82021: अचि विभाषा ================= **Padacheda:** अचि | S | 7 | 1 | विभाषा | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- र् is optionally changed to ल् before an affix beginning with a vowel. Vasu English Translation ------------------------ र् is optionally changed to ल् before an affix beginning with a vowel. As निगिरति or निगिलति, निगरणम् or निगलनम्, निगारकः or निगालकः ॥ This is a *vyavasthita*-*vibhasha*, the optional forms have particular meanings. Thus गलः meaning 'neck' is always with ल; while गरः 'poison' is always with र. In निगार्यते or निगाल्यते, the elision of णि is considered *sthanivad*, and hence this option, though the actual affix begins with य ॥ Objection:- The *sthanivad*-*bhava* rule is invalid here by (8.2.1). Auswer: The rule पूर्वत्रासिद्धं does not hold good with regard to the rules of संयोगादिलोप, लत्व and णत्व on the maxim "तस्य दोषः संयोगादिलोपलत्वणत्वेषु" ॥ Or the र् will be first changed to ल्, as being *antaranga*, and then the णि will be elided. The forms गिरौ, गिरः are either from the *Kryadi* root *gri*, or *l*-change has not taken place on the maxim धातोः स्वरूपग्रहणे तत्प्रत्यये विज्ञानम् and as the affixes औ and अः are not affixes which are ordained after a verb, but are affixes added to nouns, hence the ल change has not taken place. In fact the words 'an affix beginning with a vowel' in the *sutra*, means "a verbal affix beginning with a vowel," and not a noun affix. These are the Dual and Plural of the Nominative case of गॄ formed with the affix क्विप् ॥ Bhashya ------- अचि विभाषा ॥ णावुपसङ्ख्यानम्(1)॥ णावुपसङ्ख्यानं कर्तव्यम्॥ इहापि यथा स्यात्-निगार्यते निगाल्यते॥ किं पुनः कारणं न सिध्यति?॥ अचीत्युच्यते न चात्राऽजादिं पश्यामः॥ प्रत्ययलक्षणेन॥ वर्णाश्रये नास्ति प्रत्ययलक्षणम्॥ एवं तर्हि स्थानिवद्भावाद्भविष्यति॥ प्रतिषिध्यतेऽत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवदिति॥ अत उत्तरं पठति॥ गिरतेर्लत्वे णावुक्तम्(1)॥ झ्र्गिरतेर्लत्वे णावुक्तम्(2)ट॥ किमुक्तम्?॥ तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति॥ झ्र्अचि विभाषाट। Kashika ------- अजादौ प्रत्यये परतो रेफस्य विभाषा लकारादेशो भवति। निगिरति, निगिलति। निगरणम्, निगलनम्। निगारकः, निगालकः। इयं तु व्यवस्थितविभाषा। तेन गल इति प्राण्यङ्गे नित्यं लत्वं भवति, गर इति विषे नित्यं न भवति। निगार्यते, निगाल्यत इति णिलोपस्य स्थानिवद्भावादचि विभाषेति लत्वविकल्पः। **पूर्वत्रासिद्धे न स्थानिवत्** (महाभाष्य १.