81053: विभाषितं सोपसर्गमनुत्तमम्

Padacheda: विभाषितम् | S | 1 | 1 |

सोपसर्गम् | S | 1 | 1 |

अनुत्तमम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

An Imperative preceded by a preposition and not in the 1st person, following an Imperative of verbs of ‘motion’, may optionally retain its accent when the कारक is not wholly different.

Vasu English Translation

An Imperative preceded by a preposition and not in the 1st person, following an Imperative of verbs of ‘motion’, may optionally retain its accent when the कारक is not wholly different. The whole of the preceding sutra is understood here. This is a Prapta-vibhasha. Thus आगच्छ देवदत्त ग्रामं प्रविश꣡ or प्र꣡वि॒श॒ ॥ आगच्छ देवदत्त ग्रामं प्रशाधि꣡ or प्र꣡शा॒धि॒ ॥ When the verb is accented, the upasarga loses its accent by (8.1.71).

Why do we say सोपसर्गं ‘joined with a Preposition’? When there is no Preposition, there is no option allowed, and the last rule will apply. As आगच्छ देवदत्त ग्रामं पश्य ॥

Why do we say अन्-उत्तमं ‘not a First Person’? Observe आ गच्छानि देवदत्त, ग्रामं प्रवि॒शा꣡नि॒ ॥

Kashika

पूर्वं सर्वमनुवर्तते। प्राप्तविभाषेयम्। लोडन्तं सोपसर्गमुत्तमवर्जितं गत्यर्थलोटा युक्तं तिङन्तं विभाषितं नानुदात्तं भवति, न चेत् कारकं सर्वान्यद् भवति। आगच्छ देवदत्त ग्रामं प्र॒वि॒श, प्रवि॑श। आगच्छ देवदत्त ग्रामं प्र॒शा॒धि,प्रशा॑धि। सोपसर्गमिति किम्? आगच्छ देवदत्त ग्रामं पश्य॑। अनुत्तममिति किम्? अगच्छानि देवदत्त ग्रामं प्रवि॒शानि॑॥

Siddhanta Kaumudi

लोडन्तं गत्यर्थलोटा युक्तं तिङन्तं वानुदात्तम् । आगच्छ देव ग्रामं प्रविश । सोपसर्गं किम् । आगच्छ देव ग्रामं पश्य । अनुत्तमं किम् । आगच्छानि देव ग्रामं प्रविशानि ॥

Nyaas

पूर्वेण नित्ये प्रतिषेधे प्राप्ते विकल्पार्थं वचनम्? विभाषितशब्दश्चायं विभावाशब्देन समानार्थः। नपुंसके भावे क्तः (3.3.114) । प्रविशानि इति। मिपः मेनिः (3.4.89) , आडुत्तमस्य पिच्च (3.4.92) इत्याद्॥

Prakriyasarvasvam

उक्तलोडन्तं सोपसर्ग तूत्तमवर्जितं वा न निहन्यते । आगच्छ हरे व्रजं प्रविश । उत्तमे तु—आगच्छानि हरे व्रजं प्रविशानि ।