81052: लोट् च¶
Padacheda: लोट् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
Also an लोट् (Imperative Mood), following after an Imperative of verbs of ‘motion’ retains its accent when the subject or object of both the verbs is not wholly different.
Vasu English Translation¶
Also an लोट् (Imperative Mood), following after an Imperative of verbs of ‘motion’ retains its accent when the subject or object of both the verbs is not wholly different. Thus आगच्छ देवदत्त ग्रामं प꣡श्य ॥ आव्रज विष्णुमित्र ग्रामं शाधि ॥ आगम्यतां देवदत्तेन ग्रामो दृश्य꣡तां यज्ञदत्तेन ॥
But not here पच देवदत्तौदनं, भुङ्क्ष्वेनम् because the first Imperative is not one of गत्यर्थ verb. Nor here, आगच्छेर्देवदत्त ग्रामं पश्येनम् because the first verb is not Imperative but Potential.
If the subject and object of both Imperatives are wholly different, the rule will not apply. Thus आगच्छ देवदत्त ग्रामं, पश्यतु रामं यज्ञदत्तः ॥
By the force of the anvritti of सर्व the rule will apply to the following: आगच्छ देवदत्त ग्रामं, त्वं चाहं च पश्यावः ॥
The separation of this sutra from the last is for the sake of the subsequent sutra, by which the ‘option’ is with regard to लोट् and not लट् ॥
Kashika¶
लोडन्तं तिङन्तं गत्यर्थलोटा गत्यर्थलोटा युक्तं नानुदात्तं भवति, न चेत् कारकं सर्वान्यद् भवति। लोडन्तयोरेकं कारकं यदि भवतीत्यर्थः। आगच्छ देवदत्त, ग्रामं पश्य॑। आगच्छ विष्णुमित्र, ग्रामं शा॒धि। आगम्यतां देवदत्तेन ग्रामो दृ॒श्यतां॑ यज्ञदत्तेन। गत्यर्थानामित्येव — पच देवदत्तौदनं।भु॒ङ्क्ष्व॒ एनम्। लोटेत्येव — आगच्छेर्देवदत्त ग्रामं प॒श्य॒ एनम्। न चेत् कारकं सर्वान्यदित्येव — आगच्छ देवदत्त ग्रामं प॒श्य॒तु॒ एनं यज्ञदत्तः। सर्वग्रहणानुवृत्तेस्त्विह भवत्येव — आगच्छ देवदत्त ग्रामं त्वं चाहं च प॒श्याव॑। पृथग्योगकरणमुत्तरार्थम्॥
Siddhanta Kaumudi¶
लोडन्तं गत्यर्थलोटा युक्तं नानुदात्तम् । आगच्छ देव ग्रामं पश्य । गत्यर्थेति किम् । पच देवौदनं भुङ्क्ष्वैनम् । लोट् किम् । आगच्छ देव ग्रामं पश्यसि । न चेत्कारकं सर्वान्यदित्येव । आगच्छ देव ग्रामं त्वं चाहं च पश्यावः । योगविभाग उत्तरार्थः ॥
Padamanjari¶
शाधीति । शार्सेर्लोट्, सिप्, सिपो हिः,’शा हौ’ इति शादेशः, तस्यासिद्धत्वात् झल्लक्षणं धित्वम् । प्रशाधीति प्रायेण पाठः, स न युक्तः; सोपसर्गत्वेनोतरसूत्रविषयत्वात् । पृथग्योगकरणमुतरार्थमिति । उतरो विकल्पो लोट एव यथा स्यात्, लृटो मा भूदिति ॥
Nyaas¶
चकारः पूर्वापेक्षया समुच्चयार्थः। पश्य इति। अन्तोदात्तम् -एकादेश उदात्तेनोदात्तः (8.2.5) अतो गुणे (6.1.97) इति गुणग्रहणे पररूपस्येवोदात्तत्वात्। शाधि इति। शासु अनुशिष्टौ (धातुपाठः-1075), सेह्र्रपिच्च (3.4.87) इति सिपो हिरादेशः, अदादित्वाच्छपो लुक्; शा हौ (6.4.35) इति धातोः शादेशः, हुझल्भ्यो हेर्धिः (6.4.101) इति हेर्धिभाव-। प्रत्ययस्वरेणान्तोदात्तमेतत्। एवं दृश्यतामित्येदपि; विकरणस्वरात्? सार्वधातुकस्वरो बलीयान् इति वचनात्। अथ पृथग्योगकरणं किमर्थम्, न पूर्वसूत्र एव लोङ्ग्रहणमपि क्रियेत? इत्यत आह -पृथक् इत्यादि। उत्तरत्र लोट एव कार्यं यथा स्यात्, लृटो मा भूदित्येवमर्थं पृथग्योगकरणम्॥
Prakriyasarvasvam¶
कारकानन्यत्वे गत्यर्थलोटा युतो लोट् न निहन्यते । आगच्छ कृष्ण त्वं वनं पश्यैतत् । आगम्यतां रामेण वनं दृश्यतामिदम् ।