१५४) इत्येतदपि सापवादमेव, तस्य दोषः संयोगादिलोपलत्वणत्वेषु (महाभाष्य १.१५५) इति। अन्तरङ्गत्वाद् वा कृते लत्वविकल्पे णिलोपो भविष्यति। गिरौ, गिर इत्यत्र **धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम्** (पु०वृ० ५५) इति लत्वं न भवति। गिरतिर्वा लत्वविधावधिकृतो गृणातेरेतद् रूपम॥ Siddhanta Kaumudi ----------------- गिरते रेफस्य लत्वं वा स्यादजादौ । गिरति । गिलति । जगार । जगाल । जगरिथ । जगलिथ । गरिता । गरीता । गलिता । गलीता ।{$ {!1411 दृङ्!} आदरे$} । आद्रियते । आद्रियेते । आदद्रे । आदद्रिषे । आदर्ता । आदरिष्यते । आदृषीष्ट । आदृत । आदृषाताम् ।{$ {!1412 धृङ्!} अवस्थाने$} । ध्रियते ॥ अथ परस्मैपदिनः षोडश ॥{$ {!1413 प्रच्छ!} ज्ञीप्सायाम्$} । पृच्छति । पप्रच्छ । पप्रच्छतुः । पप्रच्छिथ । पप्रष्ठ । प्रष्टा । प्रक्ष्यति । अप्राक्षीत् । वृत् । किरादयो वृत्ताः ।{$ {!1414 सृज!} विसर्गे$} । विभाषा सृजिदृशोः (SK2404) ससर्जिथ । सस्रष्ठ । स्रष्टा । स्रक्ष्यति । सृजिदृशोर्झल्यमकिति (SK2405) इत्यमागमः । सृजेत् । सृज्यात् । अस्राक्षीत् ।{$ {!1415 टुमस्जो!} शुद्धौ$} । मज्जति । ममज्ज । मस्जिनशोर्झलि (SK2517) इति नुम् । (वार्तिकम्) ॥ संयोगादिलोपः । ममङ्क्थ । ममज्जिथ । मङ्क्ता । मङ्क्ष्यति । अमाङ्क्षीत् । अमाङ्क्ताम् । अमाङ्क्षुः ।{$ {!1416 रुजो!} भङ्गे$} । रोक्ता । रोक्ष्यति । अरौक्षीत् । अरौक्ताम् ।{$ {!1417 भुजो!} कौटिल्ये$} । रुजिवत् ।{$ {!1418 छुप!} स्पर्शे$} । छोप्तां । अच्छौप्सीत् ।{$ {!1419 रुश!} {!1420 रिश!} हिंसायाम्$} । तालव्यन्तौ । रोष्टा । रोक्ष्यति । रेष्टा । रेक्ष्यति ।{$ {!1421 लिश!} गतौ$} । अलिक्षत् ।{$ {!1422 स्पृश!} संस्पर्शने$} । स्प्रष्टा । स्पर्ष्टा । स्प्रक्ष्यति । स्पर्क्ष्यति । अस्प्राक्षीत् । अस्पार्क्षीत् । अस्पृक्षत् ।{$ {!1423 विच्छ!} गतौ$} । गुपूधूप - (SK2303) इत्यायः । आर्धधातुके वा । विच्छायति । विच्छायांचकार । विविच्छ ।{$ {!1424 विश!} प्रवेशने$} । विशति । वेष्टा ।{$ {!1425 मृश!} आमर्शने$} । आमर्शनं स्पर्शः । अम्राक्षीत् । अमार्क्षीत् । अमृक्षत् ।{$ {!1426 णुद!} प्रेरणे$} । कर्त्रभिप्रायेऽपि फले परस्मैपदार्थः पुनः पाठः ।{$ {!1427 षद्लृ!} विशरणगत्यवपसादनेषु$} । सीदतीत्यादि भौवादिकवत् । इह पाठोनुम्विकल्पार्थः । सीदति । सीदन्ती । ज्वालादौ पाठस्तु णार्थः । सादः । स्वरार्थश्च । शबनुदात्तः । शस्तूदात्तः ।{$ {!1428 शदॢ!} शातने$} । स्वरार्थ एव पुनः पाठः । शता तु नास्ति । शदेः शितः - (SK2362) इत्यात्मनेपदोक्तेः ॥ अथ षट् स्वरितेतः ॥{$ {!1429 मिल!} सङ्गमे$} । मिल संश्लेषणे इति पठितस्य पुनः पाठः कर्त्रभिप्राये तङर्थः । मिलति । मिलते । मिमेल । मिमिले ।