82021: अचि विभाषा

Padacheda: अचि | S | 7 | 1 |

विभाषा | S | 1 | 1 |

Sutrartha


Vasu English Summary

र् is optionally changed to ल् before an affix beginning with a vowel.

Vasu English Translation

र् is optionally changed to ल् before an affix beginning with a vowel. As निगिरति or निगिलति, निगरणम् or निगलनम्, निगारकः or निगालकः ॥

This is a vyavasthita-vibhasha, the optional forms have particular meanings. Thus गलः meaning ‘neck’ is always with ल; while गरः ‘poison’ is always with र.

In निगार्यते or निगाल्यते, the elision of णि is considered sthanivad, and hence this option, though the actual affix begins with य ॥ Objection:- The sthanivad-bhava rule is invalid here by (8.2.1). Auswer: The rule पूर्वत्रासिद्धं does not hold good with regard to the rules of संयोगादिलोप, लत्व and णत्व on the maxim “तस्य दोषः संयोगादिलोपलत्वणत्वेषु” ॥

Or the र् will be first changed to ल्, as being antaranga, and then the णि will be elided.

The forms गिरौ, गिरः are either from the Kryadi root gri, or l-change has not taken place on the maxim धातोः स्वरूपग्रहणे तत्प्रत्यये विज्ञानम् and as the affixes औ and अः are not affixes which are ordained after a verb, but are affixes added to nouns, hence the ल change has not taken place. In fact the words ‘an affix beginning with a vowel’ in the sutra, means “a verbal affix beginning with a vowel,” and not a noun affix. These are the Dual and Plural of the Nominative case of गॄ formed with the affix क्विप् ॥

Bhashya

अचि विभाषा ॥ णावुपसङ्ख्यानम्(1)॥ णावुपसङ्ख्यानं कर्तव्यम्॥ इहापि यथा स्यात्-निगार्यते निगाल्यते॥ किं पुनः कारणं न सिध्यति?॥ अचीत्युच्यते न चात्राऽजादिं पश्यामः॥ प्रत्ययलक्षणेन॥ वर्णाश्रये नास्ति प्रत्ययलक्षणम्॥ एवं तर्हि स्थानिवद्भावाद्भविष्यति॥ प्रतिषिध्यतेऽत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवदिति॥ अत उत्तरं पठति॥ गिरतेर्लत्वे णावुक्तम्(1)॥ झ्र्गिरतेर्लत्वे णावुक्तम्(2)ट॥ किमुक्तम्?॥ तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति॥ झ्र्अचि विभाषाट।

Kashika

अजादौ प्रत्यये परतो रेफस्य विभाषा लकारादेशो भवति। निगिरति, निगिलति। निगरणम्, निगलनम्। निगारकः, निगालकः। इयं तु व्यवस्थितविभाषा। तेन गल इति प्राण्यङ्गे नित्यं लत्वं भवति, गर इति विषे नित्यं न भवति। निगार्यते, निगाल्यत इति णिलोपस्य स्थानिवद्भावादचि विभाषेति लत्वविकल्पः। पूर्वत्रासिद्धे न स्थानिवत् (महाभाष्य १.१५४) इत्येतदपि सापवादमेव, तस्य दोषः संयोगादिलोपलत्वणत्वेषु (महाभाष्य १.१५५) इति। अन्तरङ्गत्वाद् वा कृते लत्वविकल्पे णिलोपो भविष्यति। गिरौ, गिर इत्यत्र धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम् (पु०वृ० ५५) इति लत्वं न भवति। गिरतिर्वा लत्वविधावधिकृतो गृणातेरेतद् रूपम॥

