81045: लोपे विभाषा

Padacheda: लोपे | S | 7 | 1 |

विभाषा | S | 1 | 1 |

Sutrartha


Vasu English Summary

When however किम् is not added in asking such a question, the finite verb may optionally retain its accent.

Vasu English Translation

When however किम् is not added in asking such a question, the finite verb may optionally retain its accent. When किम् is elided in asking a question relating to an action, the finite verb which is not preceded by a Preposition or a Negative Particle, optionally does not become anudatta. When is there the elision of this किम् because no rule of Panini has taught it? When the sense is that of an interrogation, but the word किम् is not used. In short, the word ‘lopa’ here does not mean the Grammatical substitute, but merely non-use. As देवदत्तः प꣡चति (or प॒च॒ति॒) आहोस्वित् प꣡ठति (or प॒ठ॒ति॒) Here the sentence is interrogative, even without the employment of किम् ॥ The option of this sutra is a Prapta-vibhasha, as it is connected with the sense of किम् ॥ The counter-examples are the same as in the last aphorism, but without किम् ॥

Kashika

किमो लोपे क्रियाप्रश्ने तिङन्तमनुपसर्गमप्रतिषिद्धं विभाषा नानुदात्तं भवति। क्व चास्य लोपः? यत्र गम्यते चार्थः, न च प्रयुज्यते किंशब्दः। देवदत्तः पच॑ति, आहोस्वित् पठ॑ति। विनैव किमा प्रश्नोऽवगम्यते। प्राप्तविभाषेयं किमर्थेन योगात्। पूर्ववत् प्रत्युदाहरणानि॥

Siddhanta Kaumudi

किमोऽप्रयोगे उक्तं वा । देवदत्तः पचत्याहोस्वित्पठति ॥

Padamanjari

प्रकृतत्वात्किम एव लोपो विज्ञायत इत्याह - किमो लोप इति । क्व चास्येति । शास्त्रे क्वचिदपि किमो लोपस्याविहितत्वात् प्रश्नः । न शास्त्रीयस्यैवादर्शनस्य लोपसंज्ञा, किं तर्हि ? अदर्शनमात्रस्येत्युतरम् । यत्रेति । न च प्रयुज्यत इति । अर्थप्रकरणादिना गम्यमानत्वात् । उदाहरणे आहोस्विच्छब्दः पक्षान्तरप्रश्ने, स च नान्तरेण पूर्वप्रश्नमित्यर्थात् पूर्वत्र किमर्थो गम्यते, तदाह - विनैव किमेति । प्राप्तविभाषेयमिति । कथं पुनः प्राप्तिः, यावता किंशब्देन योगेन पूर्वो योगः ? तत्राह - किमर्थेनेति । पूर्ववत्प्रत्युदाहरणानीति । तान्येव किंशब्दरहितानीत्यर्थः ॥

Nyaas

किंशब्दस्य प्रकृतत्वात्? तस्यैव लोपो विज्ञायते, इत्याह -किमो लोपे इति। किंशब्दस्य शास्त्रे न क्वचिल्लोपो विहितः, इत्यतः पृच्छति -क्व चास्य लोपः इति। अदर्शनमात्रस्य लोपः (1.1.59) इति संज्ञा कृता न तु शास्त्रकृतस्यैवादर्शनस्येत्यभिप्रायेणाह -यत्र इत्यादि। गम्यते चार्थः इति। कुतश्चिदर्थप्रकरणादेः। न च प्रयुज्यते इति। गम्यमानार्थत्वात्। देवदत्तः पचत्याहोस्वित्? पठति इति। अत्रायमाहोस्विच्छब्दः पक्षान्तरे वर्तते। पक्षान्तरोपन्यसनं किमर्थम्? प्रश्नं न व्यभिचरतौति। अत्राप्रयुज्यमानस्यापि तस्यार्थो गम्यते। पञतिशब्दोऽयं पक्षे पचतिशब्देन तुल्यस्वरः॥

Prakriyasarvasvam

किमो लोपे प्रागुक्तविशेषणस्तिङ् वा निहन्यते । कृष्णः क्रीडत्याहोस्वित् । गाश्चारयति । अत्र किमर्थयोगेऽपि तदप्रयोगो लोपः ।