{$ {!1430 मुच्लृ!} मोक्षणे$} ॥ Laghu Siddhanta Kaumudi ----------------------- गिरते रेफस्य लो वाजादौ प्रत्यये। गिरति, गिलति। जगार, जगाल। जगरिथ, जगलिथ। गरीता, गरिता, गलीता, गलिता॥ {$ {! 41 प्रच्छ !} ज्ञीप्सायाम् $} (धातुपाठे (06.0149)) ॥ ग्रहिज्येति सम्प्रसारणम्। पृच्छति। पप्रच्छ। पप्रच्छतुः। प्रष्टा। प्रक्ष्यति। अप्राक्षीत्॥ {$ {! 42 मृङ् !} प्राणत्यागे $} (धातुपाठे (06.0139)) ॥ Balamanorama ------------ **अचि विभाषा** - अचि विभाषा ।ग्रो यङी॑त्यतो ग्र इत्यनुवर्तते । 'कृपो रो लः' इत्यतो रो ल इति । तदाह — गिरतेरिति । अजादाविति ।धातोः कार्यमुच्यमानं तत्प्रत्यये भवतीति परिभाषालब्धस्य प्रत्ययस्य अचा विशेषणात्तदादिविधिः । तेन गिरावित्यादौ नेतिमृजेर्वृद्धि॑रिति सूत्रभाष्ये स्पष्टम् । दृङ् आदरे इति । ह्रस्वान्तोऽयम् ।उश्चे॑ति कित्त्वान्न गुणः । आदृतेति ।ह्रस्वादङ्गा॑दिति सलोपः । प्रच्छ ज्ञीप्सायामिति । ज्ञातुमिच्छा - ज्ञीप्सा । अनिडयम् । पृच्छतीति । शस्य ङित्त्वात्ग्रहिज्ये॑ति रेफस्य संप्रसारणमृकारः, पूर्वरूपं चेति भावः । पप्रच्छतुरिति । संयोगात्परत्वेन कित्त्वाऽभावान्न संप्रसारणमिति भावः । भारद्वाजनियमात्थलि वेडिति म्तवाह — पप्रच्छिथ पप्रष्ठेति । इडभावपक्षे व्रश्चादिना छस्य षः, थस्य ष्टुत्वेन ठ इति भावः । पप्रच्छिव । प्रष्टेति । छस्य व्रश्चेति । सूत्रे सतुक्कस्य छस्य ग्रहणात् । किरादयो वृत्ता इति । नचैवं सति 'किरश्च पञ्चभ्यः' इत्यत्र पञ्चग्रहणं व्यर्थं, किरादीनां पञ्चत्वादिति वाच्यं, स्यरुदादिभ्यः सार्वधातुके॑ इत्युत्तरार्थत्वात् । सृज विसर्गे । अनिट् । सृजति.ससर्ज । ससृजतुः । अजन्ताऽकारवत्त्वाऽभावेऽपिविभाषा सृजिदृशो॑रिति थलि वेडिति मत्वाह — ससर्जिथ सरुआष्ठेति । इडभावेव्रश्चे॑तिजस्यषः, थस्य ष्टुत्वेन ठः, पित्त्वेनाऽकित्त्वात्सृजिदृशो॑रित्यमागम इति भावः । ससृजिव । टु मस्जो । मज्जतीति । सस्य श्चुत्वेन शः, तस्य जश्त्वेन ज इति भावः । ममङ्क्थेति । मस्जेर्द्वित्वे हलादिशेषे ममस्ज् थेति स्तितेस्को॑रिति सकारलोपे ममज् थ इतिस्थिते जस्य कुत्वेन गकारे,मस्जिनशो॑रिति नुमि, तस्यानुस्वारे, तस्य परसवर्णो ङकारः, गस्य चर्त्वेन क इति बोध्यम् । यद्यपि अकारात्परत्र नुमि सत्यपि इदं सिध्यति, तथापिअन्त्यात्पूर्वो नु॑मित्यस्य॑ 'मग्न' इत्यादौ नलोपः फलम् । अन्यथा उपधात्वाऽभावान्नस्य लोपो न स्यादिति भावः । एवं - मङ्क्तेति । मङक्ष्यतीत्यत्र तु सस्य षत्वं विशेषः । 'रुजो भङ्गे' इत्यारभ्य 'विच्छ गतौ' इत्यतः प्रागनिटः ।अनुदात्तस्य चर्दुपधस्ये॑त्यम्विकल्पं मत्वाह - स्प्रष्टा स्पर्ष्टेति । णुद प्रेरणे । णोपदेशोऽयम् । 