Siddhanta Kaumudi

गिरते रेफस्य लत्वं वा स्यादजादौ । गिरति । गिलति । जगार । जगाल । जगरिथ । जगलिथ । गरिता । गरीता । गलिता । गलीता ।{$ {!1411 दृङ्!} आदरे$} । आद्रियते । आद्रियेते । आदद्रे । आदद्रिषे । आदर्ता । आदरिष्यते । आदृषीष्ट । आदृत । आदृषाताम् ।{$ {!1412 धृङ्!} अवस्थाने$} । ध्रियते ॥ अथ परस्मैपदिनः षोडश ॥{$ {!1413 प्रच्छ!} ज्ञीप्सायाम्$} । पृच्छति । पप्रच्छ । पप्रच्छतुः । पप्रच्छिथ । पप्रष्ठ । प्रष्टा । प्रक्ष्यति । अप्राक्षीत् । वृत् । किरादयो वृत्ताः ।{$ {!1414 सृज!} विसर्गे$} । विभाषा सृजिदृशोः (SK2404) ससर्जिथ । सस्रष्ठ । स्रष्टा । स्रक्ष्यति । सृजिदृशोर्झल्यमकिति (SK2405) इत्यमागमः । सृजेत् । सृज्यात् । अस्राक्षीत् ।{$ {!1415 टुमस्जो!} शुद्धौ$} । मज्जति । ममज्ज । मस्जिनशोर्झलि (SK2517) इति नुम् ।<!मस्जेरन्त्यात्पूर्वो नुम्वाच्यः !> (वार्तिकम्) ॥ संयोगादिलोपः । ममङ्क्थ । ममज्जिथ । मङ्क्ता । मङ्क्ष्यति । अमाङ्क्षीत् । अमाङ्क्ताम् । अमाङ्क्षुः ।{$ {!1416 रुजो!} भङ्गे$} । रोक्ता । रोक्ष्यति । अरौक्षीत् । अरौक्ताम् ।{$ {!1417 भुजो!} कौटिल्ये$} । रुजिवत् ।{$ {!1418 छुप!} स्पर्शे$} । छोप्तां । अच्छौप्सीत् ।{$ {!1419 रुश!} {!1420 रिश!} हिंसायाम्$} । तालव्यन्तौ । रोष्टा । रोक्ष्यति । रेष्टा । रेक्ष्यति ।{$ {!1421 लिश!} गतौ$} । अलिक्षत् ।{$ {!1422 स्पृश!} संस्पर्शने$} । स्प्रष्टा । स्पर्ष्टा । स्प्रक्ष्यति । स्पर्क्ष्यति । अस्प्राक्षीत् । अस्पार्क्षीत् । अस्पृक्षत् ।{$ {!1423 विच्छ!} गतौ$} । गुपूधूप - (SK2303) इत्यायः । आर्धधातुके वा । विच्छायति । विच्छायांचकार । विविच्छ ।{$ {!1424 विश!} प्रवेशने$} । विशति । वेष्टा ।{$ {!1425 मृश!} आमर्शने$} । आमर्शनं स्पर्शः । अम्राक्षीत् । अमार्क्षीत् । अमृक्षत् ।{$ {!1426 णुद!} प्रेरणे$} । कर्त्रभिप्रायेऽपि फले परस्मैपदार्थः पुनः पाठः ।{$ {!1427 षद्लृ!} विशरणगत्यवपसादनेषु$} । सीदतीत्यादि भौवादिकवत् । इह पाठोनुम्विकल्पार्थः । सीदति । सीदन्ती । ज्वालादौ पाठस्तु णार्थः । सादः । स्वरार्थश्च । शबनुदात्तः । शस्तूदात्तः ।{$ {!1428 शदॢ!} शातने$} । स्वरार्थ एव पुनः पाठः । शता तु नास्ति । शदेः शितः - (SK2362) इत्यात्मनेपदोक्तेः ॥ अथ षट् स्वरितेतः ॥{$ {!1429 मिल!} सङ्गमे$} । मिल संश्लेषणे इति पठितस्य पुनः पाठः कर्त्रभिप्राये तङर्थः । मिलति । मिलते । मिमेल । मिमिले ।{$ {!1430 मुच्लृ!} मोक्षणे$} ॥

Laghu Siddhanta Kaumudi

गिरते रेफस्य लो वाजादौ प्रत्यये। गिरति, गिलति। जगार, जगाल। जगरिथ, जगलिथ। गरीता, गरिता, गलीता, गलिता॥ {$ {! 41 प्रच्छ !} ज्ञीप्सायाम् $} (धातुपाठे (06.0149)) ॥ ग्रहिज्येति सम्प्रसारणम्। पृच्छति। पप्रच्छ। पप्रच्छतुः। प्रष्टा। प्रक्ष्यति। अप्राक्षीत्॥ {$ {! 42 मृङ् !} प्राणत्यागे $} (धातुपाठे (06.0139)) ॥

