य जश्-आदेशः भवति ।
झल् = वर्गचतुर्थाः + वर्गतृतीयाः + वर्गद्वितीयाः + वर्गप्रथमाः + ऊष्माणः । जश् = वर्गतृतीयाः । पदान्ते विद्यमानस्य झल्-वर्णस्य स्थाने अनेन सूत्रेण अन्तरतमः जश्-वर्णः आदेशरूपेण आगच्छति । यथा - वाक् → वाग् । षष् → षड् । अन्तरतमः इत्युक्ते यस्य उच्चारणस्थानमाभ्यन्तरप्रयत्नश्च स्थानिनः समानः अस्ति तादृशः वर्णः । अतः अनेन सूत्रेण - 1) कवर्गीयवर्णस्य स्थाने गकारः विधीयते । यथा - वाक् → वाग् । 2) चवर्गीयवर्णस्य स्थाने जकारः विधीयते । परन्तु एतादृशम् जश्त्वम् न सम्भवति, यतः चोः कुः (8.2.30) इत्यनेन पदान्तचवर्गस्य स्थाने कुत्वम् भवति । 3) टवर्गीयवर्णस्य स्थाने डकारः विधीयते । यथा - लिढ् → लिड् । 4) तवर्गीयवर्णस्य स्थाने दकारः विधीयते । यथा - तत् → तद् । 5) पवर्गीयवर्णस्य स्थाने बकारः विधीयते । यथा - त्रिष्टुप् → त्रिष्टुब् । 6) शकारस्य स्थाने जकारः विधीयते । परन्तु एतादृशम् जश्त्वम् न सम्भवति, यतः पदान्तशकारस्य व्रश्चभ्रस्ज… (8.2.36) इत्यनेन षकारादेशः भवति । 7) षकारस्य स्थाने डकारः विधीयते । यथा - षष् → षड् । 8) सकारस्य स्थाने दकारः विधीयते । परन्तु एतादृशम् जश्त्वम् न सम्भवति, यतः पदान्तसकारस्य ससजुषो रुँः (8.2.66) इत्यनेन रुँत्वम् भवति । (ज्ञातव्यम् - परत्वादप्यत्र ससजुषो रुँः (8.2.66) एतत् सूत्रम् झलां जशोऽन्ते (8.2.39) अस्य कृते असिद्धम् नास्ति ।) 9) हकारस्य स्थाने गकारः विधीयते । परन्तु एतादृशम् जश्त्वम् न सम्भवति, यतः पदान्तहकारस्य हो ढः (8.2.31) इत्यनेन ढकारादेशः भवति । ज्ञातव्यम् - 1) अनेन सूत्रेण पदान्ते विद्यमानस्य झल्-वर्णस्य (यथासम्भवम्) जश्-वर्णादेशः नित्यम् भवति, विकल्पेन न । 2) अनेन सूत्रेण पदान्ते विद्यमानस्य झल्-वर्णस्य (यथासम्भवम्) जश्-वर्णादेशः अग्रे विरामः अस्ति चेदपि भवति, कश्चन अन्यः वर्णः अस्ति चेदपि भवति । 3) झल्-वर्णस्य जश्-वर्णादेशः एव ‘जश्त्वम्’ नाम्ना ज्ञायते । अष्टाध्याय्यां जश्त्वविधायके द्वे सूत्रे स्तः - झलां जशोऽन्ते (8.2.39) तथा झलां जश् झशि (8.4.53) । एतयोः प्रथमम् सूत्रम् पदान्ते जश्त्वं विधीयते, द्वितीयं सूत्रम् च अपदान्तस्य झल्-वर्णस्य जश्त्वम् कारयति ।
Sutrartha (English)¶
A झल् letter occurring at end of a पद is converted to the corresponding जश् letter.
Vasu English Summary¶
A corresponding ज, ब, ग, ड or द is substituted for all consonants (with the exception of semi-vowels and nasals) at the end of a word.