'विश प्रवेशने' इत्यारभ्य 'सद्लृ शातने' इत्यन्ता अनिटः । तत्र अदुपधस्य थलि वेट् । अन्यस्य तु नित्यमेवेट् । मृशेः 'अनुदात्तस्य चे' त्यम्विकल्पः । तदाह - अम्राक्षीत् - अमर्क्षीदिति ।स्पृशमृशे॑ति सिज्वेति भावः । सिजभावेशल इगुपधा॑दिति क्सं मत्वाह — अमृक्षदिति । णुदधातुर्णोपदेशः । ननु तनादिगण एवाऽस्मिन्स्वरितेत्सु पठितस्य किमर्थमिह पाठ इत्यत आह - कत्र्रभिप्रायेऽपीति । षद्लृधातोर्भ्वादौ पठितादेव सीदतीत्यादिसिद्धेरिह पाठो व्यर्थ इत्यत आह - इह पाठ इति । सीदन्तीति । शविकरणाच्छत्रन्तान्ङीपिआच्छीनद्यो॑रिति नुम्विकल्पार्थ इह पाठ इत्यर्थ- । भ्वादावेव पाठे तुशप्श्यनोर्नित्य॑मिति नित्यो नुम् स्यादिति भावः ।तर्हि भ्वाद्यन्तर्गणे ज्वलादावस्य पाठो व्यर्थ इत्यत आह - ज्वलादाविति । 'ज्वलितिकसन्तेभ्यः' इति कर्तरि णप्रत्ययार्थ इति भावः । तदुदाहृत्य दर्शयति - साद इति । उभयत्र पाठस्य फलान्तरमाह - स्वरार्थश्चेति । तदेव विशदयति - शबनुदात्तैति ।अनुदात्तौ सुप्पितौ॑ इति पित्स्वरेणेति भावः । शस्तूदात्त इति । 'प्रत्ययः'आद्युदात्तश्चे॑त्यनेनेति भावः । ननु 'शद्लृ शातने' इत्स्य भ्वादौ पाटादेव सिद्धे इह पाठो व्यर्थ इत्यत आह - स्वार्थ एवेति । प्रागुक्तपित्त्वाऽपित्त्वकृतस्वरभेदार्थ एवेत्यर्थः । मुच्लृ मोक्षणे । Tattvabodhini ------------- **अचि विभाषा** - दृङ् आदरे ।तथाद्रियन्ते न बुधाः सुधामपी॑ति श्रीहर्षः । प्रच्छ ज्ञीप्सायाम् । ज्ञातुमिच्छा ज्ञीप्सा । अत्र ज्ञपिज्र्ञाने ।आप्ज्ञप्यृधामीत् ।अत्र लोपः॑ इत्यभ्यासलोपः । ण्वुलि प्रच्छकः । पृच्छाशब्दात्तत्करोती॑ति णिजन्ताण्ण्वुलि तु — पृच्छकः । पृच्छाशब्दस्तु भिदादेराकृतिगणत्वादङि संप्रसारणे बोध्यः । किरादयो वृत्ताः इति.एतेचभूषाकर्मकिरादिसना॑मिति वक्ष्यमाणयकिणादिनिषेधवार्तिके उपयोक्ष्यन्ते ।किरश्च पञ्चभ्य॑इत्येतदुत्तरसूत्रेऽनुवृत्त्यर्थमिति बोध्यम् । ससर्जिथेति ।विभाषा सृजिदृशो॑रिति थलि वेट् । * मस्जेरन्त्यात्पूर्वो नुम्वाच्यः । विच्छ गतौ । तुदादिपाठसामर्थ्यादायप्रत्ययान्तादपि शो,न तु शप् । तेन विच्छायती विच्छायन्तीति नुम्विकल्पः । केचित्तु तुदादिपाठसामर्थ्यादायप्रत्ययस्य पाक्षिकत्वं स्वीकृत्य विच्छती विच्छन्तीति नुम्विकल्पं, विच्छति विच्छतः विच्छन्तीत्यादिरूपाणि चोदाजह्युः, तेषां तु मते तुदादिपाठस्य केवले चरितार्थत्वादायप्रत्ययान्ताच्छबेव । तेन विच्छायन्ती [इ]ति नित्यमेवशप्श्यनो॑रिति नुम् । पठितस्येति । अस्मिन्नेव गणे परस्मैपदिषु पठितस्येत्यर्थः । तङर्थ इति । पूर्वपाठस्तु संश्लेषणे कत्र्रभिप्रायेऽपि परस्मैपदार्थः । Padamanjari ----------- धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात्प्रत्ययः सन्निधापितः, तस्याचा विशेषणातदादिविधिर्विज्ञायते, यदाह - अजादौ प्रत्यये इति । निगिरतीति । तुदादित्वाच्छः, तस्य ङित्वादिसति गुणे इत्वम् । णिलोपस्य स्थानिवद्भावादिति । पदस्य लत्वविधानादन्तरङ्गत्वाभावात्'पूर्वत्रासिद्धम्' इति च लत्वस्यासिद्धत्वापूर्वं णिलोप एव भवतीति भावः । प्रत्ययलक्षणमप्यत्र शक्यं वक्तुम् । न च वर्णाश्रयत्वम्; ठजादौ प्रत्ययेऽ इत्युक्तत्वात् । कथं पुनः स्थानिवद्भावः, यावता'पूर्वत्रासिद्धे न स्थानिवत्' इति पठ।