Balamanorama

अचि विभाषा - अचि विभाषा ।ग्रो यङी॑त्यतो ग्र इत्यनुवर्तते । ‘कृपो रो लः’ इत्यतो रो ल इति । तदाह — गिरतेरिति । अजादाविति ।धातोः कार्यमुच्यमानं तत्प्रत्यये भवतीति परिभाषालब्धस्य प्रत्ययस्य अचा विशेषणात्तदादिविधिः । तेन गिरावित्यादौ नेतिमृजेर्वृद्धि॑रिति सूत्रभाष्ये स्पष्टम् । दृङ् आदरे इति । ह्रस्वान्तोऽयम् ।उश्चे॑ति कित्त्वान्न गुणः । आदृतेति ।ह्रस्वादङ्गा॑दिति सलोपः । प्रच्छ ज्ञीप्सायामिति । ज्ञातुमिच्छा - ज्ञीप्सा । अनिडयम् । पृच्छतीति । शस्य ङित्त्वात्ग्रहिज्ये॑ति रेफस्य संप्रसारणमृकारः, पूर्वरूपं चेति भावः । पप्रच्छतुरिति । संयोगात्परत्वेन कित्त्वाऽभावान्न संप्रसारणमिति भावः । भारद्वाजनियमात्थलि वेडिति म्तवाह — पप्रच्छिथ पप्रष्ठेति । इडभावपक्षे व्रश्चादिना छस्य षः, थस्य ष्टुत्वेन ठ इति भावः । पप्रच्छिव । प्रष्टेति । छस्य व्रश्चेति । सूत्रे सतुक्कस्य छस्य ग्रहणात् । किरादयो वृत्ता इति । नचैवं सति ‘किरश्च पञ्चभ्यः’ इत्यत्र पञ्चग्रहणं व्यर्थं, किरादीनां पञ्चत्वादिति वाच्यं, स्यरुदादिभ्यः सार्वधातुके॑ इत्युत्तरार्थत्वात् । सृज विसर्गे । अनिट् । सृजति.ससर्ज । ससृजतुः । अजन्ताऽकारवत्त्वाऽभावेऽपिविभाषा सृजिदृशो॑रिति थलि वेडिति मत्वाह — ससर्जिथ सरुआष्ठेति । इडभावेव्रश्चे॑तिजस्यषः, थस्य ष्टुत्वेन ठः, पित्त्वेनाऽकित्त्वात्सृजिदृशो॑रित्यमागम इति भावः । ससृजिव । टु मस्जो । मज्जतीति । सस्य श्चुत्वेन शः, तस्य जश्त्वेन ज इति भावः । ममङ्क्थेति । मस्जेर्द्वित्वे हलादिशेषे ममस्ज् थेति स्तितेस्को॑रिति सकारलोपे ममज् थ इतिस्थिते जस्य कुत्वेन गकारे,मस्जिनशो॑रिति नुमि, तस्यानुस्वारे, तस्य परसवर्णो ङकारः, गस्य चर्त्वेन क इति बोध्यम् । यद्यपि अकारात्परत्र नुमि सत्यपि इदं सिध्यति, तथापिअन्त्यात्पूर्वो नु॑मित्यस्य॑ ‘मग्न’ इत्यादौ नलोपः फलम् । अन्यथा उपधात्वाऽभावान्नस्य लोपो न स्यादिति भावः । एवं - मङ्क्तेति । मङक्ष्यतीत्यत्र तु सस्य षत्वं विशेषः । ‘रुजो भङ्गे’ इत्यारभ्य ‘विच्छ गतौ’ इत्यतः प्रागनिटः ।अनुदात्तस्य चर्दुपधस्ये॑त्यम्विकल्पं मत्वाह - स्प्रष्टा स्पर्ष्टेति । णुद प्रेरणे । णोपदेशोऽयम् । ‘विश प्रवेशने’ इत्यारभ्य ‘सद्लृ शातने’ इत्यन्ता अनिटः । तत्र अदुपधस्य थलि वेट् । अन्यस्य तु नित्यमेवेट् । मृशेः ‘अनुदात्तस्य चे’ त्यम्विकल्पः । तदाह - अम्राक्षीत् - अमर्क्षीदिति ।स्पृशमृशे॑ति सिज्वेति भावः । सिजभावेशल इगुपधा॑दिति क्सं मत्वाह — अमृक्षदिति । णुदधातुर्णोपदेशः । ननु तनादिगण एवाऽस्मिन्स्वरितेत्सु पठितस्य किमर्थमिह पाठ इत्यत आह - कत्र्रभिप्रायेऽपीति । षद्लृधातोर्भ्वादौ पठितादेव सीदतीत्यादिसिद्धेरिह पाठो व्यर्थ इत्यत आह - इह पाठ इति । सीदन्तीति । शविकरणाच्छत्रन्तान्ङीपिआच्छीनद्यो॑रिति नुम्विकल्पार्थ इह पाठ इत्यर्थ- । भ्वादावेव पाठे तुशप्श्यनोर्नित्य॑मिति नित्यो नुम् स्यादिति भावः ।तर्हि भ्वाद्यन्तर्गणे ज्वलादावस्य पाठो व्यर्थ इत्यत आह - ज्वलादाविति । ‘ज्वलितिकसन्तेभ्यः’ इति कर्तरि णप्रत्ययार्थ इति भावः । तदुदाहृत्य दर्शयति - साद इति । उभयत्र पाठस्य फलान्तरमाह - स्वरार्थश्चेति । तदेव विशदयति - शबनुदात्तैति ।अनुदात्तौ सुप्पितौ॑ इति पित्स्वरेणेति भावः । शस्तूदात्त इति । ‘प्रत्ययः’आद्युदात्तश्चे॑त्यनेनेति भावः । ननु ‘शद्लृ शातने’ इत्स्य भ्वादौ पाटादेव सिद्धे इह पाठो व्यर्थ इत्यत आह - स्वार्थ एवेति । प्रागुक्तपित्त्वाऽपित्त्वकृतस्वरभेदार्थ एवेत्यर्थः । मुच्लृ मोक्षणे ।