Vasu English Translation¶
A corresponding ज, ब, ग, ड or द is substituted for all consonants (with the exception of semi-vowels and nasals) at the end of a word. As वाग् अत्र, श्वलिड् अत्र, अग्निचिद् अत्र, त्रिष्टुब् अत्र ॥ The word श्वलिट् is formed by changing the ह् of लिह् to ढ first, and then changing this ढ to ड, a jas-letter.
The word अन्त ‘at the end’ is used in the sutra to indicate that the anuvritti of झलि ceases. Thus वस्ता, वस्तुम्, वस्तव्यम् ॥
The exceptions to this have been given in (8.2.30) &c, and (8.2.66). At an avasana or Pause, a चर् consonant may be substituted for a झल् by (8.4.56).
Kashika¶
झलां जश आदेशा भवन्ति पदस्यान्ते वर्तमानानाम्। वागत्र। श्वलिडत्र। अग्निचिदत्र। त्रिष्टुबत्र। अन्तग्रहणं झलीत्येतस्य निवृत्त्यर्थम्। वस्ता। वस्तव्यम्॥
Siddhanta Kaumudi¶
पदान्तेझलां जशः स्युः । पटत्पटदिति ॥
Laghu Siddhanta Kaumudi¶
पदान्ते झलां जशः स्युः। वागीशः॥
Laghu Shabdendushekhar¶
झलां जश् । अन्तग्रहणं झलीति निवृत्त्यर्थम् । सर्वोपकारकतया च प्रकरणान्तेऽस्य लेखः । एतेन “श्रत्” इत्यत्रैव लेख उचित इत्यपास्तम् ॥
Balamanorama¶
झलां जशोऽन्ते - अथ पररूपाऽभावपक्षे पटत्पटत्-इतीत्यत्र तकारस्य दकारं विधत्ते-झलां जशोन्ते । पदस्येत्यधिकृतं । तदाह — पदान्त इति । पटत्पटदितीति । स्थानसाम्यात्तकारस्य दकारो जशिति भावः । अत्राच्छब्दस्य पररूपनिषेधाऽभावे तकारमात्रस्य पररूपैकादेशविकल्पविधौ तस्य पररूपाभावपक्षेऽच्छब्दस्य पूर्वसूत्रेण पररूपापत्तौ पटत्पटितीति स्यादिति ध्येयम् ।
Nyaas¶
आलिट् इति। ढत्वे कृते जश्त्वम्। अथान्तग्रहणं किमर्थम्, ननु स्कोः संयोगाद्योरन्ते च (8.2.29) इत्यतोऽन्तग्रहणमनुवर्तत एव? इत्यत आह -अन्तग्रहणम् इत्यादि। तद्ध्यन्तग्रहणं झलीत्यनेन सम्बद्धम्, अतस्तदनुवृत्तौ झलीत्येतदप्यनुवर्तत, तस्मादेतन्निवृत्त्यर्थमन्यदेवान्तग्रहणं क्रियते। तेन च वसतेः -वस्ता, वस्तुमित्यत्र न भवति॥
Prakriyasarvasvam¶
पदान्तगतानां झलां जशः स्युः । वागीड्यः । चिद्रूपः । तत् मुखम् । जश्त्वे कृते तद् मुखम् ।
Sarala¶
पदस्य (८.१.१६) इत्यनुवर्त्त्य - पदस्य अन्ते इति सम्बन्धमभिप्रेत्याह - पदान्ते इति ॥
Sudha¶
वागीश इति । “वाक्-ईशः” अत्र झलां जशोऽन्ते (8.2.39) इत्यनेन “क्”-इत्यस्य स्थाने स्थानेऽन्तरतमः (1.1.50) इत्यनेन सूत्रेण कण्ठस्थानीयो गकारादेशो जायते; यतेन “वागीशः” इति रूपम्भवति ॥
Sutra Prayogas¶
मरुत्वान्वि-कृतः (भट्टिकाव्यम्): झलां जशोऽन्ते इति जश् स्यादिति व्याख्यानम्।