ल्ते ? अत आह - पूर्वत्रासिद्ध इति । कः पुनरस्यापवादः ? इत्यत आह - तस्य दोष इति । अन्तरङ्गत्वाद्वेति ।'पदस्य' इत्यधिकारात् कालतोऽन्तरङ्गत्वाभावेऽप्यन्तर्भूताजाद्यपेक्षत्वाल्लत्वमन्तरङ्गम्, बहिर्भूतयगपेक्षत्वातु णिलोपो बहिरङ्ग इति भावः । गिरौ, गिर इति । विस्पष्टार्थम् ॥ Nyaas ----- `गिरति` इति। निगरणार्थस्य रूपम्। `निगरणम्` इति। ल्युट्। `निगारकः` इति। ण्वुल्। निगार्यते` इति। अत्र हि णिलोपे कृते विकल्पो न सिध्यत्यचः परस्याभावात्? इत्येतच्चोद्यमपाकर्त्तुमाह -`निगार्यते` निगाल्यते` इति। स्थानिवद्भावस्तु पूर्ववत्। स्यादेतत्। नास्त्येवात्र स्थानिवद्भावः; `पूर्वत्रासिद्धे न स्थानिवत्` (जै।प।वृ।48) इति प्रतिषेधात्? इत्यत आह -`पूर्वत्रासिद्धे` इत्यादि। अपवादः=दोषः, सह तेन वर्तत इति सापवादम्। दोष एवायमस्याः परिभाषाया इत्यर्थः। अपिशब्दः समुच्चये। न केवलं तच्चोद्यं सापवादम्, अपि तु `पूर्वत्रासिद्धं न स्थानिवत्` (जै।प।वृ 48) इत्येतदपि वचनं सापवादमेव। तदेव सापवादत्वमाप्तवचनेन प्रतिपादयितुमाह -`तस्य` इत्यादि। तत्र संयोगादिलोपविधावयं दोषः -काक्यर्थः, वास्यर्थ इति; अत्रासति यणादेशस्य स्थानिवदभावे `स्कोः संयोगाद्योः` (8.2.29) इति ककारसकारयोर्लोपः प्रसज्येत। लत्वविधौ -निगार्यते, निगाल्यत इति; णिलोपस्य सति स्थानिवद्भावे विकल्पेन लत्वं न स्यात्। णत्वविधौ -प्रहिणोति प्रमीणीन इति; अत्र गुणेत्त्वयोरसति स्थानिवद्भावे **हिनुमीना** (8.4.15) इति णत्वं न प्राप्नोति। `अन्तरङ्गत्वाद्वा` इत्यादि। परिहारन्तरम्। अन्तरङ्गत्वं तु लत्वविकल्पस्य वर्णाश्रयत्वात्। णिलोपस्य तु बहिरङ्गत्वम्; आर्धधातुकाश्रयत्वात्। अथ गिरौ, गिरः -इत्यत्र लत्वं कस्मान्न भवति? इत्याह -`गिरौ, गिरः` इत्यादि। इतिकरणो हेतौ। धातोः स्वरुपेण ग्रहणे सति तत्प्रत्यये धातोरित्येव यः प्रत्ययो विहितस्तत्र तत्कार्यं विज्ञायते। तस्मादगिरो, गिर इत्यत्र न भवति। न ह्यत्र श्रातो (3.1.91) रित्येव गिरतेः क्विबन्तादौजसौ विहितौ, किं तर्हि? प्रातिपदिकाधिकारात्? (4.1.1) ॥ Prakriyasarvasvam ----------------- गृ धातोः अजादौ प्रत्यये परे रस्य लत्वं वा स्यात् । निगालकः निगारकः । 'कृत्यल्युटो बहुलम्' (३-३-११३) इति बहुलत्वस्य सर्वकृद्व्यापित्वात् क्वचित् कर्मणि ण्वुल् । पादादपह्रियमाणः पादहारकः । गले चोप्यमानो गळेचोपकः । अत्र समासे सुब्लुक्प्राप्तौ ।