Tattvabodhini

अचि विभाषा - दृङ् आदरे ।तथाद्रियन्ते न बुधाः सुधामपी॑ति श्रीहर्षः । प्रच्छ ज्ञीप्सायाम् । ज्ञातुमिच्छा ज्ञीप्सा । अत्र ज्ञपिज्र्ञाने ।आप्ज्ञप्यृधामीत् ।अत्र लोपः॑ इत्यभ्यासलोपः । ण्वुलि प्रच्छकः । पृच्छाशब्दात्तत्करोती॑ति णिजन्ताण्ण्वुलि तु — पृच्छकः । पृच्छाशब्दस्तु भिदादेराकृतिगणत्वादङि संप्रसारणे बोध्यः । किरादयो वृत्ताः इति.एतेचभूषाकर्मकिरादिसना॑मिति वक्ष्यमाणयकिणादिनिषेधवार्तिके उपयोक्ष्यन्ते ।किरश्च पञ्चभ्य॑इत्येतदुत्तरसूत्रेऽनुवृत्त्यर्थमिति बोध्यम् । ससर्जिथेति ।विभाषा सृजिदृशो॑रिति थलि वेट् । * मस्जेरन्त्यात्पूर्वो नुम्वाच्यः । विच्छ गतौ । तुदादिपाठसामर्थ्यादायप्रत्ययान्तादपि शो,न तु शप् । तेन विच्छायती विच्छायन्तीति नुम्विकल्पः । केचित्तु तुदादिपाठसामर्थ्यादायप्रत्ययस्य पाक्षिकत्वं स्वीकृत्य विच्छती विच्छन्तीति नुम्विकल्पं, विच्छति विच्छतः विच्छन्तीत्यादिरूपाणि चोदाजह्युः, तेषां तु मते तुदादिपाठस्य केवले चरितार्थत्वादायप्रत्ययान्ताच्छबेव । तेन विच्छायन्ती [इ]ति नित्यमेवशप्श्यनो॑रिति नुम् । पठितस्येति । अस्मिन्नेव गणे परस्मैपदिषु पठितस्येत्यर्थः । तङर्थ इति । पूर्वपाठस्तु संश्लेषणे कत्र्रभिप्रायेऽपि परस्मैपदार्थः ।

Padamanjari

धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात्प्रत्ययः सन्निधापितः, तस्याचा विशेषणातदादिविधिर्विज्ञायते, यदाह - अजादौ प्रत्यये इति । निगिरतीति । तुदादित्वाच्छः, तस्य ङित्वादिसति गुणे इत्वम् । णिलोपस्य स्थानिवद्भावादिति । पदस्य लत्वविधानादन्तरङ्गत्वाभावात्’पूर्वत्रासिद्धम्’ इति च लत्वस्यासिद्धत्वापूर्वं णिलोप एव भवतीति भावः । प्रत्ययलक्षणमप्यत्र शक्यं वक्तुम् । न च वर्णाश्रयत्वम्; ठजादौ प्रत्ययेऽ इत्युक्तत्वात् । कथं पुनः स्थानिवद्भावः, यावता’पूर्वत्रासिद्धे न स्थानिवत्’ इति पठ।ल्ते ? अत आह - पूर्वत्रासिद्ध इति । कः पुनरस्यापवादः ? इत्यत आह - तस्य दोष इति । अन्तरङ्गत्वाद्वेति ।’पदस्य’ इत्यधिकारात् कालतोऽन्तरङ्गत्वाभावेऽप्यन्तर्भूताजाद्यपेक्षत्वाल्लत्वमन्तरङ्गम्, बहिर्भूतयगपेक्षत्वातु णिलोपो बहिरङ्ग इति भावः । गिरौ, गिर इति । विस्पष्टार्थम् ॥

Nyaas

गिरति इति। निगरणार्थस्य रूपम्। निगरणम् इति। ल्युट्। निगारकः इति। ण्वुल्। निगार्यते` इति। अत्र हि णिलोपे कृते विकल्पो न सिध्यत्यचः परस्याभावात्? इत्येतच्चोद्यमपाकर्त्तुमाह -निगार्यते निगाल्यते` इति। स्थानिवद्भावस्तु पूर्ववत्। स्यादेतत्। नास्त्येवात्र स्थानिवद्भावः; पूर्वत्रासिद्धे न स्थानिवत् (जै।प।वृ।48) इति प्रतिषेधात्? इत्यत आह -पूर्वत्रासिद्धे इत्यादि। अपवादः=दोषः, सह तेन वर्तत इति सापवादम्। दोष एवायमस्याः परिभाषाया इत्यर्थः। अपिशब्दः समुच्चये। न केवलं तच्चोद्यं सापवादम्, अपि तु पूर्वत्रासिद्धं न स्थानिवत् (जै।प।वृ 48) इत्येतदपि वचनं सापवादमेव। तदेव सापवादत्वमाप्तवचनेन प्रतिपादयितुमाह -तस्य इत्यादि। तत्र संयोगादिलोपविधावयं दोषः -काक्यर्थः, वास्यर्थ इति; अत्रासति यणादेशस्य स्थानिवदभावे स्कोः संयोगाद्योः (8.2.29) इति ककारसकारयोर्लोपः प्रसज्येत। लत्वविधौ -निगार्यते, निगाल्यत इति; णिलोपस्य सति स्थानिवद्भावे विकल्पेन लत्वं न स्यात्। णत्वविधौ -प्रहिणोति प्रमीणीन इति; अत्र गुणेत्त्वयोरसति स्थानिवद्भावे हिनुमीना (8.4.15) इति णत्वं न प्राप्नोति। अन्तरङ्गत्वाद्वा इत्यादि। परिहारन्तरम्। अन्तरङ्गत्वं तु लत्वविकल्पस्य वर्णाश्रयत्वात्। णिलोपस्य तु बहिरङ्गत्वम्; आर्धधातुकाश्रयत्वात्। अथ गिरौ, गिरः -इत्यत्र लत्वं कस्मान्न भवति? इत्याह -गिरौ, गिरः इत्यादि। इतिकरणो हेतौ। धातोः स्वरुपेण ग्रहणे सति तत्प्रत्यये धातोरित्येव यः प्रत्ययो विहितस्तत्र तत्कार्यं विज्ञायते। तस्मादगिरो, गिर इत्यत्र न भवति। न ह्यत्र श्रातो (3.1.91) रित्येव गिरतेः क्विबन्तादौजसौ विहितौ, किं तर्हि? प्रातिपदिकाधिकारात्? (4.1.1) ॥

Prakriyasarvasvam

गृ धातोः अजादौ प्रत्यये परे रस्य लत्वं वा स्यात् । निगालकः निगारकः । ‘कृत्यल्युटो बहुलम्’ (३-३-११३) इति बहुलत्वस्य सर्वकृद्व्यापित्वात् क्वचित् कर्मणि ण्वुल् । पादादपह्रियमाणः पादहारकः । गले चोप्यमानो गळेचोपकः । अत्र समासे सुब्लुक्प्राप्तौ ।